This overlay will guide you through the buttons:

| |
|
बलस्य च घातेन अङ्गदस्य बलेन च । राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ 1 ॥
बलस्य च घातेन अङ्गदस्य बलेन च । राक्षसः क्रोधम् आविष्टः वज्र-दंष्ट्रः महा-बलः ॥ १ ॥
balasya ca ghātena aṅgadasya balena ca . rākṣasaḥ krodham āviṣṭaḥ vajra-daṃṣṭraḥ mahā-balaḥ .. 1 ..
विष्पार्य च धनुर्घोरं शक्राशनिसमस्वनम् । वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ 2 ॥
विष्पार्य च धनुः घोरम् शक्र-अशनि-सम-स्वनम् । वानराणाम् अनीकानि प्राकिरत् शर-वृष्टिभिः ॥ २ ॥
viṣpārya ca dhanuḥ ghoram śakra-aśani-sama-svanam . vānarāṇām anīkāni prākirat śara-vṛṣṭibhiḥ .. 2 ..
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः । नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ 3 ॥
राक्षसाः च अपि मुख्याः ते रथेषु समवस्थिताः । नाना प्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ ३ ॥
rākṣasāḥ ca api mukhyāḥ te ratheṣu samavasthitāḥ . nānā praharaṇāḥ śūrāḥ prāyudhyanta tadā raṇe .. 3 ..
वानराणां च शूरास्तु ते प्लवगर्षभाः । आयुध्यन्त शिलाहस्ता समवेता समन्ततः ॥ 4 ॥
वानराणाम् च शूराः तु ते प्लवग-ऋषभाः । आयुध्यन्त शिला-हस्ता समवेता समन्ततः ॥ ४ ॥
vānarāṇām ca śūrāḥ tu te plavaga-ṛṣabhāḥ . āyudhyanta śilā-hastā samavetā samantataḥ .. 4 ..
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् । राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ॥ 5 ॥
तत्र आयुध-सहस्राणि तस्मिन् आयोधने भृशम् । राक्षसाः कपि-मुख्येषु पातयांचक्रिरे तदा ॥ ५ ॥
tatra āyudha-sahasrāṇi tasmin āyodhane bhṛśam . rākṣasāḥ kapi-mukhyeṣu pātayāṃcakrire tadā .. 5 ..
वानराश्चापि रक्षःसु गिरवृक्षान् महाशिलाः । प्रवीराः पातयामासुर्मत्तमातङ्गसन्निभाः ॥ 6 ॥
वानराः च अपि रक्षःसु गिर-वृक्षात् महा-शिलाः । प्रवीराः पातयामासुः मत्त-मातङ्ग-सन्निभाः ॥ ६ ॥
vānarāḥ ca api rakṣaḥsu gira-vṛkṣāt mahā-śilāḥ . pravīrāḥ pātayāmāsuḥ matta-mātaṅga-sannibhāḥ .. 6 ..
शूराणां युद्यमानानां समरेष्न्विवर्तिनाम् । तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ 7 ॥
शूराणाम् युद्यमानानाम् समरेषु विवर्तिनाम् । तद्-राक्षस-गणानाम् च सु युद्धम् समवर्तत ॥ ७ ॥
śūrāṇām yudyamānānām samareṣu vivartinām . tad-rākṣasa-gaṇānām ca su yuddham samavartata .. 7 ..
प्रभिन्नशिरसः केचिछचिन्नैः पादैश्च बाहुभिः । शस्स्रैरर्दितदेहाभ्य रुधिरेण समुक्षिताः ॥ 8 ॥
प्रभिन्न-शिरसः पादैः च बाहुभिः । रुधिरेण समुक्षिताः ॥ ८ ॥
prabhinna-śirasaḥ pādaiḥ ca bāhubhiḥ . rudhireṇa samukṣitāḥ .. 8 ..
