This overlay will guide you through the buttons:

| |
|
तेषां तु तुमुलं शब्दं वानराणां महोजसाम् । नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ १॥
तेषाम् तु तुमुलम् शब्दम् वानराणाम् महा-ओजसाम् । नर्दताम् राक्षसैः सार्धम् तदा शुश्राव रावणः ॥ १॥
teṣām tu tumulam śabdam vānarāṇām mahā-ojasām . nardatām rākṣasaiḥ sārdham tadā śuśrāva rāvaṇaḥ .. 1..
स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम् । सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ २॥
स्निग्ध-गम्भीर-निर्घोषम् श्रुत्वा तम् निनदम् भृशम् । सचिवानाम् ततस् तेषाम् मध्ये वचनम् अब्रवीत् ॥ २॥
snigdha-gambhīra-nirghoṣam śrutvā tam ninadam bhṛśam . sacivānām tatas teṣām madhye vacanam abravīt .. 2..
यथासौ सम्प्रहृष्टानां वानराणांमुपस्थितः । बहूनां सुमहान्नादो मेघानामिव गर्जताम् ॥ ३॥
यथा असौ सम्प्रहृष्टानाम् वानराणाम् उपस्थितः । बहूनाम् सु महान् नादः मेघानाम् इव गर्जताम् ॥ ३॥
yathā asau samprahṛṣṭānām vānarāṇām upasthitaḥ . bahūnām su mahān nādaḥ meghānām iva garjatām .. 3..
सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः । तथाहि विपुलैर्नादैश्चुक्षुभे लवणार्णवः ॥ ४॥
सु व्यक्तम् महती प्रीतिः एतेषाम् न अत्र संशयः । तथा हि विपुलैः नादैः चुक्षुभे लवणार्णवः ॥ ४॥
su vyaktam mahatī prītiḥ eteṣām na atra saṃśayaḥ . tathā hi vipulaiḥ nādaiḥ cukṣubhe lavaṇārṇavaḥ .. 4..
तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ । अयं च सुमहान्नादः शङ्कां जनयतीव मे ॥ ५॥
तौ तु बद्धौ शरैः तीष्क्णैः भ्रातरौ राम-लक्ष्मणौ । अयम् च सु महान् नादः शङ्काम् जनयति इव मे ॥ ५॥
tau tu baddhau śaraiḥ tīṣkṇaiḥ bhrātarau rāma-lakṣmaṇau . ayam ca su mahān nādaḥ śaṅkām janayati iva me .. 5..
एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः । उवाच नैरृतांस्तत्र समीपपरिवर्तिनः ॥ ६॥
एवम् च वचनम् च उक्त्वा मन्त्रिणः राक्षसेश्वरः । उवाच नैरृतान् तत्र समीप-परिवर्तिनः ॥ ६॥
evam ca vacanam ca uktvā mantriṇaḥ rākṣaseśvaraḥ . uvāca nairṛtān tatra samīpa-parivartinaḥ .. 6..
ज्ञायतां तूर्णमेतषां सर्वेषां च वनौकसाम् । शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ ७॥
ज्ञायताम् तूर्णम् एतषाम् सर्वेषाम् च वनौकसाम् । शोक-काले समुत्पन्ने हर्ष-कारणम् उत्थितम् ॥ ७॥
jñāyatām tūrṇam etaṣām sarveṣām ca vanaukasām . śoka-kāle samutpanne harṣa-kāraṇam utthitam .. 7..
तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य च । ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ८॥
तथा उक्ताः तेन सम्भ्रान्ताः प्राकारम् अधिरुह्य च । ददृशुः पालिताम् सेनाम् सुग्रीवेण महात्मना ॥ ८॥
tathā uktāḥ tena sambhrāntāḥ prākāram adhiruhya ca . dadṛśuḥ pālitām senām sugrīveṇa mahātmanā .. 8..
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ । समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः ॥ ९॥
तौ च मुक्तौ सु घोरेण शर-बन्धेन राघवौ । समुत्थितौ महाभागौ विषेदुः सर्व-राक्षसाः ॥ ९॥
tau ca muktau su ghoreṇa śara-bandhena rāghavau . samutthitau mahābhāgau viṣeduḥ sarva-rākṣasāḥ .. 9..
सन्त्रस्तहृदया सर्वे प्राकारादवरुह्य ते । विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः ॥ १०॥
सन्त्रस्त-हृदया सर्वे प्राकारात् अवरुह्य ते । विवर्णाः राक्षसाः घोराः राक्षस-इन्द्रम् उपस्थिताः ॥ १०॥
santrasta-hṛdayā sarve prākārāt avaruhya te . vivarṇāḥ rākṣasāḥ ghorāḥ rākṣasa-indram upasthitāḥ .. 10..
