This overlay will guide you through the buttons:

| |
|
तस्मिन्हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे । भीमायुधं सागरतुल्यवेगं प्रदुद्रुवे राक्षसराजसैन्यम् ॥ 1 ॥
तस्मिन् हते राक्षस-सैन्य-पाले प्लवङ्गमानाम् ऋषभेण युद्धे । भीम-आयुधम् सागर-तुल्य-वेगम् प्रदुद्रुवे राक्षस-राज-सैन्यम् ॥ १ ॥
tasmin hate rākṣasa-sainya-pāle plavaṅgamānām ṛṣabheṇa yuddhe . bhīma-āyudham sāgara-tulya-vegam pradudruve rākṣasa-rāja-sainyam .. 1 ..
गत्वा तु रक्षोऽधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् । तच्चापि तेषां वचनं निशम्य रक्षोऽधिपः क्रोधवशं जगाम ॥ 2 ॥
गत्वा तु रक्षः-अधिपतेः शशंसुः सेनापतिम् पावक-सूनु-शस्तम् । तत् च अपि तेषाम् वचनम् निशम्य रक्षः-अधिपः क्रोध-वशम् जगाम ॥ २ ॥
gatvā tu rakṣaḥ-adhipateḥ śaśaṃsuḥ senāpatim pāvaka-sūnu-śastam . tat ca api teṣām vacanam niśamya rakṣaḥ-adhipaḥ krodha-vaśam jagāma .. 2 ..
सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः । उवाच तान्नैरृतयोधमुख्यान् इन्द्रो यथा चामरयोधमुख्यान् ॥ 3 ॥
सङ्ख्ये प्रहस्तम् निहतम् निशम्य शोक-अर्दितः क्रोध-परीत-चेताः । उवाच तान् नैरृत-योध-मुख्यान् इन्द्रः यथा च अमर-योध-मुख्यान् ॥ ३ ॥
saṅkhye prahastam nihatam niśamya śoka-arditaḥ krodha-parīta-cetāḥ . uvāca tān nairṛta-yodha-mukhyān indraḥ yathā ca amara-yodha-mukhyān .. 3 ..
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः । सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ 4 ॥
न अवज्ञा रिपवे कार्या यैः इन्द्र-बल-सूदनः । सूदितः सैन्य-पालः मे स अनुयात्रः स कुञ्जरः ॥ ४ ॥
na avajñā ripave kāryā yaiḥ indra-bala-sūdanaḥ . sūditaḥ sainya-pālaḥ me sa anuyātraḥ sa kuñjaraḥ .. 4 ..
सोऽहं रिपुविनाशाय विजयायाविचारयन् । स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ॥ 5 ॥
सः अहम् रिपु-विनाशाय विजयाय अ विचारयन् । स्वयम् एव गमिष्यामि रण-शीर्षम् तत् अद्भुतम् ॥ ५ ॥
saḥ aham ripu-vināśāya vijayāya a vicārayan . svayam eva gamiṣyāmi raṇa-śīrṣam tat adbhutam .. 5 ..
अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् । निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ॥ 6 ॥
अद्य तत् वानर-अनीकम् रामम् च सहलक्ष्मणम् । निर्दहिष्यामि बाण-ओघैः वनम् दीप्तैः इव अग्निभिः ॥ ६ ॥
adya tat vānara-anīkam rāmam ca sahalakṣmaṇam . nirdahiṣyāmi bāṇa-oghaiḥ vanam dīptaiḥ iva agnibhiḥ .. 6 ..
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजियुक्तम् । प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ 7 ॥
सः एवम् उक्त्वा ज्वलन-प्रकाशम् रथम् तुरङ्ग-उत्तम-राजि-युक्तम् । प्रकाशमानम् वपुषा ज्वलन्तम् समारुरोह अमरराजशत्रुः ॥ ७ ॥
saḥ evam uktvā jvalana-prakāśam ratham turaṅga-uttama-rāji-yuktam . prakāśamānam vapuṣā jvalantam samāruroha amararājaśatruḥ .. 7 ..
स शङ्खभेरीपटह प्रणादैर् आस्फोटितक्ष्वेडितसिंहनादैः । पुण्यैः स्तवैश्चाप्यभिपूज्यमानस् तदा ययौ राक्षसराजमुख्यः ॥ 8 ॥
स शङ्ख-भेरी-पटह प्रणादैः आस्फोटित-क्ष्वेडित-सिंहनादैः । पुण्यैः स्तवैः च अपि अभिपूज्यमानः तदा ययौ राक्षस-राज-मुख्यः ॥ ८ ॥
sa śaṅkha-bherī-paṭaha praṇādaiḥ āsphoṭita-kṣveḍita-siṃhanādaiḥ . puṇyaiḥ stavaiḥ ca api abhipūjyamānaḥ tadā yayau rākṣasa-rāja-mukhyaḥ .. 8 ..
स शैलजीमूतनिकाश रूपैर् मांसाशनैः पावकदीप्तनेत्रैः । बभौ वृतो राक्षसराजमुख्यैर् भूतैर्वृतो रुद्र इवामरेशः ॥ 9 ॥
स शैल-जीमूत-निकाश रूपैः मांस-अशनैः पावक-दीप्त-नेत्रैः । बभौ वृतः राक्षस-राज-मुख्यैः भूतैः वृतः रुद्रः इव अमर-ईशः ॥ ९ ॥
sa śaila-jīmūta-nikāśa rūpaiḥ māṃsa-aśanaiḥ pāvaka-dīpta-netraiḥ . babhau vṛtaḥ rākṣasa-rāja-mukhyaiḥ bhūtaiḥ vṛtaḥ rudraḥ iva amara-īśaḥ .. 9 ..
ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् । महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् ॥ 10 ॥
ततस् नगर्याः सहसा महा-ओजाः निष्क्रम्य तत् वानर-सैन्यम् उग्रम् । महा-अर्णव-अभ्र-स्तनितम् ददर्श समुद्यतम् पादप-शैल-हस्तम् ॥ १० ॥
tatas nagaryāḥ sahasā mahā-ojāḥ niṣkramya tat vānara-sainyam ugram . mahā-arṇava-abhra-stanitam dadarśa samudyatam pādapa-śaila-hastam .. 10 ..
तद्राक्षसानीकमतिप्रचण्डम् आलोक्य रामो भुजगेन्द्रबाहुः । विभीषणं शस्त्रभृतां वरिष्ठम् उवाच सेनानुगतः पृथुश्रीः ॥ 11 ॥
तत् राक्षस-अनीकम् अति प्रचण्डम् आलोक्य रामः भुजग-इन्द्र-बाहुः । विभीषणम् शस्त्रभृताम् वरिष्ठम् उवाच सेना-अनुगतः पृथु-श्रीः ॥ ११ ॥
tat rākṣasa-anīkam ati pracaṇḍam ālokya rāmaḥ bhujaga-indra-bāhuḥ . vibhīṣaṇam śastrabhṛtām variṣṭham uvāca senā-anugataḥ pṛthu-śrīḥ .. 11 ..
नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधचक्रजुष्टम् । सैन्यं नगेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ 12 ॥
नाना पताका-ध्वज-शस्त्र-जुष्टम् प्रास-असि-शूल-आयुध-चक्र-जुष्टम् । सैन्यम् नग-इन्द्र-उपम-नाग-जुष्टम् कस्य इदम् अक्षोभ्यम् अभीरु-जुष्टम् ॥ १२ ॥
nānā patākā-dhvaja-śastra-juṣṭam prāsa-asi-śūla-āyudha-cakra-juṣṭam . sainyam naga-indra-upama-nāga-juṣṭam kasya idam akṣobhyam abhīru-juṣṭam .. 12 ..
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः । शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ॥ 13 ॥
ततस् तु रामस्य निशम्य वाक्यम् विभीषणः शक्र-समान-वीर्यः । शशंस रामस्य बल-प्रवेकम् महात्मनाम् राक्षस-पुङ्गवानाम् ॥ १३ ॥
tatas tu rāmasya niśamya vākyam vibhīṣaṇaḥ śakra-samāna-vīryaḥ . śaśaṃsa rāmasya bala-pravekam mahātmanām rākṣasa-puṅgavānām .. 13 ..
योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः । प्रकम्पयन्नागशिरोऽभ्युपैति ह्य् अकम्पनं त्वेनमवेहि राजन् ॥ 14 ॥
यः असौ गज-स्कन्ध-गतः महात्मा नव-उदित-अर्क-उपम-ताम्र-वक्त्रः । प्रकम्पयन् नाग-शिरः अभ्युपैति हि अकम्पनम् तु एनम् अवेहि राजन् ॥ १४ ॥
yaḥ asau gaja-skandha-gataḥ mahātmā nava-udita-arka-upama-tāmra-vaktraḥ . prakampayan nāga-śiraḥ abhyupaiti hi akampanam tu enam avehi rājan .. 14 ..
योऽसौ रथस्थो मृगराजकेतुर् धून्वन्धनुः शक्रधनुःप्रकाशम् । करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥ 15 ॥
यः असौ रथ-स्थः मृगराज-केतुः धून्वन् धनुः शक्र-धनुः-प्रकाशम् । करी इव भाति उग्र-विवृत्त-दंष्ट्रः सः इन्द्रजित् नाम वर-प्रधानः ॥ १५ ॥
yaḥ asau ratha-sthaḥ mṛgarāja-ketuḥ dhūnvan dhanuḥ śakra-dhanuḥ-prakāśam . karī iva bhāti ugra-vivṛtta-daṃṣṭraḥ saḥ indrajit nāma vara-pradhānaḥ .. 15 ..
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीर । विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः ॥ 16 ॥
यः च एष विन्ध्य-अस्त-महेन्द्र-कल्पः धन्वी रथ-स्थः अतिरथः अतिवीर । विस्फारयन् चापम् अतुल्य-मानम् नाम्ना अतिकायः अति विवृद्ध-कायः ॥ १६ ॥
yaḥ ca eṣa vindhya-asta-mahendra-kalpaḥ dhanvī ratha-sthaḥ atirathaḥ ativīra . visphārayan cāpam atulya-mānam nāmnā atikāyaḥ ati vivṛddha-kāyaḥ .. 16 ..
