This overlay will guide you through the buttons:

| |
|
ततः प्रहस्तं निर्यान्तं दृष्टवा रणकृतोद्यमम् । उवाच सस्मितं रामो विभीषणमरिन्दमः ॥ 1 ॥
ततस् प्रहस्तम् निर्यान्तम् दृष्टवा रण-कृत-उद्यमम् । उवाच स स्मितम् रामः विभीषणम् अरिन्दमः ॥ १ ॥
tatas prahastam niryāntam dṛṣṭavā raṇa-kṛta-udyamam . uvāca sa smitam rāmaḥ vibhīṣaṇam arindamaḥ .. 1 ..
क एष सुमहाकायो बलेन महता वृतः । अगच्छति महावेगः किंरूपबलपौरूषः ॥ 2 ॥
कः एष सु महा-कायः बलेन महता वृतः । अगच्छति महावेगः किंरूप-बल-पौरूषः ॥ २ ॥
kaḥ eṣa su mahā-kāyaḥ balena mahatā vṛtaḥ . agacchati mahāvegaḥ kiṃrūpa-bala-paurūṣaḥ .. 2 ..
आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् । राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥ 3 ॥
आचक्ष्व मे महा-बाहो वीर्यवन्तम् निशाचरम् । राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥ ३ ॥
ācakṣva me mahā-bāho vīryavantam niśācaram . rāghavasya vacaḥ śrutvā pratyuvāca vibhīṣaṇaḥ .. 3 ..
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।लङ्कायांराक्षसेन्द्रस्यत्रिभागबलसम्वृतः । वीर्यवानस्त्रविच्छूरः सुप्रख्याश्चपराक्रमे ॥ 4 ॥
एष सेनापतिः तस्य प्रहस्तः नाम राक्षसः ।लङ्कायाम् राक्षस-इन्द्रस्य त्रि-भाग-बल-सम्वृतः । वीर्यवान् अस्त्र-विद् शूरः सुप्रख्याः च पराक्रमे ॥ ४ ॥
eṣa senāpatiḥ tasya prahastaḥ nāma rākṣasaḥ .laṅkāyām rākṣasa-indrasya tri-bhāga-bala-samvṛtaḥ . vīryavān astra-vid śūraḥ suprakhyāḥ ca parākrame .. 4 ..
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् । गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥ 5 ॥
ततस् प्रहस्तम् निर्यान्तम् भीमम् भीम-पराक्रमम् । गर्जन्तम् सु महा-कायम् राक्षसैः अभिसंवृतम् ॥ ५ ॥
tatas prahastam niryāntam bhīmam bhīma-parākramam . garjantam su mahā-kāyam rākṣasaiḥ abhisaṃvṛtam .. 5 ..
ददर्श महती सेना वानराणां बलीयसाम् । अभिसञ्जातघोषाणां प्रहस्तमभिगर्जताम् ॥ 6 ॥
ददर्श महती सेना वानराणाम् बलीयसाम् । अभिसञ्जात-घोषाणाम् प्रहस्तम् अभिगर्जताम् ॥ ६ ॥
dadarśa mahatī senā vānarāṇām balīyasām . abhisañjāta-ghoṣāṇām prahastam abhigarjatām .. 6 ..
खड्गशक्त्यष्टिशूलाश्च बाणानि मुसलानि च । गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ॥ 7 ॥
खड्ग-शक्ति-अष्टि-शूलाः च बाणानि मुसलानि च । गदाः च परिघाः प्रासाः विविधाः च परश्वधाः ॥ ७ ॥
khaḍga-śakti-aṣṭi-śūlāḥ ca bāṇāni musalāni ca . gadāḥ ca parighāḥ prāsāḥ vividhāḥ ca paraśvadhāḥ .. 7 ..
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् । प्रगृहीतान्यशोभन्त वानरानभिधावताम् ॥ 8 ॥
धनूंषि च विचित्राणि राक्षसानाम् जय-एषिणाम् । प्रगृहीतानि अशोभन्त वानरान् अभिधावताम् ॥ ८ ॥
dhanūṃṣi ca vicitrāṇi rākṣasānām jaya-eṣiṇām . pragṛhītāni aśobhanta vānarān abhidhāvatām .. 8 ..
