This overlay will guide you through the buttons:

| |
|
अथोवाच महातेजा हरिराजो महाबलः । किमियं व्यथिता सेना मूढवातेव नौर्जले ॥ १॥
अथा उवाच महा-तेजाः हरि-राजः महा-बलः । किम् इयम् व्यथिता सेना मूढ-वाता इव नौः जले ॥ १॥
athā uvāca mahā-tejāḥ hari-rājaḥ mahā-balaḥ . kim iyam vyathitā senā mūḍha-vātā iva nauḥ jale .. 1..
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ॥ २॥
सुग्रीवस्य वचः श्रुत्वा वालि-पुत्रः अङ्गदः अब्रवीत् । न त्वम् पश्यसि रामम् च लक्ष्मणम् च महा-बलम् ॥ २॥
sugrīvasya vacaḥ śrutvā vāli-putraḥ aṅgadaḥ abravīt . na tvam paśyasi rāmam ca lakṣmaṇam ca mahā-balam .. 2..
शरजालाचितौ वीरावुभौ दशरथात्मजौ । शरतल्पे महात्मानौ शयानाउ रुधिरोक्.सितौ ॥ ३॥
शर-जाल-आचितौ वीरौ उभौ दशरथ-आत्मजौ । शर-तल्पे महात्मानौ शयानौ।स्-इतौ ॥ ३॥
śara-jāla-ācitau vīrau ubhau daśaratha-ātmajau . śara-talpe mahātmānau śayānau.s-itau .. 3..
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् । नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥ ४॥
अथा अब्रवीत् वानर-इन्द्रः सुग्रीवः पुत्रम् अङ्गदम् । न अनिमित्तम् इदम् मन्ये भवितव्यम् भयेन तु ॥ ४॥
athā abravīt vānara-indraḥ sugrīvaḥ putram aṅgadam . na animittam idam manye bhavitavyam bhayena tu .. 4..
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः । प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ॥ ५॥
विषण्ण-वदनाः हि एते त्यक्त-प्रहरणाः दिशः । प्रपलायन्ति हरयः त्रासात् उत्फुल्ल-लोचनाः ॥ ५॥
viṣaṇṇa-vadanāḥ hi ete tyakta-praharaṇāḥ diśaḥ . prapalāyanti harayaḥ trāsāt utphulla-locanāḥ .. 5..
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः । विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ॥ ६॥
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतस् । विप्रकर्षन्ति च अन्योन्यम् पतितम् लङ्घयन्ति च ॥ ६॥
anyonyasya na lajjante na nirīkṣanti pṛṣṭhatas . viprakarṣanti ca anyonyam patitam laṅghayanti ca .. 6..
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः । सुग्रीवं वर्धयामास राघवं च जयशिषा॥ ७॥
एतस्मिन् अन्तरे वीरः गदा-पाणिः विभीषणः । सुग्रीवम् वर्धयामास राघवम् च जय-शिषा॥ ७॥
etasmin antare vīraḥ gadā-pāṇiḥ vibhīṣaṇaḥ . sugrīvam vardhayāmāsa rāghavam ca jaya-śiṣā.. 7..
विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम् । ऋक्षराजं महात्जानं समीपस्थमुवाच ह ॥ ८॥
विभीषणम् च सुग्रीवः दृष्ट्वा वानर-भीषणम् । ऋक्ष-राजम् समीप-स्थम् उवाच ह ॥ ८॥
vibhīṣaṇam ca sugrīvaḥ dṛṣṭvā vānara-bhīṣaṇam . ṛkṣa-rājam samīpa-stham uvāca ha .. 8..
विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः । द्रवन्तयाग्यतसंत्रसा रावणात्मजशङ्कया ॥ ९॥
विभीषणः अयम् सम्प्राप्तः यम् दृष्ट्वा वानर-ऋषभाः । द्रवन्त अयाग्यत-संत्रसाः रावण-आत्मज-शङ्कया ॥ ९॥
vibhīṣaṇaḥ ayam samprāptaḥ yam dṛṣṭvā vānara-ṛṣabhāḥ . dravanta ayāgyata-saṃtrasāḥ rāvaṇa-ātmaja-śaṅkayā .. 9..
