This overlay will guide you through the buttons:

| |
|
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः । किं चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ 1 ॥
अकम्पन-वधम् श्रुत्वा क्रुद्धः वै राक्षसेश्वरः । किम् चित् दीन-मुखः च अपि सचिवान् तान् उदैक्षत ॥ १ ॥
akampana-vadham śrutvā kruddhaḥ vai rākṣaseśvaraḥ . kim cit dīna-mukhaḥ ca api sacivān tān udaikṣata .. 1 ..
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च । ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः । पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ॥ 2 ॥
स तु ध्यात्वा मुहूर्तम् तु मन्त्रिभिः संविचार्य च । ततस् तु रावणः पूर्व-दिवसे राक्षस-अधिपः । पुरीम् परिययौ लङ्काम् सर्वान् गुल्मान् अवेक्षितुम् ॥ २ ॥
sa tu dhyātvā muhūrtam tu mantribhiḥ saṃvicārya ca . tatas tu rāvaṇaḥ pūrva-divase rākṣasa-adhipaḥ . purīm pariyayau laṅkām sarvān gulmān avekṣitum .. 2 ..
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् । ददर्श नगरीं राजा पताकाध्वजमालिनीम् ॥ 3 ॥
ताम् राक्षस-गणैः गुप्ताम् गुल्मैः बहुभिः आवृताम् । ददर्श नगरीम् राजा पताका-ध्वज-मालिनीम् ॥ ३ ॥
tām rākṣasa-gaṇaiḥ guptām gulmaiḥ bahubhiḥ āvṛtām . dadarśa nagarīm rājā patākā-dhvaja-mālinīm .. 3 ..
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः । उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् ॥ 4 ॥
रुद्धाम् तु नगरीम् दृष्ट्वा रावणः राक्षसेश्वरः । उवाच अमर्षितः काले प्रहस्तम् युद्ध-कोविदम् ॥ ४ ॥
ruddhām tu nagarīm dṛṣṭvā rāvaṇaḥ rākṣaseśvaraḥ . uvāca amarṣitaḥ kāle prahastam yuddha-kovidam .. 4 ..
पुरस्योपनिविष्टस्य सहसा पीडितस्य च । नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद ॥ 5 ॥
पुरस्य उपनिविष्टस्य सहसा पीडितस्य च । न अन्यम् युद्धात् प्रपश्यामि मोक्षम् युद्ध-विशारद ॥ ५ ॥
purasya upaniviṣṭasya sahasā pīḍitasya ca . na anyam yuddhāt prapaśyāmi mokṣam yuddha-viśārada .. 5 ..
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम । इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥ 6 ॥
अहम् वा कुम्भकर्णः वा त्वम् वा सेनापतिः मम । इन्द्रजित् वा निकुम्भः वा वहेयुः भारम् ईदृशम् ॥ ६ ॥
aham vā kumbhakarṇaḥ vā tvam vā senāpatiḥ mama . indrajit vā nikumbhaḥ vā vaheyuḥ bhāram īdṛśam .. 6 ..
स त्वं बलमितः शीघ्रमादाय परिगृह्य च । विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ 7 ॥
स त्वम् बलम् इतस् शीघ्रम् आदाय परिगृह्य च । विजयाय अभिनिर्याहि यत्र सर्वे वनौकसः ॥ ७ ॥
sa tvam balam itas śīghram ādāya parigṛhya ca . vijayāya abhiniryāhi yatra sarve vanaukasaḥ .. 7 ..
निर्याणादेव ते नूनं चपला हरिवाहिनी । नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ 8 ॥
निर्याणात् एव ते नूनम् चपला हरि-वाहिनी । नर्दताम् राक्षस-इन्द्राणाम् श्रुत्वा नादम् द्रविष्यति ॥ ८ ॥
niryāṇāt eva te nūnam capalā hari-vāhinī . nardatām rākṣasa-indrāṇām śrutvā nādam draviṣyati .. 8 ..
चपला ह्यविनीताश्च चलचित्ताश्च वानराः । न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ 9 ॥
चपलाः हि अविनीताः च चल-चित्ताः च वानराः । न सहिष्यन्ति ते नादम् सिंह-नादम् इव द्विपाः ॥ ९ ॥
capalāḥ hi avinītāḥ ca cala-cittāḥ ca vānarāḥ . na sahiṣyanti te nādam siṃha-nādam iva dvipāḥ .. 9 ..
विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह । अवशस्ते निरालम्बः प्रहस्तवशमेष्यति ॥ 10 ॥
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह । अवशः ते निरालम्बः प्रहस्त-वशम् एष्यति ॥ १० ॥
vidrute ca bale tasmin rāmaḥ saumitriṇā saha . avaśaḥ te nirālambaḥ prahasta-vaśam eṣyati .. 10 ..
आपत्संशयिता श्रेयो नात्र निःसंशयीकृता । प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥ 11 ॥
आपद्-संशयि-ता श्रेयः न अत्र निःसंशयीकृता । प्रतिलोम-अनुलोमम् वा यत् वा नः मन्यसे हितम् ॥ ११ ॥
āpad-saṃśayi-tā śreyaḥ na atra niḥsaṃśayīkṛtā . pratiloma-anulomam vā yat vā naḥ manyase hitam .. 11 ..
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः । राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ 12 ॥
रावणेन एवम् उक्तः तु प्रहस्तः वाहिनीपतिः । राक्षस-इन्द्रम् उवाच इदम् असुर-इन्द्रम् इव उशनाः ॥ १२ ॥
rāvaṇena evam uktaḥ tu prahastaḥ vāhinīpatiḥ . rākṣasa-indram uvāca idam asura-indram iva uśanāḥ .. 12 ..
राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः । विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ 13 ॥
राजन् मन्त्रित-पूर्वम् नः कुशलैः सह मन्त्रिभिः । विवादः च अपि नो वृत्तः समवेक्ष्य परस्परम् ॥ १३ ॥
rājan mantrita-pūrvam naḥ kuśalaiḥ saha mantribhiḥ . vivādaḥ ca api no vṛttaḥ samavekṣya parasparam .. 13 ..
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया । अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ॥ 14 ॥
प्रदानेन तु सीतायाः श्रेयः व्यवसितम् मया । अप्रदाने पुनर् युद्धम् दृष्टम् एतत् तथा एव नः ॥ १४ ॥
pradānena tu sītāyāḥ śreyaḥ vyavasitam mayā . apradāne punar yuddham dṛṣṭam etat tathā eva naḥ .. 14 ..
सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया । सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ 15 ॥
सः अहम् दानैः च मानैः च सततम् पूजितः त्वया । सान्त्वैः च विविधैः काले किम् न कुर्याम् प्रियम् तव ॥ १५ ॥
saḥ aham dānaiḥ ca mānaiḥ ca satatam pūjitaḥ tvayā . sāntvaiḥ ca vividhaiḥ kāle kim na kuryām priyam tava .. 15 ..
न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा । त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ॥ 16 ॥
न हि मे जीवितम् रक्ष्यम् पुत्र-दार-धनानि वा । त्वम् पश्य माम् जुहूषन्तम् त्वद्-अर्थे जीवितम् युधि ॥ १६ ॥
na hi me jīvitam rakṣyam putra-dāra-dhanāni vā . tvam paśya mām juhūṣantam tvad-arthe jīvitam yudhi .. 16 ..
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः । समानयत मे शीघ्रं राक्षसानां महद्बलम् ॥ 17 ॥
एवम् उक्त्वा तु भर्तारम् रावणम् वाहिनीपतिः । समानयत मे शीघ्रम् राक्षसानाम् महत् बलम् ॥ १७ ॥
evam uktvā tu bhartāram rāvaṇam vāhinīpatiḥ . samānayata me śīghram rākṣasānām mahat balam .. 17 ..
समानयत मे शीघ्रं राक्षसानां महाबलम् । मद्बाणाशनिवेगेन हतानां तु रणाजिरे ॥ 18 ॥
समानयत मे शीघ्रम् राक्षसानाम् महा-बलम् । मद्-बाण-अशनि-वेगेन हतानाम् तु रण-अजिरे ॥ १८ ॥
samānayata me śīghram rākṣasānām mahā-balam . mad-bāṇa-aśani-vegena hatānām tu raṇa-ajire .. 18 ..
अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् । तस्य तद् वचनं श्रुत्वा बलाध्यक्षाः कृतत्वराः ॥ 19 ॥
अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् । तस्य तत् वचनम् श्रुत्वा बलाध्यक्षाः कृत-त्वराः ॥ १९ ॥
adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām . tasya tat vacanam śrutvā balādhyakṣāḥ kṛta-tvarāḥ .. 19 ..
बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे । सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ॥ 20 ॥
बलम् उद्योजयामासुः तस्मिन् राक्षस-मन्दिरे । सा बभूव मुहूर्तेन तिग्म-नानाविध-आयुधैः ॥ २० ॥
balam udyojayāmāsuḥ tasmin rākṣasa-mandire . sā babhūva muhūrtena tigma-nānāvidha-āyudhaiḥ .. 20 ..
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला । हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ॥ 21 ॥
लङ्का राक्षस-वीरैः तैः गजैः इव समाकुला । हुताशनम् तर्पयताम् ब्राह्मणान् च नमस्यताम् ॥ २१ ॥
laṅkā rākṣasa-vīraiḥ taiḥ gajaiḥ iva samākulā . hutāśanam tarpayatām brāhmaṇān ca namasyatām .. 21 ..
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ । स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ॥ 22 ॥
आज्य-गन्ध-प्रतिवहः सुरभिः मारुतः ववौ । स्रजः च विविध-आकाराः जगृहुः तु अभिमन्त्रिताः ॥ २२ ॥
ājya-gandha-prativahaḥ surabhiḥ mārutaḥ vavau . srajaḥ ca vividha-ākārāḥ jagṛhuḥ tu abhimantritāḥ .. 22 ..
सङ्ग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा । सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ॥ 23 ॥
सङ्ग्राम-सज्जाः संहृष्टाः धारयन् राक्षसाः तदा । स धनुष्काः कवचिनः वेगात् आप्लुत्य राक्षसाः ॥ २३ ॥
saṅgrāma-sajjāḥ saṃhṛṣṭāḥ dhārayan rākṣasāḥ tadā . sa dhanuṣkāḥ kavacinaḥ vegāt āplutya rākṣasāḥ .. 23 ..
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् । अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ॥ 24 ॥
रावणम् प्रेक्ष्य राजानम् प्रहस्तम् पर्यवारयन् । अथा आमन्त्र्य च राजानम् भेरीम् आहत्य भैरवाम् ॥ २४ ॥
rāvaṇam prekṣya rājānam prahastam paryavārayan . athā āmantrya ca rājānam bherīm āhatya bhairavām .. 24 ..
आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् । हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् ॥ 25 ॥
आरुरोह रथम् दिव्यम् प्रहस्तः सज्ज-कल्पितम् । हयैः महा-जवैः युक्तम् सम्यक् सूत-सु संयुतम् ॥ २५ ॥
āruroha ratham divyam prahastaḥ sajja-kalpitam . hayaiḥ mahā-javaiḥ yuktam samyak sūta-su saṃyutam .. 25 ..
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् । उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ॥ 26 ॥
महा-जलद-निर्घोषम् साक्षात् चन्द्र-अर्क-भास्वरम् । उरग-ध्वज-दुर्धर्षम् सु वरूथम् सु अपस्करम् ॥ २६ ॥
mahā-jalada-nirghoṣam sākṣāt candra-arka-bhāsvaram . uraga-dhvaja-durdharṣam su varūtham su apaskaram .. 26 ..
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया । ततस्तं रथमास्थाय रावणार्पितशासनः ॥ 27 ॥
सुवर्ण-जाल-संयुक्तम् प्रहसन्तम् इव श्रिया । ततस् तम् रथम् आस्थाय रावण-अर्पित-शासनः ॥ २७ ॥
suvarṇa-jāla-saṃyuktam prahasantam iva śriyā . tatas tam ratham āsthāya rāvaṇa-arpita-śāsanaḥ .. 27 ..