जगृहुः पादपांश्चापि पुष्पितास्तु गिरिस्तथा । शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ॥ 9 ॥
जगृहुः पादपान् च अपि पुष्पिताः तु गिरिः तथा । शिलाः च विपुलाः दीर्घाः योद्धु-कामाः प्लवङ्गमाः ॥ ९ ॥
jagṛhuḥ pādapān ca api puṣpitāḥ tu giriḥ tathā . śilāḥ ca vipulāḥ dīrghāḥ yoddhu-kāmāḥ plavaṅgamāḥ .. 9 ..
तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् । बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ॥ 10 ॥
तेषाम् अन्योन्यम् आसाद्य सङ्ग्रामः सु महान् अभूत् । बहूनाम् अश्म-वृष्टिम् च शर-वृष्टिम् च वर्षताम् ॥ १० ॥
teṣām anyonyam āsādya saṅgrāmaḥ su mahān abhūt . bahūnām aśma-vṛṣṭim ca śara-vṛṣṭim ca varṣatām .. 10 ..
बहवो राक्षसा युद्धे बहून्वानरयूथपान् । वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ 11 ॥
बहवः राक्षसाः युद्धे बहून् वानर-यूथपान् । वानराः राक्षसान् च अपि निजघ्नुः बहवः बहून् ॥ ११ ॥
bahavaḥ rākṣasāḥ yuddhe bahūn vānara-yūthapān . vānarāḥ rākṣasān ca api nijaghnuḥ bahavaḥ bahūn .. 11 ..
शूलैः प्रमथिताः के चित्के चित्तु परमायुधैः । परिघैराहताः के चित्के चिच्छिन्नाः परश्वधैः ॥ 12 ॥
शूलैः प्रमथिताः के चित् के चित् तु परम-आयुधैः । परिघैः आहताः के चित् के चित् छिन्नाः परश्वधैः ॥ १२ ॥
śūlaiḥ pramathitāḥ ke cit ke cit tu parama-āyudhaiḥ . parighaiḥ āhatāḥ ke cit ke cit chinnāḥ paraśvadhaiḥ .. 12 ..
निरुच्छ्वासाः पुनः के चित्पतिता धरणीतले । विभिन्नहृदयाः के चिदिषुसन्तानसन्दिताः ॥ 13 ॥
निरुच्छ्वासाः पुनर् के चित् पतिताः धरणी-तले । विभिन्न-हृदयाः के चित् इषु-सन्तान-सन्दिताः ॥ १३ ॥
nirucchvāsāḥ punar ke cit patitāḥ dharaṇī-tale . vibhinna-hṛdayāḥ ke cit iṣu-santāna-sanditāḥ .. 13 ..
के चिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि । वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः ॥ 14 ॥
के चित् द्विधाकृताः खड्गैः स्फुरन्तः पतिताः भुवि । वानराः राक्षसैः शूलैः पार्श्वतस् च विदारिताः ॥ १४ ॥
ke cit dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitāḥ bhuvi . vānarāḥ rākṣasaiḥ śūlaiḥ pārśvatas ca vidāritāḥ .. 14 ..
वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः । पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ॥ 15 ॥
वानरैः च अपि सङ्क्रुद्धैः राक्षस-ओघाः समन्ततः । पादपैः गिरि-शृङ्गैः च सम्पिष्टाः वसुधा-तले ॥ १५ ॥
vānaraiḥ ca api saṅkruddhaiḥ rākṣasa-oghāḥ samantataḥ . pādapaiḥ giri-śṛṅgaiḥ ca sampiṣṭāḥ vasudhā-tale .. 15 ..
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् । वमञ्शोणितमास्येभ्यो विशीर्णदशनेक्षणः ॥ 16 ॥
वज्र-स्पर्श-तलैः हस्तैः मुष्टिभिः च हताः भृशम् । वमन् शोणितम् आस्येभ्यः विशीर्ण-दशन-ईक्षणः ॥ १६ ॥
vajra-sparśa-talaiḥ hastaiḥ muṣṭibhiḥ ca hatāḥ bhṛśam . vaman śoṇitam āsyebhyaḥ viśīrṇa-daśana-īkṣaṇaḥ .. 16 ..
आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् । बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ 17 ॥
आर्त-स्वरम् च स्वनताम् सिंहनादम् च नर्दताम् । बभूव तुमुलः शब्दः हरीणाम् रक्षसाम् युधि ॥ १७ ॥
ārta-svaram ca svanatām siṃhanādam ca nardatām . babhūva tumulaḥ śabdaḥ harīṇām rakṣasām yudhi .. 17 ..
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः । विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ 18 ॥
वानराः राक्षसाः क्रुद्धाः वीर-मार्गम् अनुव्रताः । विवृत्त-नयनाः क्रूराः चक्रुः कर्माणि अभीत-वत् ॥ १८ ॥
vānarāḥ rākṣasāḥ kruddhāḥ vīra-mārgam anuvratāḥ . vivṛtta-nayanāḥ krūrāḥ cakruḥ karmāṇi abhīta-vat .. 18 ..
नरान्तकः कुम्भहनुर्महानादः समुन्नतः । एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥ 19 ॥
। एते प्रहस्त-सचिवाः सर्वे जघ्नुः वनौकसः ॥ १९ ॥
. ete prahasta-sacivāḥ sarve jaghnuḥ vanaukasaḥ .. 19 ..
तेषामापततां शीघ्रं निघ्नतां चापि वानरान् । द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ॥ 20 ॥
तेषाम् आपतताम् शीघ्रम् निघ्नताम् च अपि वानरान् । द्विविदः गिरि-शृङ्गेण जघान एकम् नरान्तकम् ॥ २० ॥
teṣām āpatatām śīghram nighnatām ca api vānarān . dvividaḥ giri-śṛṅgeṇa jaghāna ekam narāntakam .. 20 ..
दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम् । राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ॥ 21 ॥
दुर्मुखः पुनर् उत्पाट्य कपिः स विपुल-द्रुमम् । राक्षसम् क्षिप्र-हस्तः तु समुन्नतम् अपोथयत् ॥ २१ ॥
durmukhaḥ punar utpāṭya kapiḥ sa vipula-drumam . rākṣasam kṣipra-hastaḥ tu samunnatam apothayat .. 21 ..
जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् । पातयामास तेजस्वी महानादस्य वक्षसि ॥ 22 ॥
जाम्बवान् तु सु सङ्क्रुद्धः प्रगृह्य महतीम् शिलाम् । पातयामास तेजस्वी महानादस्य वक्षसि ॥ २२ ॥
jāmbavān tu su saṅkruddhaḥ pragṛhya mahatīm śilām . pātayāmāsa tejasvī mahānādasya vakṣasi .. 22 ..
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् । वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः ॥ 23 ॥
अथ कुम्भहनुः तत्र तारेण आसाद्य वीर्यवान् । वृक्षेण अभिहतः मूर्ध्नि प्राणान् तत्याज राक्षसः ॥ २३ ॥
atha kumbhahanuḥ tatra tāreṇa āsādya vīryavān . vṛkṣeṇa abhihataḥ mūrdhni prāṇān tatyāja rākṣasaḥ .. 23 ..
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः । चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ 24 ॥
अमृष्यमाणः तत् कर्म प्रहस्तः रथम् आस्थितः । चकार कदनम् घोरम् धनुष्पाणिः वनौकसाम् ॥ २४ ॥
amṛṣyamāṇaḥ tat karma prahastaḥ ratham āsthitaḥ . cakāra kadanam ghoram dhanuṣpāṇiḥ vanaukasām .. 24 ..
आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा । क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ॥ 25 ॥
आवर्तः इव सञ्जज्ञे उभयोः सेनयोः तदा । क्षुभितस्य अप्रमेयस्य सागरस्य इव निस्वनः ॥ २५ ॥
āvartaḥ iva sañjajñe ubhayoḥ senayoḥ tadā . kṣubhitasya aprameyasya sāgarasya iva nisvanaḥ .. 25 ..
