This overlay will guide you through the buttons:

| |
|
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् । विललाप भृशं सीता करुणं शोककर्शिता ॥ १॥
भर्तारम् निहतम् दृष्ट्वा लक्ष्मणम् च महा-बलम् । विललाप भृशम् सीता करुणम् शोक-कर्शिता ॥ १॥
bhartāram nihatam dṛṣṭvā lakṣmaṇam ca mahā-balam . vilalāpa bhṛśam sītā karuṇam śoka-karśitā .. 1..
ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति च । तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ २॥
ऊचुः लक्षणिकाः ये माम् पुत्रिणी अ विधवा इति च । ते अस्य सर्वे हते रामे अज्ञानिनः अनृत-वादिनः ॥ २॥
ūcuḥ lakṣaṇikāḥ ye mām putriṇī a vidhavā iti ca . te asya sarve hate rāme ajñāninaḥ anṛta-vādinaḥ .. 2..
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः । तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ३॥
यज्वनः महिषीम् ये माम् ऊचुः पत्नीम् च सत्रिणः । ते अद्य सर्वे हते रामे अज्ञानिनः अनृत-वादिनः ॥ ३॥
yajvanaḥ mahiṣīm ye mām ūcuḥ patnīm ca satriṇaḥ . te adya sarve hate rāme ajñāninaḥ anṛta-vādinaḥ .. 3..
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः । तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ४॥
वीर-पार्थिव-पत्नी त्वम् ये धन्या इति च माम् विदुः । ते अद्य सर्वे हते रामे अज्ञानिनः अनृत-वादिनः ॥ ४॥
vīra-pārthiva-patnī tvam ye dhanyā iti ca mām viduḥ . te adya sarve hate rāme ajñāninaḥ anṛta-vādinaḥ .. 4..
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् । तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ५॥
ऊचुः संश्रवणे ये माम् द्विजाः कार्तान्तिकाः शुभाम् । ते अद्य सर्वे हते रामे अज्ञानिनः अनृत-वादिनः ॥ ५॥
ūcuḥ saṃśravaṇe ye mām dvijāḥ kārtāntikāḥ śubhām . te adya sarve hate rāme ajñāninaḥ anṛta-vādinaḥ .. 5..
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः । अधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ ६॥
इमानि खलु पद्मानि पादयोः यैः किल स्त्रियः । अधिराज्ये अभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ ६॥
imāni khalu padmāni pādayoḥ yaiḥ kila striyaḥ . adhirājye abhiṣicyante narendraiḥ patibhiḥ saha .. 6..
वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः । नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥ ७॥
वैधव्यम् यान्ति यैः नार्यः अलक्षणैः भाग्य-दुर्लभाः । न आत्मनः तानि पश्यामि पश्यन्ती हत-लक्षणा ॥ ७॥
vaidhavyam yānti yaiḥ nāryaḥ alakṣaṇaiḥ bhāgya-durlabhāḥ . na ātmanaḥ tāni paśyāmi paśyantī hata-lakṣaṇā .. 7..
सत्यानीमानि पद्मानि स्त्रीणामुक्त्वानि लक्षणे । तान्यद्य निहते रामे वितथानि भवन्ति मे ॥ ८॥
सत्यानि इमानि पद्मानि स्त्रीणाम् उक्त्वानि लक्षणे । तानि अद्य निहते रामे वितथानि भवन्ति मे ॥ ८॥
satyāni imāni padmāni strīṇām uktvāni lakṣaṇe . tāni adya nihate rāme vitathāni bhavanti me .. 8..
केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम । वृत्ते चालोमशे जङ्घे दन्ताश्चाविरला मम ॥ ९॥
केशाः सूक्ष्माः समाः नीलाः भ्रुवौ मम । वृत्ते च अलोमशे जङ्घे दन्ताः च अविरलाः मम ॥ ९॥
keśāḥ sūkṣmāḥ samāḥ nīlāḥ bhruvau mama . vṛtte ca alomaśe jaṅghe dantāḥ ca aviralāḥ mama .. 9..
