This overlay will guide you through the buttons:

| |
|
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः । भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ 1 ॥
स प्रविश्य पुरीम् लङ्काम् राम-बाण-भय-अर्दितः । भग्न-दर्पः तदा राजा बभूव व्यथित-इन्द्रियः ॥ १ ॥
sa praviśya purīm laṅkām rāma-bāṇa-bhaya-arditaḥ . bhagna-darpaḥ tadā rājā babhūva vyathita-indriyaḥ .. 1 ..
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः । अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ 2 ॥
मातङ्गः इव सिंहेन गरुडेन इव पन्नगः । अभिभूतः अभवत् राजा राघवेण महात्मना ॥ २ ॥
mātaṅgaḥ iva siṃhena garuḍena iva pannagaḥ . abhibhūtaḥ abhavat rājā rāghaveṇa mahātmanā .. 2 ..
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् । स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः ॥ 3 ॥
ब्रह्म-दण्ड-प्रकाशानाम् विद्युत्-सदृश-वर्चसाम् । स्मरन् राघव-बाणानाम् विव्यथे राक्षसेश्वरः ॥ ३ ॥
brahma-daṇḍa-prakāśānām vidyut-sadṛśa-varcasām . smaran rāghava-bāṇānām vivyathe rākṣaseśvaraḥ .. 3 ..
स काञ्चनमयं दिव्यमाश्रित्य परमासनम् । विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥ 4 ॥
स काञ्चन-मयम् दिव्यम् आश्रित्य परम-आसनम् । विश्-प्रेक्षमाणः रक्षांसि रावणः वाक्यम् अब्रवीत् ॥ ४ ॥
sa kāñcana-mayam divyam āśritya parama-āsanam . viś-prekṣamāṇaḥ rakṣāṃsi rāvaṇaḥ vākyam abravīt .. 4 ..
सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः । यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः ॥ 5 ॥
सर्वम् तत् खलु मे मोघम् यत् तप्तम् परमम् तपः । यद्-समानः महा-इन्द्रेण मानुषेण अस्मि निर्जितः ॥ ५ ॥
sarvam tat khalu me mogham yat taptam paramam tapaḥ . yad-samānaḥ mahā-indreṇa mānuṣeṇa asmi nirjitaḥ .. 5 ..
इदं तद्ब्रह्मणो घोरं वाक्यं माम् अभ्युपस्थितम् । मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥ 6 ॥
इदम् तत् ब्रह्मणः घोरम् वाक्यम् माम् अभ्युपस्थितम् । मानुषेभ्यः विजानीहि भयम् त्वम् इति तत् तथा ॥ ६ ॥
idam tat brahmaṇaḥ ghoram vākyam mām abhyupasthitam . mānuṣebhyaḥ vijānīhi bhayam tvam iti tat tathā .. 6 ..
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ॥ 7 ॥
देव-दानव-गन्धर्वैः यक्ष-राक्षस-पन्नगैः । अवध्य-त्वम् मया प्राप्तम् मानुषेभ्यः न याचितम् ॥ ७ ॥
deva-dānava-gandharvaiḥ yakṣa-rākṣasa-pannagaiḥ . avadhya-tvam mayā prāptam mānuṣebhyaḥ na yācitam .. 7 ..
तमिमं मानुषं मन्ये रामं दशरथात्मजम् । इक्ष्वाकुकुलजातेन अनरण्येन यत् पुरा ॥ 8 ॥
तम् इमम् मानुषम् मन्ये रामम् दशरथ-आत्मजम् । इक्ष्वाकु-कुल-जातेन अनरण्येन यत् पुरा ॥ ८ ॥
tam imam mānuṣam manye rāmam daśaratha-ātmajam . ikṣvāku-kula-jātena anaraṇyena yat purā .. 8 ..
उत्पत्स्यति हि मद्वंशेपुरुषो राक्षसाधम् । यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ॥ 9 ॥
उत्पत्स्यति हि मद्-वंशे पुरुषः राक्षसाधम् । यः त्वाम् स पुत्रम् स अमात्यम् स बलम् स अश्व-सारथिम् ॥ ९ ॥
utpatsyati hi mad-vaṃśe puruṣaḥ rākṣasādham . yaḥ tvām sa putram sa amātyam sa balam sa aśva-sārathim .. 9 ..
निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते । शप्तोऽहं वेदवत्या च यदा सा धर्षितापुरा ॥ 10 ॥
निहनिष्यति सङ्ग्रामे त्वाम् कुल-अधम दुर्मते । शप्तः अहम् वेदवत्या च यदा सा धर्षिता पुरा ॥ १० ॥
nihaniṣyati saṅgrāme tvām kula-adhama durmate . śaptaḥ aham vedavatyā ca yadā sā dharṣitā purā .. 10 ..
सेयं सीता महाभागा जाता जनकनन्दिनी । उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ॥ 11 ॥
सा इयम् सीता महाभागा जाता जनक-नन्दिनी । उमा नन्दीश्वरः च अपि रम्भा वरुण-कन्यका ॥ ११ ॥
sā iyam sītā mahābhāgā jātā janaka-nandinī . umā nandīśvaraḥ ca api rambhā varuṇa-kanyakā .. 11 ..
यथोक्तास्तन्मया प्राप्तं न मिथ्या ऋषिभाषितम् । एतदेवा समागम्य यत्नं कर्तुमिहार्हथ ॥ 12 ॥
यथा उक्ताः तत् मया प्राप्तम् न मिथ्या ऋषि-भाषितम् । एतत् एव समागम्य यत्नम् कर्तुम् इह अर्हथ ॥ १२ ॥
yathā uktāḥ tat mayā prāptam na mithyā ṛṣi-bhāṣitam . etat eva samāgamya yatnam kartum iha arhatha .. 12 ..
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु । स चाप्रतिमगम्भीरो देवदानवदर्पहा ॥ 13 ॥
राक्षसाः च अपि तिष्ठन्तु चर्या-गोपुर-मूर्धसु । स च अप्रतिम-गम्भीरः देव-दानव-दर्प-हा ॥ १३ ॥
rākṣasāḥ ca api tiṣṭhantu caryā-gopura-mūrdhasu . sa ca apratima-gambhīraḥ deva-dānava-darpa-hā .. 13 ..
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् । समरे जितमात्मानं प्रहस्तं च निषूदितम् ॥ 14 ॥
ब्रह्म-शाप-अभिभूतः तु कुम्भकर्णः विबोध्यताम् । समरे जितम् आत्मानम् प्रहस्तम् च निषूदितम् ॥ १४ ॥
brahma-śāpa-abhibhūtaḥ tu kumbhakarṇaḥ vibodhyatām . samare jitam ātmānam prahastam ca niṣūditam .. 14 ..
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः । द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् ॥ 15 ॥
ज्ञात्वा रक्षः-बलम् भीमम् आदिदेश महा-बलः । द्वारेषु यत्नः क्रियताम् प्राकाराः च अधिरुह्यताम् ॥ १५ ॥
jñātvā rakṣaḥ-balam bhīmam ādideśa mahā-balaḥ . dvāreṣu yatnaḥ kriyatām prākārāḥ ca adhiruhyatām .. 15 ..
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् । सुखं स्वपिति निश्चिन्तः कामोपहतचेतनः ॥ 16 ॥
निद्रा-वश-समाविष्टः कुम्भकर्णः विबोध्यताम् । सुखम् स्वपिति निश्चिन्तः काम-उपहत-चेतनः ॥ १६ ॥
nidrā-vaśa-samāviṣṭaḥ kumbhakarṇaḥ vibodhyatām . sukham svapiti niścintaḥ kāma-upahata-cetanaḥ .. 16 ..
नव सप्त दशाचाष्टौ च मासान्स्वपिति राक्षसः । मन्त्र कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि ॥ 17 ॥
नव सप्त दश आच अष्टौ च मासान् स्वपिति राक्षसः । कृत्वा प्रसुप्तः अयम् इतस् तु नवमे अहनि ॥ १७ ॥
nava sapta daśa āca aṣṭau ca māsān svapiti rākṣasaḥ . kṛtvā prasuptaḥ ayam itas tu navame ahani .. 17 ..