महता हि शरौघेण प्रहस्तो युद्धकोविदः । अर्दयामास सङ्क्रुद्धो वानरान्परमाहवे ॥ 26 ॥
महता हि शर-ओघेण प्रहस्तः युद्ध-कोविदः । अर्दयामास सङ्क्रुद्धः वानरान् परम-आहवे ॥ २६ ॥
mahatā hi śara-ogheṇa prahastaḥ yuddha-kovidaḥ . ardayāmāsa saṅkruddhaḥ vānarān parama-āhave .. 26 ..
वानराणां शरीरैस्तु राक्षसानां च मेदिनी । बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ 27 ॥
वानराणाम् शरीरैः तु राक्षसानाम् च मेदिनी । बभूव निचिता घोरा पतितैः इव पर्वतैः ॥ २७ ॥
vānarāṇām śarīraiḥ tu rākṣasānām ca medinī . babhūva nicitā ghorā patitaiḥ iva parvataiḥ .. 27 ..
सा महीरुधिरौघेण प्रच्छन्ना सम्प्रकाशते । सञ्चन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ 28 ॥
सा मही-रुधिर-ओघेण प्रच्छन्ना सम्प्रकाशते । सञ्चन्ना माधवे मासि पलाशैः इव पुष्पितैः ॥ २८ ॥
sā mahī-rudhira-ogheṇa pracchannā samprakāśate . sañcannā mādhave māsi palāśaiḥ iva puṣpitaiḥ .. 28 ..
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् । शोणितौघमहातोयां यमसागरगामिनीम् ॥ 29 ॥
हत-वीर-ओघ-वप्राम् तु भग्न-आयुध-महा-द्रुमाम् । शोणित-ओघ-महा-तोयाम् यम-सागर-गामिनीम् ॥ २९ ॥
hata-vīra-ogha-vaprām tu bhagna-āyudha-mahā-drumām . śoṇita-ogha-mahā-toyām yama-sāgara-gāminīm .. 29 ..
यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् । भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम् ॥ 30 ॥
यकृत्-प्लीह-महा-पङ्काम् विनिकीर्ण-अन्त्र-शैवलाम् । भिन्न-काय-शिरः-मीनाम् अङ्ग-अवयव-शाड्वलाम् ॥ ३० ॥
yakṛt-plīha-mahā-paṅkām vinikīrṇa-antra-śaivalām . bhinna-kāya-śiraḥ-mīnām aṅga-avayava-śāḍvalām .. 30 ..
गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् । मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् ॥ 31 ॥
गृध्र-हंस-गण-आकीर्णाम् कङ्क-सारस-सेविताम् । मेधः-फेन-समाकीर्णाम् आर्त-स्तनित-निस्वनाम् ॥ ३१ ॥
gṛdhra-haṃsa-gaṇa-ākīrṇām kaṅka-sārasa-sevitām . medhaḥ-phena-samākīrṇām ārta-stanita-nisvanām .. 31 ..
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् । नदीमिव घनापाये हंससारससेविताम् ॥ 32 ॥
ताम् कापुरुष-दुस्ताराम् युद्ध-भूमि-मयीम् नदीम् । नदीम् इव घन-अपाये हंस-सारस-सेविताम् ॥ ३२ ॥
tām kāpuruṣa-dustārām yuddha-bhūmi-mayīm nadīm . nadīm iva ghana-apāye haṃsa-sārasa-sevitām .. 32 ..
राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् । यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥ 33 ॥
राक्षसाः कपि-मुख्याः च तेरुः ताम् दुस्तराम् नदीम् । यथा पद्म-रजः-ध्वस्ताम् नलिनीम् गज-यूथपाः ॥ ३३ ॥
rākṣasāḥ kapi-mukhyāḥ ca teruḥ tām dustarām nadīm . yathā padma-rajaḥ-dhvastām nalinīm gaja-yūthapāḥ .. 33 ..
ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् । ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ॥ 34 ॥
ततस् सृजन्तम् बाण-ओघान् प्रहस्तम् स्यन्दने स्थितम् । ददर्श तरसा नीलः विनिघ्नन्तम् प्लवङ्गमान् ॥ ३४ ॥
tatas sṛjantam bāṇa-oghān prahastam syandane sthitam . dadarśa tarasā nīlaḥ vinighnantam plavaṅgamān .. 34 ..
