This overlay will guide you through the buttons:

| |
|
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् । विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ 1 ॥
धूम्राक्षम् प्रेक्ष्य निर्यान्तम् राक्षसम् भीम-निस्वनम् । विनेदुः वानराः सर्वे प्रहृष्टाः युद्ध-काङ्क्षिणः ॥ १ ॥
dhūmrākṣam prekṣya niryāntam rākṣasam bhīma-nisvanam . vineduḥ vānarāḥ sarve prahṛṣṭāḥ yuddha-kāṅkṣiṇaḥ .. 1 ..
तेषां तु तुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् । अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः ॥ 2 ॥
तेषाम् तु तुमुलम् युद्धम् सञ्जज्ञे हरि-रक्षसाम् । अन्योन्यम् पादपैः घोरैः निघ्नतम् शूल-मुद्गरैः ॥ २ ॥
teṣām tu tumulam yuddham sañjajñe hari-rakṣasām . anyonyam pādapaiḥ ghoraiḥ nighnatam śūla-mudgaraiḥ .. 2 ..
राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः । वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ॥ 3 ॥
राक्षसैः वानराः घोराः विनिकृत्ताः समन्ततः । वानरैः राक्षसाः च अपि द्रुमैः भूमौ समीकृताः ॥ ३ ॥
rākṣasaiḥ vānarāḥ ghorāḥ vinikṛttāḥ samantataḥ . vānaraiḥ rākṣasāḥ ca api drumaiḥ bhūmau samīkṛtāḥ .. 3 ..
राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः । विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ॥ 4 ॥
राक्षसाः च अपि सङ्क्रुद्धाः वानरान् निशितैः शरैः । विव्यधुः घोर-सङ्काशैः कङ्क-पत्रैः अजिह्मगैः ॥ ४ ॥
rākṣasāḥ ca api saṅkruddhāḥ vānarān niśitaiḥ śaraiḥ . vivyadhuḥ ghora-saṅkāśaiḥ kaṅka-patraiḥ ajihmagaiḥ .. 4 ..
ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः । घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः ॥ 5 ॥
ते गदाभिः च भीमाभिः पट्टसैः कूटमुद्गरैः । घोरैः च परिघैः चित्रैः त्रिशूलैः च अपि संशितैः ॥ ५ ॥
te gadābhiḥ ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ . ghoraiḥ ca parighaiḥ citraiḥ triśūlaiḥ ca api saṃśitaiḥ .. 5 ..
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः । अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ 6 ॥
विदार्यमाणाः रक्षोभिः वानराः ते महा-बलाः । अमर्षात् जनित-उद्धर्षाः चक्रुः कर्माणि अभीत-वत् ॥ ६ ॥
vidāryamāṇāḥ rakṣobhiḥ vānarāḥ te mahā-balāḥ . amarṣāt janita-uddharṣāḥ cakruḥ karmāṇi abhīta-vat .. 6 ..
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः । जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ 7 ॥
शर-निर्भिन्न-गात्राः ते शूल-निर्भिन्न-देहिनः । जगृहुः ते द्रुमान् तत्र शिलाः च हरि-यूथपाः ॥ ७ ॥
śara-nirbhinna-gātrāḥ te śūla-nirbhinna-dehinaḥ . jagṛhuḥ te drumān tatra śilāḥ ca hari-yūthapāḥ .. 7 ..
ते भीमवेगा हरयो नर्दमानास्ततस्ततः । ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ॥ 8 ॥
ते भीम-वेगाः हरयः नर्दमानाः ततस् ततस् । ममन्थुः राक्षसान् भीमान् नामानि च बभाषिरे ॥ ८ ॥
te bhīma-vegāḥ harayaḥ nardamānāḥ tatas tatas . mamanthuḥ rākṣasān bhīmān nāmāni ca babhāṣire .. 8 ..
तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् । शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः ॥ 9 ॥
तत् बभूव अद्भुतम् घोरम् युद्धम् वानर-रक्षसाम् । शिलाभिः विविधाभिः च बहु-शाखैः च पादपैः ॥ ९ ॥
tat babhūva adbhutam ghoram yuddham vānara-rakṣasām . śilābhiḥ vividhābhiḥ ca bahu-śākhaiḥ ca pādapaiḥ .. 9 ..
राक्षसा मथिताः के चिद्वानरैर्जितकाशिभिः । ववर्षू रुधिरं के चिन्मुखै रुधिरभोजनाः ॥ 10 ॥
राक्षसाः मथिताः के चित् वानरैः जितकाशिभिः । ववर्षुः रुधिरम् के चित् मुखैः रुधिर-भोजनाः ॥ १० ॥
rākṣasāḥ mathitāḥ ke cit vānaraiḥ jitakāśibhiḥ . vavarṣuḥ rudhiram ke cit mukhaiḥ rudhira-bhojanāḥ .. 10 ..
पार्श्वेषु दारिताः के चित्के चिद्राशीकृता द्रुमैः । शिलाभिश्चूर्णिताः के चित्के चिद्दन्तैर्विदारिताः ॥ 11 ॥
पार्श्वेषु दारिताः के चित् के चित् राशीकृताः द्रुमैः । शिलाभिः चूर्णिताः के चित् के चित् दन्तैः विदारिताः ॥ ११ ॥
pārśveṣu dāritāḥ ke cit ke cit rāśīkṛtāḥ drumaiḥ . śilābhiḥ cūrṇitāḥ ke cit ke cit dantaiḥ vidāritāḥ .. 11 ..
ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः । रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ॥ 12 ॥
ध्वजैः विमथितैः भग्नैः खरैः च विनिपातितैः । रथैः विध्वंसितैः च अपि पतितैः रजनीचरैः ॥ १२ ॥
dhvajaiḥ vimathitaiḥ bhagnaiḥ kharaiḥ ca vinipātitaiḥ . rathaiḥ vidhvaṃsitaiḥ ca api patitaiḥ rajanīcaraiḥ .. 12 ..
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् । मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ॥ 13 ॥
गज-इन्द्रैः पर्वत-आकारैः पर्वत-अग्रैः वनौकसाम् । मथितैः वाजिभिः कीर्णम् स आरोहैः वसुधा-तलम् ॥ १३ ॥
gaja-indraiḥ parvata-ākāraiḥ parvata-agraiḥ vanaukasām . mathitaiḥ vājibhiḥ kīrṇam sa ārohaiḥ vasudhā-talam .. 13 ..
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः । राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ 14 ॥
वानरैः भीम-विक्रान्तैः आप्लुत्य आप्लुत्य वेगितैः । राक्षसाः करजैः तीक्ष्णैः मुखेषु विनिकर्तिताः ॥ १४ ॥
vānaraiḥ bhīma-vikrāntaiḥ āplutya āplutya vegitaiḥ . rākṣasāḥ karajaiḥ tīkṣṇaiḥ mukheṣu vinikartitāḥ .. 14 ..
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः । मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ 15 ॥
विवर्ण-वदनाः भूयस् विप्रकीर्ण-शिरोरुहाः । मूढाः शोणित-गन्धेन निपेतुः धरणी-तले ॥ १५ ॥
vivarṇa-vadanāḥ bhūyas viprakīrṇa-śiroruhāḥ . mūḍhāḥ śoṇita-gandhena nipetuḥ dharaṇī-tale .. 15 ..
अन्ये तु परमक्रुद्धा राक्षसा भीमविक्रमाः । तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥ 16 ॥
अन्ये तु परम-क्रुद्धाः राक्षसाः भीम-विक्रमाः । तलैः एव अभिधावन्ति वज्र-स्पर्श-समैः हरीन् ॥ १६ ॥
anye tu parama-kruddhāḥ rākṣasāḥ bhīma-vikramāḥ . talaiḥ eva abhidhāvanti vajra-sparśa-samaiḥ harīn .. 16 ..