शीघ्रमेतान् सुसंत्रस्तान् बहुधा विप्रधावितान् । पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥ १०॥
शीघ्रम् एतान् सु संत्रस्तान् बहुधा विप्रधावितान् । पर्यवस्थापय आख्याहि विभीषणम् उपस्थितम् ॥ १०॥
śīghram etān su saṃtrastān bahudhā vipradhāvitān . paryavasthāpaya ākhyāhi vibhīṣaṇam upasthitam .. 10..
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः । वानरान्सान्त्वयामास संनिवर्त्य प्रहावतः ॥ ११॥
सुग्रीवेण एवम् उक्तः तु जाम्बवान् ऋक्ष-पार्थिवः । वानरान् सान्त्वयामास संनिवर्त्य प्रहावतः ॥ ११॥
sugrīveṇa evam uktaḥ tu jāmbavān ṛkṣa-pārthivaḥ . vānarān sāntvayāmāsa saṃnivartya prahāvataḥ .. 11..
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः । ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥ १२॥
ते निवृत्ताः पुनर् सर्वे वानराः त्यक्त-सम्भ्रमाः । ऋक्ष-राज-वचः श्रुत्वा तम् च दृष्ट्वा विभीषणम् ॥ १२॥
te nivṛttāḥ punar sarve vānarāḥ tyakta-sambhramāḥ . ṛkṣa-rāja-vacaḥ śrutvā tam ca dṛṣṭvā vibhīṣaṇam .. 12..
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश् चितम् । लक्ष्मणस्य च धर्मात्मा बभूव व्यथितस्तदा ॥ १३॥
विभीषणः तु रामस्य दृष्ट्वा गात्रम् शरैः चितम् । लक्ष्मणस्य च धर्म-आत्मा बभूव व्यथितः तदा ॥ १३॥
vibhīṣaṇaḥ tu rāmasya dṛṣṭvā gātram śaraiḥ citam . lakṣmaṇasya ca dharma-ātmā babhūva vyathitaḥ tadā .. 13..
जलक्लिन्नेन हस्तेन तयोर्नेत्रे विमृज्य च । शोकसम्पीडितमना रुरोद विललाप च ॥ १४॥
जल-क्लिन्नेन हस्तेन तयोः नेत्रे विमृज्य च । शोक-सम्पीडित-मनाः रुरोद विललाप च ॥ १४॥
jala-klinnena hastena tayoḥ netre vimṛjya ca . śoka-sampīḍita-manāḥ ruroda vilalāpa ca .. 14..
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ । इमामवस्थां गमितौ राकसैः कूटयोधिभिः ॥ १५॥
इमौ तौ सत्त्व-सम्पन्नौ विक्रान्तौ प्रिय-संयुगौ । इमाम् अवस्थाम् गमितौ राकसैः कूट-योधिभिः ॥ १५॥
imau tau sattva-sampannau vikrāntau priya-saṃyugau . imām avasthām gamitau rākasaiḥ kūṭa-yodhibhiḥ .. 15..
भ्रातुः पुत्रेण चैतेन दुष्पुत्रेण दुरात्मना । राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ ॥ १६॥
भ्रातुः पुत्रेण च एतेन दुष्पुत्रेण दुरात्मना । राक्षस्या जिह्मया बुद्ध्या वञ्चितौ ऋजु-विक्रमौ ॥ १६॥
bhrātuḥ putreṇa ca etena duṣputreṇa durātmanā . rākṣasyā jihmayā buddhyā vañcitau ṛju-vikramau .. 16..
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ । वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ॥ १७॥
शरैः इमौ अलम् विद्धौ रुधिरेण समुक्षितौ । वसुधायाम् इमौ सुप्तौ दृश्येते शल्यकौ इव ॥ १७॥
śaraiḥ imau alam viddhau rudhireṇa samukṣitau . vasudhāyām imau suptau dṛśyete śalyakau iva .. 17..
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया । तावुमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ॥ १८॥
ययोः वीर्यम् उपाश्रित्य प्रतिष्ठा काङ्क्षिता मया । तौ उमौ देह-नाशाय प्रसुप्तौ पुरुष-ऋषभौ ॥ १८॥
yayoḥ vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā . tau umau deha-nāśāya prasuptau puruṣa-ṛṣabhau .. 18..