उद्धूत इव वायुः खे महदभ्रबलं बलात् । समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ॥ 35 ॥
उद्धूतः इव वायुः खे महत् अभ्र-बलम् बलात् । समीक्ष्य अभिद्रुतम् युद्धे प्रहस्तः वाहिनीपतिः ॥ ३५ ॥
uddhūtaḥ iva vāyuḥ khe mahat abhra-balam balāt . samīkṣya abhidrutam yuddhe prahastaḥ vāhinīpatiḥ .. 35 ..
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे । स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ॥ 36 ॥
रथेन आदित्य-वर्णेन नीलम् एव अभिदुद्रुवे । स धनुः धन्विनाम् श्रेष्ठः विकृष्य परम-आहवे ॥ ३६ ॥
rathena āditya-varṇena nīlam eva abhidudruve . sa dhanuḥ dhanvinām śreṣṭhaḥ vikṛṣya parama-āhave .. 36 ..
नीलाय व्यसृजद् बाणान् प्रहस्तो वाहिनीपतिः । ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ॥ 37 ॥
नीलाय व्यसृजत् बाणान् प्रहस्तः वाहिनीपतिः । ते प्राप्य विशिखाः नीलम् विनिर्भिद्य समाहिताः ॥ ३७ ॥
nīlāya vyasṛjat bāṇān prahastaḥ vāhinīpatiḥ . te prāpya viśikhāḥ nīlam vinirbhidya samāhitāḥ .. 37 ..
महीं जग्मुर्महावेगा रोषिता इव पन्नगाः । नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ॥ 38 ॥
महीम् जग्मुः महा-वेगाः रोषिताः इव पन्नगाः । नीलः शरैः अभिहतः निशितैः ज्वलन-उपमैः ॥ ३८ ॥
mahīm jagmuḥ mahā-vegāḥ roṣitāḥ iva pannagāḥ . nīlaḥ śaraiḥ abhihataḥ niśitaiḥ jvalana-upamaiḥ .. 38 ..
स तं परमदुर्धर्षमापतन्तं महाकपिः । प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ 39 ॥
स तम् परम-दुर्धर्षम् आपतन्तम् महा-कपिः । प्रहस्तम् ताडयामास वृक्षम् उत्पाट्य वीर्यवान् ॥ ३९ ॥
sa tam parama-durdharṣam āpatantam mahā-kapiḥ . prahastam tāḍayāmāsa vṛkṣam utpāṭya vīryavān .. 39 ..
स तेनाभिहतः क्रुद्धो नदन्राक्षसपुङ्गवः । ववर्ष शरवर्षाणि प्लवगानां चमूपतौ ॥ 40 ॥
स तेन अभिहतः क्रुद्धः नदन् राक्षस-पुङ्गवः । ववर्ष शर-वर्षाणि प्लवगानाम् चमूपतौ ॥ ४० ॥
sa tena abhihataḥ kruddhaḥ nadan rākṣasa-puṅgavaḥ . vavarṣa śara-varṣāṇi plavagānām camūpatau .. 40 ..
तस्य बाणगणानेव राक्षसस्य दुरात्मनः । अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः । यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ॥ 41 ॥
तस्य बाण-गणान् एव राक्षसस्य दुरात्मनः । अ पारयन् वारयितुम् प्रत्यगृह्णात् निमीलितः । यथा एव गो-वृषः वर्षम् शारदम् शीघ्रम् आगतम् ॥ ४१ ॥
tasya bāṇa-gaṇān eva rākṣasasya durātmanaḥ . a pārayan vārayitum pratyagṛhṇāt nimīlitaḥ . yathā eva go-vṛṣaḥ varṣam śāradam śīghram āgatam .. 41 ..
एवमेव प्रहस्तस्य शरवर्षं दुरासदम् । निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥ 42 ॥
एवम् एव प्रहस्तस्य शर-वर्षम् दुरासदम् । निमीलित-अक्षः सहसा नीलः सेहे सु दारुणम् ॥ ४२ ॥
evam eva prahastasya śara-varṣam durāsadam . nimīlita-akṣaḥ sahasā nīlaḥ sehe su dāruṇam .. 42 ..