वनरै पातयन्तस्ते वेगिता वेगवत्तरैः । मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः ॥ 17 ॥
पातयन्तः ते वेगिताः वेगवत्तरैः । मुष्टिभिः चरणैः दन्तैः पादपैः च अपपोथिताः ॥ १७ ॥
pātayantaḥ te vegitāḥ vegavattaraiḥ . muṣṭibhiḥ caraṇaiḥ dantaiḥ pādapaiḥ ca apapothitāḥ .. 17 ..
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः । रोषेण कदनं चक्रे वानराणां युयुत्सताम् ॥ 18 ॥
सैन्यम् तु विद्रुतम् दृष्ट्वा धूम्राक्षः राक्षस-ऋषभः । रोषेण कदनम् चक्रे वानराणाम् युयुत्सताम् ॥ १८ ॥
sainyam tu vidrutam dṛṣṭvā dhūmrākṣaḥ rākṣasa-ṛṣabhaḥ . roṣeṇa kadanam cakre vānarāṇām yuyutsatām .. 18 ..
प्रासैः प्रमथिताः के चिद्वानराः शोणितस्रवाः । मुद्गरैराहताः के चित्पतिता धरणीतले ॥ 19 ॥
प्रासैः प्रमथिताः के चित् वानराः शोणित-स्रवाः । मुद्गरैः आहताः के चित् पतिताः धरणी-तले ॥ १९ ॥
prāsaiḥ pramathitāḥ ke cit vānarāḥ śoṇita-sravāḥ . mudgaraiḥ āhatāḥ ke cit patitāḥ dharaṇī-tale .. 19 ..
परिघैर्मथितः केचिद् भिन्डिपालैश्च दारिताः । पट्टशैर्मथिताः केचिद् विह्वलन्तो गतासवः ॥ 20 ॥
परिघैः मथितः केचिद् भिन्डिपालैः च दारिताः । केचिद् विह्वलन्तः गतासवः ॥ २० ॥
parighaiḥ mathitaḥ kecid bhinḍipālaiḥ ca dāritāḥ . kecid vihvalantaḥ gatāsavaḥ .. 20 ..
के चिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः । के चिद्विद्राविता नष्टाः सङ्क्रुद्धै राक्षसैर्युधि ॥ 21 ॥
के चित् विनिहताः भूमौ रुधिर-आर्द्राः वनौकसः । के चित् विद्राविताः नष्टाः सङ्क्रुद्धैः राक्षसैः युधि ॥ २१ ॥
ke cit vinihatāḥ bhūmau rudhira-ārdrāḥ vanaukasaḥ . ke cit vidrāvitāḥ naṣṭāḥ saṅkruddhaiḥ rākṣasaiḥ yudhi .. 21 ..
विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः । विदारितास्त्रशूलैश्च केचिदान्त्रैर्विनिःसृताः ॥ 22 ॥
विभिन्न-हृदयाः केचिद् एक-पार्श्वेन शायिताः । विदारित-अस्त्र-शूलैः च केचिद् आन्त्रैः विनिःसृताः ॥ २२ ॥
vibhinna-hṛdayāḥ kecid eka-pārśvena śāyitāḥ . vidārita-astra-śūlaiḥ ca kecid āntraiḥ viniḥsṛtāḥ .. 22 ..
तत् सुभीमं महद्युद्धं हरिराकससंकुलम् । प्रबभौ शस्त्रबहुलं शिलापादपसङ्कुलम् ॥ 23 ॥
तत् सु भीमम् महत् युद्धम् हरि-राकस-संकुलम् । प्रबभौ शस्त्र-बहुलम् शिला-पादप-सङ्कुलम् ॥ २३ ॥
tat su bhīmam mahat yuddham hari-rākasa-saṃkulam . prababhau śastra-bahulam śilā-pādapa-saṅkulam .. 23 ..
