This overlay will guide you through the buttons:

| |
|
तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः । क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ 1 ॥
तत् दृष्ट्वा सु महत् कर्म कृतम् वानर-सत्तमैः । क्रोधम् आहारयामास युधि तीव्रम् अकम्पनः ॥ १ ॥
tat dṛṣṭvā su mahat karma kṛtam vānara-sattamaiḥ . krodham āhārayāmāsa yudhi tīvram akampanaḥ .. 1 ..
क्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम् । दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ 2 ॥
क्रोध-मूर्छित-रूपः तु ध्नुवन् परम-कार्मुकम् । दृष्ट्वा तु कर्म शत्रूणाम् सारथिम् वाक्यम् अब्रवीत् ॥ २ ॥
krodha-mūrchita-rūpaḥ tu dhnuvan parama-kārmukam . dṛṣṭvā tu karma śatrūṇām sārathim vākyam abravīt .. 2 ..
तत्रैव तावत्त्वरितं रथं प्रापय सारथे । एतेऽत्र बहवो घ्नन्ति सुबहून्राक्षसान्रणे ॥ 3 ॥
तत्र एव तावत् त्वरितम् रथम् प्रापय सारथे । एते अत्र बहवः घ्नन्ति सु बहून् राक्षसान् रणे ॥ ३ ॥
tatra eva tāvat tvaritam ratham prāpaya sārathe . ete atra bahavaḥ ghnanti su bahūn rākṣasān raṇe .. 3 ..
एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः । द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ 4 ॥
एते अत्र बलवन्तः हि भीम-कायाः च वानराः । द्रुम-शैल-प्रहरणाः तिष्ठन्ति प्रमुखे मम ॥ ४ ॥
ete atra balavantaḥ hi bhīma-kāyāḥ ca vānarāḥ . druma-śaila-praharaṇāḥ tiṣṭhanti pramukhe mama .. 4 ..
एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् । एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ॥ 5 ॥
एतान् निहन्तुम् इच्छामि समर-श्लाघिनः हि अहम् । एतैः प्रमथितम् सर्वम् दृश्यते राक्षसम् बलम् ॥ ५ ॥
etān nihantum icchāmi samara-ślāghinaḥ hi aham . etaiḥ pramathitam sarvam dṛśyate rākṣasam balam .. 5 ..
ततः प्रजविताश्वेन रथेन रथिनां वरः । हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥ 6 ॥
ततस् प्रजवित-अश्वेन रथेन रथिनाम् वरः । हरीन् अभ्यहनत् क्रोधात् शर-जालैः अकम्पनः ॥ ६ ॥
tatas prajavita-aśvena rathena rathinām varaḥ . harīn abhyahanat krodhāt śara-jālaiḥ akampanaḥ .. 6 ..
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे । अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः ॥ 7 ॥
न स्थातुम् वानराः शेकुः किम् पुनर् योद्धुम् आहवे । अकम्पन-शरैः भग्नाः सर्वे एव प्रदुद्रुवुः ॥ ७ ॥
na sthātum vānarāḥ śekuḥ kim punar yoddhum āhave . akampana-śaraiḥ bhagnāḥ sarve eva pradudruvuḥ .. 7 ..
तान्मृत्युवशमापन्नानकम्पनवशं गतान् । समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः ॥ 8 ॥
तान् मृत्यु-वशम् आपन्नान् अकम्पन-वशम् गतान् । समीक्ष्य हनुमान् ज्ञातीन् उपतस्थे महा-बलः ॥ ८ ॥
tān mṛtyu-vaśam āpannān akampana-vaśam gatān . samīkṣya hanumān jñātīn upatasthe mahā-balaḥ .. 8 ..
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः । समेत्य समरे वीराः सहिताः पर्यवारयन् ॥ 9 ॥
तम् महा-प्लवगम् दृष्ट्वा सर्वे प्लवग-यूथपाः । समेत्य समरे वीराः सहिताः पर्यवारयन् ॥ ९ ॥
tam mahā-plavagam dṛṣṭvā sarve plavaga-yūthapāḥ . sametya samare vīrāḥ sahitāḥ paryavārayan .. 9 ..
व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः । बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥ 10 ॥
व्यवस्थितम् हनूमन्तम् ते दृष्ट्वा हरि-यूथपाः । बभूवुः बलवन्तः हि बलवन्तम् उपाश्रिताः ॥ १० ॥
vyavasthitam hanūmantam te dṛṣṭvā hari-yūthapāḥ . babhūvuḥ balavantaḥ hi balavantam upāśritāḥ .. 10 ..