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः । कङ्कगृध्रवळैराढ्याश्च गोमायुगलसङ्कुलाः ॥ 9 ॥
हरयः राक्षसाः च एव शेरते गाम् समाश्रिताः । कङ्क-गृध्र-वळैः आढ्याः च गोमायु-गल-सङ्कुलाः ॥ ९ ॥
harayaḥ rākṣasāḥ ca eva śerate gām samāśritāḥ . kaṅka-gṛdhra-val̤aiḥ āḍhyāḥ ca gomāyu-gala-saṅkulāḥ .. 9 ..
कबन्धानि समुत्पेतुर्भीमाणां भीषणानि वै । भुजपाणिशिरश्छिन्नकायाश्च भूतले ॥ 10 ॥
कबन्धानि समुत्पेतुः भीमाणाम् भीषणानि वै । भुज-पाणि-शिरः-छिन्न-कायाः च भू-तले ॥ १० ॥
kabandhāni samutpetuḥ bhīmāṇām bhīṣaṇāni vai . bhuja-pāṇi-śiraḥ-chinna-kāyāḥ ca bhū-tale .. 10 ..
वानरा राक्षसाश्चापि निपेतुस्तत्र भुतले । ततो वानरसैन्येन हन्यमानं निशाचरम् ॥ 11 ॥
वानराः राक्षसाः च अपि निपेतुः तत्र भु-तले । ततस् वानर-सैन्येन हन्यमानम् निशाचरम् ॥ ११ ॥
vānarāḥ rākṣasāḥ ca api nipetuḥ tatra bhu-tale . tatas vānara-sainyena hanyamānam niśācaram .. 11 ..
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः । राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ॥ 12 ॥
प्राभज्यत बलम् सर्वम् वज्रदंष्ट्रस्य पश्यतः । राक्षसान् भय-वित्रस्तान् हन्यमानान् प्लवङ्गमैः ॥ १२ ॥
prābhajyata balam sarvam vajradaṃṣṭrasya paśyataḥ . rākṣasān bhaya-vitrastān hanyamānān plavaṅgamaiḥ .. 12 ..
दृष्टवा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् । प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ॥ 13 ॥
दृष्टवा स रोष-ताम्र-अक्षः वज्र-दंष्ट्रः प्रतापवान् । प्रविवेश धनुष्पाणिः त्रासयन् हरि-वाहिनीम् ॥ १३ ॥
dṛṣṭavā sa roṣa-tāmra-akṣaḥ vajra-daṃṣṭraḥ pratāpavān . praviveśa dhanuṣpāṇiḥ trāsayan hari-vāhinīm .. 13 ..
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः । बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ॥ 14 ॥
शरैः विदारयामास कङ्क-पत्रैः अजिह्मगैः । बिभेद वानरान् तत्र सप्त अष्टौ नव पञ्च च ॥ १४ ॥
śaraiḥ vidārayāmāsa kaṅka-patraiḥ ajihmagaiḥ . bibheda vānarān tatra sapta aṣṭau nava pañca ca .. 14 ..
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् । त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तकन्दरा: । अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ॥ 15 ॥
विव्याध परम-क्रुद्धः वज्र-दंष्ट्रः प्रतापवान् । त्रस्ताः सर्वे हरि-गणाः शरैः सङ्कृत्त-कन्दरा । अङ्गदम् सम्प्रधावन्ति प्रजापतिम् इव प्रजाः ॥ १५ ॥
vivyādha parama-kruddhaḥ vajra-daṃṣṭraḥ pratāpavān . trastāḥ sarve hari-gaṇāḥ śaraiḥ saṅkṛtta-kandarā . aṅgadam sampradhāvanti prajāpatim iva prajāḥ .. 15 ..
ततो हरिगणान् भग्नान् दृष्ट वावालिसुतस्तदा । क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ॥ 16 ॥
ततस् हरि-गणान् भग्नान् दृष्ट वावालि-सुतः तदा । क्रोधेन वज्रदंष्ट्रम् तम् उदीक्षन्तम् उदैक्षत ॥ १६ ॥
tatas hari-gaṇān bhagnān dṛṣṭa vāvāli-sutaḥ tadā . krodhena vajradaṃṣṭram tam udīkṣantam udaikṣata .. 16 ..