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् । स हि सङ्ख्ये महाबाहुः ककुदं सर्वरक्षसाम् । वानरान्राजपुत्रौ च क्षिप्रमेव हनिष्यति ॥ 18 ॥
तम् तु बोधयत क्षिप्रम् कुम्भकर्णम् महा-बलम् । स हि सङ्ख्ये महा-बाहुः ककुदम् सर्व-रक्षसाम् । वानरान् राज-पुत्रौ च क्षिप्रम् एव हनिष्यति ॥ १८ ॥
tam tu bodhayata kṣipram kumbhakarṇam mahā-balam . sa hi saṅkhye mahā-bāhuḥ kakudam sarva-rakṣasām . vānarān rāja-putrau ca kṣipram eva haniṣyati .. 18 ..
एषःकेतुःपरं सङ्ख्ये मुख्यो वै सर्वरक्षसाम् । कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ॥ 19 ॥
एषःकेतुः परम् सङ्ख्ये मुख्यः वै सर्व-रक्षसाम् । कुम्भकर्णः सदा शेते मूढः ग्राम्य-सुखे रतः ॥ १९ ॥
eṣaḥketuḥ param saṅkhye mukhyaḥ vai sarva-rakṣasām . kumbhakarṇaḥ sadā śete mūḍhaḥ grāmya-sukhe rataḥ .. 19 ..
रामेणाभिनिरस्तस्य सङ्ग्रामोऽस्मिन्सुदारुणे । भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ॥ 20 ॥
रामेण अभिनिरस्तस्य सङ्ग्रामः अस्मिन् सु दारुणे । भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ॥ २० ॥
rāmeṇa abhinirastasya saṅgrāmaḥ asmin su dāruṇe . bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite .. 20 ..
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि । ईदृशे व्यसने घोरे यो न साह्याय कल्पते ॥ 21 ॥
किम् करिष्यामि अहम् तेन शक्र-तुल्य-बलेन हि । ईदृशे व्यसने घोरे यः न साह्याय कल्पते ॥ २१ ॥
kim kariṣyāmi aham tena śakra-tulya-balena hi . īdṛśe vyasane ghore yaḥ na sāhyāya kalpate .. 21 ..
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः । जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ॥ 22 ॥
ते तु तत् वचनम् श्रुत्वा राक्षस-इन्द्रस्य राक्षसाः । जग्मुः परम-सम्भ्रान्ताः कुम्भकर्ण-निवेशनम् ॥ २२ ॥
te tu tat vacanam śrutvā rākṣasa-indrasya rākṣasāḥ . jagmuḥ parama-sambhrāntāḥ kumbhakarṇa-niveśanam .. 22 ..
ते रावणसमादिष्टा मांसशोणितभोजनाः । गन्धमाल्यां महद्भक्ष्यामादाय सहसा ययुः ॥ 23 ॥
ते रावण-समादिष्टाः मांस-शोणित-भोजनाः । गन्ध-माल्याम् महत्-भक्ष्याम् आदाय सहसा ययुः ॥ २३ ॥
te rāvaṇa-samādiṣṭāḥ māṃsa-śoṇita-bhojanāḥ . gandha-mālyām mahat-bhakṣyām ādāya sahasā yayuḥ .. 23 ..
तां प्रविश्य महाद्वारां सर्वतो योजनायताम् । कुम्भकर्णगुहां रम्यां पुष्पगन्धप्रवाहिनीम् ॥ 24 ॥
ताम् प्रविश्य महा-द्वाराम् सर्वतस् योजन-आयताम् । कुम्भकर्ण-गुहाम् रम्याम् पुष्प-गन्ध-प्रवाहिनीम् ॥ २४ ॥
tām praviśya mahā-dvārām sarvatas yojana-āyatām . kumbhakarṇa-guhām ramyām puṣpa-gandha-pravāhinīm .. 24 ..