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ । अनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम ॥ १०॥
शङ्खे नेत्रे करौ पादौ गुल्फौ ऊरू च मे चितौ । अनुवृत्ताः नखाः स्निग्धाः समाः च अङ्गुलयः मम ॥ १०॥
śaṅkhe netre karau pādau gulphau ūrū ca me citau . anuvṛttāḥ nakhāḥ snigdhāḥ samāḥ ca aṅgulayaḥ mama .. 10..
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ । मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम् ॥ ११॥
स्तनौ च अविरलौ पीनौ मम इमौ मग्न-चूचुकौ । मग्ना च उत्सङ्गिनी नाभिः पार्श्व-उरस्कम् च मे चितम् ॥ ११॥
stanau ca aviralau pīnau mama imau magna-cūcukau . magnā ca utsaṅginī nābhiḥ pārśva-uraskam ca me citam .. 11..
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च । प्रतिष्ठितां द्वदशभिर्मामूचुः शुभलक्षणाम् ॥ १२॥
मम वर्णः मणि-निभः मृदूनि अङ्गरुहाणि च । प्रतिष्ठिताम् द्वदशभिः माम् ऊचुः शुभ-लक्षणाम् ॥ १२॥
mama varṇaḥ maṇi-nibhaḥ mṛdūni aṅgaruhāṇi ca . pratiṣṭhitām dvadaśabhiḥ mām ūcuḥ śubha-lakṣaṇām .. 12..
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् । मन्दस्मितेत्येव च मां कन्यालक्षणिका विदुः ॥ १३॥
समग्र-यवम् अच्छिद्रम् पाणि-पादम् च वर्णवत् । मन्द-स्मिता इति एव च माम् कन्या-लक्षणिकाः विदुः ॥ १३॥
samagra-yavam acchidram pāṇi-pādam ca varṇavat . manda-smitā iti eva ca mām kanyā-lakṣaṇikāḥ viduḥ .. 13..
अधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह । कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ॥ १४॥
अधिराज्ये अभिषेकः मे ब्राह्मणैः पतिना सह । कृतान्त-कुशलैः उक्तम् तत् सर्वम् वितथीकृतम् ॥ १४॥
adhirājye abhiṣekaḥ me brāhmaṇaiḥ patinā saha . kṛtānta-kuśalaiḥ uktam tat sarvam vitathīkṛtam .. 14..
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च । तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ १५॥
शोधयित्वा जनस्थानम् प्रवृत्तिम् उपलभ्य च । तीर्त्वा सागरम् अक्षोभ्यम् भ्रातरौ गोष्पदे हतौ ॥ १५॥
śodhayitvā janasthānam pravṛttim upalabhya ca . tīrtvā sāgaram akṣobhyam bhrātarau goṣpade hatau .. 15..
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च । अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ॥ १६॥
ननु वारुणम् आग्नेयम् ऐन्द्रम् वायव्यम् एव च । अस्त्रम् ब्रह्मशिरः च एव राघवौ प्रत्यपद्यताम् ॥ १६॥
nanu vāruṇam āgneyam aindram vāyavyam eva ca . astram brahmaśiraḥ ca eva rāghavau pratyapadyatām .. 16..
अदृश्यमानेन रणे मायया वासवोपमौ । मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥ १७॥
अदृश्यमानेन रणे मायया वासव-उपमौ । मम नाथौ अनाथायाः निहतौ राम-लक्ष्मणौ ॥ १७॥
adṛśyamānena raṇe māyayā vāsava-upamau . mama nāthau anāthāyāḥ nihatau rāma-lakṣmaṇau .. 17..
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः । जीवन्प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ॥ १८॥
न हि दृष्टि-पथम् प्राप्य राघवस्य रणे रिपुः । जीवन् प्रतिनिवर्तेत यदि अपि स्यात् मनोजवः ॥ १८॥
na hi dṛṣṭi-patham prāpya rāghavasya raṇe ripuḥ . jīvan pratinivarteta yadi api syāt manojavaḥ .. 18..