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् । मन्द्रस्तनितगीतं युद्धगान्धर्वमाबभौ ॥ 24 ॥
धनुः-ज्या-तन्त्रि-मधुरम् हिक्का-ताल-समन्वितम् । मन्द्र-स्तनित-गीतम् युद्ध-गान्धर्वम् आबभौ ॥ २४ ॥
dhanuḥ-jyā-tantri-madhuram hikkā-tāla-samanvitam . mandra-stanita-gītam yuddha-gāndharvam ābabhau .. 24 ..
धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि । हसन्विद्रावयामास दिशस्ताञ्छरवृष्टिभिः ॥ 25 ॥
धूम्राक्षः तु धनुष्पाणिः वानरान् रण-मूर्धनि । हसन् विद्रावयामास दिशः तान् शर-वृष्टिभिः ॥ २५ ॥
dhūmrākṣaḥ tu dhanuṣpāṇiḥ vānarān raṇa-mūrdhani . hasan vidrāvayāmāsa diśaḥ tān śara-vṛṣṭibhiḥ .. 25 ..
धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः । अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ 26 ॥
धूम्राक्षेण अर्दितम् सैन्यम् व्यथितम् दृश्य मारुतिः । अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलाम् शिलाम् ॥ २६ ॥
dhūmrākṣeṇa arditam sainyam vyathitam dṛśya mārutiḥ . abhyavartata saṅkruddhaḥ pragṛhya vipulām śilām .. 26 ..
क्रोधाद्द्विगुणताम्राक्षः पितुस्तुल्यपराक्रमः । शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ 27 ॥
क्रोधात् द्विगुण-ताम्र-अक्षः पितुः तुल्य-पराक्रमः । शिलाम् ताम् पातयामास धूम्राक्षस्य रथम् प्रति ॥ २७ ॥
krodhāt dviguṇa-tāmra-akṣaḥ pituḥ tulya-parākramaḥ . śilām tām pātayāmāsa dhūmrākṣasya ratham prati .. 27 ..
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् । रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ 28 ॥
आपतन्तीम् शिलाम् दृष्ट्वा गदाम् उद्यम्य सम्भ्रमात् । रथात् आप्लुत्य वेगेन वसुधायाम् व्यतिष्ठत ॥ २८ ॥
āpatantīm śilām dṛṣṭvā gadām udyamya sambhramāt . rathāt āplutya vegena vasudhāyām vyatiṣṭhata .. 28 ..
सा प्रमथ्य रथं तस्य निपपात शिला भुवि । सचक्रकूबरं साश्वं सध्वजं सशरासनम् ॥ 29 ॥
सा प्रमथ्य रथम् तस्य निपपात शिला भुवि । स चक्र-कूबरम् स अश्वम् स ध्वजम् स शरासनम् ॥ २९ ॥
sā pramathya ratham tasya nipapāta śilā bhuvi . sa cakra-kūbaram sa aśvam sa dhvajam sa śarāsanam .. 29 ..
स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः । रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ॥ 30 ॥
स भङ्क्त्वा तु रथम् तस्य हनूमान् मारुतात्मजः । रक्षसाम् कदनम् चक्रे स स्कन्ध-विटपैः द्रुमैः ॥ ३० ॥
sa bhaṅktvā tu ratham tasya hanūmān mārutātmajaḥ . rakṣasām kadanam cakre sa skandha-viṭapaiḥ drumaiḥ .. 30 ..
विभिन्नशिरसो भूत्वा राक्षसाः रूधिरोक्षिताः । द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले ॥ 31 ॥
विभिन्न-शिरसः भूत्वा राक्षसाः रूधिर-उक्षिताः । द्रुमैः प्रमथिताः च अन्ये निपेतुः धरणी-तले ॥ ३१ ॥
vibhinna-śirasaḥ bhūtvā rākṣasāḥ rūdhira-ukṣitāḥ . drumaiḥ pramathitāḥ ca anye nipetuḥ dharaṇī-tale .. 31 ..
विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः । गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ॥ 32 ॥
विद्राव्य राक्षसम् सैन्यम् हनूमान् मारुतात्मजः । गिरेः शिखरम् आदाय धूम्राक्षम् अभिदुद्रुवे ॥ ३२ ॥
vidrāvya rākṣasam sainyam hanūmān mārutātmajaḥ . gireḥ śikharam ādāya dhūmrākṣam abhidudruve .. 32 ..
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् । विनर्दमानः सहसा हनूमन्तमभिद्रवत् ॥ 33 ॥
तम् आपतन्तम् धूम्राक्षः गदाम् उद्यम्य वीर्यवान् । विनर्दमानः सहसा हनूमन्तम् अभिद्रवत् ॥ ३३ ॥
tam āpatantam dhūmrākṣaḥ gadām udyamya vīryavān . vinardamānaḥ sahasā hanūmantam abhidravat .. 33 ..
तस्य क्रुद्धस्तु रोषेण गदां तां बहुकण्टकाम् । पातयामास धूम्राक्षो मस्तकेऽथ हनूमतः ॥ 34 ॥
तस्य क्रुद्धः तु रोषेण गदाम् ताम् बहु-कण्टकाम् । पातयामास धूम्राक्षः मस्तके अथ हनूमतः ॥ ३४ ॥
tasya kruddhaḥ tu roṣeṇa gadām tām bahu-kaṇṭakām . pātayāmāsa dhūmrākṣaḥ mastake atha hanūmataḥ .. 34 ..
ताडितः स तया तत्र गदया भीमवेगया । स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ॥ 35 ॥
ताडितः स तया तत्र गदया भीम-वेगया । स कपिः मारुत-बलः तम् प्रहारम् अ चिन्तयन् ॥ ३५ ॥
tāḍitaḥ sa tayā tatra gadayā bhīma-vegayā . sa kapiḥ māruta-balaḥ tam prahāram a cintayan .. 35 ..
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् । स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ॥ 36 ॥
धूम्राक्षस्य शिरः-मध्ये गिरि-शृङ्गम् अपातयत् । स विह्वलित-सर्व-अङ्गः गिरि-शृङ्गेण ताडितः ॥ ३६ ॥
dhūmrākṣasya śiraḥ-madhye giri-śṛṅgam apātayat . sa vihvalita-sarva-aṅgaḥ giri-śṛṅgeṇa tāḍitaḥ .. 36 ..
पपात सहसा भूमौ विकीर्ण इव पर्वतः । धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः । त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ॥ 37 ॥
पपात सहसा भूमौ विकीर्णः इव पर्वतः । धूम्राक्षम् निहतम् दृष्ट्वा हत-शेषाः निशाचराः । त्रस्ताः प्रविविशुः लङ्काम् वध्यमानाः प्लवङ्गमैः ॥ ३७ ॥
papāta sahasā bhūmau vikīrṇaḥ iva parvataḥ . dhūmrākṣam nihatam dṛṣṭvā hata-śeṣāḥ niśācarāḥ . trastāḥ praviviśuḥ laṅkām vadhyamānāḥ plavaṅgamaiḥ .. 37 ..
स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च संविकीर्य । रिपुवधजनितश्रमो महात्मा मुदमगमत्कपिभिश्च पूज्यमानः ॥ 38 ॥
स तु पवनसुतः निहत्य शत्रुम् क्षतज-वहाः सरितः च संविकीर्य । रिपु-वध-जनित-श्रमः महात्मा मुदम् अगमत् कपिभिः च पूज्यमानः ॥ ३८ ॥
sa tu pavanasutaḥ nihatya śatrum kṣataja-vahāḥ saritaḥ ca saṃvikīrya . ripu-vadha-janita-śramaḥ mahātmā mudam agamat kapibhiḥ ca pūjyamānaḥ .. 38 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In