रोषितः शरवर्षेण सालेन महता महान् । प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ॥ 43 ॥
रोषितः शर-वर्षेण सालेन महता महान् । प्रजघान हयान् नीलः प्रहस्तस्य मनोजवान् ॥ ४३ ॥
roṣitaḥ śara-varṣeṇa sālena mahatā mahān . prajaghāna hayān nīlaḥ prahastasya manojavān .. 43 ..
ततो रोषिपरीतात्मा धनुस्तस्य दुरात्मनः । बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥ 44 ॥
ततस् रोषि-परीत-आत्मा धनुः तस्य दुरात्मनः । बभञ्ज तरसा नीलः ननाद च पुनर् पुनर् ॥ ४४ ॥
tatas roṣi-parīta-ātmā dhanuḥ tasya durātmanaḥ . babhañja tarasā nīlaḥ nanāda ca punar punar .. 44 ..
विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः । प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ 45 ॥
विधनुः तु कृतः तेन प्रहस्तः वाहिनीपतिः । प्रगृह्य मुसलम् घोरम् स्यन्दनात् अवपुप्लुवे ॥ ४५ ॥
vidhanuḥ tu kṛtaḥ tena prahastaḥ vāhinīpatiḥ . pragṛhya musalam ghoram syandanāt avapupluve .. 45 ..
तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ । स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ 46 ॥
तौ उभौ वाहिनी-मुख्यौ जात-रोषौ तरस्विनौ । स्थितौ क्षतज-दिग्ध-अङ्गौ प्रभिन्नौ इव कुञ्जरौ ॥ ४६ ॥
tau ubhau vāhinī-mukhyau jāta-roṣau tarasvinau . sthitau kṣataja-digdha-aṅgau prabhinnau iva kuñjarau .. 46 ..
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् । सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ 47 ॥
उल्लिखन्तौ सु तीक्ष्णाभिः दंष्ट्राभिः इतरेतरम् । सिंह-शार्दूल-सदृशौ सिंह-शार्दूल-चेष्टितौ ॥ ४७ ॥
ullikhantau su tīkṣṇābhiḥ daṃṣṭrābhiḥ itaretaram . siṃha-śārdūla-sadṛśau siṃha-śārdūla-ceṣṭitau .. 47 ..
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ । काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ॥ 48 ॥
विक्रान्त-विजयौ वीरौ समरेषु अनिवर्तिनौ । काङ्क्षमाणौ यशः प्राप्तुम् वृत्र-वासवयोः समौ ॥ ४८ ॥
vikrānta-vijayau vīrau samareṣu anivartinau . kāṅkṣamāṇau yaśaḥ prāptum vṛtra-vāsavayoḥ samau .. 48 ..
आजघान तदा नीलं ललाटे मुसलेन सः । प्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम् ॥ 49 ॥
आजघान तदा नीलम् ललाटे मुसलेन सः । प्रहस्तः परम-आयस्तः तस्य सुस्राव शोणितम् ॥ ४९ ॥
ājaghāna tadā nīlam lalāṭe musalena saḥ . prahastaḥ parama-āyastaḥ tasya susrāva śoṇitam .. 49 ..
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् । प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ॥ 50 ॥
ततस् शोणित-दिग्ध-अङ्गः प्रगृह्य सु महा-तरुम् । प्रहस्तस्य उरसि क्रुद्धः विससर्ज महा-कपिः ॥ ५० ॥
tatas śoṇita-digdha-aṅgaḥ pragṛhya su mahā-tarum . prahastasya urasi kruddhaḥ visasarja mahā-kapiḥ .. 50 ..
तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् । अभिदुद्राव बलिनं बली नीलं प्लवङ्गमम् ॥ 51 ॥
तम् अचिन्त्य-प्रहारम् स प्रगृह्य मुसलम् महत् । अभिदुद्राव बलिनम् बली नीलम् प्लवङ्गमम् ॥ ५१ ॥
tam acintya-prahāram sa pragṛhya musalam mahat . abhidudrāva balinam balī nīlam plavaṅgamam .. 51 ..
तमुग्रवेगं संरब्धमापतन्तं महाकपिः । ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥ 52 ॥
तम् उग्र-वेगम् संरब्धम् आपतन्तम् महा-कपिः । ततस् सम्प्रेक्ष्य जग्राह महा-वेगः महा-शिलाम् ॥ ५२ ॥
tam ugra-vegam saṃrabdham āpatantam mahā-kapiḥ . tatas samprekṣya jagrāha mahā-vegaḥ mahā-śilām .. 52 ..