तदप्रियं दीनमुखा रावणस्य च राक्षसाषः । कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः ॥ ११॥
तत् अप्रियम् दीन-मुखाः रावणस्य च । कृत्स्नम् निवेदयामासुः यथावत् वाक्य-कोविदाः ॥ ११॥
tat apriyam dīna-mukhāḥ rāvaṇasya ca . kṛtsnam nivedayāmāsuḥ yathāvat vākya-kovidāḥ .. 11..
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ । निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२॥
यौ तौ इन्द्रजिता युद्धे भ्रातरौ राम-लक्ष्मणौ । निबद्धौ शर-बन्धेन निष्प्रकम्प-भुजौ कृतौ ॥ १२॥
yau tau indrajitā yuddhe bhrātarau rāma-lakṣmaṇau . nibaddhau śara-bandhena niṣprakampa-bhujau kṛtau .. 12..
विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे । पाशानिव गजाउ छित्त्वा गजेन्द्रसमविक्रमौ ॥ १३॥
विमुक्तौ शर-बन्धेन दृश्येते तौ रण-अजिरे । पाशान् इव गजौ छित्त्वा गज-इन्द्र-सम-विक्रमौ ॥ १३॥
vimuktau śara-bandhena dṛśyete tau raṇa-ajire . pāśān iva gajau chittvā gaja-indra-sama-vikramau .. 13..
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः । चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत् ॥ १४॥
तत् श्रुत्वा वचनम् तेषाम् राक्षस-इन्द्रः महा-बलः । चिन्ता-शोक-समाक्रान्तः विवर्ण-वदनः अभवत् ॥ १४॥
tat śrutvā vacanam teṣām rākṣasa-indraḥ mahā-balaḥ . cintā-śoka-samākrāntaḥ vivarṇa-vadanaḥ abhavat .. 14..
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः । अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि ॥ १५॥
घोरैः दत्त-वरैः बद्धौ शरैः आशीविष-उमपैः । अमोघैः सूर्य-सङ्काशैः प्रमथ्य इन्द्रजिता युधि ॥ १५॥
ghoraiḥ datta-varaiḥ baddhau śaraiḥ āśīviṣa-umapaiḥ . amoghaiḥ sūrya-saṅkāśaiḥ pramathya indrajitā yudhi .. 15..
तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम । संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥ १६॥
तम् अस्त्रबन्धम् आसाद्य यदि मुक्तौ रिपू मम । संशय-स्थम् इदम् सर्वम् अनुपश्यामि अहम् बलम् ॥ १६॥
tam astrabandham āsādya yadi muktau ripū mama . saṃśaya-stham idam sarvam anupaśyāmi aham balam .. 16..
निष्फलाः खलु संवृत्ताः शरा पावकतेजसः । आदत्तं यैस्तु सङ्ग्रामे रिपूणां जीवितम् मम् ॥ १७॥
निष्फलाः खलु संवृत्ताः शरा पावक-तेजसः । आदत्तम् यैः तु सङ्ग्रामे रिपूणाम् जीवितम् मम् ॥ १७॥
niṣphalāḥ khalu saṃvṛttāḥ śarā pāvaka-tejasaḥ . ādattam yaiḥ tu saṅgrāme ripūṇām jīvitam mam .. 17..
एवमुक्त्वा तु सङ्क्रुद्धो निश्वसन्नुरगो यथा । अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राकसं ॥ १८॥
एवम् उक्त्वा तु सङ्क्रुद्धः निश्वसन् उरगः यथा । अब्रवीत् रक्षसाम् मध्ये धूम्राक्षम् नाम राकसम् ॥ १८॥
evam uktvā tu saṅkruddhaḥ niśvasan uragaḥ yathā . abravīt rakṣasām madhye dhūmrākṣam nāma rākasam .. 18..
बलेन महता युक्तो रक्षसां भीमविक्रम् । त्वं वधायाशु निर्याहि रामस्य सह वानरैः ॥ १९॥
बलेन महता युक्तः रक्षसाम् भीम-विक्रम् । त्वम् वधाय आशु निर्याहि रामस्य सह वानरैः ॥ १९॥
balena mahatā yuktaḥ rakṣasām bhīma-vikram . tvam vadhāya āśu niryāhi rāmasya saha vānaraiḥ .. 19..
