This overlay will guide you through the buttons:

| |
|
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १॥
घोरेण शर-बन्धेन बद्धौ दशरथ-आत्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिर-उक्षितौ ॥ १॥
ghoreṇa śara-bandhena baddhau daśaratha-ātmajau . niśvasantau yathā nāgau śayānau rudhira-ukṣitau .. 1..
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः । परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ २॥
सर्वे ते वानर-श्रेष्ठाः स सुग्रीवाः महा-बलाः । परिवार्य महात्मानौ तस्थुः शोक-परिप्लुताः ॥ २॥
sarve te vānara-śreṣṭhāḥ sa sugrīvāḥ mahā-balāḥ . parivārya mahātmānau tasthuḥ śoka-pariplutāḥ .. 2..
एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान् । स्थिरत्वात्सत्त्वयोगाच्च शरैः सन्दानितोऽपि सन् ॥ ३॥
एतस्मिन् अन्तेरे रामः प्रत्यबुध्यत वीर्यवान् । स्थिर-त्वात् सत्त्व-योगात् च शरैः सन्दानितः अपि सन् ॥ ३॥
etasmin antere rāmaḥ pratyabudhyata vīryavān . sthira-tvāt sattva-yogāt ca śaraiḥ sandānitaḥ api san .. 3..
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् । भ्रातरं दीनवदनं पर्यदेवयदातुरः ॥ ४॥
ततस् दृष्ट्वा स रुधिरम् विषण्णम् गाढम् अर्पितम् । भ्रातरम् दीन-वदनम् पर्यदेवयत् आतुरः ॥ ४॥
tatas dṛṣṭvā sa rudhiram viṣaṇṇam gāḍham arpitam . bhrātaram dīna-vadanam paryadevayat āturaḥ .. 4..
किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा । शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥ ५॥
किम् नु मे सीतया कार्यम् किम् कार्यम् जीवितेन वा । शयानम् यः अद्य पश्यामि भ्रातरम् युधि निर्जितम् ॥ ५॥
kim nu me sītayā kāryam kim kāryam jīvitena vā . śayānam yaḥ adya paśyāmi bhrātaram yudhi nirjitam .. 5..
शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता । न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ॥ ६॥
शक्या सीता समा नारी प्राप्तुम् लोके विचिन्वता । न लक्ष्मण-समः भ्राता सचिवः साम्परायिकः ॥ ६॥
śakyā sītā samā nārī prāptum loke vicinvatā . na lakṣmaṇa-samaḥ bhrātā sacivaḥ sāmparāyikaḥ .. 6..
परित्यक्ष्याम्यहं प्राणान्वानराणां तु पश्यताम् । यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ७॥
परित्यक्ष्यामि अहम् प्राणान् वानराणाम् तु पश्यताम् । यदि पञ्चत्वम् आपन्नः सुमित्रा-आनन्द-वर्धनः ॥ ७॥
parityakṣyāmi aham prāṇān vānarāṇām tu paśyatām . yadi pañcatvam āpannaḥ sumitrā-ānanda-vardhanaḥ .. 7..
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् । कथमम्बां सुमित्राञ्च पुत्रदर्शनलालसाम् ॥ ८॥
किम् नु वक्ष्यामि कौसल्याम् मातरम् किम् नु कैकयीम् । कथम् अम्बाम् सुमित्राम् च पुत्र-दर्शन-लालसाम् ॥ ८॥
kim nu vakṣyāmi kausalyām mātaram kim nu kaikayīm . katham ambām sumitrām ca putra-darśana-lālasām .. 8..
विवत्सां वेपमानां च क्रोशन्तीं कुररीम् इव । कथमाश्वासयिष्यामि यदि यास्यामि तं विना ॥ ९॥
विवत्साम् वेपमानाम् च क्रोशन्तीम् कुररीम् इव । कथम् आश्वासयिष्यामि यदि यास्यामि तम् विना ॥ ९॥
vivatsām vepamānām ca krośantīm kurarīm iva . katham āśvāsayiṣyāmi yadi yāsyāmi tam vinā .. 9..
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् । मया सह वनं यातो विना तेनागतः पुनः ॥ १०॥
कथम् वक्ष्यामि शत्रुघ्नम् भरतम् च यशस्विनम् । मया सह वनम् यातः विना तेन आगतः पुनर् ॥ १०॥
katham vakṣyāmi śatrughnam bharatam ca yaśasvinam . mayā saha vanam yātaḥ vinā tena āgataḥ punar .. 10..
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया । इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ ११॥
उपालम्भम् न शक्ष्यामि सोढुम् बत सुमित्रया । इह एव देहम् त्यक्ष्यामि न हि जीवितुम् उत्सहे ॥ ११॥
upālambham na śakṣyāmi soḍhum bata sumitrayā . iha eva deham tyakṣyāmi na hi jīvitum utsahe .. 11..