योऽसौ नवार्कोदितताम्रचक्षुर् आरुह्य घण्टानिनदप्रणादम् । गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥ 17 ॥
यः असौ नव-अर्क-उदित-ताम्र-चक्षुः आरुह्य घण्टा-निनद-प्रणादम् । गजम् खरम् गर्जति वै महात्मा महोदरः नाम सः एष वीरः ॥ १७ ॥
yaḥ asau nava-arka-udita-tāmra-cakṣuḥ āruhya ghaṇṭā-ninada-praṇādam . gajam kharam garjati vai mahātmā mahodaraḥ nāma saḥ eṣa vīraḥ .. 17 ..
योऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् । प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोशनितुल्यवेगः ॥ 18 ॥
यः असौ हयम् काञ्चन-चित्र-भाण्डम् आरुह्य सन्ध्या-अभ्र-गिरि-प्रकाशम् । प्रासम् समुद्यम्य मरीचि-नद्धम् पिशाचः एष उशनि-तुल्य-वेगः ॥ १८ ॥
yaḥ asau hayam kāñcana-citra-bhāṇḍam āruhya sandhyā-abhra-giri-prakāśam . prāsam samudyamya marīci-naddham piśācaḥ eṣa uśani-tulya-vegaḥ .. 18 ..
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् । वृषेन्द्रमास्थाय गिरिप्रकाशमायाति योऽसौ त्रिशिरा यशस्वी ॥ 19 ॥
यः च एष शूलम् निशितम् प्रगृह्य विद्युत्-प्रभम् किङ्कर-वज्र-वेगम् । वृष-इन्द्रम् आस्थाय गिरि-प्रकाशम् आयाति यः असौ त्रिशिराः यशस्वी ॥ १९ ॥
yaḥ ca eṣa śūlam niśitam pragṛhya vidyut-prabham kiṅkara-vajra-vegam . vṛṣa-indram āsthāya giri-prakāśam āyāti yaḥ asau triśirāḥ yaśasvī .. 19 ..
असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः । समाहितः पन्नगराजकेतुर्विस्फारयन् याति धनुर्विधून्वन् ॥ 20 ॥
असौ च जीमूत-निकाश-रूपः कुम्भः पृथु-व्यूढ-सुजात-वक्षाः । समाहितः पन्नग-राज-केतुः विस्फारयन् याति धनुः विधून्वन् ॥ २० ॥
asau ca jīmūta-nikāśa-rūpaḥ kumbhaḥ pṛthu-vyūḍha-sujāta-vakṣāḥ . samāhitaḥ pannaga-rāja-ketuḥ visphārayan yāti dhanuḥ vidhūnvan .. 20 ..
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य । आयाति रक्षोबलकेतुभूतो योऽसौ निकुम्भोऽद्भुतघोरकर्मा ॥ 21 ॥
यः च एष जाम्बूनद-वज्र-जुष्टम् दीप्तम् स धूमम् परिघम् प्रगृह्य । आयाति रक्षः-बल-केतु-भूतः यः असौ निकुम्भः अद्भुत-घोर-कर्मा ॥ २१ ॥
yaḥ ca eṣa jāmbūnada-vajra-juṣṭam dīptam sa dhūmam parigham pragṛhya . āyāti rakṣaḥ-bala-ketu-bhūtaḥ yaḥ asau nikumbhaḥ adbhuta-ghora-karmā .. 21 ..
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् । रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी ॥ 22 ॥
यः च एष चाप-असि-शर-ओघ-जुष्टम् पताकिनम् पावक-दीप्त-रूपम् । रथम् समास्थाय विभाति उदग्रः नरान्तकः असौ नग-शृङ्ग-योधी ॥ २२ ॥
yaḥ ca eṣa cāpa-asi-śara-ogha-juṣṭam patākinam pāvaka-dīpta-rūpam . ratham samāsthāya vibhāti udagraḥ narāntakaḥ asau naga-śṛṅga-yodhī .. 22 ..
यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः । भूतैर्वृतो भाति विवृत्तनेत्रैर्योऽसौ सुराणामपि दर्पहन्ता ॥ 23 ॥
यः च एष नानाविध-घोर-रूपैः व्याघ्र-उष्ट्र-नाग-इन्द्र-मृग-अश्व-वक्त्रैः । भूतैः वृतः भाति विवृत्त-नेत्रैः यः असौ सुराणाम् अपि दर्प-हन्ता ॥ २३ ॥
yaḥ ca eṣa nānāvidha-ghora-rūpaiḥ vyāghra-uṣṭra-nāga-indra-mṛga-aśva-vaktraiḥ . bhūtaiḥ vṛtaḥ bhāti vivṛtta-netraiḥ yaḥ asau surāṇām api darpa-hantā .. 23 ..
यत्रैतदिन्दुप्रतिमं विभाति च्छत्त्रं सितं सूक्ष्मशलाकमग्र्यम् । अत्रैष रक्षोऽधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥ 24 ॥
यत्र एतत् इन्दु-प्रतिमम् विभाति छत्त्रम् सितम् सूक्ष्म-शलाकम् अग्र्यम् । अत्र एष रक्षः-अधिपतिः महात्मा भूतैः वृतः रुद्रः इव अवभाति ॥ २४ ॥
yatra etat indu-pratimam vibhāti chattram sitam sūkṣma-śalākam agryam . atra eṣa rakṣaḥ-adhipatiḥ mahātmā bhūtaiḥ vṛtaḥ rudraḥ iva avabhāti .. 24 ..
असौ किरीटी चलकुण्डलास्यो नागेन्द्रविन्ध्योपमभीमकायः । महेन्द्रवैवस्वतदर्पहन्ता रक्षोऽधिपः सूर्य इवावभाति ॥ 25 ॥
असौ किरीटी चल-कुण्डल-आस्यः नाग-इन्द्र-विन्ध्य-उपम-भीम-कायः । महा-इन्द्र-वैवस्वत-दर्प-हन्ता रक्षः-अधिपः सूर्यः इव अवभाति ॥ २५ ॥
asau kirīṭī cala-kuṇḍala-āsyaḥ nāga-indra-vindhya-upama-bhīma-kāyaḥ . mahā-indra-vaivasvata-darpa-hantā rakṣaḥ-adhipaḥ sūryaḥ iva avabhāti .. 25 ..
प्रत्युवाच ततो राम विभीषणमरिन्दमः । अहो दीप्तमहातेजा रावणो राक्षसेश्वरः ॥ 26 ॥
प्रत्युवाच ततस् राम विभीषणम् अरिन्दमः । अहो दीप्त-महा-तेजाः रावणः राक्षसेश्वरः ॥ २६ ॥
pratyuvāca tatas rāma vibhīṣaṇam arindamaḥ . aho dīpta-mahā-tejāḥ rāvaṇaḥ rākṣaseśvaraḥ .. 26 ..
आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः । न व्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ॥ 27 ॥
आदित्यः इव दुष्प्रेक्ष्यः रश्मिभिः भाति रावणः । न व्यक्तम् लक्षये हि अस्य रूपम् तेजः-समावृतम् ॥ २७ ॥
ādityaḥ iva duṣprekṣyaḥ raśmibhiḥ bhāti rāvaṇaḥ . na vyaktam lakṣaye hi asya rūpam tejaḥ-samāvṛtam .. 27 ..
देवदानववीराणां वपुर्नैवंविधं भवेत् । यादृशं राक्षसेन्द्रस्य वपुरेतद् विराजते ॥ 28 ॥
देव-दानव-वीराणाम् वपुः ना एवंविधम् भवेत् । यादृशम् राक्षस-इन्द्रस्य वपुः एतत् विराजते ॥ २८ ॥
deva-dānava-vīrāṇām vapuḥ nā evaṃvidham bhavet . yādṛśam rākṣasa-indrasya vapuḥ etat virājate .. 28 ..
सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः । सर्वे दीप्तायुधधरा योधास्तस्य महात्मनः ॥ 29 ॥
सर्वे पर्वत-सङ्काशाः सर्वे पर्वत-योधिनः । सर्वे दीप्त-आयुध-धराः योधाः तस्य महात्मनः ॥ २९ ॥
sarve parvata-saṅkāśāḥ sarve parvata-yodhinaḥ . sarve dīpta-āyudha-dharāḥ yodhāḥ tasya mahātmanaḥ .. 29 ..
विभाति राक्षोराजोऽसौ प्रदीप्तैर्भीमदर्शनैः । भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ 30 ॥
विभाति राक्षः-राजः असौ प्रदीप्तैः भीम-दर्शनैः । भूतैः परिवृतः तीक्ष्णैः देहवद्भिः इव अन्तकः ॥ ३० ॥
vibhāti rākṣaḥ-rājaḥ asau pradīptaiḥ bhīma-darśanaiḥ . bhūtaiḥ parivṛtaḥ tīkṣṇaiḥ dehavadbhiḥ iva antakaḥ .. 30 ..
दिष्ट्याऽयमद्य पापात्मा मम दृष्टिपथं गतः । अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ॥ 31 ॥
दिष्ट्या अयम् अद्य पाप-आत्मा मम दृष्टि-पथम् गतः । अद्य क्रोधम् विमोक्ष्यामि सीता-हरण-सम्भवम् ॥ ३१ ॥
diṣṭyā ayam adya pāpa-ātmā mama dṛṣṭi-patham gataḥ . adya krodham vimokṣyāmi sītā-haraṇa-sambhavam .. 31 ..
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् । लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ 32 ॥
एवम् उक्त्वा ततस् रामः धनुः आदाय वीर्यवान् । लक्ष्मण-अनुचरः तस्थौ समुद्धृत्य शर-उत्तमम् ॥ ३२ ॥
evam uktvā tatas rāmaḥ dhanuḥ ādāya vīryavān . lakṣmaṇa-anucaraḥ tasthau samuddhṛtya śara-uttamam .. 32 ..
ततः स रक्षोऽधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि । द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ 33 ॥
ततस् स रक्षः-अधिपतिः महात्मा रक्षांसि तानि आह महा-बलानि । द्वारेषु चर्या-गृह-गोपुरेषु सु निर्वृताः तिष्ठत निर्विशङ्काः ॥ ३३ ॥
tatas sa rakṣaḥ-adhipatiḥ mahātmā rakṣāṃsi tāni āha mahā-balāni . dvāreṣu caryā-gṛha-gopureṣu su nirvṛtāḥ tiṣṭhata nirviśaṅkāḥ .. 33 ..
इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा । । शून्या पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयु सहसा समेताः ॥ 34 ॥
इह आगतम् माम् सहितम् भवद्भिः वनौकसः छिद्रम् इदम् विदित्वा । । शून्या पुरीम् दुष्प्रसहाम् प्रमथ्य प्रधर्षयेयुः सहसा समेताः ॥ ३४ ॥
iha āgatam mām sahitam bhavadbhiḥ vanaukasaḥ chidram idam viditvā . . śūnyā purīm duṣprasahām pramathya pradharṣayeyuḥ sahasā sametāḥ .. 34 ..
विसर्जयित्वा सचिवांस्ततस्तान् गतेषु रक्षस्सु यथानियोगम् । व्यदारयद्वानरसागरौघं महाझषः पूर्ममिवार्णवौघम् ॥ 35 ॥
विसर्जयित्वा सचिवान् ततस् तान् गतेषु रक्षस्सु यथा नियोगम् । व्यदारयत् वानर-सागर-ओघम् महा-झषः पूर्मम् इव अर्णव-ओघम् ॥ ३५ ॥
visarjayitvā sacivān tatas tān gateṣu rakṣassu yathā niyogam . vyadārayat vānara-sāgara-ogham mahā-jhaṣaḥ pūrmam iva arṇava-ogham .. 35 ..
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् । महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोऽधिपतिं हरीशः ॥ 36 ॥
तम् आपतन्तम् सहसा समीक्ष्य दीप्त-इषु-चापम् युधि राक्षस-इन्द्रम् । महत् समुत्पाट्य महीधर-अग्रम् दुद्राव रक्षः-अधिपतिम् हरि-ईशः ॥ ३६ ॥
tam āpatantam sahasā samīkṣya dīpta-iṣu-cāpam yudhi rākṣasa-indram . mahat samutpāṭya mahīdhara-agram dudrāva rakṣaḥ-adhipatim hari-īśaḥ .. 36 ..
तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय । तमापतन्तं सहसा समीक्ष्य चिच्छेद बाणैस्तपनीयपुङ्खैः ॥ 37 ॥
तत् शैल-शृङ्गम् बहु-वृक्ष-सानुम् प्रगृह्य चिक्षेप निशाचराय । तम् आपतन्तम् सहसा समीक्ष्य चिच्छेद बाणैः तपनीय-पुङ्खैः ॥ ३७ ॥
tat śaila-śṛṅgam bahu-vṛkṣa-sānum pragṛhya cikṣepa niśācarāya . tam āpatantam sahasā samīkṣya ciccheda bāṇaiḥ tapanīya-puṅkhaiḥ .. 37 ..
तस्मिन्प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम् । महाहिकल्पं शरमन्तकाभं समादधे राक्षसलोकनाथः ॥ 38 ॥
तस्मिन् प्रवृद्ध-उत्तम-सानु-वृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम् । महा-अहि-कल्पम् शरम् अन्तक-आभम् समादधे राक्षस-लोक-नाथः ॥ ३८ ॥
tasmin pravṛddha-uttama-sānu-vṛkṣe śṛṅge vidīrṇe patite pṛthivyām . mahā-ahi-kalpam śaram antaka-ābham samādadhe rākṣasa-loka-nāthaḥ .. 38 ..
स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् । बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ 39 ॥
स तम् गृहीत्वा अनिल-तुल्य-वेगम् स विस्फुलिङ्ग-ज्वलन-प्रकाशम् । बाणम् महा-इन्द्र-अशनि-तुल्य-वेगम् चिक्षेप सुग्रीव-वधाय रुष्टः ॥ ३९ ॥
sa tam gṛhītvā anila-tulya-vegam sa visphuliṅga-jvalana-prakāśam . bāṇam mahā-indra-aśani-tulya-vegam cikṣepa sugrīva-vadhāya ruṣṭaḥ .. 39 ..
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः प्रकाशम् । सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौचमिवोग्रशक्तिः ॥ 40 ॥
स सायकः रावण-बाहु-मुक्तः शक्र-अशनि-प्रख्य-वपुः प्रकाशम् । सुग्रीवम् आसाद्य बिभेद वेगात् गुहा-ईरिता क्रौचम् इव उग्र-शक्तिः ॥ ४० ॥
sa sāyakaḥ rāvaṇa-bāhu-muktaḥ śakra-aśani-prakhya-vapuḥ prakāśam . sugrīvam āsādya bibheda vegāt guhā-īritā kraucam iva ugra-śaktiḥ .. 40 ..
स सायकार्तो विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः । तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥ 41 ॥
स सायक-आर्तः विपरीत-चेताः कूजन् पृथिव्याम् निपपात वीरः । तम् वीक्ष्य भूमौ पतितम् विसंज्ञम् नेदुः प्रहृष्टाः युधि यातुधानाः ॥ ४१ ॥
sa sāyaka-ārtaḥ viparīta-cetāḥ kūjan pṛthivyām nipapāta vīraḥ . tam vīkṣya bhūmau patitam visaṃjñam neduḥ prahṛṣṭāḥ yudhi yātudhānāḥ .. 41 ..
ततो गवाक्षो गवयः सुषेणस्त्वथर्षभो ज्योतिमुखो नलश्च । शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ 42 ॥
ततस् गवाक्षः गवयः सुषेणः तु अथ ऋषभः ज्योतिर्मुखः नलः च । शैलान् समुद्यम्य विवृद्ध-कायाः प्रदुद्रुवुः तम् प्रति राक्षस-इन्द्रम् ॥ ४२ ॥
tatas gavākṣaḥ gavayaḥ suṣeṇaḥ tu atha ṛṣabhaḥ jyotirmukhaḥ nalaḥ ca . śailān samudyamya vivṛddha-kāyāḥ pradudruvuḥ tam prati rākṣasa-indram .. 42 ..
तेषां प्रहारान्स चकार मेघान् रक्षोऽधिपो बाणशतैः शिताग्रैः । तान्वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ 43 ॥
तेषाम् प्रहारान् स चकार मेघान् रक्षः-अधिपः बाण-शतैः शित-अग्रैः । तान् वानर-इन्द्रान् अपि बाण-जालैः बिभेद जाम्बूनद-चित्र-पुङ्खैः ॥ ४३ ॥
teṣām prahārān sa cakāra meghān rakṣaḥ-adhipaḥ bāṇa-śataiḥ śita-agraiḥ . tān vānara-indrān api bāṇa-jālaiḥ bibheda jāmbūnada-citra-puṅkhaiḥ .. 43 ..
ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना निपेतुर्भुवि भीमकाया । ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ 44 ॥
ते वानर-इन्द्राः त्रिदश-अरि-बाणैः भिन्नाः निपेतुः भुवि भीम-काया । ततस् तु तत् वानर-सैन्यम् उग्रम् प्रच्छादयामास स बाण-जालैः ॥ ४४ ॥
te vānara-indrāḥ tridaśa-ari-bāṇaiḥ bhinnāḥ nipetuḥ bhuvi bhīma-kāyā . tatas tu tat vānara-sainyam ugram pracchādayāmāsa sa bāṇa-jālaiḥ .. 44 ..
ते वध्यमानाः पतिताश्च वीरा नानद्यमाना भयशल्यविद्धाः । शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ॥ 45 ॥
ते वध्यमानाः पतिताः च वीराः नानद्यमानाः भय-शल्य-विद्धाः । शाखामृगाः रावण-सायक-आर्ताः जग्मुः शरण्यम् शरणम् स्म रामम् ॥ ४५ ॥
te vadhyamānāḥ patitāḥ ca vīrāḥ nānadyamānāḥ bhaya-śalya-viddhāḥ . śākhāmṛgāḥ rāvaṇa-sāyaka-ārtāḥ jagmuḥ śaraṇyam śaraṇam sma rāmam .. 45 ..
ततो महात्मा स धनुर्धनुष्मानादाय रामः सहरा जगाम । तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच रामं परमार्थयुक्तम् ॥ 46 ॥
ततस् महात्मा स धनुः धनुष्मान् आदाय रामः सहराः जगाम । तम् लक्ष्मणः प्राञ्जलिः अभ्युपेत्य उवाच रामम् परम-अर्थ-युक्तम् ॥ ४६ ॥
tatas mahātmā sa dhanuḥ dhanuṣmān ādāya rāmaḥ saharāḥ jagāma . tam lakṣmaṇaḥ prāñjaliḥ abhyupetya uvāca rāmam parama-artha-yuktam .. 46 ..
काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः । विधमिष्याम्यहं चैतमनुजानीहि मां विभो ॥ 47 ॥
कामम् आर्यः सु पर्याप्तः वधाय अस्य दुरात्मनः । विधमिष्यामि अहम् च एतम् अनुजानीहि माम् विभो ॥ ४७ ॥
kāmam āryaḥ su paryāptaḥ vadhāya asya durātmanaḥ . vidhamiṣyāmi aham ca etam anujānīhi mām vibho .. 47 ..
तमब्रवीन्महातेजा रामः सत्यपराक्रमः । गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ॥ 48 ॥
तम् अब्रवीत् महा-तेजाः रामः सत्य-पराक्रमः । गच्छ यत्न-परः च अपि भव लक्ष्मण संयुगे ॥ ४८ ॥
tam abravīt mahā-tejāḥ rāmaḥ satya-parākramaḥ . gaccha yatna-paraḥ ca api bhava lakṣmaṇa saṃyuge .. 48 ..
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः । त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ॥ 49 ॥
रावणः हि महा-वीर्यः रणे अद्भुत-पराक्रमः । त्रैलोक्येन अपि सङ्क्रुद्धः दुष्प्रसह्यः न संशयः ॥ ४९ ॥
rāvaṇaḥ hi mahā-vīryaḥ raṇe adbhuta-parākramaḥ . trailokyena api saṅkruddhaḥ duṣprasahyaḥ na saṃśayaḥ .. 49 ..
तस्य छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय । चक्षुषा धनुषाऽऽत्मानं गोपायस्व समाहितः ॥ 50 ॥
तस्य छिद्राणि मार्गस्व स्व-छिद्राणि च लक्षय । चक्षुषा धनुषा आत्मानम् गोपायस्व समाहितः ॥ ५० ॥
tasya chidrāṇi mārgasva sva-chidrāṇi ca lakṣaya . cakṣuṣā dhanuṣā ātmānam gopāyasva samāhitaḥ .. 50 ..
राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च । अभिवाद्य च रामाय ययौ सौमित्रिराहवे ॥ 51 ॥
राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च । अभिवाद्य च रामाय ययौ सौमित्रिः आहवे ॥ ५१ ॥
rāghavasya vacaḥ śrutvā sampariṣvajya pūjya ca . abhivādya ca rāmāya yayau saumitriḥ āhave .. 51 ..
स रावणं वारणहस्तबाहु ददर्श भीमोद्यतदीप्तचापम् । प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान्भिन्नविकीर्णदेहान् ॥ 52 ॥
स रावणम् वारणहस्त-बाहु ददर्श भीम-उद्यत-दीप्त-चापम् । प्रच्छादयन्तम् शर-वृष्टि-जालैः तान् वानरान् भिन्न-विकीर्ण-देहान् ॥ ५२ ॥
sa rāvaṇam vāraṇahasta-bāhu dadarśa bhīma-udyata-dīpta-cāpam . pracchādayantam śara-vṛṣṭi-jālaiḥ tān vānarān bhinna-vikīrṇa-dehān .. 52 ..
तमालोक्य महातेजा हनूमान्मारुतात्मजा । निवार्य शरजालानि विदुद्राव स रावणम् ॥ 53 ॥
तम् आलोक्य महा-तेजाः हनूमान् मारुतात्मजा । निवार्य शर-जालानि विदुद्राव स रावणम् ॥ ५३ ॥
tam ālokya mahā-tejāḥ hanūmān mārutātmajā . nivārya śara-jālāni vidudrāva sa rāvaṇam .. 53 ..
रथं तस्य समासाद्य बाहुमुद्यम्य दक्षिणम् । त्रासयन् रावणं धीमान्हनूमान्वाक्यमब्रवीत् ॥ 54 ॥
रथम् तस्य समासाद्य बाहुम् उद्यम्य दक्षिणम् । त्रासयन् रावणम् धीमान् हनूमान् वाक्यम् अब्रवीत् ॥ ५४ ॥
ratham tasya samāsādya bāhum udyamya dakṣiṇam . trāsayan rāvaṇam dhīmān hanūmān vākyam abravīt .. 54 ..
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः । अवध्यत्वात्त्वया भग्ना प्राप्तं वानरेभ्यस्तु ते भयम् ॥ 55 ॥
देव-दानव-गन्धर्वैः यक्षैः च सह राक्षसैः । अवध्य-त्वात् त्वया भग्ना प्राप्तम् वानरेभ्यः तु ते भयम् ॥ ५५ ॥
deva-dānava-gandharvaiḥ yakṣaiḥ ca saha rākṣasaiḥ . avadhya-tvāt tvayā bhagnā prāptam vānarebhyaḥ tu te bhayam .. 55 ..
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः । विधमिष्यति ते देहे भूतात्मानं चिरोषितम् ॥ 56 ॥
एष मे दक्षिणः बाहुः पञ्च-शाखः समुद्यतः । विधमिष्यति ते देहे भूतात्मानम् चिर-उषितम् ॥ ५६ ॥
eṣa me dakṣiṇaḥ bāhuḥ pañca-śākhaḥ samudyataḥ . vidhamiṣyati te dehe bhūtātmānam cira-uṣitam .. 56 ..
श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः । संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ 57 ॥
श्रुत्वा हनूमतः वाक्यम् रावणः भीम-विक्रमः । संरक्त-नयनः क्रोधात् इदम् वचनम् अब्रवीत् ॥ ५७ ॥
śrutvā hanūmataḥ vākyam rāvaṇaḥ bhīma-vikramaḥ . saṃrakta-nayanaḥ krodhāt idam vacanam abravīt .. 57 ..
क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि । ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर ॥ 58 ॥
क्षिप्रम् प्रहर निश्शङ्कम् स्थिराम् कीर्तिम् अवाप्नुहि । ततस् त्वाम् ज्ञाति-विक्रान्तम् नाशयिष्यामि वानर ॥ ५८ ॥
kṣipram prahara niśśaṅkam sthirām kīrtim avāpnuhi . tatas tvām jñāti-vikrāntam nāśayiṣyāmi vānara .. 58 ..
रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् । प्रहृतं हि मया पूर्वमक्षं तव सुतं स्मर ॥ 59 ॥
रावणस्य वचः श्रुत्वा वायुसूनुः वचः अब्रवीत् । प्रहृतम् हि मया पूर्वम् अक्षम् तव सुतम् स्मर ॥ ५९ ॥
rāvaṇasya vacaḥ śrutvā vāyusūnuḥ vacaḥ abravīt . prahṛtam hi mayā pūrvam akṣam tava sutam smara .. 59 ..
एवमुक्तो महातेजा रावणो राक्षसेश्वरः । आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ 60 ॥
एवम् उक्तः महा-तेजाः रावणः राक्षसेश्वरः । आजघान अनिलसुतम् तलेन उरसि वीर्यवान् ॥ ६० ॥
evam uktaḥ mahā-tejāḥ rāvaṇaḥ rākṣaseśvaraḥ . ājaghāna anilasutam talena urasi vīryavān .. 60 ..
स तलाभिहतस्तेन चचाल च मुहुर्मुहुः । स्थितो मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ॥ 61 ॥
स तल-अभिहतः तेन चचाल च मुहुर् मुहुर् । स्थितः मुहूर्तम् तेजस्वी स्थैर्यम् कृत्वा महामतिः ॥ ६१ ॥
sa tala-abhihataḥ tena cacāla ca muhur muhur . sthitaḥ muhūrtam tejasvī sthairyam kṛtvā mahāmatiḥ .. 61 ..
आजघान च सङ्क्रुद्धस्तलेनैवामरद्विषम् । ततः स तेनाभिहतो वानरेण महात्मना ॥ 62 ॥
आजघान च सङ्क्रुद्धः तलेन एव अमरद्विषम् । ततस् स तेन अभिहतः वानरेण महात्मना ॥ ६२ ॥
ājaghāna ca saṅkruddhaḥ talena eva amaradviṣam . tatas sa tena abhihataḥ vānareṇa mahātmanā .. 62 ..
दशग्रीवः समाधूतो यथा भूमिचलेऽचलः । सङ्ग्रामे तं तथा दृष्ट्व रावणं तलताडितम् ॥ 63 ॥
दशग्रीवः समाधूतः यथा भूमिचले अचलः । सङ्ग्रामे तम् तथा दृष्ट्वा रावणम् तल-ताडितम् ॥ ६३ ॥
daśagrīvaḥ samādhūtaḥ yathā bhūmicale acalaḥ . saṅgrāme tam tathā dṛṣṭvā rāvaṇam tala-tāḍitam .. 63 ..
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुराः । अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ॥ 64 ॥
ऋषयः वानराः सिद्धाः नेदुः देवाः सह असुराः । अथ आश्वस्य महा-तेजाः रावणः वाक्यम् अब्रवीत् ॥ ६४ ॥
ṛṣayaḥ vānarāḥ siddhāḥ neduḥ devāḥ saha asurāḥ . atha āśvasya mahā-tejāḥ rāvaṇaḥ vākyam abravīt .. 64 ..
साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः । रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥ 65 ॥
साधु वानर-वीर्येण श्लाघनीयः असि मे रिपुः । रावणेन एवम् उक्तः तु मारुतिः वाक्यम् अब्रवीत् ॥ ६५ ॥
sādhu vānara-vīryeṇa ślāghanīyaḥ asi me ripuḥ . rāvaṇena evam uktaḥ tu mārutiḥ vākyam abravīt .. 65 ..
धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण । सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ॥ 66 ॥
धिक् अस्तु मम वीर्यम् तु यत् त्वम् जीवसि रावण । सकृत् तु प्रहर इदानीम् दुर्बुद्धे किम् विकत्थसे ॥ ६६ ॥
dhik astu mama vīryam tu yat tvam jīvasi rāvaṇa . sakṛt tu prahara idānīm durbuddhe kim vikatthase .. 66 ..
ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम् । ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् ॥ 67 ॥
ततस् त्वाम् मामकः मुष्टिः नयिष्यामि यथाक्षयम् । ततस् मारुति-वाक्येन क्रोधः तस्य तदा अज्वलत् ॥ ६७ ॥
tatas tvām māmakaḥ muṣṭiḥ nayiṣyāmi yathākṣayam . tatas māruti-vākyena krodhaḥ tasya tadā ajvalat .. 67 ..
संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् । पातयामास वेगेन वानरोरसि वीर्यवान् ॥ 68 ॥
संरक्त-नयनः यत्नात् मुष्टिम् उद्यम्य दक्षिणम् । पातयामास वेगेन वानर-उरसि वीर्यवान् ॥ ६८ ॥
saṃrakta-nayanaḥ yatnāt muṣṭim udyamya dakṣiṇam . pātayāmāsa vegena vānara-urasi vīryavān .. 68 ..
हनूमान्वक्षसि व्यूधे सञ्चचाल हतः पुनः । विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् ॥ 69 ॥
हनूमान् वक्षसि व्यूधे सञ्चचाल हतः पुनर् । विह्वलम् तम् तदा दृष्ट्वा हनूमन्तम् महा-बलम् ॥ ६९ ॥
hanūmān vakṣasi vyūdhe sañcacāla hataḥ punar . vihvalam tam tadā dṛṣṭvā hanūmantam mahā-balam .. 69 ..
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् । राक्षसानामधिपतिर्धशग्रीवः प्रतापवान् ॥ 70 ॥
रथेन अतिरथः शीघ्रम् नीलम् प्रति समभ्यगात् । राक्षसानाम् अधिपतिः धशग्रीवः प्रतापवान् ॥ ७० ॥
rathena atirathaḥ śīghram nīlam prati samabhyagāt . rākṣasānām adhipatiḥ dhaśagrīvaḥ pratāpavān .. 70 ..
पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः । शरैरादीपयामास नीलं हरिचमूपतिम् ॥ 71 ॥
पन्नग-प्रतिमैः भीमैः पर-मर्म-अतिभेदिभिः । शरैः आदीपयामास नीलम् हरि-चमूपतिम् ॥ ७१ ॥
pannaga-pratimaiḥ bhīmaiḥ para-marma-atibhedibhiḥ . śaraiḥ ādīpayāmāsa nīlam hari-camūpatim .. 71 ..
