This overlay will guide you through the buttons:

| |
|
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना । अब्रवीद्राक्षसान्सर्वान्ह्रिया किं चिदवाङ्मुखः ॥ १॥
लङ्कायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भवावहम् । राक्षस-इन्द्रः हनुमता शक्रेण इव महात्मना । अब्रवीत् राक्षसान् सर्वान् ह्रिया किम् चित् अवाङ्मुखः ॥ १॥
laṅkāyām tu kṛtam karma ghoram dṛṣṭvā bhavāvaham . rākṣasa-indraḥ hanumatā śakreṇa iva mahātmanā . abravīt rākṣasān sarvān hriyā kim cit avāṅmukhaḥ .. 1..
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी । तेन वानरमात्रेण दृष्टा सीता च जानकी ॥ २॥
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी । तेन वानर-मात्रेण दृष्टा सीता च जानकी ॥ २॥
dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī . tena vānara-mātreṇa dṛṣṭā sītā ca jānakī .. 2..
प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः । आविला च पुरी लङ्का सर्वा हनुमता कृता ॥ ३॥
प्रसादः धर्षितः चैत्यः प्रवराः राक्षसाः हताः । आविला च पुरी लङ्का सर्वा हनुमता कृता ॥ ३॥
prasādaḥ dharṣitaḥ caityaḥ pravarāḥ rākṣasāḥ hatāḥ . āvilā ca purī laṅkā sarvā hanumatā kṛtā .. 3..
किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् । उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् ॥ ४॥
किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् । उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् ॥ ४॥
kim kariṣyāmi bhadram vaḥ kim vā yuktam anantaram . ucyatām naḥ samartham yat kṛtam ca sukṛtam bhavet .. 4..
मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः । तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः ॥ ५॥
मन्त्र-मूलम् हि विजयम् प्राहुः आर्याः मनस्विनः । तस्मात् वै रोचये मन्त्रम् रामम् प्रति महा-बलाः ॥ ५॥
mantra-mūlam hi vijayam prāhuḥ āryāḥ manasvinaḥ . tasmāt vai rocaye mantram rāmam prati mahā-balāḥ .. 5..
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः । तेषां तु समवेतानां गुणदोषं वदाम्यहम् ॥ ६॥
त्रिविधाः पुरुषाः लोके उत्तम-अधम-मध्यमाः । तेषाम् तु समवेतानाम् गुण-दोषम् वदामि अहम् ॥ ६॥
trividhāḥ puruṣāḥ loke uttama-adhama-madhyamāḥ . teṣām tu samavetānām guṇa-doṣam vadāmi aham .. 6..
मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये । मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः ॥ ७॥
मन्त्रिभिः हित-संयुक्तैः समर्थैः मन्त्र-निर्णये । मित्रैः वा अपि समान-अर्थैः बान्धवैः अपि वा हितैः ॥ ७॥
mantribhiḥ hita-saṃyuktaiḥ samarthaiḥ mantra-nirṇaye . mitraiḥ vā api samāna-arthaiḥ bāndhavaiḥ api vā hitaiḥ .. 7..
सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् । दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥ ८॥
सहितः मन्त्रयित्वा यः कर्म-आरम्भान् प्रवर्तयेत् । दैवे च कुरुते यत्नम् तम् आहुः पुरुषोत्तमम् ॥ ८॥
sahitaḥ mantrayitvā yaḥ karma-ārambhān pravartayet . daive ca kurute yatnam tam āhuḥ puruṣottamam .. 8..
एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः । एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ ९॥
एकः अर्थम् विमृशेत् एकः धर्मे प्रकुरुते मनः । एकः कार्याणि कुरुते तम् आहुः मध्यमम् नरम् ॥ ९॥
ekaḥ artham vimṛśet ekaḥ dharme prakurute manaḥ . ekaḥ kāryāṇi kurute tam āhuḥ madhyamam naram .. 9..
गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम् । करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः ॥ १०॥
गुण-दोषौ अ निश्चित्य त्यक्त्वा दैव-व्यपाश्रयम् । करिष्यामि इति यः कार्यम् उपेक्षेत् स नर-अधमः ॥ १०॥
guṇa-doṣau a niścitya tyaktvā daiva-vyapāśrayam . kariṣyāmi iti yaḥ kāryam upekṣet sa nara-adhamaḥ .. 10..
यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः । एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ॥ ११॥
यथा इमे पुरुषाः नित्यम् उत्तम-अधम-मध्यमाः । एवम् मन्त्रः अपि विज्ञेयः उत्तम-अधम-मध्यमः ॥ ११॥
yathā ime puruṣāḥ nityam uttama-adhama-madhyamāḥ . evam mantraḥ api vijñeyaḥ uttama-adhama-madhyamaḥ .. 11..
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा । मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम् ॥ १२॥
ऐकमत्यम् उपागम्य शास्त्र-दृष्टेन चक्षुषा । मन्त्रिणः यत्र निरस्ताः तम् आहुः मन्त्रम् उत्तमम् ॥ १२॥
aikamatyam upāgamya śāstra-dṛṣṭena cakṣuṣā . mantriṇaḥ yatra nirastāḥ tam āhuḥ mantram uttamam .. 12..
बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये । पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ॥ १३॥
बह्व्यः अपि मतयः गत्वा मन्त्रिणः हि अर्थ-निर्णये । पुनर् यत्र एक-ताम् प्राप्तः स मन्त्रः मध्यमः स्मृतः ॥ १३॥
bahvyaḥ api matayaḥ gatvā mantriṇaḥ hi artha-nirṇaye . punar yatra eka-tām prāptaḥ sa mantraḥ madhyamaḥ smṛtaḥ .. 13..
अन्योन्यमतिमास्थाय यत्र सम्प्रतिभाष्यते । न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ॥ १४॥
अन्योन्य-मतिम् आस्थाय यत्र सम्प्रतिभाष्यते । न च एकमत्ये श्रेयः अस्ति मन्त्रः सः अधमः उच्यते ॥ १४॥
anyonya-matim āsthāya yatra sampratibhāṣyate . na ca ekamatye śreyaḥ asti mantraḥ saḥ adhamaḥ ucyate .. 14..
तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः । कार्यं सम्प्रतिपद्यन्तामेतत्कृत्यतमं मम ॥ १५॥
तस्मात् सु मन्त्रितम् साधु भवन्तः मन्त्रि-सत्तमाः । कार्यम् सम्प्रतिपद्यन्ताम् एतत् कृत्यतमम् मम ॥ १५॥
tasmāt su mantritam sādhu bhavantaḥ mantri-sattamāḥ . kāryam sampratipadyantām etat kṛtyatamam mama .. 15..
वानराणां हि वीराणां सहस्रैः परिवारितः । रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ॥ १६॥
वानराणाम् हि वीराणाम् सहस्रैः परिवारितः । रामः अभ्येति पुरीम् लङ्काम् अस्माकम् उपरोधकः ॥ १६॥
vānarāṇām hi vīrāṇām sahasraiḥ parivāritaḥ . rāmaḥ abhyeti purīm laṅkām asmākam uparodhakaḥ .. 16..
तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् । तरसा युक्तरूपेण सानुजः सबलानुगः ॥ १७॥
तरिष्यति च सु व्यक्तम् राघवः सागरम् सुखम् । तरसा युक्त-रूपेण स अनुजः स बल-अनुगः ॥ १७॥
tariṣyati ca su vyaktam rāghavaḥ sāgaram sukham . tarasā yukta-rūpeṇa sa anujaḥ sa bala-anugaḥ .. 17..
समुद्रमुच्छोषयतिवीर्येणान्यत्करोतिवा । तस्मिन्नेवंविधे कार्ये विरुद्धे वानरैः सह । हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम ॥ १८॥
समुद्रम् उच्छोषयति वीर्येण अन्यत् करोति वा । तस्मिन् एवंविधे कार्ये विरुद्धे वानरैः सह । हितम् पुरे च सैन्ये च सर्वम् संमन्त्र्यताम् मम ॥ १८॥
samudram ucchoṣayati vīryeṇa anyat karoti vā . tasmin evaṃvidhe kārye viruddhe vānaraiḥ saha . hitam pure ca sainye ca sarvam saṃmantryatām mama .. 18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In