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता । क्रम्य ततः शीघ्रं संहृष्टो निर्जगाम नृपालयात् ॥ २०॥
एवम् उक्तः तु धूम्राक्षः राक्षस-इन्द्रेण धीमता । क्रम्य ततस् शीघ्रम् संहृष्टः निर्जगाम नृप-आलयात् ॥ २०॥
evam uktaḥ tu dhūmrākṣaḥ rākṣasa-indreṇa dhīmatā . kramya tatas śīghram saṃhṛṣṭaḥ nirjagāma nṛpa-ālayāt .. 20..
अभिनिष्क्रम्य तद् द्वारं बलाध्यक्षमुवाच ह । त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः ॥ २१॥
अभिनिष्क्रम्य तत् द्वारम् बलाध्यक्षम् उवाच ह । त्वरयस्व बलम् शीघ्रम् किम् चिरेण युयुत्सतः ॥ २१॥
abhiniṣkramya tat dvāram balādhyakṣam uvāca ha . tvarayasva balam śīghram kim cireṇa yuyutsataḥ .. 21..
धूम्राक्षवचनः श्रुत्वा बलाध्यक्षो बलानुगः । बलमुद्योजयामास रावणस्याज्ञया भृशम् ॥ २२॥
धूम्राक्ष-वचनः श्रुत्वा बलाध्यक्षः बल-अनुगः । बलम् उद्योजयामास रावणस्य आज्ञया भृशम् ॥ २२॥
dhūmrākṣa-vacanaḥ śrutvā balādhyakṣaḥ bala-anugaḥ . balam udyojayāmāsa rāvaṇasya ājñayā bhṛśam .. 22..
ते बद्धघण्टा बलिनो घोररूपा निशाचराः । विनद्यमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ॥ २३॥
ते बद्ध-घण्टाः बलिनः घोर-रूपाः निशाचराः । विनद्यमानाः संहृष्टाः धूम्राक्षम् पर्यवारयन् ॥ २३॥
te baddha-ghaṇṭāḥ balinaḥ ghora-rūpāḥ niśācarāḥ . vinadyamānāḥ saṃhṛṣṭāḥ dhūmrākṣam paryavārayan .. 23..
विविधायुधहस्ताश्च शूलमुद्गरपाणयः । गदाभिः पट्टशैर्दण्डैरायसैर्मुसलैर्भृशम् ॥ २४॥
विविध-आयुध-हस्ताः च शूल-मुद्गर-पाणयः । गदाभिः पट्टशैः दण्डैः आयसैः मुसलैः भृशम् ॥ २४॥
vividha-āyudha-hastāḥ ca śūla-mudgara-pāṇayaḥ . gadābhiḥ paṭṭaśaiḥ daṇḍaiḥ āyasaiḥ musalaiḥ bhṛśam .. 24..
परिघैर्भिण्डिपालैश्च भल्लैः पाशैः परश्वधैः । निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा ॥ २५॥
परिघैः भिन्डिपालैः च भल्लैः पाशैः परश्वधैः । निर्ययुः राक्षसाः घोराः नर्दन्तः जलदाः यथा ॥ २५॥
parighaiḥ bhinḍipālaiḥ ca bhallaiḥ pāśaiḥ paraśvadhaiḥ . niryayuḥ rākṣasāḥ ghorāḥ nardantaḥ jaladāḥ yathā .. 25..
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः । सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ २६॥
रथैः कवचिनः तु अन्ये ध्वजैः च समलङ्कृतैः । सुवर्ण-जाल-विहितैः खरैः च विविध-आननैः ॥ २६॥
rathaiḥ kavacinaḥ tu anye dhvajaiḥ ca samalaṅkṛtaiḥ . suvarṇa-jāla-vihitaiḥ kharaiḥ ca vividha-ānanaiḥ .. 26..
हयैः परमशीघ्रैश्च गजैश्चैव मदोत्कटैः । निर्ययूर्नृर्ऋव्याघ्रा व्याघ्रा इव दुरासदाः ॥ २७॥
हयैः परम-शीघ्रैः च गजैः च एव मद-उत्कटैः । निर्ययुः नृ-ऋ व्याघ्राः व्याघ्राः इव दुरासदाः ॥ २७॥
hayaiḥ parama-śīghraiḥ ca gajaiḥ ca eva mada-utkaṭaiḥ . niryayuḥ nṛ-ṛ vyāghrāḥ vyāghrāḥ iva durāsadāḥ .. 27..