स शरौघसमायस्तो नीलः कपिचमूपतिः । करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत् ॥ 72 ॥
स शर-ओघ-समायस्तः नीलः कपि-चमूपतिः । करेण एकेन शैल-अग्रम् रक्षः-अधिपतये असृजत् ॥ ७२ ॥
sa śara-ogha-samāyastaḥ nīlaḥ kapi-camūpatiḥ . kareṇa ekena śaila-agram rakṣaḥ-adhipataye asṛjat .. 72 ..
हनूमानपि तेजस्वी समाश्वस्तो महामनाः । विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ 73 ॥
हनूमान् अपि तेजस्वी समाश्वस्तः महा-मनाः । विप्रेक्षमाणः युद्ध-ईप्सुः स रोषम् इदम् अब्रवीत् ॥ ७३ ॥
hanūmān api tejasvī samāśvastaḥ mahā-manāḥ . viprekṣamāṇaḥ yuddha-īpsuḥ sa roṣam idam abravīt .. 73 ..
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् । अन्येन युध्यमानस्य न युक्तमभिधावनम् ॥ 74 ॥
नीलेन सह संयुक्तम् रावणम् राक्षसेश्वरम् । अन्येन युध्यमानस्य न युक्तम् अभिधावनम् ॥ ७४ ॥
nīlena saha saṃyuktam rāvaṇam rākṣaseśvaram . anyena yudhyamānasya na yuktam abhidhāvanam .. 74 ..
रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः । आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ॥ 75 ॥
रावणः अपि महा-तेजाः तद्-शृङ्गम् सप्तभिः शरैः । आजघान सु तीक्ष्ण-अग्रैः तत् विकीर्णम् पपात ह ॥ ७५ ॥
rāvaṇaḥ api mahā-tejāḥ tad-śṛṅgam saptabhiḥ śaraiḥ . ājaghāna su tīkṣṇa-agraiḥ tat vikīrṇam papāta ha .. 75 ..
तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः । कालाग्निरिव जज्वाल क्रोधेन परवीरहा ॥ 76 ॥
तद्-विकीर्णम् गिरेः शृङ्गम् दृष्ट्वा हरि-चमूपतिः । कालाग्निः इव जज्वाल क्रोधेन पर-वीर-हा ॥ ७६ ॥
tad-vikīrṇam gireḥ śṛṅgam dṛṣṭvā hari-camūpatiḥ . kālāgniḥ iva jajvāla krodhena para-vīra-hā .. 76 ..
सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् । अन्यांश्च विविधान्वृक्षान्नीलश्चिक्षेप संयुगे ॥ 77 ॥
सः अश्वकर्ण-अन्धवान् सालान् चूतान् च अपि सु पुष्पितान् । अन्यान् च विविधान् वृक्षान् नीलः चिक्षेप संयुगे ॥ ७७ ॥
saḥ aśvakarṇa-andhavān sālān cūtān ca api su puṣpitān . anyān ca vividhān vṛkṣān nīlaḥ cikṣepa saṃyuge .. 77 ..
स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः । अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ॥ 78 ॥
स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः । अभ्यवर्षत् सु घोरेण शर-वर्षेण पावकिम् ॥ ७८ ॥
sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ . abhyavarṣat su ghoreṇa śara-varṣeṇa pāvakim .. 78 ..
अभिवृष्टः शरौघेण मेघेनेव महाचलः । ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ॥ 79 ॥
अभिवृष्टः शर-ओघेण मेघेन इव महा-अचलः । ह्रस्वम् कृत्वा तदा रूपम् ध्वज-अग्रे निपपात ह ॥ ७९ ॥
abhivṛṣṭaḥ śara-ogheṇa meghena iva mahā-acalaḥ . hrasvam kṛtvā tadā rūpam dhvaja-agre nipapāta ha .. 79 ..
पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् । जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह ॥ 80 ॥
पावकात्मजम् आलोक्य ध्वज-अग्रे समवस्थितम् । जज्वाल रावणः क्रोधात् ततस् नीलः ननाद ह ॥ ८० ॥
pāvakātmajam ālokya dhvaja-agre samavasthitam . jajvāla rāvaṇaḥ krodhāt tatas nīlaḥ nanāda ha .. 80 ..
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् । लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ॥ 81 ॥
ध्वज-अग्रे धनुषः च अग्रे किरीट-अग्रे च तम् हरिम् । लक्ष्मणः अथ हनूमान् च दृष्ट्वा रामः च विस्मिताः ॥ ८१ ॥
dhvaja-agre dhanuṣaḥ ca agre kirīṭa-agre ca tam harim . lakṣmaṇaḥ atha hanūmān ca dṛṣṭvā rāmaḥ ca vismitāḥ .. 81 ..
रावणोऽपि महातेजाः कपिलाघवविस्मितः । अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ॥ 82 ॥
रावणः अपि महा-तेजाः कपि-लाघव-विस्मितः । अस्त्रम् आहारयामास दीप्तम् आग्नेयम् अद्भुतम् ॥ ८२ ॥
rāvaṇaḥ api mahā-tejāḥ kapi-lāghava-vismitaḥ . astram āhārayāmāsa dīptam āgneyam adbhutam .. 82 ..
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्ष्याः प्लवङ्गमाः । नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ॥ 83 ॥
ततस् ते चुक्रुशुः हृष्टाः लब्ध-लक्ष्याः प्लवङ्गमाः । नील-लाघव-सम्भ्रान्तम् दृष्ट्वा रावणम् आहवे ॥ ८३ ॥
tatas te cukruśuḥ hṛṣṭāḥ labdha-lakṣyāḥ plavaṅgamāḥ . nīla-lāghava-sambhrāntam dṛṣṭvā rāvaṇam āhave .. 83 ..
वानराणां च नादेन संरब्धो रावणस्तदा । सम्भ्रमाविष्टहृदयो न किं चित्प्रत्यपद्यत ॥ 84 ॥
वानराणाम् च नादेन संरब्धः रावणः तदा । सम्भ्रम-आविष्ट-हृदयः न किम् चित् प्रत्यपद्यत ॥ ८४ ॥
vānarāṇām ca nādena saṃrabdhaḥ rāvaṇaḥ tadā . sambhrama-āviṣṭa-hṛdayaḥ na kim cit pratyapadyata .. 84 ..
आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् । ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ॥ 85 ॥
आग्नेयेन अथ संयुक्तम् गृहीत्वा रावणः शरम् । ध्वज-शीर्ष-स्थितम् नीलम् उदैक्षत निशाचरः ॥ ८५ ॥
āgneyena atha saṃyuktam gṛhītvā rāvaṇaḥ śaram . dhvaja-śīrṣa-sthitam nīlam udaikṣata niśācaraḥ .. 85 ..
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः । कपे लाघवयुक्तोऽसि मायया परयानया ॥ 86 ॥
ततस् अब्रवीत् महा-तेजाः रावणः राक्षसेश्वरः । कपे लाघव-युक्तः असि मायया परया अनया ॥ ८६ ॥
tatas abravīt mahā-tejāḥ rāvaṇaḥ rākṣaseśvaraḥ . kape lāghava-yuktaḥ asi māyayā parayā anayā .. 86 ..
जीवितं खलु रक्षस्व यदि शक्नोषि वानर । तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः ॥ 87 ॥
जीवितम् खलु रक्षस्व यदि शक्नोषि वानर । तानि तानि आत्म-रूपाणि सृजसे त्वम् अनेकशस् ॥ ८७ ॥
jīvitam khalu rakṣasva yadi śaknoṣi vānara . tāni tāni ātma-rūpāṇi sṛjase tvam anekaśas .. 87 ..
तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः । जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति ॥ 88 ॥
तथा अपि त्वाम् मया मुक्तः सायकः अस्त्र-प्रयोजितः । जीवितम् परिरक्षन्तम् जीवितात् भ्रंशयिष्यति ॥ ८८ ॥
tathā api tvām mayā muktaḥ sāyakaḥ astra-prayojitaḥ . jīvitam parirakṣantam jīvitāt bhraṃśayiṣyati .. 88 ..
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः । सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ॥ 89 ॥
एवम् उक्त्वा महा-बाहुः रावणः राक्षसेश्वरः । सन्धाय बाणम् अस्त्रेण चमूपतिम् अताडयत् ॥ ८९ ॥
evam uktvā mahā-bāhuḥ rāvaṇaḥ rākṣaseśvaraḥ . sandhāya bāṇam astreṇa camūpatim atāḍayat .. 89 ..
सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः । निर्दह्यमानः सहसा निपपात महीतले ॥ 90 ॥
सः अस्त्र-युक्तेन बाणेन नीलः वक्षसि ताडितः । निर्दह्यमानः सहसा निपपात मही-तले ॥ ९० ॥
saḥ astra-yuktena bāṇena nīlaḥ vakṣasi tāḍitaḥ . nirdahyamānaḥ sahasā nipapāta mahī-tale .. 90 ..
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा । जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ॥ 91 ॥
पितृ-माहात्म्य-संयोगात् आत्मनः च अपि तेजसा । जानुभ्याम् अपतत् भूमौ न च प्राणैः व्ययुज्यत ॥ ९१ ॥
pitṛ-māhātmya-saṃyogāt ātmanaḥ ca api tejasā . jānubhyām apatat bhūmau na ca prāṇaiḥ vyayujyata .. 91 ..
विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः । रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ 92 ॥
विसंज्ञम् वानरम् दृष्ट्वा दशग्रीवः रण-उत्सुकः । रथेन अम्बुद-नादेन सौमित्रिम् अभिदुद्रुवे ॥ ९२ ॥
visaṃjñam vānaram dṛṣṭvā daśagrīvaḥ raṇa-utsukaḥ . rathena ambuda-nādena saumitrim abhidudruve .. 92 ..
आसाद्य रणमध्ये तं वारयित्वा स्थितो ज्वलन् । धनुर्विष्फारयामास राक्षसेन्द्रः प्रतापवान् ॥ 93 ॥
आसाद्य रण-मध्ये तम् वारयित्वा स्थितः ज्वलन् । धनुः विष्फारयामास राक्षस-इन्द्रः प्रतापवान् ॥ ९३ ॥
āsādya raṇa-madhye tam vārayitvā sthitaḥ jvalan . dhanuḥ viṣphārayāmāsa rākṣasa-indraḥ pratāpavān .. 93 ..