न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः । यत्र रामः सह भ्रात्रा शेते युधि निपाथितः ॥ १९॥
न कालस्य अतिभारः अस्ति कृतान्तः च सु दुर्जयः । यत्र रामः सह भ्रात्रा शेते युधि निपाथितः ॥ १९॥
na kālasya atibhāraḥ asti kṛtāntaḥ ca su durjayaḥ . yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ .. 19..
नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम् । नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम् ॥ २०॥
न अहम् शोचामि भर्तारम् निहतम् न च लक्ष्मणम् । न आत्मानम् जननी च अपि यथा श्वश्रूम् तपस्विनीम् ॥ २०॥
na aham śocāmi bhartāram nihatam na ca lakṣmaṇam . na ātmānam jananī ca api yathā śvaśrūm tapasvinīm .. 20..
सा तु चिन्तयते नित्यं समाप्तव्रतमागतम् । कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ॥ २१॥
सा तु चिन्तयते नित्यम् समाप्त-व्रतम् आगतम् । कदा द्रक्ष्यामि सीताम् च लक्ष्मणम् च स राघवम् ॥ २१॥
sā tu cintayate nityam samāpta-vratam āgatam . kadā drakṣyāmi sītām ca lakṣmaṇam ca sa rāghavam .. 21..
परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् । मा विषादं कृथा देवि भर्तायं तव जीवति ॥ २२॥
परिदेवयमानाम् ताम् राक्षसी त्रिजटा ब्रवीत् । मा विषादम् कृथाः देवि भर्ता अयम् तव जीवति ॥ २२॥
paridevayamānām tām rākṣasī trijaṭā bravīt . mā viṣādam kṛthāḥ devi bhartā ayam tava jīvati .. 22..
कारणानि च वक्ष्यामि महान्ति सदृशानि च । यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥ २३॥
कारणानि च वक्ष्यामि महान्ति सदृशानि च । यथा इमौ जीवतः देवि भ्रातरौ राम-लक्ष्मणौ ॥ २३॥
kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca . yathā imau jīvataḥ devi bhrātarau rāma-lakṣmaṇau .. 23..
न हि कोपपरीतानि हर्षपर्युत्सुकानि च । भवन्ति युधि योधानां मुखानि निहते पतौ ॥ २४॥
न हि कोप-परीतानि हर्ष-पर्युत्सुकानि च । भवन्ति युधि योधानाम् मुखानि निहते पतौ ॥ २४॥
na hi kopa-parītāni harṣa-paryutsukāni ca . bhavanti yudhi yodhānām mukhāni nihate patau .. 24..
इदं विमानं वैदेहि पुष्पकं नाम नामतः । दिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ ॥ २५॥
इदम् विमानम् वैदेहि पुष्पकम् नाम नामतः । दिव्यम् त्वाम् धारयेत् न इदम् यदि एतौ गज-जीवितौ ॥ २५॥
idam vimānam vaidehi puṣpakam nāma nāmataḥ . divyam tvām dhārayet na idam yadi etau gaja-jīvitau .. 25..
हतवीरप्रधाना हि हतोत्साहा निरुद्यमा । सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले ॥ २६॥
हत-वीर-प्रधाना हि हत-उत्साहा निरुद्यमा । सेना भ्रमति सङ्ख्येषु हत-कर्णा इव नौः जले ॥ २६॥
hata-vīra-pradhānā hi hata-utsāhā nirudyamā . senā bhramati saṅkhyeṣu hata-karṇā iva nauḥ jale .. 26..
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तरस्विनी । सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे ॥ २७॥
इयम् पुनर् असम्भ्रान्ता निरुद्विग्ना तरस्विनी । सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे ॥ २७॥
iyam punar asambhrāntā nirudvignā tarasvinī . senā rakṣati kākutsthau māyayā nirjitau raṇe .. 27..
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः । अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते ॥ २८॥
सा त्वम् भव सु विस्रब्धा अनुमानैः सुख-उदयैः । अहतौ पश्य काकुत्स्थौ स्नेहात् एतत् ब्रवीमि ते ॥ २८॥
sā tvam bhava su visrabdhā anumānaiḥ sukha-udayaiḥ . ahatau paśya kākutsthau snehāt etat bravīmi te .. 28..