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ । लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥ १२॥
धिक् माम् दुष्कृत-कर्माणम् अनार्यम् यद्-कृते हि असौ । लक्ष्मणः पतितः शेते शर-तल्पे गतासु-वत् ॥ १२॥
dhik mām duṣkṛta-karmāṇam anāryam yad-kṛte hi asau . lakṣmaṇaḥ patitaḥ śete śara-talpe gatāsu-vat .. 12..
त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण । गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ॥ १३॥
त्वम् नित्यम् सु विषण्णम् माम् आश्वासयसि लक्ष्मण । गतासुः न अद्य शक्नोषि माम् आर्तम् अभिभाषितुम् ॥ १३॥
tvam nityam su viṣaṇṇam mām āśvāsayasi lakṣmaṇa . gatāsuḥ na adya śaknoṣi mām ārtam abhibhāṣitum .. 13..
येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ । तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १४॥
येन अद्य बहवः युद्धे राक्षसाः निहताः क्षितौ । तस्याम् एव क्षितौ वीरः स शेते निहतः परैः ॥ १४॥
yena adya bahavaḥ yuddhe rākṣasāḥ nihatāḥ kṣitau . tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ .. 14..
शयानः शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः । शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ॥ १५॥
शयानः शर-तल्पे अस्मिन् स्व-शोणित-परिप्लुतः । शर-जालैः चितः भाति भास्करः अस्तम् इव व्रजन् ॥ १५॥
śayānaḥ śara-talpe asmin sva-śoṇita-pariplutaḥ . śara-jālaiḥ citaḥ bhāti bhāskaraḥ astam iva vrajan .. 15..
बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम् । रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते ॥ १६॥
बाण-अभिहत-मर्म-त्वात् न शक्नोति अभिवीक्षितुम् । रुजा च अब्रुवतः हि अस्य दृष्टि-रागेण सूच्यते ॥ १६॥
bāṇa-abhihata-marma-tvāt na śaknoti abhivīkṣitum . rujā ca abruvataḥ hi asya dṛṣṭi-rāgeṇa sūcyate .. 16..
यथैव मां वनं यान्तमनुयातो महाद्युतिः । अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १७॥
यथा एव माम् वनम् यान्तम् अनुयातः महा-द्युतिः । अहम् अपि अनुयास्यामि तथा एव एनम् यम-क्षयम् ॥ १७॥
yathā eva mām vanam yāntam anuyātaḥ mahā-dyutiḥ . aham api anuyāsyāmi tathā eva enam yama-kṣayam .. 17..
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः । इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ १८॥
इष्ट-बन्धु-जनः नित्यम् माम् च नित्यम् अनुव्रतः । इमाम् अद्य गतः अवस्थाम् मम अनार्यस्य दुर्नयैः ॥ १८॥
iṣṭa-bandhu-janaḥ nityam mām ca nityam anuvrataḥ . imām adya gataḥ avasthām mama anāryasya durnayaiḥ .. 18..
सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे । परुषं विप्रियं वापि श्रावितं न कदा चन ॥ १९॥
सु रुष्टेन अपि वीरेण न संस्मरे । परुषम् विप्रियम् वा अपि श्रावितम् न कदा चन ॥ १९॥
su ruṣṭena api vīreṇa na saṃsmare . paruṣam vipriyam vā api śrāvitam na kadā cana .. 19..
विससर्जैकवेगेन पञ्चबाणशतानि यः । इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ॥ २०॥
विससर्ज एक-वेगेन पञ्चबाण-शतानि यः । इषु-अस्त्रेषु अधिकः तस्मात् कार्तवीर्यात् च लक्ष्मणः ॥ २०॥
visasarja eka-vegena pañcabāṇa-śatāni yaḥ . iṣu-astreṣu adhikaḥ tasmāt kārtavīryāt ca lakṣmaṇaḥ .. 20..
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः । सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः ॥ २१॥
अस्त्रैः अस्त्राणि यः हन्यात् शक्रस्य अपि महात्मनः । सः अयम् उर्व्या अंहतः शेते महार्ह-शयन-उचितः ॥ २१॥
astraiḥ astrāṇi yaḥ hanyāt śakrasya api mahātmanaḥ . saḥ ayam urvyā aṃhataḥ śete mahārha-śayana-ucitaḥ .. 21..
तत्तु मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः । यन्मया न कृतो राजा राक्षसानां विभीषणः ॥ २२॥
तत् तु मिथ्या प्रलप्तम् माम् प्रधक्ष्यति न संशयः । यत् मया न कृतः राजा राक्षसानाम् विभीषणः ॥ २२॥
tat tu mithyā pralaptam mām pradhakṣyati na saṃśayaḥ . yat mayā na kṛtaḥ rājā rākṣasānām vibhīṣaṇaḥ .. 22..