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् । अवेहि मामद्य निशाचरेन्द्र न वानरांस्त्वं प्रति योद्धुमर्हसि ॥ 94 ॥
तम् आह सौमित्रिः अदीन-सत्त्वः विस्फारयन्तम् धनुः अप्रमेयम् । अवेहि माम् अद्य निशाचर-इन्द्र न वानरान् त्वम् प्रति योद्धुम् अर्हसि ॥ ९४ ॥
tam āha saumitriḥ adīna-sattvaḥ visphārayantam dhanuḥ aprameyam . avehi mām adya niśācara-indra na vānarān tvam prati yoddhum arhasi .. 94 ..
स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा । आसाद्य सौमित्रिमवस्थितं तं रोषान्वितं वाचमुवाच रक्षः ॥ 95 ॥
स तस्य वाक्यम् प्रतिपूर्ण-घोषम् ज्या-शब्दम् उग्रम् च निशम्य राजा । आसाद्य सौमित्रिम् अवस्थितम् तम् रोष-अन्वितम् वाचम् उवाच रक्षः ॥ ९५ ॥
sa tasya vākyam pratipūrṇa-ghoṣam jyā-śabdam ugram ca niśamya rājā . āsādya saumitrim avasthitam tam roṣa-anvitam vācam uvāca rakṣaḥ .. 95 ..
दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः । अस्मिन्क्षणे यास्यसि मृत्युलोकं संसाद्यमानो मम बाणजालैः ॥ 96 ॥
दिष्ट्या असि मे राघव दृष्टि-मार्गम् प्राप्तः अन्त-गामी विपरीत-बुद्धिः । अस्मिन् क्षणे यास्यसि मृत्यु-लोकम् संसाद्यमानः मम बाण-जालैः ॥ ९६ ॥
diṣṭyā asi me rāghava dṛṣṭi-mārgam prāptaḥ anta-gāmī viparīta-buddhiḥ . asmin kṣaṇe yāsyasi mṛtyu-lokam saṃsādyamānaḥ mama bāṇa-jālaiḥ .. 96 ..
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् । राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ॥ 97 ॥
तम् आह सौमित्रिः अविस्मयानः गर्जन्तम् उद्वृत्त-सित-अग्र-दंष्ट्रम् । राजन् न गर्जन्ति महा-प्रभावाः विकत्थसे पाप-कृताम् वरिष्ठ ॥ ९७ ॥
tam āha saumitriḥ avismayānaḥ garjantam udvṛtta-sita-agra-daṃṣṭram . rājan na garjanti mahā-prabhāvāḥ vikatthase pāpa-kṛtām variṣṭha .. 97 ..
जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च । अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥ 98 ॥
जानामि वीर्यम् तव राक्षस-इन्द्र बलम् प्रतापम् च पराक्रमम् च । अवस्थितः अहम् शर-चाप-पाणिः आगच्छ किम् मोघ-विकत्थनेन ॥ ९८ ॥
jānāmi vīryam tava rākṣasa-indra balam pratāpam ca parākramam ca . avasthitaḥ aham śara-cāpa-pāṇiḥ āgaccha kim mogha-vikatthanena .. 98 ..
स एवमुक्तः कुपितः ससर्ज रक्षोऽधिपः सप्त शरान् सुपुङ्खान् । ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश् चिच्छेद बाणैर्निशिताग्रधारैः ॥ 99 ॥
सः एवम् उक्तः कुपितः ससर्ज रक्षः-अधिपः सप्त शरान् सु पुङ्खान् । तान् लक्ष्मणः काञ्चन-चित्र-पुङ्खैः चिच्छेद बाणैः निशित-अग्र-धारैः ॥ ९९ ॥
saḥ evam uktaḥ kupitaḥ sasarja rakṣaḥ-adhipaḥ sapta śarān su puṅkhān . tān lakṣmaṇaḥ kāñcana-citra-puṅkhaiḥ ciccheda bāṇaiḥ niśita-agra-dhāraiḥ .. 99 ..
तान्प्रेक्षमाणः सहसा निकृत्तान् निकृत्तभोगानिव पन्नगेन्द्रान् । लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् ॥ 100 ॥
तान् प्रेक्षमाणः सहसा निकृत्तात् निकृत्त-भोगान् इव पन्नग-इन्द्रान् । लङ्का-ईश्वरः क्रोध-वशम् जगाम ससर्ज च अन्यान् निशितान् पृषत्कान् ॥ १०० ॥
tān prekṣamāṇaḥ sahasā nikṛttāt nikṛtta-bhogān iva pannaga-indrān . laṅkā-īśvaraḥ krodha-vaśam jagāma sasarja ca anyān niśitān pṛṣatkān .. 100 ..
स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् । क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ 101 ॥
स बाण-वर्षम् तु ववर्ष तीव्रम् रामानुजः कार्मुक-सम्प्रयुक्तम् । क्षुर-अर्धचन्द्र-उत्तम-कर्णि-भल्लैः शरान् च चिच्छेद न चुक्षुभे च ॥ १०१ ॥
sa bāṇa-varṣam tu vavarṣa tīvram rāmānujaḥ kārmuka-samprayuktam . kṣura-ardhacandra-uttama-karṇi-bhallaiḥ śarān ca ciccheda na cukṣubhe ca .. 101 ..
स बाणजालान्यपि तानि तानि मोघानि पश्यंस्त्रिदशारिराजः । । विसिस्मिये लक्ष्मणलाघवेन पुनश्च बाणान् निशितान् मुमोच ॥ 102 ॥
स बाण-जालानि अपि तानि तानि मोघानि पश्यन् त्रिदश-अरि-राजः । । विसिस्मिये लक्ष्मण-लाघवेन पुनर् च बाणान् निशितान् मुमोच ॥ १०२ ॥
sa bāṇa-jālāni api tāni tāni moghāni paśyan tridaśa-ari-rājaḥ . . visismiye lakṣmaṇa-lāghavena punar ca bāṇān niśitān mumoca .. 102 ..
स लक्ष्मणश्चाशु शिताञ्शिताग्रान् महेन्द्रतुल्योशनिभीमवेगान् । सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोऽधिपतेर्वधाय ॥ 103 ॥
स लक्ष्मणः च आशु शितान् शित-अग्रान् महा-इन्द्र-तुल्य-उशनि-भीम-वेगान् । सन्धाय चापे ज्वलन-प्रकाशान् ससर्ज रक्षः-अधिपतेः वधाय ॥ १०३ ॥
sa lakṣmaṇaḥ ca āśu śitān śita-agrān mahā-indra-tulya-uśani-bhīma-vegān . sandhāya cāpe jvalana-prakāśān sasarja rakṣaḥ-adhipateḥ vadhāya .. 103 ..
स तान्प्रचिच्छेद हि राक्षसेन्द्रश् शिताञ्शरांल्लक्ष्मणमाजघान । शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ॥ 104 ॥
स तान् प्रचिच्छेद हि राक्षस-इन्द्रः शितान् शरान् लक्ष्मणम् आजघान । शरेण कालाग्नि-सम-प्रभेण स्वयम्भु-दत्तेन ललाट-देशे ॥ १०४ ॥
sa tān praciccheda hi rākṣasa-indraḥ śitān śarān lakṣmaṇam ājaghāna . śareṇa kālāgni-sama-prabheṇa svayambhu-dattena lalāṭa-deśe .. 104 ..
स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य । पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥ 105 ॥
स लक्ष्मणः रावण-सायक-आर्तः चचाल चापम् शिथिलम् प्रगृह्य । पुनर् च संज्ञाम् प्रतिलभ्य कृच्छ्रात् चिच्छेद चापम् त्रिदश-इन्द्र-शत्रोः ॥ १०५ ॥
sa lakṣmaṇaḥ rāvaṇa-sāyaka-ārtaḥ cacāla cāpam śithilam pragṛhya . punar ca saṃjñām pratilabhya kṛcchrāt ciccheda cāpam tridaśa-indra-śatroḥ .. 105 ..
निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः । स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ॥ 106 ॥
निकृत्त-चापम् त्रिभिः आजघान बाणैः तदा दाशरथिः शित-अग्रैः । स सायक-आर्तः विचचाल राजा कृच्छ्रात् च संज्ञाम् पुनर् आससाद ॥ १०६ ॥
nikṛtta-cāpam tribhiḥ ājaghāna bāṇaiḥ tadā dāśarathiḥ śita-agraiḥ . sa sāyaka-ārtaḥ vicacāla rājā kṛcchrāt ca saṃjñām punar āsasāda .. 106 ..
स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः । जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ॥ 107 ॥
स कृत्त-चापः शर-ताडितः च मेदा-आर्द्र-गात्रः रुधिर-अवसिक्तः । जग्राह शक्तिम् समुदग्र-शक्तिः स्वयम्भु-दत्ताम् युधि देवशत्रुः ॥ १०७ ॥
sa kṛtta-cāpaḥ śara-tāḍitaḥ ca medā-ārdra-gātraḥ rudhira-avasiktaḥ . jagrāha śaktim samudagra-śaktiḥ svayambhu-dattām yudhi devaśatruḥ .. 107 ..
स तां सधूमानलसंनिकाशां वित्रासनां संयति वानराणाम् । चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥ 108 ॥
स ताम् स धूम-अनल-संनिकाशाम् वित्रासनाम् संयति वानराणाम् । चिक्षेप शक्तिम् तरसा ज्वलन्तीम् सौमित्रये राक्षस-राष्ट्र-नाथः ॥ १०८ ॥
sa tām sa dhūma-anala-saṃnikāśām vitrāsanām saṃyati vānarāṇām . cikṣepa śaktim tarasā jvalantīm saumitraye rākṣasa-rāṣṭra-nāthaḥ .. 108 ..
तामापतन्तीं भरतानुजोऽस्त्रैर्जघान बाणैश्च हुताग्निकल्पैः । तथापि सा तस्य विवेश शक्तिर्भुजान्तरं दाशरथेर्विशालम् ॥ 109 ॥
ताम् आपतन्तीम् भरत-अनुजः अस्त्रैः जघान बाणैः च हुत-अग्नि-कल्पैः । तथा अपि सा तस्य विवेश शक्तिः भुजान्तरम् दाशरथेः विशालम् ॥ १०९ ॥
tām āpatantīm bharata-anujaḥ astraiḥ jaghāna bāṇaiḥ ca huta-agni-kalpaiḥ . tathā api sā tasya viveśa śaktiḥ bhujāntaram dāśaratheḥ viśālam .. 109 ..