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः । प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ॥ १९॥
जीवन् अद्य विपन्नः अस्मि नष्ट-राज्य-मनोरथः । प्राप्त-प्रतिज्ञः च रिपुः स कामः रावणः कृतः ॥ १९॥
jīvan adya vipannaḥ asmi naṣṭa-rājya-manorathaḥ . prāpta-pratijñaḥ ca ripuḥ sa kāmaḥ rāvaṇaḥ kṛtaḥ .. 19..
एवं विलपमानं तं परिष्वज्य विभीषणम् । सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम् ॥ २०॥
एवम् विलपमानम् तम् परिष्वज्य विभीषणम् । सुग्रीवः सत्त्व-सम्पन्नः हरि-राजः अब्रवीत् इदम् ॥ २०॥
evam vilapamānam tam pariṣvajya vibhīṣaṇam . sugrīvaḥ sattva-sampannaḥ hari-rājaḥ abravīt idam .. 20..
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः । रावणः सह पुत्रेण स राज्यं नेह लप्स्यते ॥ २१॥
राज्यम् प्राप्स्यसि धर्म-ज्ञ लङ्कायाम् न इह संशयः । रावणः सह पुत्रेण स राज्यम् ना इह लप्स्यते ॥ २१॥
rājyam prāpsyasi dharma-jña laṅkāyām na iha saṃśayaḥ . rāvaṇaḥ saha putreṇa sa rājyam nā iha lapsyate .. 21..
शरसम्पीडितावेतावुभौ राघवलक्ष्मणौ । त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥ २२॥
शर-सम्पीडितौ एतौ उभौ राघव-लक्ष्मणौ । त्यक्त्वा मोहम् वधिष्येते स गणम् रावणम् रणे ॥ २२॥
śara-sampīḍitau etau ubhau rāghava-lakṣmaṇau . tyaktvā moham vadhiṣyete sa gaṇam rāvaṇam raṇe .. 22..
तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं । सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ॥ २३॥
तम् एवम् सान्त्वयित्वा तु समाश्वास्य च राक्षसम् । सुषेणम् श्वशुरम् पार्श्वे सुग्रीवः तम् उवाच ह ॥ २३॥
tam evam sāntvayitvā tu samāśvāsya ca rākṣasam . suṣeṇam śvaśuram pārśve sugrīvaḥ tam uvāca ha .. 23..
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिन्दमौ । गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ २४॥
सह शूरैः हरि-गणैः लब्ध-संज्ञौ अरिन्दमौ । गच्छ त्वम् भ्रातरौ गृह्य किष्किन्धाम् राम-लक्ष्मणौ ॥ २४॥
saha śūraiḥ hari-gaṇaiḥ labdha-saṃjñau arindamau . gaccha tvam bhrātarau gṛhya kiṣkindhām rāma-lakṣmaṇau .. 24..
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् । मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ॥ २५॥
अहम् तु रावणम् हत्वा स पुत्रम् सह बान्धवम् । मैथिलीम् आनयिष्यामि शक्रः नष्टाम् इव श्रियम् ॥ २५॥
aham tu rāvaṇam hatvā sa putram saha bāndhavam . maithilīm ānayiṣyāmi śakraḥ naṣṭām iva śriyam .. 25..
श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् । देवासुरं महायुद्धमनुभूतं पुरातनम् ॥ २६॥
श्रुत्वा एतत् वानर-इन्द्रस्य सुषेणः वाक्यम् अब्रवीत् । देवासुरम् महा-युद्धम् अनुभूतम् पुरातनम् ॥ २६॥
śrutvā etat vānara-indrasya suṣeṇaḥ vākyam abravīt . devāsuram mahā-yuddham anubhūtam purātanam .. 26..
तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः । निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ॥ २७॥
तदा स्म दानवाः देवान् शर-संस्पर्श-कोविदाः । निजघ्नुः शस्त्र-विदुषः छादयन्तः मुहुर् मुहुर् ॥ २७॥
tadā sma dānavāḥ devān śara-saṃsparśa-kovidāḥ . nijaghnuḥ śastra-viduṣaḥ chādayantaḥ muhur muhur .. 27..
