This overlay will guide you through the buttons:

| |
|
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् । विललाप भृशं सीता करुणं शोककर्शिता ॥ १॥
bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam . vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā .. 1..
ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति च । तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ २॥
ūcurlakṣaṇikā ye māṃ putriṇyavidhaveti ca . te'sya sarve hate rāme'jñānino'nṛtavādinaḥ .. 2..
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः । तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ३॥
yajvano mahiṣīṃ ye māmūcuḥ patnīṃ ca satriṇaḥ . te'dya sarve hate rāme'jñānino'nṛtavādinaḥ .. 3..
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः । तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ४॥
vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ . te'dya sarve hate rāme'jñānino'nṛtavādinaḥ .. 4..
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् । तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ५॥
ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām . te'dya sarve hate rāme'jñānino'nṛtavādinaḥ .. 5..
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः । अधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ ६॥
imāni khalu padmāni pādayoryaiḥ kila striyaḥ . adhirājye'bhiṣicyante narendraiḥ patibhiḥ saha .. 6..
वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः । नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥ ७॥
vaidhavyaṃ yānti yairnāryo'lakṣaṇairbhāgyadurlabhāḥ . nātmanastāni paśyāmi paśyantī hatalakṣaṇā .. 7..
सत्यानीमानि पद्मानि स्त्रीणामुक्त्वानि लक्षणे । तान्यद्य निहते रामे वितथानि भवन्ति मे ॥ ८॥
satyānīmāni padmāni strīṇāmuktvāni lakṣaṇe . tānyadya nihate rāme vitathāni bhavanti me .. 8..
केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम । वृत्ते चालोमशे जङ्घे दन्ताश्चाविरला मम ॥ ९॥
keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṅgate mama . vṛtte cālomaśe jaṅghe dantāścāviralā mama .. 9..
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ । अनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम ॥ १०॥
śaṅkhe netre karau pādau gulphāvūrū ca me citau . anuvṛttā nakhāḥ snigdhāḥ samāścāṅgulayo mama .. 10..
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ । मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम् ॥ ११॥
stanau cāviralau pīnau mamemau magnacūcukau . magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam .. 11..
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च । प्रतिष्ठितां द्वदशभिर्मामूचुः शुभलक्षणाम् ॥ १२॥
mama varṇo maṇinibho mṛdūnyaṅgaruhāṇi ca . pratiṣṭhitāṃ dvadaśabhirmāmūcuḥ śubhalakṣaṇām .. 12..
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् । मन्दस्मितेत्येव च मां कन्यालक्षणिका विदुः ॥ १३॥
samagrayavamacchidraṃ pāṇipādaṃ ca varṇavat . mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ .. 13..
अधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह । कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ॥ १४॥
adhirājye'bhiṣeko me brāhmaṇaiḥ patinā saha . kṛtāntakuśalairuktaṃ tatsarvaṃ vitathīkṛtam .. 14..
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च । तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ १५॥
śodhayitvā janasthānaṃ pravṛttimupalabhya ca . tīrtvā sāgaramakṣobhyaṃ bhrātarau goṣpade hatau .. 15..
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च । अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ॥ १६॥
nanu vāruṇamāgneyamaindraṃ vāyavyameva ca . astraṃ brahmaśiraścaiva rāghavau pratyapadyatām .. 16..
अदृश्यमानेन रणे मायया वासवोपमौ । मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥ १७॥
adṛśyamānena raṇe māyayā vāsavopamau . mama nāthāvanāthāyā nihatau rāmalakṣmaṇau .. 17..
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः । जीवन्प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ॥ १८॥
na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ . jīvanpratinivarteta yadyapi syānmanojavaḥ .. 18..
न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः । यत्र रामः सह भ्रात्रा शेते युधि निपाथितः ॥ १९॥
na kālasyātibhāro'sti kṛtāntaśca sudurjayaḥ . yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ .. 19..
नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम् । नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम् ॥ २०॥
nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam . nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm .. 20..
सा तु चिन्तयते नित्यं समाप्तव्रतमागतम् । कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ॥ २१॥
sā tu cintayate nityaṃ samāptavratamāgatam . kadā drakṣyāmi sītāṃ ca lakṣmaṇaṃ ca sarāghavam .. 21..
परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् । मा विषादं कृथा देवि भर्तायं तव जीवति ॥ २२॥
paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt . mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati .. 22..
कारणानि च वक्ष्यामि महान्ति सदृशानि च । यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥ २३॥
kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca . yathemau jīvato devi bhrātarau rāmalakṣmaṇau .. 23..
न हि कोपपरीतानि हर्षपर्युत्सुकानि च । भवन्ति युधि योधानां मुखानि निहते पतौ ॥ २४॥
na hi kopaparītāni harṣaparyutsukāni ca . bhavanti yudhi yodhānāṃ mukhāni nihate patau .. 24..
इदं विमानं वैदेहि पुष्पकं नाम नामतः । दिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ ॥ २५॥
idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ . divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau .. 25..
हतवीरप्रधाना हि हतोत्साहा निरुद्यमा । सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले ॥ २६॥
hatavīrapradhānā hi hatotsāhā nirudyamā . senā bhramati saṅkhyeṣu hatakarṇeva naurjale .. 26..
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तरस्विनी । सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे ॥ २७॥
iyaṃ punarasambhrāntā nirudvignā tarasvinī . senā rakṣati kākutsthau māyayā nirjitau raṇe .. 27..
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः । अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते ॥ २८॥
sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ . ahatau paśya kākutsthau snehādetadbravīmi te .. 28..
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन । चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम ॥ २९॥
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana . cāritrasukhaśīlatvātpraviṣṭāsi mano mama .. 29..
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः । एतयोराननं दृष्ट्वा मया चावेदितं तव ॥ ३०॥
nemau śakyau raṇe jetuṃ sendrairapi surāsuraiḥ . etayorānanaṃ dṛṣṭvā mayā cāveditaṃ tava .. 30..
इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि । निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ॥ ३१॥
idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili . niḥsaṃjñāvapyubhāvetau naiva lakṣmīrviyujyate .. 31..
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् । दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥ ३२॥
prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām . dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam .. 32..
त्यज शोकं च दुःखं च मोहं च जनकात्मजे । रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ॥ ३३॥
tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje . rāmalakṣmaṇayorarthe nādya śakyamajīvitum .. 33..
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा । कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ॥ ३४॥
śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā . kṛtāñjaliruvācedamevamastviti maithilī .. 34..
विमानं पुष्पकं तत्तु समिवर्त्य मनोजवम् । दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ॥ ३५॥
vimānaṃ puṣpakaṃ tattu samivartya manojavam . dīnā trijaṭayā sītā laṅkāmeva praveśitā .. 35..
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा । अशोकवनिकामेव रक्षसीभिः प्रवेशिता ॥ ३६॥
tatastrijaṭayā sārdhaṃ puṣpakādavaruhya sā . aśokavanikāmeva rakṣasībhiḥ praveśitā .. 36..
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् । सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥ ३७॥
praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim . samprekṣya sañcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma .. 37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In