स शक्तिमाञ्शक्तिसमाहतः सन् जज्वाल भूमौ स रघुप्रवीरः । तं विह्वलन्तं सहसाभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ॥ 110 ॥
स शक्तिमान् शक्ति-समाहतः सन् जज्वाल भूमौ स रघु-प्रवीरः । तम् विह्वलन्तम् सहसा अभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ॥ ११० ॥
sa śaktimān śakti-samāhataḥ san jajvāla bhūmau sa raghu-pravīraḥ . tam vihvalantam sahasā abhyupetya jagrāha rājā tarasā bhujābhyām .. 110 ..
हिमवान् मन्दरो मेरुस्तैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तुं न शक्यो भरतानुजः ॥ 111 ॥
हिमवान् मन्दरः मेरुः तैलोक्यम् वा सह अमरैः । शक्यम् भुजाभ्याम् उद्धर्तुम् न शक्यः भरत-अनुजः ॥ १११ ॥
himavān mandaraḥ meruḥ tailokyam vā saha amaraiḥ . śakyam bhujābhyām uddhartum na śakyaḥ bharata-anujaḥ .. 111 ..
शक्त्या ब्राम्या तु सौमित्रिस्ताडितस्तु स्तनान्तरे । विष्णोरमीमांस्यभागमात्मानं प्रत्यनुस्मरत् ॥ 112 ॥
शक्त्या ब्राम्या तु सौमित्रिः ताडितः तु स्तनान्तरे । विष्णोः अमीमांस्य-भागम् आत्मानम् प्रत्यनुस्मरत् ॥ ११२ ॥
śaktyā brāmyā tu saumitriḥ tāḍitaḥ tu stanāntare . viṣṇoḥ amīmāṃsya-bhāgam ātmānam pratyanusmarat .. 112 ..
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः । तं पीडयित्वा बाहुभ्याम न प्रभुर्लङ्घनेऽभवत् ॥ 113 ॥
ततस् दानव-दर्प-घ्नम् सौमित्रिम् देव-कण्टकः । तम् पीडयित्वा न प्रभुः लङ्घने अभवत् ॥ ११३ ॥
tatas dānava-darpa-ghnam saumitrim deva-kaṇṭakaḥ . tam pīḍayitvā na prabhuḥ laṅghane abhavat .. 113 ..
तत् क्रुध्दो वायुसुतो क्रुद्धो रावणं समभिद्रवत् । आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥ 114 ॥
तत् क्रुध्दः वायुसुतः क्रुद्धः रावणम् समभिद्रवत् । आजघान उरसि क्रुद्धः वज्र-कल्पेन मुष्टिना ॥ ११४ ॥
tat krudhdaḥ vāyusutaḥ kruddhaḥ rāvaṇam samabhidravat . ājaghāna urasi kruddhaḥ vajra-kalpena muṣṭinā .. 114 ..
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः । जानुभ्यामपतद्भूमौ चचाल च पपात च ॥ 115 ॥
तेन मुष्टि-प्रहारेण रावणः राक्षसेश्वरः । जानुभ्याम् अपतत् भूमौ चचाल च पपात च ॥ ११५ ॥
tena muṣṭi-prahāreṇa rāvaṇaḥ rākṣaseśvaraḥ . jānubhyām apatat bhūmau cacāla ca papāta ca .. 115 ..
अस्यैश्च नेत्रै श्रवणैः पपात रुधिरं बहु । विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ॥ 116 ॥
अस्यैः च नेत्रैः श्रवणैः पपात रुधिरम् बहु । विघूर्णमानः निश्चेष्टः रथोपस्थे उपाविशत् ॥ ११६ ॥
asyaiḥ ca netraiḥ śravaṇaiḥ papāta rudhiram bahu . vighūrṇamānaḥ niśceṣṭaḥ rathopasthe upāviśat .. 116 ..
विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितोऽभवत् । विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ॥ 117 ॥
विसंज्ञम् लक्ष्मणम् दृष्ट्वा रावणः विस्मितः अभवत् । विसंज्ञम् रावणम् दृष्ट्वा समरे भीम-विक्रमम् ॥ ११७ ॥
visaṃjñam lakṣmaṇam dṛṣṭvā rāvaṇaḥ vismitaḥ abhavat . visaṃjñam rāvaṇam dṛṣṭvā samare bhīma-vikramam .. 117 ..
ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः । हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ॥ 118 ॥
ऋषयः वानराः च एव नेदुः देवाः स वासवाः । हनूमान् अपि तेजस्वी लक्ष्मणम् रावण-अर्दितम् ॥ ११८ ॥
ṛṣayaḥ vānarāḥ ca eva neduḥ devāḥ sa vāsavāḥ . hanūmān api tejasvī lakṣmaṇam rāvaṇa-arditam .. 118 ..
अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् । वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः । शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः ॥ 119 ॥
अनयत् राघव-अभ्याशम् बाहुभ्याम् परिगृह्य तम् । वायुसूनोः सुहृद्-त्वेन भक्त्या परमया च सः । शत्रूणाम् अप्रकम्प्यः अपि लघु-त्वम् अगमत् कपेः ॥ ११९ ॥
anayat rāghava-abhyāśam bāhubhyām parigṛhya tam . vāyusūnoḥ suhṛd-tvena bhaktyā paramayā ca saḥ . śatrūṇām aprakampyaḥ api laghu-tvam agamat kapeḥ .. 119 ..
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् । रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत् ॥ 120 ॥
तम् समुत्सृज्य सा शक्तिः सौमित्रिम् युधि दुर्जयम् । रावणस्य रथे तस्मिन् स्थानम् पुनर् उपागमत् ॥ १२० ॥
tam samutsṛjya sā śaktiḥ saumitrim yudhi durjayam . rāvaṇasya rathe tasmin sthānam punar upāgamat .. 120 ..
रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे । आददे निशितान्बाणाञ्जग्राह च महद्धनुः ॥ 121 ॥
रावणः अपि महा-तेजाः प्राप्य संज्ञाम् महा-आहवे । आददे निशितान् बाणान् जग्राह च महत् धनुः ॥ १२१ ॥
rāvaṇaḥ api mahā-tejāḥ prāpya saṃjñām mahā-āhave . ādade niśitān bāṇān jagrāha ca mahat dhanuḥ .. 121 ..
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः । विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ 122 ॥
आश्वस्तः च विशल्यः च लक्ष्मणः शत्रु-सूदनः । विष्णोः भागम् अमीमांस्यम् आत्मानम् प्रत्यनुस्मरन् ॥ १२२ ॥
āśvastaḥ ca viśalyaḥ ca lakṣmaṇaḥ śatru-sūdanaḥ . viṣṇoḥ bhāgam amīmāṃsyam ātmānam pratyanusmaran .. 122 ..
निपातितमहावीरां वानराणां महाचमूम् । राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ 123 ॥
निपातित-महा-वीराम् वानराणाम् महा-चमूम् । राघवः तु रणे दृष्ट्वा रावणम् समभिद्रवत् ॥ १२३ ॥
nipātita-mahā-vīrām vānarāṇām mahā-camūm . rāghavaḥ tu raṇe dṛṣṭvā rāvaṇam samabhidravat .. 123 ..
अथैनमुपसङ्गम्य हनूमान्वाक्यमब्रवीत् । मम पृष्ठं समारुह्य रक्षसं शास्तुमर्हसि ॥ 124 ॥
अथा एनम् उपसङ्गम्य हनूमान् वाक्यम् अब्रवीत् । मम पृष्ठम् समारुह्य रक्षसम् शास्तुम् अर्हसि ॥ १२४ ॥
athā enam upasaṅgamya hanūmān vākyam abravīt . mama pṛṣṭham samāruhya rakṣasam śāstum arhasi .. 124 ..
विष्णुर्यथा गरुत्मन्तंबलवन्तंसमाहितः । तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ॥ 125 ॥
विष्णुः यथा गरुत्मन्तम् बलवन्तम् समाहितः । तत् श्रुत्वा राघवः वाक्यम् वायुपुत्रेण भाषितम् ॥ १२५ ॥
viṣṇuḥ yathā garutmantam balavantam samāhitaḥ . tat śrutvā rāghavaḥ vākyam vāyuputreṇa bhāṣitam .. 125 ..
अथारूरोह सहसा हनूमन्तं महाकपिम् । रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ॥ 126 ॥
अथा आरूरोह सहसा हनूमन्तम् महा-कपिम् । रथ-स्थम् रावणम् सङ्ख्ये ददर्श मनुज-अधिपः ॥ १२६ ॥
athā ārūroha sahasā hanūmantam mahā-kapim . ratha-stham rāvaṇam saṅkhye dadarśa manuja-adhipaḥ .. 126 ..
तमालोक्य महातेजाः प्रदुद्राव स राघवः । वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥ 127 ॥
तम् आलोक्य महा-तेजाः प्रदुद्राव स राघवः । वैरोचनम् इव क्रुद्धः विष्णुः अभ्युद्यत-आयुधः ॥ १२७ ॥
tam ālokya mahā-tejāḥ pradudrāva sa rāghavaḥ . vairocanam iva kruddhaḥ viṣṇuḥ abhyudyata-āyudhaḥ .. 127 ..
ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् । गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ 128 ॥
ज्या-शब्दम् अकरोत् तीव्रम् वज्र-निष्पेष-निस्वनम् । गिरा गम्भीरया रामः राक्षस-इन्द्रम् उवाच ह ॥ १२८ ॥
jyā-śabdam akarot tīvram vajra-niṣpeṣa-nisvanam . girā gambhīrayā rāmaḥ rākṣasa-indram uvāca ha .. 128 ..
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् । क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ॥ 129 ॥
तिष्ठ तिष्ठ मम त्वम् हि कृत्वा विप्रियम् ईदृशम् । क्व नु राक्षस-शार्दूल गतः मोक्षम् अवाप्स्यसि ॥ १२९ ॥
tiṣṭha tiṣṭha mama tvam hi kṛtvā vipriyam īdṛśam . kva nu rākṣasa-śārdūla gataḥ mokṣam avāpsyasi .. 129 ..