तानार्तान्नष्टसंज्ञांश्च गतासूंश्च बृहस्पतिः । विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश् चिकित्सति ॥ २८॥
तान् आर्तान् नष्ट-संज्ञान् च गतासून् च बृहस्पतिः । विध्याभिः मन्त्र-युक्ताभिः ओषधीभिः चिकित्सति ॥ २८॥
tān ārtān naṣṭa-saṃjñān ca gatāsūn ca bṛhaspatiḥ . vidhyābhiḥ mantra-yuktābhiḥ oṣadhībhiḥ cikitsati .. 28..
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् । जवेन वानराः शीघ्रं सम्पाति पनसादयः ॥ २९॥
तानि औषधानि आनयितुम् क्षीरोदम् यान्तु सागरम् । जवेन वानराः शीघ्रम् सम्पाति पनस-आदयः ॥ २९॥
tāni auṣadhāni ānayitum kṣīrodam yāntu sāgaram . javena vānarāḥ śīghram sampāti panasa-ādayaḥ .. 29..
हरयस्तु विजानन्ति पार्वती ते महौषधी । संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥ ३०॥
हरयः तु विजानन्ति पार्वती ते महा-औषधी । संजीव-करणीम् दिव्याम् विशल्याम् देवनिर्मिताम् ॥ ३०॥
harayaḥ tu vijānanti pārvatī te mahā-auṣadhī . saṃjīva-karaṇīm divyām viśalyām devanirmitām .. 30..
चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे । अमृतं यत्र मथितं तत्र ते परमौषधी ॥ ३१॥
चन्द्रः च नाम द्रोणः च पर्वतौ सागर-उत्तमे । अमृतम् यत्र मथितम् तत्र ते परम-ओषधी ॥ ३१॥
candraḥ ca nāma droṇaḥ ca parvatau sāgara-uttame . amṛtam yatra mathitam tatra te parama-oṣadhī .. 31..
तौ तत्र विहिते देवैः पर्वतौ महोदधौ । अयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु ॥ ३२॥
तौ तत्र विहिते देवैः पर्वतौ महा-उदधौ । अयम् वायुसुतः राजन् हनूमान् तत्र गच्छतु ॥ ३२॥
tau tatra vihite devaiḥ parvatau mahā-udadhau . ayam vāyusutaḥ rājan hanūmān tatra gacchatu .. 32..
एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः । पर्यस्यन्सागरे तोयं कम्पयन्निव पर्वतान् ॥ ३३॥
एतस्मिन् अन्तरे वायुः मेघान् च अपि स विद्युतः । पर्यस्यन् सागरे तोयम् कम्पयन् इव पर्वतान् ॥ ३३॥
etasmin antare vāyuḥ meghān ca api sa vidyutaḥ . paryasyan sāgare toyam kampayan iva parvatān .. 33..
महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः । निपेतुर्भग्नविटपाः समूला लवणाम्भसि ॥ ३४॥
महता पक्ष-वातेन सर्वे द्वीप-महा-द्रुमाः । निपेतुः भग्न-विटपाः स मूलाः लवणाम्भसि ॥ ३४॥
mahatā pakṣa-vātena sarve dvīpa-mahā-drumāḥ . nipetuḥ bhagna-viṭapāḥ sa mūlāḥ lavaṇāmbhasi .. 34..
अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः । शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ३५॥
अभवन् पन्नगाः त्रस्ताः भोगिनः तत्रवासिनः । शीघ्रम् सर्वाणि यादांसि जग्मुः च लवणार्णवम् ॥ ३५॥
abhavan pannagāḥ trastāḥ bhoginaḥ tatravāsinaḥ . śīghram sarvāṇi yādāṃsi jagmuḥ ca lavaṇārṇavam .. 35..
ततो मुहूर्तद् गरुडं वैनतेयं महाबलम् । वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥ ३६॥
ततस् गरुडम् वैनतेयम् महा-बलम् । वानराः ददृशुः सर्वे ज्वलन्तम् इव पावकम् ॥ ३६॥
tatas garuḍam vainateyam mahā-balam . vānarāḥ dadṛśuḥ sarve jvalantam iva pāvakam .. 36..
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः । यैस्तौ तौ पुरुषौ बद्धौ शरभूतैर्महाबलौ ॥ ३७॥
तम् आगतम् अभिप्रेक्ष्य नागाः ते विप्रदुद्रुवुः । यैः तौ तौ पुरुषौ बद्धौ शर-भूतैः महा-बलौ ॥ ३७॥
tam āgatam abhiprekṣya nāgāḥ te vipradudruvuḥ . yaiḥ tau tau puruṣau baddhau śara-bhūtaiḥ mahā-balau .. 37..
ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च । विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥ ३८॥
ततस् सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च । विममर्श च पाणिभ्याम् मुखे चन्द्र-सम-प्रभे ॥ ३८॥
tatas suparṇaḥ kākutsthau spṛṣṭvā pratyabhinandya ca . vimamarśa ca pāṇibhyām mukhe candra-sama-prabhe .. 38..
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः । सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥ ३९॥
वैनतेयेन संस्पृष्टाः तयोः संरुरुहुः व्रणाः । सुवर्णे च तनू स्निग्धे तयोः आशु बभूवतुः ॥ ३९॥
vainateyena saṃspṛṣṭāḥ tayoḥ saṃruruhuḥ vraṇāḥ . suvarṇe ca tanū snigdhe tayoḥ āśu babhūvatuḥ .. 39..
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः । प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥ ४०॥
तेजः वीर्यम् बलम् च ओजः उत्साहः च महा-गुणाः । प्रदर्शनम् च बुद्धिः च स्मृतिः च द्विगुणम् तयोः ॥ ४०॥
tejaḥ vīryam balam ca ojaḥ utsāhaḥ ca mahā-guṇāḥ . pradarśanam ca buddhiḥ ca smṛtiḥ ca dviguṇam tayoḥ .. 40..
तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ । उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ॥ ४१॥
तौ उत्थाप्य महा-वीर्यौ गरुडः वासव-उपमौ । उभौ तौ सस्वजे हृष्टौ रामः च एनम् उवाच ह ॥ ४१॥
tau utthāpya mahā-vīryau garuḍaḥ vāsava-upamau . ubhau tau sasvaje hṛṣṭau rāmaḥ ca enam uvāca ha .. 41..
भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् । उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ ॥ ४२॥
भवत्-प्रसादात् व्यसनम् रावणि-प्रभवम् महत् । उपायेन व्यतिक्रान्तौ शीघ्रम् च बलिनौ कृतौ ॥ ४२॥
bhavat-prasādāt vyasanam rāvaṇi-prabhavam mahat . upāyena vyatikrāntau śīghram ca balinau kṛtau .. 42..
यथा तातं दशरथं यथाजं च पितामहम् । तथा भवन्तमासाद्य हृदयं मे प्रसीदति ॥ ४३॥
यथा तातम् दशरथम् यथा अजम् च पितामहम् । तथा भवन्तम् आसाद्य हृदयम् मे प्रसीदति ॥ ४३॥
yathā tātam daśaratham yathā ajam ca pitāmaham . tathā bhavantam āsādya hṛdayam me prasīdati .. 43..
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः । वसानो विरजे वस्त्रे दिव्याभरणभूषितः ॥ ४४॥
कः भवान् रूप-सम्पन्नः दिव्य-स्रज्-अनुलेपनः । वसानः विरजे वस्त्रे दिव्य-आभरण-भूषितः ॥ ४४॥
kaḥ bhavān rūpa-sampannaḥ divya-sraj-anulepanaḥ . vasānaḥ viraje vastre divya-ābharaṇa-bhūṣitaḥ .. 44..
तमुवाच महातेजा वैनतेयो महाबलः । पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ॥ ४५॥
तम् उवाच महा-तेजाः वैनतेयः महा-बलः । पतत्रि-राजः प्रीत-आत्मा हर्ष-पर्याकुल-ईक्षणः ॥ ४५॥
tam uvāca mahā-tejāḥ vainateyaḥ mahā-balaḥ . patatri-rājaḥ prīta-ātmā harṣa-paryākula-īkṣaṇaḥ .. 45..
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः । गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात् ॥ ४६॥
अहम् सखा ते काकुत्स्थ प्रियः प्राणः बहिश्चरः । गरुत्मान् इह सम्प्राप्तः युवयोः साह्य-कारणात् ॥ ४६॥
aham sakhā te kākutstha priyaḥ prāṇaḥ bahiścaraḥ . garutmān iha samprāptaḥ yuvayoḥ sāhya-kāraṇāt .. 46..