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः । ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः । वादित्राणां च निनदः पूरयन्निव मेदिनीम् ॥ 28 ॥
लङ्कायाः निर्ययौ तूर्णम् बलेन महता वृतः । ततस् दुन्दुभि-निर्घोषः पर्जन्य-निनद-उपमः । वादित्राणाम् च निनदः पूरयन् इव मेदिनीम् ॥ २८ ॥
laṅkāyāḥ niryayau tūrṇam balena mahatā vṛtaḥ . tatas dundubhi-nirghoṣaḥ parjanya-ninada-upamaḥ . vāditrāṇām ca ninadaḥ pūrayan iva medinīm .. 28 ..
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ । निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः ॥ 29 ॥
शुश्रुवे शङ्ख-शब्दः च प्रयाते वाहिनीपतौ । निनदन्तः स्वरान् घोरान् राक्षसाः जग्मुः अग्रतस् ॥ २९ ॥
śuśruve śaṅkha-śabdaḥ ca prayāte vāhinīpatau . ninadantaḥ svarān ghorān rākṣasāḥ jagmuḥ agratas .. 29 ..
भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः । नरान्तकः कुम्भहनुर्महानाद समुन्नतः । प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् । ॥ 30 ॥
भीम-रूपाः महा-कायाः प्रहस्तस्य पुरःसराः । । प्रहस्त-सचिवाः हि एते निर्ययुः परिवार्य तम् । ॥ ३० ॥
bhīma-rūpāḥ mahā-kāyāḥ prahastasya puraḥsarāḥ . . prahasta-sacivāḥ hi ete niryayuḥ parivārya tam . .. 30 ..
व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ । गजयूथनिकाशेन बलेन महता वृतः ॥ 31 ॥
व्यूढेन एव सु घोरेण पूर्व-द्वारात् स निर्ययौ । गज-यूथ-निकाशेन बलेन महता वृतः ॥ ३१ ॥
vyūḍhena eva su ghoreṇa pūrva-dvārāt sa niryayau . gaja-yūtha-nikāśena balena mahatā vṛtaḥ .. 31 ..
सागरप्रतिमौघेन वृतस्तेन बलेन सः । प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः ॥ 32 ॥
सागर-प्रतिमा-ओघेन वृतः तेन बलेन सः । प्रहस्तः निर्ययौ तूर्णम् क्रुद्धः काल-अन्तक-उपमः ॥ ३२ ॥
sāgara-pratimā-oghena vṛtaḥ tena balena saḥ . prahastaḥ niryayau tūrṇam kruddhaḥ kāla-antaka-upamaḥ .. 32 ..
तस्य निर्याण घोषेण राक्षसानां च नर्दताम् । लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ 33 ॥
तस्य निर्याण-घोषेण राक्षसानाम् च नर्दताम् । लङ्कायाम् सर्व-भूतानि विनेदुः विकृतैः स्वरैः ॥ ३३ ॥
tasya niryāṇa-ghoṣeṇa rākṣasānām ca nardatām . laṅkāyām sarva-bhūtāni vineduḥ vikṛtaiḥ svaraiḥ .. 33 ..
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः । मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥ 34 ॥
व्यभ्रम् आकाशम् आविश्य मांस-शोणित-भोजनाः । मण्डलानि अपसव्यानि खगाः चक्रुः रथम् प्रति ॥ ३४ ॥
vyabhram ākāśam āviśya māṃsa-śoṇita-bhojanāḥ . maṇḍalāni apasavyāni khagāḥ cakruḥ ratham prati .. 34 ..
वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे । अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ॥ 35 ॥
वमन्त्यः पावक-ज्वालाः शिवाः घोराः ववाशिरे । अन्तरिक्षात् पपात उल्का वायुः च परुषः ववौ ॥ ३५ ॥
vamantyaḥ pāvaka-jvālāḥ śivāḥ ghorāḥ vavāśire . antarikṣāt papāta ulkā vāyuḥ ca paruṣaḥ vavau .. 35 ..
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे । मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ॥ 36 ॥
अन्योन्यम् अभिसंरब्धाः ग्रहाः च न चकाशिरे । मेघाः च खर-निर्घोषाः रथस्य उपरि रक्षसः ॥ ३६ ॥
anyonyam abhisaṃrabdhāḥ grahāḥ ca na cakāśire . meghāḥ ca khara-nirghoṣāḥ rathasya upari rakṣasaḥ .. 36 ..
ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् । केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः ॥ 37 ॥
ववर्षुः रुधिरम् च अस्य सिषिचुः च पुरःसरान् । केतु-मूर्धनि गृध्रः अस्य विलीनः दक्षिणामुखः ॥ ३७ ॥
vavarṣuḥ rudhiram ca asya siṣicuḥ ca puraḥsarān . ketu-mūrdhani gṛdhraḥ asya vilīnaḥ dakṣiṇāmukhaḥ .. 37 ..
नदन्नुभयतः पार्श्वं समग्रा श्रियमाहरत् । सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः ॥ 38 ॥
नदन् उभयतस् पार्श्वम् समग्रा श्रियम् आहरत् । सारथेः बहुशस् च अस्य सङ्ग्रामम् अवगाहतः ॥ ३८ ॥
nadan ubhayatas pārśvam samagrā śriyam āharat . sāratheḥ bahuśas ca asya saṅgrāmam avagāhataḥ .. 38 ..
प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः । निर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा ॥ 39 ॥
प्रतोदः न्यपतत् हस्तात् सूतस्य हय-सादिनः । श्रीः च या अस्य आसीत् भास्वरा च सु दुर्लभा ॥ ३९ ॥
pratodaḥ nyapatat hastāt sūtasya haya-sādinaḥ . śrīḥ ca yā asya āsīt bhāsvarā ca su durlabhā .. 39 ..
सा ननाश मुहूर्तेन समे च स्खलिता हयाः । प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम् । युधि नानाप्रहरणा कपिसेनाभ्यवर्तत ॥ 40 ॥
सा ननाश मुहूर्तेन समे च स्खलिताः हयाः । प्रहस्तम् तु अभिनिर्यान्तम् प्रख्यात बल-पौरुषम् । युधि नाना प्रहरणा कपि-सेना अभ्यवर्तत ॥ ४० ॥
sā nanāśa muhūrtena same ca skhalitāḥ hayāḥ . prahastam tu abhiniryāntam prakhyāta bala-pauruṣam . yudhi nānā praharaṇā kapi-senā abhyavartata .. 40 ..
अथ घोषः सुतुमुलो हरीणां समजायत । वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः ॥ 41 ॥
अथ घोषः सु तुमुलः हरीणाम् समजायत । वृक्षान् आरुजताम् च एव गुर्वीः च आगृह्णताम् शिलाः ॥ ४१ ॥
atha ghoṣaḥ su tumulaḥ harīṇām samajāyata . vṛkṣān ārujatām ca eva gurvīḥ ca āgṛhṇatām śilāḥ .. 41 ..
नदतां राक्षसानां च वानराणां च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ 42 ॥
नदताम् राक्षसानाम् च वानराणाम् च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षः-गण-वनौकसाम् ॥ ४२ ॥
nadatām rākṣasānām ca vānarāṇām ca garjatām . ubhe pramudite sainye rakṣaḥ-gaṇa-vanaukasām .. 42 ..
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् । परस्परं चाह्वयतां निनादः श्रूयते महान् ॥ 43 ॥
वेगितानाम् समर्थानाम् अन्योन्य-वध-काङ्क्षिणाम् । परस्परम् च आह्वयताम् निनादः श्रूयते महान् ॥ ४३ ॥
vegitānām samarthānām anyonya-vadha-kāṅkṣiṇām . parasparam ca āhvayatām ninādaḥ śrūyate mahān .. 43 ..
ततः प्रहस्तः कपिराजवाहिनीम् अभिप्रतस्थे विजयाय दुर्मतिः । विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥ 44 ॥
ततस् प्रहस्तः कपि-राज-वाहिनीम् अभिप्रतस्थे विजयाय दुर्मतिः । विवृद्ध-वेगाम् च विवेश ताम् चमूम् यथा मुमूर्षुः शलभः विभावसुम् ॥ ४४ ॥
tatas prahastaḥ kapi-rāja-vāhinīm abhipratasthe vijayāya durmatiḥ . vivṛddha-vegām ca viveśa tām camūm yathā mumūrṣuḥ śalabhaḥ vibhāvasum .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In