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् । महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ 11 ॥
अकम्पनः तु शैल-आभम् हनूमन्तम् अवस्थितम् । महा-इन्द्रः इव धाराभिः शरैः अभिववर्ष ह ॥ ११ ॥
akampanaḥ tu śaila-ābham hanūmantam avasthitam . mahā-indraḥ iva dhārābhiḥ śaraiḥ abhivavarṣa ha .. 11 ..
अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् । अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ 12 ॥
अ चिन्तयित्वा बाण-ओघान् शरीरे पतितान् शितान् । अकम्पन-वध-अर्थाय मनः दध्रे महा-बलः ॥ १२ ॥
a cintayitvā bāṇa-oghān śarīre patitān śitān . akampana-vadha-arthāya manaḥ dadhre mahā-balaḥ .. 12 ..
स प्रहस्य महातेजा हनूमान्मारुतात्मजः । अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ 13 ॥
स प्रहस्य महा-तेजाः हनूमान् मारुतात्मजः । अभिदुद्राव तत् रक्षः कम्पयन् इव मेदिनीम् ॥ १३ ॥
sa prahasya mahā-tejāḥ hanūmān mārutātmajaḥ . abhidudrāva tat rakṣaḥ kampayan iva medinīm .. 13 ..
तस्याथ नर्दमानस्य दीप्यमानस्य तेजसा । बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ 14 ॥
तस्य अथ नर्दमानस्य दीप्यमानस्य तेजसा । बभूव रूपम् दुर्धर्षम् दीप्तस्य इव विभावसोः ॥ १४ ॥
tasya atha nardamānasya dīpyamānasya tejasā . babhūva rūpam durdharṣam dīptasya iva vibhāvasoḥ .. 14 ..
आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः । शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ 15 ॥
आत्मानम् तु अप्रहरणम् ज्ञात्वा क्रोध-समन्वितः । शैलम् उत्पाटयामास वेगेन हरि-पुङ्गवः ॥ १५ ॥
ātmānam tu apraharaṇam jñātvā krodha-samanvitaḥ . śailam utpāṭayāmāsa vegena hari-puṅgavaḥ .. 15 ..
गृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः । विनद्य सुमहानादं भ्रामयामास वीर्यवान् ॥ 16 ॥
गृहीत्वा सु महा-शैलम् पाणिना एकेन मारुतिः । विनद्य सु महा-नादम् भ्रामयामास वीर्यवान् ॥ १६ ॥
gṛhītvā su mahā-śailam pāṇinā ekena mārutiḥ . vinadya su mahā-nādam bhrāmayāmāsa vīryavān .. 16 ..
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् । पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ॥ 17 ॥
ततस् तम् अभिदुद्राव राक्षस-इन्द्रम् अकम्पनम् । पुरा हि नमुचिम् सङ्ख्ये वज्रेण इव पुरन्दरः ॥ १७ ॥
tatas tam abhidudrāva rākṣasa-indram akampanam . purā hi namucim saṅkhye vajreṇa iva purandaraḥ .. 17 ..
अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् । दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ 18 ॥
अकम्पनः तु तत् दृष्ट्वा गिरि-शृङ्गम् समुद्यतम् । दूरात् एव महा-बाणैः अर्धचन्द्रैः व्यदारयत् ॥ १८ ॥
akampanaḥ tu tat dṛṣṭvā giri-śṛṅgam samudyatam . dūrāt eva mahā-bāṇaiḥ ardhacandraiḥ vyadārayat .. 18 ..
तं पर्वताग्रमाकाशे रक्षोबाणविदारितम् । विकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्छितः ॥ 19 ॥
तम् पर्वत-अग्रम् आकाशे रक्षः-बाण-विदारितम् । विकीर्णम् पतितम् दृष्ट्वा हनूमान् क्रोध-मूर्छितः ॥ १९ ॥
tam parvata-agram ākāśe rakṣaḥ-bāṇa-vidāritam . vikīrṇam patitam dṛṣṭvā hanūmān krodha-mūrchitaḥ .. 19 ..
सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः । तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ 20 ॥
सः अश्वकर्णम् समासाद्य रोष-दर्प-अन्वितः हरिः । तूर्णम् उत्पाटयामास महा-गिरिम् इव उच्छ्रितम् ॥ २० ॥
saḥ aśvakarṇam samāsādya roṣa-darpa-anvitaḥ hariḥ . tūrṇam utpāṭayāmāsa mahā-girim iva ucchritam .. 20 ..
तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः । प्रगृह्य परया प्रीत्या भ्रामयामास संयुगे ॥ 21 ॥
तम् गृहीत्वा महा-स्कन्धम् सः अश्वकर्णम् महा-द्युतिः । प्रगृह्य परया प्रीत्या भ्रामयामास संयुगे ॥ २१ ॥
tam gṛhītvā mahā-skandham saḥ aśvakarṇam mahā-dyutiḥ . pragṛhya parayā prītyā bhrāmayāmāsa saṃyuge .. 21 ..