असुरा वा महावीर्या दानवा वा महाबलाः । सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ४७॥
असुराः वा महा-वीर्याः दानवाः वा महा-बलाः । सुराः च अपि स गन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ४७॥
asurāḥ vā mahā-vīryāḥ dānavāḥ vā mahā-balāḥ . surāḥ ca api sa gandharvāḥ puraskṛtya śatakratum .. 47..
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् । माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥ ४८॥
न इमम् मोक्षयितुम् शक्ताः शर-बन्धम् सु दारुणम् । माया बलात् इन्द्रजिता निर्मितम् क्रूर-कर्मणा ॥ ४८॥
na imam mokṣayitum śaktāḥ śara-bandham su dāruṇam . māyā balāt indrajitā nirmitam krūra-karmaṇā .. 48..
एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः । रक्षोमाय प्रभावेन शराभूतास्त्वदाश्रयाः ॥ ४९॥
एते नागाः काद्रवेयाः तीक्ष्ण-दंष्ट्राः विष-उल्बणाः । रक्षोमाय प्रभावेन शर-आभूताः त्वद्-आश्रयाः ॥ ४९॥
ete nāgāḥ kādraveyāḥ tīkṣṇa-daṃṣṭrāḥ viṣa-ulbaṇāḥ . rakṣomāya prabhāvena śara-ābhūtāḥ tvad-āśrayāḥ .. 49..
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम । लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥ ५०॥
सभाग्यः च असि धर्म-ज्ञ राम सत्य-पराक्रम । लक्ष्मणेन सह भ्रात्रा समरे रिपु-घातिना ॥ ५०॥
sabhāgyaḥ ca asi dharma-jña rāma satya-parākrama . lakṣmaṇena saha bhrātrā samare ripu-ghātinā .. 50..
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः । सहसैवावयोः स्नेहात्सखित्वमनुपालयन् ॥ ५१॥
इमम् श्रुत्वा तु वृत्तान्तम् त्वरमाणः अहम् आगतः । सहसा एव आवयोः स्नेहात् सखित्वम् अनुपालयन् ॥ ५१॥
imam śrutvā tu vṛttāntam tvaramāṇaḥ aham āgataḥ . sahasā eva āvayoḥ snehāt sakhitvam anupālayan .. 51..
मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् । अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥ ५२॥
मोक्षितौ च महा-घोरात् अस्मात् सायक-बन्धनात् । अप्रमादः च कर्तव्यः युवाभ्याम् नित्यम् एव हि ॥ ५२॥
mokṣitau ca mahā-ghorāt asmāt sāyaka-bandhanāt . apramādaḥ ca kartavyaḥ yuvābhyām nityam eva hi .. 52..
प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः । शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥ ५३॥
प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूट-योधिनः । शूराणाम् शुद्ध-भावानाम् भवताम् आर्जवम् बलम् ॥ ५३॥
prakṛtyā rākṣasāḥ sarve saṅgrāme kūṭa-yodhinaḥ . śūrāṇām śuddha-bhāvānām bhavatām ārjavam balam .. 53..
तन्न विश्वसनीयं वो राक्षसानां रणाजिरे । एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः ॥ ५४॥
तत् न विश्वसनीयम् वः राक्षसानाम् रण-अजिरे । एतेन एव उपमानेन नित्य-जिह्माः हि राक्षसाः ॥ ५४॥
tat na viśvasanīyam vaḥ rākṣasānām raṇa-ajire . etena eva upamānena nitya-jihmāḥ hi rākṣasāḥ .. 54..
एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः । परिष्वज्य सु्स्त्रिग्धमाप्रष्टुमुपचक्रमे ॥ ५५॥
एवम् उक्त्वा ततस् रामम् सुपर्णः सु महा-बलः । परिष्वज्य सुस्त्रिग्धम् आप्रष्टुम् उपचक्रमे ॥ ५५॥
evam uktvā tatas rāmam suparṇaḥ su mahā-balaḥ . pariṣvajya sustrigdham āpraṣṭum upacakrame .. 55..
सखे राघव धर्मज्ञ रिपूणाम् अपि वत्सल । अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम् ॥ ५६॥
सखे राघव धर्म-ज्ञ रिपूणाम् अपि वत्सल । अभ्यनुज्ञातुम् इच्छामि गमिष्यामि यथासुखम् ॥ ५६॥
sakhe rāghava dharma-jña ripūṇām api vatsala . abhyanujñātum icchāmi gamiṣyāmi yathāsukham .. 56..