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि । मत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली ॥ २३॥
अस्मिन् मुहूर्ते सुग्रीव प्रतियातुम् इतस् अर्हसि । मत्वा हीनम् मया राजन् रावणः अभिद्रवेत् बली ॥ २३॥
asmin muhūrte sugrīva pratiyātum itas arhasi . matvā hīnam mayā rājan rāvaṇaḥ abhidravet balī .. 23..
अङ्गदं तु पुरस्कृत्य ससैन्यः सपरिच्छदम् । सागरं तर सुग्रीव नीलेन च नीलेन च ॥ २४॥
अङ्गदम् तु पुरस्कृत्य स सैन्यः स परिच्छदम् । सागरम् तर सुग्रीव नीलेन च नीलेन च ॥ २४॥
aṅgadam tu puraskṛtya sa sainyaḥ sa paricchadam . sāgaram tara sugrīva nīlena ca nīlena ca .. 24..
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे । ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ॥ २५॥
कृतम् हनुमता कार्यम् यत् अन्यैः दुष्करम् रणे । ऋक्ष-राजेन तुष्यामि गोलाङ्गूल-अधिपेन च ॥ २५॥
kṛtam hanumatā kāryam yat anyaiḥ duṣkaram raṇe . ṛkṣa-rājena tuṣyāmi golāṅgūla-adhipena ca .. 25..
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च । युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ॥ २६॥
अङ्गदेन कृतम् कर्म मैन्देन द्विविदेन च । युद्धम् केसरिणा सङ्ख्ये घोरम् सम्पातिना कृतम् ॥ २६॥
aṅgadena kṛtam karma maindena dvividena ca . yuddham kesariṇā saṅkhye ghoram sampātinā kṛtam .. 26..
गवयेन गवाक्षेण शरभेण गजेन च । अन्यैश्च हरिभिर्युद्धं मदार्थे त्यक्तजीवितैः ॥ २७॥
गवयेन गवाक्षेण शरभेण गजेन च । अन्यैः च हरिभिः युद्धम् मद-अर्थे त्यक्त-जीवितैः ॥ २७॥
gavayena gavākṣeṇa śarabheṇa gajena ca . anyaiḥ ca haribhiḥ yuddham mada-arthe tyakta-jīvitaiḥ .. 27..
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः । यत्तु शक्यं वयस्येन सुहृदा वा परन् मम ॥ २८॥
न च अतिक्रमितुम् शक्यम् दैवम् सुग्रीव मानुषैः । यत् तु शक्यम् वयस्येन सुहृदा वा परत् मम ॥ २८॥
na ca atikramitum śakyam daivam sugrīva mānuṣaiḥ . yat tu śakyam vayasyena suhṛdā vā parat mama .. 28..
कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा । मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ॥ २९॥
कृतम् सुग्रीव तत् सर्वम् भवता अधर्म-भीरुणा । मित्र-कार्यम् कृतम् इदम् भवद्भिः वानर-ऋषभाः ॥ २९॥
kṛtam sugrīva tat sarvam bhavatā adharma-bhīruṇā . mitra-kāryam kṛtam idam bhavadbhiḥ vānara-ṛṣabhāḥ .. 29..
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ । शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम् ॥ ३० ॥
अनुज्ञाताः मया सर्वे यथेष्टम् गन्तुम् अर्हथ । शुश्रुवुः तस्य ते सर्वे वानराः परिदेवितम् ॥ ३० ॥
anujñātāḥ mayā sarve yatheṣṭam gantum arhatha . śuśruvuḥ tasya te sarve vānarāḥ paridevitam .. 30 ..
वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥ ३१॥
चक्रुः अश्रूणि नेत्रैः कृष्ण-इतर-ईक्षणाः ॥ ३१॥
cakruḥ aśrūṇi netraiḥ kṛṣṇa-itara-īkṣaṇāḥ .. 31..
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः । आजगाम गदापाणिस्त्वरितो यत्र राघवः ॥ ३२॥
ततस् सर्वाणि अनीकानि स्थापयित्वा विभीषणः । आजगाम गदा-पाणिः त्वरितः यत्र राघवः ॥ ३२॥
tatas sarvāṇi anīkāni sthāpayitvā vibhīṣaṇaḥ . ājagāma gadā-pāṇiḥ tvaritaḥ yatra rāghavaḥ .. 32..
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् । वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ॥ ३३॥
तम् दृष्ट्वा त्वरितम् यान्तम् नीलाञ्जन-चय-उपमम् । वानराः दुद्रुवुः सर्वे मन्यमानाः तु रावणिम् ॥ ३३॥
tam dṛṣṭvā tvaritam yāntam nīlāñjana-caya-upamam . vānarāḥ dudruvuḥ sarve manyamānāḥ tu rāvaṇim .. 33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In