कुम्भकर्णस्य निःश्वासादवधूता महाबलाः । प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् ॥ 25 ॥
कुम्भकर्णस्य निःश्वासात् अवधूताः महा-बलाः । प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुः गुहाम् ॥ २५ ॥
kumbhakarṇasya niḥśvāsāt avadhūtāḥ mahā-balāḥ . pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśuḥ guhām .. 25 ..
तां प्रविश्य गुहां रम्यां रत्नकाञ्चनकुट्टिमाम् । ददृशुर्नैरृतव्याघ्रं शयानं भीमविक्रमम् ॥ 26 ॥
ताम् प्रविश्य गुहाम् रम्याम् रत्न-काञ्चन-कुट्टिमाम् । ददृशुः नैरृत-व्याघ्रम् शयानम् भीम-विक्रमम् ॥ २६ ॥
tām praviśya guhām ramyām ratna-kāñcana-kuṭṭimām . dadṛśuḥ nairṛta-vyāghram śayānam bhīma-vikramam .. 26 ..
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् । कुम्भकर्णं महानिद्रं समेताः प्रत्यबोधयन् ॥ 27 ॥
ते तु तम् विकृतम् सुप्तम् विकीर्णम् इव पर्वतम् । कुम्भकर्णम् महा-निद्रम् समेताः प्रत्यबोधयन् ॥ २७ ॥
te tu tam vikṛtam suptam vikīrṇam iva parvatam . kumbhakarṇam mahā-nidram sametāḥ pratyabodhayan .. 27 ..
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् । भ्रामयन्तं विनिःश्वासैः शयानं भीमविक्रमम् ॥ 28 ॥
ऊर्ध्व-रोमाञ्चित-तनुम् श्वसन्तम् इव पन्नगम् । भ्रामयन्तम् विनिःश्वासैः शयानम् भीम-विक्रमम् ॥ २८ ॥
ūrdhva-romāñcita-tanum śvasantam iva pannagam . bhrāmayantam viniḥśvāsaiḥ śayānam bhīma-vikramam .. 28 ..
भीमनासापुटं तं तु पातालविपुलाननम् । शयने न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ॥ 29 ॥
भीम-नासा-पुटम् तम् तु पाताल-विपुल-आननम् । शयने न्यस्त-सर्व-अङ्गम् मेदः-रुधिर-गन्धिनम् ॥ २९ ॥
bhīma-nāsā-puṭam tam tu pātāla-vipula-ānanam . śayane nyasta-sarva-aṅgam medaḥ-rudhira-gandhinam .. 29 ..
काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् । ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् ॥ 30 ॥
काञ्चन-अङ्गद-नद्ध-अङ्गम् किरीटिनम् अरिन्दमम् । ददृशुः नैरृत-व्याघ्रम् कुम्भकर्णम् महा-बलम् ॥ ३० ॥
kāñcana-aṅgada-naddha-aṅgam kirīṭinam arindamam . dadṛśuḥ nairṛta-vyāghram kumbhakarṇam mahā-balam .. 30 ..
ततश्चक्रुर्महात्मानः कुम्भकर्णास्य संचयान् । भुतानां मेरुसङ्काशं राशिं परमतर्पणम् ॥ 31 ॥
ततस् चक्रुः महात्मानः कुम्भकर्ण-अस्य संचयान् । भुतानाम् मेरु-सङ्काशम् राशिम् परम-तर्पणम् ॥ ३१ ॥
tatas cakruḥ mahātmānaḥ kumbhakarṇa-asya saṃcayān . bhutānām meru-saṅkāśam rāśim parama-tarpaṇam .. 31 ..
मृगाणां महिषाणां च वराहाणां च सञ्चयान् । चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् ॥ 32 ॥
मृगाणाम् महिषाणाम् च वराहाणाम् च सञ्चयान् । चक्रुः नैरृत-शार्दूलाः राशिमन्नस्य च अद्भुतम् ॥ ३२ ॥
mṛgāṇām mahiṣāṇām ca varāhāṇām ca sañcayān . cakruḥ nairṛta-śārdūlāḥ rāśimannasya ca adbhutam .. 32 ..
