This overlay will guide you through the buttons:

| |
|
सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ॥ 1 ॥
सा तु नीलेन विधिवत् स्वारक्षा सु समाहिता । सागरस्य उत्तरे तीरे साधु सेना निवेशिता ॥ १ ॥
sā tu nīlena vidhivat svārakṣā su samāhitā . sāgarasya uttare tīre sādhu senā niveśitā .. 1 ..
मैन्दश्च द्विविधश्चोभौ तत्र वानरपुङ्गवौ । विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ॥ 2 ॥
मैन्दः च द्विविधः च उभौ तत्र वानर-पुङ्गवौ । विचेरतुः च ताम् सेनाम् रक्षा-अर्थम् सर्वतस् दिशम् ॥ २ ॥
maindaḥ ca dvividhaḥ ca ubhau tatra vānara-puṅgavau . viceratuḥ ca tām senām rakṣā-artham sarvatas diśam .. 2 ..
निविष्टायां तु सेनायां तीरे नदनदीपतेः । पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ 3 ॥
निविष्टायाम् तु सेनायाम् तीरे नदनदीपतेः । पार्श्व-स्थम् लक्ष्मणम् दृष्ट्वा रामः वचनम् अब्रवीत् ॥ ३ ॥
niviṣṭāyām tu senāyām tīre nadanadīpateḥ . pārśva-stham lakṣmaṇam dṛṣṭvā rāmaḥ vacanam abravīt .. 3 ..
शोकश्च किल कालेन गच्छता ह्यपगच्छति । मम चापश्यतः कान्ताम् अहन्यहनि वर्धते ॥ 4 ॥
शोकः च किल कालेन गच्छता हि अपगच्छति । मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥ ४ ॥
śokaḥ ca kila kālena gacchatā hi apagacchati . mama ca apaśyataḥ kāntām ahani ahani vardhate .. 4 ..
न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च । एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ 5 ॥
न मे दुःखम् प्रिया दूरे न मे दुःखम् हृता इति च । एतत् एव अनुशोचामि वयः अस्याः हि अतिवर्तते ॥ ५ ॥
na me duḥkham priyā dūre na me duḥkham hṛtā iti ca . etat eva anuśocāmi vayaḥ asyāḥ hi ativartate .. 5 ..
वाहि वात यतः कन्या तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ 6 ॥
वाहि वात यतस् कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश । त्वयि मे गात्र-संस्पर्शः चन्द्रे दृष्टि-समागमः ॥ ६ ॥
vāhi vāta yatas kanyā tām spṛṣṭvā mām api spṛśa . tvayi me gātra-saṃsparśaḥ candre dṛṣṭi-samāgamaḥ .. 6 ..
तन्मे दहति गात्राणि विषं पीतमिवाशये । हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥ 7 ॥
तत् मे दहति गात्राणि विषम् पीतम् इव आशये । हा नाथ इति प्रिया सा माम् ह्रियमाणा यत् अब्रवीत् ॥ ७ ॥
tat me dahati gātrāṇi viṣam pītam iva āśaye . hā nātha iti priyā sā mām hriyamāṇā yat abravīt .. 7 ..
तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा । रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना ॥ 8 ॥
तद्-वियोग-इन्धनवता तद्-चिन्ता-विपुल-अर्चिषा । रात्रिम् दिवम् शरीरम् मे दह्यते मदन-अग्निना ॥ ८ ॥
tad-viyoga-indhanavatā tad-cintā-vipula-arciṣā . rātrim divam śarīram me dahyate madana-agninā .. 8 ..
अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना । कथं चित्प्रज्वलन्कामः समासुप्तं जले दहेत् ॥ 9 ॥
अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना । कथम् चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥ ९ ॥
avagāhya arṇavam svapsye saumitre bhavatā vinā . katham cit prajvalan kāmaḥ samāsuptam jale dahet .. 9 ..
बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरुरेकां धरणिमाश्रितौ ॥ 10 ॥
बहु एतत् कामयानस्य शक्यम् एतेन जीवितुम् । यत् अहम् सा च वाम-ऊरुः एकाम् धरणिम् आश्रितौ ॥ १० ॥
bahu etat kāmayānasya śakyam etena jīvitum . yat aham sā ca vāma-ūruḥ ekām dharaṇim āśritau .. 10 ..
केदारस्येव केदारः सोदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥ 11 ॥
केदारस्य इव केदारः स उदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥ ११ ॥
kedārasya iva kedāraḥ sa udakasya nirūdakaḥ . upasnehena jīvāmi jīvantīm yat śṛṇomi tām .. 11 ..
कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् । विजित्य शत्रून्द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ॥ 12 ॥
कदा तु खलु सु सूओणीम् शतपत्र-आयत-ईक्षणाम् । विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥ १२ ॥
kadā tu khalu su sūoṇīm śatapatra-āyata-īkṣaṇām . vijitya śatrūn drakṣyāmi sītām sphītām iva śriyam .. 12 ..