प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान् । हनूमान् परमक्रुद्धश्चरणैर्दारयन् महिम् ॥ 22 ॥
प्रधावन् उरु-वेगेन प्रभञ्जन् तरसा द्रुमान् । हनूमान् परम-क्रुद्धः चरणैः दारयन् महिम् ॥ २२ ॥
pradhāvan uru-vegena prabhañjan tarasā drumān . hanūmān parama-kruddhaḥ caraṇaiḥ dārayan mahim .. 22 ..
गजांश्च सगजारोहान् सरथान् रथिनस्तथा । जघान हनुमान् धीमान् राक्षसांश्च पदातिकान् ॥ 23 ॥
गजान् च स गज-आरोहान् स रथान् रथिनः तथा । जघान हनुमान् धीमान् राक्षसान् च पदातिकान् ॥ २३ ॥
gajān ca sa gaja-ārohān sa rathān rathinaḥ tathā . jaghāna hanumān dhīmān rākṣasān ca padātikān .. 23 ..
तमन्तकमिव क्रुद्धं सद्रुमं प्राणहारिणम् । हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ 24 ॥
तम् अन्तकम् इव क्रुद्धम् स द्रुमम् प्राण-हारिणम् । हनूमन्तम् अभिप्रेक्ष्य राक्षसाः विप्रदुद्रुवुः ॥ २४ ॥
tam antakam iva kruddham sa drumam prāṇa-hāriṇam . hanūmantam abhiprekṣya rākṣasāḥ vipradudruvuḥ .. 24 ..
तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् । ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ 25 ॥
तम् आपतन्तम् सङ्क्रुद्धम् राक्षसानाम् भय-आवहम् । ददर्श अकम्पनः वीरः चुक्रोध च ननाद च ॥ २५ ॥
tam āpatantam saṅkruddham rākṣasānām bhaya-āvaham . dadarśa akampanaḥ vīraḥ cukrodha ca nanāda ca .. 25 ..
स चतुर्दशभिर्बाणैर्निशितैर्देहविदारणैः । निर्बिभेद महावीर्य हनूमन्तमकम्पनः ॥ 26 ॥
स चतुर्दशभिः बाणैः निशितैः देह-विदारणैः । निर्बिभेद महा-वीर्य हनूमन्तम् अकम्पनः ॥ २६ ॥
sa caturdaśabhiḥ bāṇaiḥ niśitaiḥ deha-vidāraṇaiḥ . nirbibheda mahā-vīrya hanūmantam akampanaḥ .. 26 ..
स तथा विप्रकीर्णस्तु नाराचः शितशक्त्तिभिः । हनूमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥ 27 ॥
स तथा विप्रकीर्णः तु नाराचः शित-शक्त्तिभिः । हनूमान् ददृशे वीरः प्ररूढः इव सानुमान् ॥ २७ ॥
sa tathā viprakīrṇaḥ tu nārācaḥ śita-śakttibhiḥ . hanūmān dadṛśe vīraḥ prarūḍhaḥ iva sānumān .. 27 ..
विरराज महावीर्यो महाकायो महाबल: । पुष्पिताशोकसंकाशो विधूम इव पावकः ॥ 28 ॥
विरराज महा-वीर्यः महा-कायः महा-बलः । पुष्पित-अशोक-संकाशः विधूमः इव पावकः ॥ २८ ॥
virarāja mahā-vīryaḥ mahā-kāyaḥ mahā-balaḥ . puṣpita-aśoka-saṃkāśaḥ vidhūmaḥ iva pāvakaḥ .. 28 ..
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् । शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ 29 ॥
ततस् अन्यम् वृक्षम् उत्पाट्य कृत्वा वेगम् अनुत्तमम् । शिरसि अभिजघान आशु राक्षस-इन्द्रम् अकम्पनम् ॥ २९ ॥
tatas anyam vṛkṣam utpāṭya kṛtvā vegam anuttamam . śirasi abhijaghāna āśu rākṣasa-indram akampanam .. 29 ..
स वृक्षेण हतस्तेन सक्रोधेन महात्मना । राक्षसो वानरेन्द्रेण पपात स ममार च ॥ 30 ॥
स वृक्षेण हतः तेन स क्रोधेन महात्मना । राक्षसः वानर-इन्द्रेण पपात स ममार च ॥ ३० ॥
sa vṛkṣeṇa hataḥ tena sa krodhena mahātmanā . rākṣasaḥ vānara-indreṇa papāta sa mamāra ca .. 30 ..