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन । चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम ॥ २९॥
अनृतम् न उक्त-पूर्वम् मे न च वक्ष्ये कदा चन । चारित्र-सुख-शील-त्वात् प्रविष्टा असि मनः मम ॥ २९॥
anṛtam na ukta-pūrvam me na ca vakṣye kadā cana . cāritra-sukha-śīla-tvāt praviṣṭā asi manaḥ mama .. 29..
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः । एतयोराननं दृष्ट्वा मया चावेदितं तव ॥ ३०॥
न इमौ शक्यौ रणे जेतुम् स इन्द्रैः अपि सुर-असुरैः । एतयोः आननम् दृष्ट्वा मया च आवेदितम् तव ॥ ३०॥
na imau śakyau raṇe jetum sa indraiḥ api sura-asuraiḥ . etayoḥ ānanam dṛṣṭvā mayā ca āveditam tava .. 30..
इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि । निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ॥ ३१॥
इदम् च सु महत् चिह्नम् शनैस् पश्यस्व मैथिलि । निःसंज्ञौ अपि उभौ एतौ ना एव लक्ष्मीः वियुज्यते ॥ ३१॥
idam ca su mahat cihnam śanais paśyasva maithili . niḥsaṃjñau api ubhau etau nā eva lakṣmīḥ viyujyate .. 31..
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् । दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥ ३२॥
प्रायेण गत-सत्त्वानाम् पुरुषाणाम् गत-आयुषाम् । दृश्यमानेषु वक्त्रेषु परम् भवति वैकृतम् ॥ ३२॥
prāyeṇa gata-sattvānām puruṣāṇām gata-āyuṣām . dṛśyamāneṣu vaktreṣu param bhavati vaikṛtam .. 32..
त्यज शोकं च दुःखं च मोहं च जनकात्मजे । रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ॥ ३३॥
त्यज शोकम् च दुःखम् च मोहम् च जनकात्मजे । राम-लक्ष्मणयोः अर्थे न अद्य शक्यम् अ जीवितुम् ॥ ३३॥
tyaja śokam ca duḥkham ca moham ca janakātmaje . rāma-lakṣmaṇayoḥ arthe na adya śakyam a jīvitum .. 33..
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा । कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ॥ ३४॥
श्रुत्वा तु वचनम् तस्याः सीता सुर-सुता-उपमा । कृताञ्जलिः उवाच इदम् एवम् अस्तु इति मैथिली ॥ ३४॥
śrutvā tu vacanam tasyāḥ sītā sura-sutā-upamā . kṛtāñjaliḥ uvāca idam evam astu iti maithilī .. 34..
विमानं पुष्पकं तत्तु समिवर्त्य मनोजवम् । दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ॥ ३५॥
विमानम् पुष्पकम् तत् तु मनोजवम् । दीना त्रिजटया सीता लङ्काम् एव प्रवेशिता ॥ ३५॥
vimānam puṣpakam tat tu manojavam . dīnā trijaṭayā sītā laṅkām eva praveśitā .. 35..
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा । अशोकवनिकामेव रक्षसीभिः प्रवेशिता ॥ ३६॥
ततस् त्रिजटया सार्धम् पुष्पकात् अवरुह्य सा । अशोक-वनिकाम् एव रक्षसीभिः प्रवेशिता ॥ ३६॥
tatas trijaṭayā sārdham puṣpakāt avaruhya sā . aśoka-vanikām eva rakṣasībhiḥ praveśitā .. 36..
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् । सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥ ३७॥
प्रविश्य सीता बहु-वृक्ष-षण्डाम् ताम् राक्षस-इन्द्रस्य विहार-भूमिम् । सम्प्रेक्ष्य सञ्चिन्त्य च राज-पुत्रौ परम् विषादम् समुपाजगाम ॥ ३७॥
praviśya sītā bahu-vṛkṣa-ṣaṇḍām tām rākṣasa-indrasya vihāra-bhūmim . samprekṣya sañcintya ca rāja-putrau param viṣādam samupājagāma .. 37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In