वज्रदंष्ट्रोऽङ्गदश्चोभौ योयुध्येत्रे परस्परम् । चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥ 17 ॥
वज्रदंष्ट्रः अङ्गदः च उभौ योयुध्येत्रे परस्परम् । चेरतुः परम-क्रुद्धौ हरि-मत्त-गजौ इव ॥ १७ ॥
vajradaṃṣṭraḥ aṅgadaḥ ca ubhau yoyudhyetre parasparam . ceratuḥ parama-kruddhau hari-matta-gajau iva .. 17 ..
ततः शतसहस्रेण हरिपुत्रं महाबलः । जघान मर्मदेशेषु शरैरग्निशिखोपमैः ॥ 18 ॥
ततस् शत-सहस्रेण हरि-पुत्रम् महा-बलः । जघान मर्म-देशेषु शरैः अग्नि-शिखा-उपमैः ॥ १८ ॥
tatas śata-sahasreṇa hari-putram mahā-balaḥ . jaghāna marma-deśeṣu śaraiḥ agni-śikhā-upamaiḥ .. 18 ..
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः । चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ॥ 19 ॥
रुधिर-उक्षित-सर्व-अङ्गः वालि-सूनुः महा-बलः । चिक्षेप वज्रदंष्ट्राय वृक्षम् भीम-पराक्रमः ॥ १९ ॥
rudhira-ukṣita-sarva-aṅgaḥ vāli-sūnuḥ mahā-balaḥ . cikṣepa vajradaṃṣṭrāya vṛkṣam bhīma-parākramaḥ .. 19 ..
दृष्टापतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः । चिच्छेद बहुधा सोऽपि मथितः प्रापतद् भुवि ॥ 20 ॥
दृष्ट-आपतन्तम् तम् वृक्षम् असम्भ्रान्तः च राक्षसः । चिच्छेद बहुधा सः अपि मथितः प्रापतत् भुवि ॥ २० ॥
dṛṣṭa-āpatantam tam vṛkṣam asambhrāntaḥ ca rākṣasaḥ . ciccheda bahudhā saḥ api mathitaḥ prāpatat bhuvi .. 20 ..
तं दृष्टवा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभ । प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥ 21 ॥
तम् दृष्टवा वज्रदंष्ट्रस्य विक्रमम् प्लवग-ऋषभ । प्रगृह्य विपुलम् शैलम् चिक्षेप च ननाद च ॥ २१ ॥
tam dṛṣṭavā vajradaṃṣṭrasya vikramam plavaga-ṛṣabha . pragṛhya vipulam śailam cikṣepa ca nanāda ca .. 21 ..
तमापतन्तं दृष्टवा स रथादाप्लुत्य वीर्यवान् । गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ॥ 22 ॥
तम् आपतन्तम् दृष्टवा स रथात् आप्लुत्य वीर्यवान् । गदा-पाणिः असम्भ्रान्तः पृथिव्याम् समतिष्ठत ॥ २२ ॥
tam āpatantam dṛṣṭavā sa rathāt āplutya vīryavān . gadā-pāṇiḥ asambhrāntaḥ pṛthivyām samatiṣṭhata .. 22 ..
अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि । सचक्रकूबरं साश्वं प्रममाथ रथं तदा ॥ 23 ॥
अङ्गदेन शिला क्षिप्ता गत्वा तु रण-मूर्धनि । स चक्र-कूबरम् स अश्वम् प्रममाथ रथम् तदा ॥ २३ ॥
aṅgadena śilā kṣiptā gatvā tu raṇa-mūrdhani . sa cakra-kūbaram sa aśvam pramamātha ratham tadā .. 23 ..