न च कौतूहलं कार्यं सखित्वं प्रति राघव । कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि ॥ 57 ॥
न च कौतूहलम् कार्यम् सखि-त्वम् प्रति राघव । कृत-कर्मा रणे वीर सखि-त्वम् प्रतिवेत्स्यसि ॥ ५७ ॥
na ca kautūhalam kāryam sakhi-tvam prati rāghava . kṛta-karmā raṇe vīra sakhi-tvam prativetsyasi .. 57 ..
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः । रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ॥ 58 ॥
बाल-वृद्ध-अवशेषाम् तु लङ्काम् कृत्वा शर-ऊर्मिभिः । रावणम् च रिपुम् हत्वा सीताम् समुपलप्स्यसे ॥ ५८ ॥
bāla-vṛddha-avaśeṣām tu laṅkām kṛtvā śara-ūrmibhiḥ . rāvaṇam ca ripum hatvā sītām samupalapsyase .. 58 ..
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः । रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥ 59 ॥
इति एवम् उक्त्वा वचनम् सुपर्णः शीघ्र-विक्रमः । रामम् च विरुजम् कृत्वा मध्ये तेषाम् वनौकसाम् ॥ ५९ ॥
iti evam uktvā vacanam suparṇaḥ śīghra-vikramaḥ . rāmam ca virujam kṛtvā madhye teṣām vanaukasām .. 59 ..
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् । जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥ 60 ॥
प्रदक्षिणम् ततस् कृत्वा परिष्वज्य च वीर्यवान् । जगाम आकाशम् आविश्य सुपर्णः पवनः यथा ॥ ६० ॥
pradakṣiṇam tatas kṛtvā pariṣvajya ca vīryavān . jagāma ākāśam āviśya suparṇaḥ pavanaḥ yathā .. 60 ..
नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः । सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश् च ते ॥ 61 ॥
नीरुजौ राघवौ दृष्ट्वा ततस् वानर-यूथपाः । सिंहनादान् तदा नेदुः लाङ्गूलम् दुधुवुः च ते ॥ ६१ ॥
nīrujau rāghavau dṛṣṭvā tatas vānara-yūthapāḥ . siṃhanādān tadā neduḥ lāṅgūlam dudhuvuḥ ca te .. 61 ..
ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन् । दध्मुः शङ्खान्सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ॥ 62 ॥
ततस् भेरीः समाजघ्नुः मृदङ्गान् च व्यनादयन् । दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्ति अपि यथापुरम् ॥ ६२ ॥
tatas bherīḥ samājaghnuḥ mṛdaṅgān ca vyanādayan . dadhmuḥ śaṅkhān samprahṛṣṭāḥ kṣvelanti api yathāpuram .. 62 ..
अपरे स्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः । द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥ 63 ॥
अपरे स्फोट्य आस्फोट्य विक्रान्ताः वानराः नग-योधिनः । द्रुमान् उत्पाट्य विविधान् तस्थुः शत-सहस्रशस् ॥ ६३ ॥
apare sphoṭya āsphoṭya vikrāntāḥ vānarāḥ naga-yodhinaḥ . drumān utpāṭya vividhān tasthuḥ śata-sahasraśas .. 63 ..
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् । लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः ॥ 64 ॥
विसृजन्तः महा-नादान् त्रासयन्तः निशाचरान् । लङ्का-द्वाराणि उपाजग्मुः योद्धु-कामाः प्लवङ्गमाः ॥ ६४ ॥
visṛjantaḥ mahā-nādān trāsayantaḥ niśācarān . laṅkā-dvārāṇi upājagmuḥ yoddhu-kāmāḥ plavaṅgamāḥ .. 64 ..
तेषां सुभीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् । क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥ 65 ॥
तेषाम् सु भीमः तुमुलः निनादः बभूव शाखामृग-यूथपानाम् । क्षये निदाघस्य यथा घनानाम् नादः सु भीमः नदताम् निशीथे ॥ ६५ ॥
teṣām su bhīmaḥ tumulaḥ ninādaḥ babhūva śākhāmṛga-yūthapānām . kṣaye nidāghasya yathā ghanānām nādaḥ su bhīmaḥ nadatām niśīthe .. 65 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In