कदा सुचारुबिम्बौष्ठं तस्याः पद्ममिवाननम् । ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ 13 ॥
कदा सु चारु-बिम्ब-ओष्ठम् तस्याः पद्मम् इव आननम् । ईषत् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥ १३ ॥
kadā su cāru-bimba-oṣṭham tasyāḥ padmam iva ānanam . īṣat unnamya pāsyāmi rasāyanam iva āturaḥ .. 13 ..
तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ । कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः ॥ 14 ॥
तौ तस्याः संहतौ पीनौ स्तनौ ताल-फल-उपमौ । कदा नु खलु स उत्कम्पौ हसन्त्याः माम् भजिष्यतः ॥ १४ ॥
tau tasyāḥ saṃhatau pīnau stanau tāla-phala-upamau . kadā nu khalu sa utkampau hasantyāḥ mām bhajiṣyataḥ .. 14 ..
सा नूनमसितापाङ्गी रक्षोमध्यगता सती । मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ 15 ॥
सा नूनम् असित-अपाङ्गी रक्षः-मध्य-गता सती । मद्-नाथा नाथ-हीना इव त्रातारम् न अधिगच्छति ॥ १५ ॥
sā nūnam asita-apāṅgī rakṣaḥ-madhya-gatā satī . mad-nāthā nātha-hīnā iva trātāram na adhigacchati .. 15 ..
कथंजनकरजस्यदुहिताममचप्रिया । राक्षसीमध्यगाशेतेस्नुषादशरथस्यच ॥ 16 ॥
कथम् जनक-रजस्य-दुहिता मम च प्रिया । राक्षसीम् अध्यगाः आशेते स्नुषा दशरथस्य च ॥ १६ ॥
katham janaka-rajasya-duhitā mama ca priyā . rākṣasīm adhyagāḥ āśete snuṣā daśarathasya ca .. 16 ..
अविक्षोभ्याणि रक्षांसि सा विधूयोत्पतिष्यति । विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव ॥ 17 ॥
अ विक्षोभ्याणि रक्षांसि सा विधूय उत्पतिष्यति । विधूय जलदान् नीलान् शशि-लेखा शरत्सु इव ॥ १७ ॥
a vikṣobhyāṇi rakṣāṃsi sā vidhūya utpatiṣyati . vidhūya jaladān nīlān śaśi-lekhā śaratsu iva .. 17 ..
स्वभावतनुका नूनं शोकेनानशनेन च । भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ 18 ॥
स्वभाव-तनुका नूनम् शोकेन अनशनेन च । भूयस् तनुतरा सीता देश-काल-विपर्ययात् ॥ १८ ॥
svabhāva-tanukā nūnam śokena anaśanena ca . bhūyas tanutarā sītā deśa-kāla-viparyayāt .. 18 ..
कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् । सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं ॥ 19 ॥
कदा नु राक्षस-इन्द्रस्य निधाय उरसि सायकान् । सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥ १९ ॥
kadā nu rākṣasa-indrasya nidhāya urasi sāyakān . sītām pratyāhariṣyāmi śokam utsṛjya mānasam .. 19 ..
कदा नु खलु मां साध्वी सीतामरसुतोपमा । सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम् ॥ 20 ॥
कदा नु खलु माम् साध्वी सीता अमर-सुता-उपमा । स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्द-जम् जलम् ॥ २० ॥
kadā nu khalu mām sādhvī sītā amara-sutā-upamā . sa utkaṇṭhā kaṇṭham ālambya mokṣyati ānanda-jam jalam .. 20 ..
कदा शोकमिमं घोरं मैथिली विप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥ 21 ॥
कदा शोकम् इमम् घोरम् मैथिली विप्रयोग-जम् । सहसा विप्रमोक्ष्यामि वासः शुक्लेतरम् यथा ॥ २१ ॥
kadā śokam imam ghoram maithilī viprayoga-jam . sahasā vipramokṣyāmi vāsaḥ śukletaram yathā .. 21 ..
एवं विलपतस्तस्य तत्र रामस्य धीमतः । दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत् ॥ 22 ॥
एवम् विलपतः तस्य तत्र रामस्य धीमतः । दिनक्षयात् मन्द-वपूः भास्करः अस्तम् उपागमत् ॥ २२ ॥
evam vilapataḥ tasya tatra rāmasya dhīmataḥ . dinakṣayāt manda-vapūḥ bhāskaraḥ astam upāgamat .. 22 ..
आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत । स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ 23 ॥
आश्वासितः लक्ष्मणेन रामः सन्ध्याम् उपासत । स्मरन् कमल-पत्र-अक्षीम् सीताम् शोक-आकुलीकृतः ॥ २३ ॥
āśvāsitaḥ lakṣmaṇena rāmaḥ sandhyām upāsata . smaran kamala-patra-akṣīm sītām śoka-ākulīkṛtaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In