ततोऽन्यच्छिखरं गृह्य विपुलं द्रुमभूषितम् । वज्रदंष्ट्रस्य शिरसि पातयामास वानरः ॥ 24 ॥
ततस् अन्यत् शिखरम् गृह्य विपुलम् द्रुम-भूषितम् । वज्रदंष्ट्रस्य शिरसि पातयामास वानरः ॥ २४ ॥
tatas anyat śikharam gṛhya vipulam druma-bhūṣitam . vajradaṃṣṭrasya śirasi pātayāmāsa vānaraḥ .. 24 ..
अभवच्छोणितोद्गारी वज्रदंष्ट्र समूर्छितः । मुहूर्तमभवन्मूढो गदामालिङ्ग्य निश्श्वसन् ॥ 25 ॥
अभवत् शोणित-उद्गारी वज्रदंष्ट्र स मूर्छितः । मुहूर्तम् अभवत् मूढः गदाम् आलिङ्ग्य निश्श्वसन् ॥ २५ ॥
abhavat śoṇita-udgārī vajradaṃṣṭra sa mūrchitaḥ . muhūrtam abhavat mūḍhaḥ gadām āliṅgya niśśvasan .. 25 ..
सं लब्दसंज्ञो गदया वालिपुत्रमवस्थितम् । जघान परमक्रुद्धो वक्षोदेशे निशाचरः ॥ 26 ॥
सम् लब्द-संज्ञः गदया वालि-पुत्रम् अवस्थितम् । जघान परम-क्रुद्धः वक्षः-देशे निशाचरः ॥ २६ ॥
sam labda-saṃjñaḥ gadayā vāli-putram avasthitam . jaghāna parama-kruddhaḥ vakṣaḥ-deśe niśācaraḥ .. 26 ..
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत । अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ॥ 27 ॥
गदाम् त्यक्त्वा ततस् तत्र मुष्टि-युद्धम् अवर्तत । अन्योन्यम् जघ्नतुः तत्र तौ उभौ हरि-राक्षसौ ॥ २७ ॥
gadām tyaktvā tatas tatra muṣṭi-yuddham avartata . anyonyam jaghnatuḥ tatra tau ubhau hari-rākṣasau .. 27 ..
रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ । बभूवतु सुविक्रान्तावङ्गारकबुधाविव ॥ 28 ॥
रुधिर-उद्गारिणौ तौ तु प्रहारैः जनित-श्रमौ । बभूवतु सु विक्रान्तौ अङ्गारक-बुधौ इव ॥ २८ ॥
rudhira-udgāriṇau tau tu prahāraiḥ janita-śramau . babhūvatu su vikrāntau aṅgāraka-budhau iva .. 28 ..
ततः परमतेजस्वी अङ्गदः प्लवगर्षभः । उत्पाट्य वृक्षं स्थितवानासीत पुष्पफलैर्युतः ॥ 29 ॥
ततस् परम-तेजस्वी अङ्गदः प्लवग-ऋषभः । उत्पाट्य वृक्षम् स्थितवान् आसीत पुष्प-फलैः युतः ॥ २९ ॥
tatas parama-tejasvī aṅgadaḥ plavaga-ṛṣabhaḥ . utpāṭya vṛkṣam sthitavān āsīta puṣpa-phalaiḥ yutaḥ .. 29 ..
जग्राह चार्षभं चर्म खडगं च विपुलं शुभम् । किङ्किणाजालसञ्छन्नं चर्मणा च परिष्कृतम् ॥ 30 ॥
जग्राह च आर्षभम् चर्म खडगम् च विपुलम् शुभम् । किङ्किणा-जाल-सञ्छन्नम् चर्मणा च परिष्कृतम् ॥ ३० ॥
jagrāha ca ārṣabham carma khaḍagam ca vipulam śubham . kiṅkiṇā-jāla-sañchannam carmaṇā ca pariṣkṛtam .. 30 ..
चित्रांश्च रुचिरान् मार्गांश्चेरतुः कपिराक्षसौ । जघ्नतुश्च तदान्योन्यं नर्दन्तौ यंजयकाङ्क्षिणौ ॥ 31 ॥
चित्रान् च रुचिरान् मार्गान् चेरतुः कपि-राक्षसौ । जघ्नतुः च तदा अन्योन्यम् नर्दन्तौ यंजय-काङ्क्षिणौ ॥ ३१ ॥
citrān ca rucirān mārgān ceratuḥ kapi-rākṣasau . jaghnatuḥ ca tadā anyonyam nardantau yaṃjaya-kāṅkṣiṇau .. 31 ..