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः । आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ॥ २८॥
वृक-सिंह-मुखैः युक्तम् खरैः कनक-भूषणैः । आरुरोह रथम् दिव्यम् धूम्राक्षः खर-निस्वनः ॥ २८॥
vṛka-siṃha-mukhaiḥ yuktam kharaiḥ kanaka-bhūṣaṇaiḥ . āruroha ratham divyam dhūmrākṣaḥ khara-nisvanaḥ .. 28..
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः । हसन् वै पश्चिमद्वाराध्दनूमान् यत्र तिष्ठति ॥ २९॥
स निर्यातः महा-वीर्यः धूम्राक्षः राक्षसैः वृतः । हसन् वै पश्चिम-द्वारात् हनूमान् यत्र तिष्ठति ॥ २९॥
sa niryātaḥ mahā-vīryaḥ dhūmrākṣaḥ rākṣasaiḥ vṛtaḥ . hasan vai paścima-dvārāt hanūmān yatra tiṣṭhati .. 29..
रथप्रवरमास्स्थाय खरयुक्तं खरस्वनम् । प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् ॥ ३०॥
रथ-प्रवरम् आस्स्थाय खर-युक्तम् खर-स्वनम् । प्रयान्तम् तु महा-घोरम् राक्षसम् भीम-दर्शनम् ॥ ३०॥
ratha-pravaram āssthāya khara-yuktam khara-svanam . prayāntam tu mahā-ghoram rākṣasam bhīma-darśanam .. 30..
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन् । रथशीर्षे महाभीमो गृध्रश्च निपपात ह ॥ ३१॥
अन्तरिक्ष-गताः क्रूराः शकुनाः प्रत्यषेधयन् । रथ-शीर्षे महा-भीमः गृध्रः च निपपात ह ॥ ३१॥
antarikṣa-gatāḥ krūrāḥ śakunāḥ pratyaṣedhayan . ratha-śīrṣe mahā-bhīmaḥ gṛdhraḥ ca nipapāta ha .. 31..
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः । रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि ॥ ३२॥
ध्वज-अग्रे ग्रथिताः च एव निपेतुः कुणप-अशनाः । रुधिर-आर्द्रः महान् श्वेतः कबन्धः पतितः भुवि ॥ ३२॥
dhvaja-agre grathitāḥ ca eva nipetuḥ kuṇapa-aśanāḥ . rudhira-ārdraḥ mahān śvetaḥ kabandhaḥ patitaḥ bhuvi .. 32..
विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः । ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी ॥ ३३॥
विस्वरम् च उत्सृजन् नादम् धूम्राक्षस्य समीपतस् । ववर्ष रुधिरम् देवः सञ्चचाल च मेदिनी ॥ ३३॥
visvaram ca utsṛjan nādam dhūmrākṣasya samīpatas . vavarṣa rudhiram devaḥ sañcacāla ca medinī .. 33..
प्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनः । तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ॥ ३४ ॥
प्रतिलोमम् ववौ वायुः निर्घात-सम-निस्वनः । तिमिर-ओघ-आवृताः तत्र दिशः च न चकाशिरे ॥ ३४ ॥
pratilomam vavau vāyuḥ nirghāta-sama-nisvanaḥ . timira-ogha-āvṛtāḥ tatra diśaḥ ca na cakāśire .. 34 ..
स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान् । प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् । मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ॥ ३५॥
स तु उत्पातान् ततस् दृष्ट्वा राक्षसानाम् भय-आवहान् । प्रादुर्भूतान् सु घोरान् च धूम्राक्षः व्यथितः अभवत् । मुमुहुः राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ॥ ३५॥
sa tu utpātān tatas dṛṣṭvā rākṣasānām bhaya-āvahān . prādurbhūtān su ghorān ca dhūmrākṣaḥ vyathitaḥ abhavat . mumuhuḥ rākṣasāḥ sarve dhūmrākṣasya puraḥsarāḥ .. 35..
ततः सुभीमो बहुभिर्निशाचरैर् वृतोऽभिनिष्क्रम्य रणोत्सुको बली । ददर्श तां राघवबाहुपालितां समुद्रकल्पां बहुवानरीं चमूम् ॥ ३६॥
ततस् सु भीमः बहुभिः निशाचरैः वृतः अभिनिष्क्रम्य रण-उत्सुकः बली । ददर्श ताम् राघव-बाहु-पालिताम् समुद्र-कल्पाम् बहु-वानरीम् चमूम् ॥ ३६॥
tatas su bhīmaḥ bahubhiḥ niśācaraiḥ vṛtaḥ abhiniṣkramya raṇa-utsukaḥ balī . dadarśa tām rāghava-bāhu-pālitām samudra-kalpām bahu-vānarīm camūm .. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In