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः । प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ॥ 53 ॥
तस्य युद्ध-अभिकामस्य मृधे मुसल-योधिनः । प्रहस्तस्य शिलाम् नीलः मूर्ध्नि तूर्णम् अपातयत् ॥ ५३ ॥
tasya yuddha-abhikāmasya mṛdhe musala-yodhinaḥ . prahastasya śilām nīlaḥ mūrdhni tūrṇam apātayat .. 53 ..
नीलेन कपिमुख्येन विमुक्ता महती शिला । बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ 54 ॥
नीलेन कपि-मुख्येन विमुक्ता महती शिला । बिभेद बहुधा घोरा प्रहस्तस्य शिरः तदा ॥ ५४ ॥
nīlena kapi-mukhyena vimuktā mahatī śilā . bibheda bahudhā ghorā prahastasya śiraḥ tadā .. 54 ..
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः । पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ 55 ॥
स गतासुः गत-श्रीकः गत-सत्त्वः गत-इन्द्रियः । पपात सहसा भूमौ छिन्न-मूलः इव द्रुमः ॥ ५५ ॥
sa gatāsuḥ gata-śrīkaḥ gata-sattvaḥ gata-indriyaḥ . papāta sahasā bhūmau chinna-mūlaḥ iva drumaḥ .. 55 ..
विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम् । शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥ 56 ॥
विभिन्न-शिरसः तस्य बहु सुस्राव शोणितम् । शरीरात् अपि सुस्राव गिरेः प्रस्रवणम् यथा ॥ ५६ ॥
vibhinna-śirasaḥ tasya bahu susrāva śoṇitam . śarīrāt api susrāva gireḥ prasravaṇam yathā .. 56 ..
हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् । रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ॥ 57 ॥
हते प्रहस्ते नीलेन तत् अकम्प्यम् महत् बलम् । रक्षसाम् अप्रहृष्टानाम् लङ्काम् अभिजगाम ह ॥ ५७ ॥
hate prahaste nīlena tat akampyam mahat balam . rakṣasām aprahṛṣṭānām laṅkām abhijagāma ha .. 57 ..
न शेकुः समवस्थातुं निहते वाहिनीपतौ । सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा ॥ 58 ॥
न शेकुः समवस्थातुम् निहते वाहिनीपतौ । सेतु-बन्धम् समासाद्य विशीर्णम् सलिलम् यथा ॥ ५८ ॥
na śekuḥ samavasthātum nihate vāhinīpatau . setu-bandham samāsādya viśīrṇam salilam yathā .. 58 ..
हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाः । रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः ॥ 59 ॥
हते तस्मिन् चमू-मुख्ये राक्षसः ते निरुद्यमाः । रक्षःपति-गृहम् गत्वा ध्यान-मूक-त्वम् आगताः ॥ ५९ ॥
hate tasmin camū-mukhye rākṣasaḥ te nirudyamāḥ . rakṣaḥpati-gṛham gatvā dhyāna-mūka-tvam āgatāḥ .. 59 ..
प्राप्ताः शोकार्णवं तीव्रं विसंज्ञा इव तेऽभवन् । ॥ 60 ॥
प्राप्ताः शोक-अर्णवम् तीव्रम् विसंज्ञाः इव ते अभवन् । ॥ ६० ॥
prāptāḥ śoka-arṇavam tīvram visaṃjñāḥ iva te abhavan . .. 60 ..
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा । समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः ॥ 61 ॥
ततस् तु नीलः विजयी महा-बलः प्रशस्यमानः स्व-कृतेन कर्मणा । समेत्य रामेण स लक्ष्मणेन प्रहृष्ट-रूपः तु बभूव यूथपः ॥ ६१ ॥
tatas tu nīlaḥ vijayī mahā-balaḥ praśasyamānaḥ sva-kṛtena karmaṇā . sametya rāmeṇa sa lakṣmaṇena prahṛṣṭa-rūpaḥ tu babhūva yūthapaḥ .. 61 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In