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् । व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ 31 ॥
तम् दृष्ट्वा निहतम् भूमौ राक्षस-इन्द्रम् अकम्पनम् । व्यथिताः राक्षसाः सर्वे क्षिति-कम्पे इव द्रुमाः ॥ ३१ ॥
tam dṛṣṭvā nihatam bhūmau rākṣasa-indram akampanam . vyathitāḥ rākṣasāḥ sarve kṣiti-kampe iva drumāḥ .. 31 ..
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः । लङ्कामभिययुस्त्रसाद वानरैस्तैरभिद्रुताः ॥ 32 ॥
त्यक्त-प्रहरणाः सर्वे राक्षसाः ते पराजिताः । लङ्काम् अभिययुः त्रसाद वानरैः तैः अभिद्रुताः ॥ ३२ ॥
tyakta-praharaṇāḥ sarve rākṣasāḥ te parājitāḥ . laṅkām abhiyayuḥ trasāda vānaraiḥ taiḥ abhidrutāḥ .. 32 ..
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः । भयाच्छ्रमजलैरङ्गैः प्रस्त्रवभ्दिर्विदुद्रुवुः ॥ 33 ॥
ते मुक्तकेशाः सम्भ्रान्ताः भग्न-मानाः पराजिताः । भयात् श्रमजलैः अङ्गैः प्रस्त्रव-भ्दिः विदुद्रुवुः ॥ ३३ ॥
te muktakeśāḥ sambhrāntāḥ bhagna-mānāḥ parājitāḥ . bhayāt śramajalaiḥ aṅgaiḥ prastrava-bhdiḥ vidudruvuḥ .. 33 ..
अन्योन्यं प्रमन्थन्तो विविशुर्नगरं भयात् । पृष्ठतस्ते तु स्ममूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ 34 ॥
अन्योन्यम् प्रमन्थन्तः विविशुः नगरम् भयात् । पृष्ठतस् ते तु स्म मूढाः प्रेक्षमाणाः मुहुर् मुहुर् ॥ ३४ ॥
anyonyam pramanthantaḥ viviśuḥ nagaram bhayāt . pṛṣṭhatas te tu sma mūḍhāḥ prekṣamāṇāḥ muhur muhur .. 34 ..
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः । समेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥ 35 ॥
तेषु लङ्काम् प्रविष्टेषु राक्षसेषु महा-बलाः । समेत्य हरयः सर्वे हनूमन्तम् अपूजयन् ॥ ३५ ॥
teṣu laṅkām praviṣṭeṣu rākṣaseṣu mahā-balāḥ . sametya harayaḥ sarve hanūmantam apūjayan .. 35 ..
सोऽपि प्रवृध्दस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत् । हनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥ 36 ॥
सः अपि प्रवृध्दः तान् सर्वान् हरीन् सम्प्रत्यपूजयत् । हनूमान् सत्त्व-सम्पन्नः यथार्हम् अनुकूलतः ॥ ३६ ॥
saḥ api pravṛdhdaḥ tān sarvān harīn sampratyapūjayat . hanūmān sattva-sampannaḥ yathārham anukūlataḥ .. 36 ..
विनेदुश्च यथाप्राणं हरयो जितकाशिनः । चकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥ 37 ॥
विनेदुः च यथाप्राणम् हरयः जित-काशिनः । चकृषुः च पुनर् तत्र स प्राणान् एव राक्षसान् ॥ ३७ ॥
vineduḥ ca yathāprāṇam harayaḥ jita-kāśinaḥ . cakṛṣuḥ ca punar tatra sa prāṇān eva rākṣasān .. 37 ..
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः । महासुरं भीमममित्रनाशनं विष्णुर्यथैवोरूबलि चमूमुखे ॥ 38 ॥
स वीर-शोभाम् अभजत् महा-कपिः समेत्य रक्षांसि निहत्य मारुतिः । महा-असुरम् भीमम् अमित्र-नाशनम् विष्णुः यथा एव ऊरू-बलि चमू-मुखे ॥ ३८ ॥
sa vīra-śobhām abhajat mahā-kapiḥ sametya rakṣāṃsi nihatya mārutiḥ . mahā-asuram bhīmam amitra-nāśanam viṣṇuḥ yathā eva ūrū-bali camū-mukhe .. 38 ..
अपूजयन् देवगणास्तदा कपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः । तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तदा ॥ 39 ॥
अपूजयन् देव-गणाः तदा कपिम् स्वयम् च रामः अतिबलः च लक्ष्मणः । तथा एव सुग्रीव-मुखाः प्लवङ्गमाः विभीषणः च एव महा-बलः तदा ॥ ३९ ॥
apūjayan deva-gaṇāḥ tadā kapim svayam ca rāmaḥ atibalaḥ ca lakṣmaṇaḥ . tathā eva sugrīva-mukhāḥ plavaṅgamāḥ vibhīṣaṇaḥ ca eva mahā-balaḥ tadā .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In