व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ । युध्यमानी परिश्रान्तौ जानुभ्यामवनीं गतौ ॥ 32 ॥
व्रणैः स अस्त्रैः अशोभेताम् पुष्पितौ इव किंशुकौ । युध्यमानी परिश्रान्तौ जानुभ्याम् अवनीम् गतौ ॥ ३२ ॥
vraṇaiḥ sa astraiḥ aśobhetām puṣpitau iva kiṃśukau . yudhyamānī pariśrāntau jānubhyām avanīm gatau .. 32 ..
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः । उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ॥ 33 ॥
निमेष-अन्तर-मात्रेण अङ्गदः कपि-कुञ्जरः । उदतिष्ठत दीप्त-अक्षः दण्ड-आहतः इव उरगः ॥ ३३ ॥
nimeṣa-antara-mātreṇa aṅgadaḥ kapi-kuñjaraḥ . udatiṣṭhata dīpta-akṣaḥ daṇḍa-āhataḥ iva uragaḥ .. 33 ..
निर्मलेन सुधौतेन खड्डेनास्य महच्छिरः । जघान वज्रदंष्ट्रस्य वालिसूमर्महाबलः ॥ 34 ॥
निर्मलेन सु धौतेन खड्डेन अस्य महत् शिरः । जघान वज्रदंष्ट्रस्य वालि-सूमर् महा-बलः ॥ ३४ ॥
nirmalena su dhautena khaḍḍena asya mahat śiraḥ . jaghāna vajradaṃṣṭrasya vāli-sūmar mahā-balaḥ .. 34 ..
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा । तच्च तस्य परिताक्षं शुभं खङ्गहतं शिरः ॥ 35 ॥
रुधिर-उक्षित-गात्रस्य बभूव पतितम् द्विधा । तत् च तस्य शुभम् खङ्ग-हतम् शिरः ॥ ३५ ॥
rudhira-ukṣita-gātrasya babhūva patitam dvidhā . tat ca tasya śubham khaṅga-hatam śiraḥ .. 35 ..
वज्रदंष्ट्रं हतं दृष्टवा राक्षसा भयमोहिताः । त्रस्ता ह्यभ्यद्रवन्लङ्कां वध्यमानाः प्लवङ्गमैः । विषण्णवदना: दीना ह्रिया किंचिदवाङ्मुखाः ॥ 36 ॥
वज्रदंष्ट्रम् हतम् दृष्टवा राक्षसाः भय-मोहिताः । त्रस्ताः हि अभ्यद्रवन् लङ्काम् वध्यमानाः प्लवङ्गमैः । विषण्ण-वदनाः दीनाः ह्रिया किंचिद् अवाङ्मुखाः ॥ ३६ ॥
vajradaṃṣṭram hatam dṛṣṭavā rākṣasāḥ bhaya-mohitāḥ . trastāḥ hi abhyadravan laṅkām vadhyamānāḥ plavaṅgamaiḥ . viṣaṇṇa-vadanāḥ dīnāḥ hriyā kiṃcid avāṅmukhāḥ .. 36 ..
निहत्य तं वज्रधर प्रतापवान स वीलिसूनुः कपिसैन्यमध्ये । जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ॥ 37 ॥
निहत्य तम् वज्रधर स वीलि-सूनुः कपि-सैन्य-मध्ये । जगाम हर्षम् महितः महा-बलः सहस्रनेत्रः त्रिदशैः इव आवृतः ॥ ३७ ॥
nihatya tam vajradhara sa vīli-sūnuḥ kapi-sainya-madhye . jagāma harṣam mahitaḥ mahā-balaḥ sahasranetraḥ tridaśaiḥ iva āvṛtaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In