यदीन्द्रवैवस्वत भास्करान्वा स्वयम्भुवैश्वानरशङ्करान्वा । गमिष्यसि त्वं दश वा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे ॥ 130 ॥
यदि इन्द्र-वैवस्वत भास्करान् वा स्वयम्भु-वैश्वानर-शङ्करान् वा । गमिष्यसि त्वम् दश वा दिशः वा तथा अपि मे न अद्य गतः विमोक्ष्यसे ॥ १३० ॥
yadi indra-vaivasvata bhāskarān vā svayambhu-vaiśvānara-śaṅkarān vā . gamiṣyasi tvam daśa vā diśaḥ vā tathā api me na adya gataḥ vimokṣyase .. 130 ..
यश्चैष शक्त्याभिहतस्त्वयाद्य इच्छन्विषादं सहसाभ्युपेतः । स एष रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे ॥ 131 ॥
यः च एष शक्त्या अभिहतः त्वया अद्य इच्छन् विषादम् सहसा अभ्युपेतः । सः एष रक्षः-गण-राज मृत्युः स पुत्र-दारस्य तव अद्य युद्धे ॥ १३१ ॥
yaḥ ca eṣa śaktyā abhihataḥ tvayā adya icchan viṣādam sahasā abhyupetaḥ . saḥ eṣa rakṣaḥ-gaṇa-rāja mṛtyuḥ sa putra-dārasya tava adya yuddhe .. 131 ..
एतेन चात्यद्भुतदर्शनानि शरैर्जवस्थानकृतालयानि । चतुर्धशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ॥ 132 ॥
एतेन च अति अद्भुत-दर्शनानि शरैः जव-स्थान-कृत-आलयानि । चतुर्धशानि आत्त-वर-आयुधानि रक्षः-सहस्राणि निषूदितानि ॥ १३२ ॥
etena ca ati adbhuta-darśanāni śaraiḥ java-sthāna-kṛta-ālayāni . caturdhaśāni ātta-vara-āyudhāni rakṣaḥ-sahasrāṇi niṣūditāni .. 132 ..
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् । आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ॥ 133 ॥
राघवस्य वचः श्रुत्वा राक्षस-इन्द्रः महा-कपिम् । आजघान शरैः तीक्ष्णैः काल-अनल-शिखा-उपमैः ॥ १३३ ॥
rāghavasya vacaḥ śrutvā rākṣasa-indraḥ mahā-kapim . ājaghāna śaraiḥ tīkṣṇaiḥ kāla-anala-śikhā-upamaiḥ .. 133 ..
रोषेण महताविष्टः पूर्ववैरमनुस्मरन् । आजघान शरैर्दीप्स्सैः कालानलशिखोपमैः ॥ 134 ॥
रोषेण महता आविष्टः पूर्व-वैरम् अनुस्मरन् । आजघान शरैः दीप्स्सैः काल-अनल-शिखा-उपमैः ॥ १३४ ॥
roṣeṇa mahatā āviṣṭaḥ pūrva-vairam anusmaran . ājaghāna śaraiḥ dīpssaiḥ kāla-anala-śikhā-upamaiḥ .. 134 ..
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः । स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत ॥ 135 ॥
राक्षसेन आहवे तस्य ताडितस्य अपि सायकैः । स्वभाव-तेजः-युक्तस्य भूयः तेजः व्यवर्धत ॥ १३५ ॥
rākṣasena āhave tasya tāḍitasya api sāyakaiḥ . svabhāva-tejaḥ-yuktasya bhūyaḥ tejaḥ vyavardhata .. 135 ..
ततो रामो महातेजा रावणेन कृतव्रणम् । दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ॥ 136 ॥
ततस् रामः महा-तेजाः रावणेन कृत-व्रणम् । दृष्ट्वा प्लवग-शार्दूलम् क्रोधस्य वशम् एयिवान् ॥ १३६ ॥
tatas rāmaḥ mahā-tejāḥ rāvaṇena kṛta-vraṇam . dṛṣṭvā plavaga-śārdūlam krodhasya vaśam eyivān .. 136 ..
तस्याभिसङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् । ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ॥ 137 ॥
तस्य अभिसङ्क्रम्य रथम् स चक्रम् स अश्व-ध्वज-छत्र-महा-पताकम् । स सारथिम् स अशनि-शूल-खड्गम् रामः प्रचिच्छेद शरैः सु पुङ्खैः ॥ १३७ ॥
tasya abhisaṅkramya ratham sa cakram sa aśva-dhvaja-chatra-mahā-patākam . sa sārathim sa aśani-śūla-khaḍgam rāmaḥ praciccheda śaraiḥ su puṅkhaiḥ .. 137 ..
अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन । भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ॥ 138 ॥
अथा इन्द्र-शत्रुम् तरसा जघान बाणेन वज्र-अशनि-संनिभेन । भुजान्तरे व्यूढ-सुजात-रूपे वज्रेण मेरुम् भगवान् इव इन्द्रः ॥ १३८ ॥
athā indra-śatrum tarasā jaghāna bāṇena vajra-aśani-saṃnibhena . bhujāntare vyūḍha-sujāta-rūpe vajreṇa merum bhagavān iva indraḥ .. 138 ..
यो वज्रपाताशनिसंनिपातान् न चुक्षुभे नापि चचाल राजा । स रामबाणाभिहतो भृशार्तश् चचाल चापं च मुमोच वीरः ॥ 139 ॥
यः वज्र-पात-अशनि-संनिपातात् न चुक्षुभे ना अपि चचाल राजा । स राम-बाण-अभिहतः भृश-आर्तः चचाल चापम् च मुमोच वीरः ॥ १३९ ॥
yaḥ vajra-pāta-aśani-saṃnipātāt na cukṣubhe nā api cacāla rājā . sa rāma-bāṇa-abhihataḥ bhṛśa-ārtaḥ cacāla cāpam ca mumoca vīraḥ .. 139 ..
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् । तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोऽधिपतेर्महात्माः ॥ 140 ॥
तम् विह्वलन्तम् प्रसमीक्ष्य रामः समाददे दीप्तम् अथ अर्धचन्द्रम् । तेन अर्क-वर्णम् सहसा किरीटम् चिच्छेद रक्षः-अधिपतेः महात्माः ॥ १४० ॥
tam vihvalantam prasamīkṣya rāmaḥ samādade dīptam atha ardhacandram . tena arka-varṇam sahasā kirīṭam ciccheda rakṣaḥ-adhipateḥ mahātmāḥ .. 140 ..
तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् । गतश्रियं कृत्तकिरीटकूटम् उवाच रामो युधि राक्षसेन्द्रम् ॥ 141 ॥
तम् निर्विष-आशीविष-संनिकाशम् शान्त-अर्चिषम् सूर्यम् इव अप्रकाशम् । गत-श्रियम् कृत्त-किरीट-कूटम् उवाच रामः युधि राक्षस-इन्द्रम् ॥ १४१ ॥
tam nirviṣa-āśīviṣa-saṃnikāśam śānta-arciṣam sūryam iva aprakāśam . gata-śriyam kṛtta-kirīṭa-kūṭam uvāca rāmaḥ yudhi rākṣasa-indram .. 141 ..
कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् । तस्मात्परिश्रान्त इति व्यवस्य न त्वं शरैर्मृत्युवशं नयामि ॥ 142 ॥
कृतम् त्वया कर्म महत् सु भीमम् हत-प्रवीरः च कृतः त्वया अहम् । तस्मात् परिश्रान्तः इति व्यवस्य न त्वम् शरैः मृत्यु-वशम् नयामि ॥ १४२ ॥
kṛtam tvayā karma mahat su bhīmam hata-pravīraḥ ca kṛtaḥ tvayā aham . tasmāt pariśrāntaḥ iti vyavasya na tvam śaraiḥ mṛtyu-vaśam nayāmi .. 142 ..
प्रयाहि जानामि रणार्धितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् । आश्वस्य निर्याहि रथी च धन्वी तदा बलं प्रेक्ष्यसि मे रथस्थः ॥ 143 ॥
प्रयाहि जानामि रण-अर्धितः त्वम् प्रविश्य रात्रिंचर-राज लङ्काम् । आश्वस्य निर्याहि रथी च धन्वी तदा बलम् प्रेक्ष्यसि मे रथ-स्थः ॥ १४३ ॥
prayāhi jānāmi raṇa-ardhitaḥ tvam praviśya rātriṃcara-rāja laṅkām . āśvasya niryāhi rathī ca dhanvī tadā balam prekṣyasi me ratha-sthaḥ .. 143 ..
स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः । शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स्म राजा ॥ 144 ॥
सः एवम् उक्तः हत-दर्प-हर्षः निकृत्त-चापः स हत-अश्व-सूतः । शर-अर्दितः कृत्त-महा-किरीटः विवेश लङ्काम् सहसा स्म राजा ॥ १४४ ॥
saḥ evam uktaḥ hata-darpa-harṣaḥ nikṛtta-cāpaḥ sa hata-aśva-sūtaḥ . śara-arditaḥ kṛtta-mahā-kirīṭaḥ viveśa laṅkām sahasā sma rājā .. 144 ..
तस्मिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ । हरीन्विशल्यान्सहलक्ष्मणेन चकार रामः परमाहवाग्रे ॥ 145 ॥
तस्मिन् प्रविष्टे रजनीचर-इन्द्रे महा-बले दानव-देव-शत्रौ । हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परम-आहव-अग्रे ॥ १४५ ॥
tasmin praviṣṭe rajanīcara-indre mahā-bale dānava-deva-śatrau . harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ parama-āhava-agre .. 145 ..
तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश् च । ससागराः सर्षिमहोरगाश् च तथैव भूम्यम्बुचराश्च हृष्टाः ॥ 146 ॥
तस्मिन् प्रभग्ने त्रिदश-इन्द्र-शत्रौ सुर-असुराः भूत-गणाः दिशः च । स सागराः स ऋषि-महा-उरगाः च तथा एव भूमि-अम्बु-चराः च हृष्टाः ॥ १४६ ॥
tasmin prabhagne tridaśa-indra-śatrau sura-asurāḥ bhūta-gaṇāḥ diśaḥ ca . sa sāgarāḥ sa ṛṣi-mahā-uragāḥ ca tathā eva bhūmi-ambu-carāḥ ca hṛṣṭāḥ .. 146 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In