ततः शोणितकुम्भांश्च मासानि विविधानि च । पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ॥ 33 ॥
ततस् शोणित-कुम्भान् च मासानि विविधानि च । पुरस्तात् कुम्भकर्णस्य चक्रुः त्रिदश-शत्रवः ॥ ३३ ॥
tatas śoṇita-kumbhān ca māsāni vividhāni ca . purastāt kumbhakarṇasya cakruḥ tridaśa-śatravaḥ .. 33 ..
लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् । दिव्यैराश्वसयामासुर्माल्यैर्गन्धैश्च गन्धिभिः ॥ 34 ॥
लिलिपुः च परार्ध्येन चन्दनेन परन्तपम् । दिव्यैः आश्वसयामासुः माल्यैः गन्धैः च गन्धिभिः ॥ ३४ ॥
lilipuḥ ca parārdhyena candanena parantapam . divyaiḥ āśvasayāmāsuḥ mālyaiḥ gandhaiḥ ca gandhibhiḥ .. 34 ..
धूपंगन्धंश्च ससृजुस्तुष्टुवुश्च परन्तपम् । जलदा इव चानेदुर्यातुधानास्ततस्ततः ॥ 35 ॥
धूपम् गन्धन् च ससृजुः तुष्टुवुः च परन्तपम् । जलदाः इव च आनेदुः यातुधानाः ततस् ततस् ॥ ३५ ॥
dhūpam gandhan ca sasṛjuḥ tuṣṭuvuḥ ca parantapam . jaladāḥ iva ca āneduḥ yātudhānāḥ tatas tatas .. 35 ..
शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् । तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ॥ 36 ॥
शङ्खान् आपूरयामासुः शशाङ्क-सदृश-प्रभान् । तुमुलम् युगपद् च अपि विनेदुः च अपि अमर्षिताः ॥ ३६ ॥
śaṅkhān āpūrayāmāsuḥ śaśāṅka-sadṛśa-prabhān . tumulam yugapad ca api vineduḥ ca api amarṣitāḥ .. 36 ..
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः । कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ॥ 37 ॥
नेदुः आस्फोटयामासुः चिक्षिपुः ते निशाचराः । कुम्भकर्ण-विबोध-अर्थम् चक्रुः ते विपुलम् स्वनम् ॥ ३७ ॥
neduḥ āsphoṭayāmāsuḥ cikṣipuḥ te niśācarāḥ . kumbhakarṇa-vibodha-artham cakruḥ te vipulam svanam .. 37 ..
सशङ्खभेरीपणवप्रणादं सास्फोटितक्ष्वेडितसिंहनादम् । दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ॥ 38 ॥
स शङ्ख-भेरी-पणव-प्रणादम् स आस्फोटित-क्ष्वेडित-सिंहनादम् । दिशः द्रवन्तः त्रिदिवम् किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ॥ ३८ ॥
sa śaṅkha-bherī-paṇava-praṇādam sa āsphoṭita-kṣveḍita-siṃhanādam . diśaḥ dravantaḥ tridivam kirantaḥ śrutvā vihaṅgāḥ sahasā nipetuḥ .. 38 ..
यदा भृशं तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः । ततो भुशुण्डीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ॥ 39 ॥
यदा भृशम् तैः निनदैः महात्मा न कुम्भकर्णः बुबुधे प्रसुप्तः । ततस् भुशुण्डीः मुसलानि सर्वे रक्षः-गणाः ते जगृहुः गदाः च ॥ ३९ ॥
yadā bhṛśam taiḥ ninadaiḥ mahātmā na kumbhakarṇaḥ bubudhe prasuptaḥ . tatas bhuśuṇḍīḥ musalāni sarve rakṣaḥ-gaṇāḥ te jagṛhuḥ gadāḥ ca .. 39 ..
तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षः स्थले र्मुद्गरमुष्टिभिश्च । सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ॥ 40 ॥
तम् शैल-शृङ्गैः मुसलैः गदाभिः वृक्षः स्थलेः मुद्गर-मुष्टिभिः च । सुख-प्रसुप्तम् भुवि कुम्भकर्णम् रक्षांसि उदग्राणि तदा निजघ्नुः ॥ ४० ॥
tam śaila-śṛṅgaiḥ musalaiḥ gadābhiḥ vṛkṣaḥ sthaleḥ mudgara-muṣṭibhiḥ ca . sukha-prasuptam bhuvi kumbhakarṇam rakṣāṃsi udagrāṇi tadā nijaghnuḥ .. 40 ..
तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः । राक्षसा कुम्भकर्णस्य स्थातुं शेकुर्न चाग्रतः ॥ 41 ॥
तस्य निश्वास-वातेन कुम्भकर्णस्य रक्षसः । राक्षसा कुम्भकर्णस्य स्थातुम् शेकुः न च अग्रतस् ॥ ४१ ॥
tasya niśvāsa-vātena kumbhakarṇasya rakṣasaḥ . rākṣasā kumbhakarṇasya sthātum śekuḥ na ca agratas .. 41 ..
ततः परिहिता गाढं राक्षसा भीमविक्रमाः । मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तथा ॥ 42 ॥
ततस् परिहिताः गाढम् राक्षसाः भीम-विक्रमाः । मृदङ्ग-पणवान् भेरीः शङ्ख-कुम्भ-गणान् तथा ॥ ४२ ॥
tatas parihitāḥ gāḍham rākṣasāḥ bhīma-vikramāḥ . mṛdaṅga-paṇavān bherīḥ śaṅkha-kumbha-gaṇān tathā .. 42 ..
दशराक्षससाहस्रं युगपत्पर्यवादयन् । नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् ॥ 43 ॥
दश-राक्षस-साहस्रम् युगपद् पर्यवादयन् । नीलाञ्जन-चय-आकारम् ते तु तम् प्रत्यबोधयन् ॥ ४३ ॥
daśa-rākṣasa-sāhasram yugapad paryavādayan . nīlāñjana-caya-ākāram te tu tam pratyabodhayan .. 43 ..
अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः । यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ॥ 44 ॥
अभिघ्नन्तः नदन्तः च ना एव संविविदे तु सः । यदा च एनम् न शेकुः ते प्रतिबोधयितुम् तदा ॥ ४४ ॥
abhighnantaḥ nadantaḥ ca nā eva saṃvivide tu saḥ . yadā ca enam na śekuḥ te pratibodhayitum tadā .. 44 ..
ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् । अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः ॥ 45 ॥
ततस् गुरुतरम् यत्नम् दारुणम् समुपाक्रमन् । अश्वान् उष्ट्रान् खरान् नागान् जघ्नुः दण्ड-कशा-अङ्कुशैः ॥ ४५ ॥
tatas gurutaram yatnam dāruṇam samupākraman . aśvān uṣṭrān kharān nāgān jaghnuḥ daṇḍa-kaśā-aṅkuśaiḥ .. 45 ..
भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् । निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः ॥ 46 ॥
भेरी-शङ्ख-मृदङ्गान् च सर्व-प्राणैः अवादयन् । निजघ्नुः च अस्य गात्राणि महा-काष्ठ-कटम् करैः ॥ ४६ ॥
bherī-śaṅkha-mṛdaṅgān ca sarva-prāṇaiḥ avādayan . nijaghnuḥ ca asya gātrāṇi mahā-kāṣṭha-kaṭam karaiḥ .. 46 ..
मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः । तेन नादेन महता लङ्का सर्वा प्रपूरिता । सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ॥ 47 ॥
मुद्गरैः मुसलैः च एव सर्व-प्राण-समुद्यतैः । तेन नादेन महता लङ्का सर्वा प्रपूरिता । स पर्वत-वना सर्वा सः अपि ना एव प्रबुध्यते ॥ ४७ ॥
mudgaraiḥ musalaiḥ ca eva sarva-prāṇa-samudyataiḥ . tena nādena mahatā laṅkā sarvā prapūritā . sa parvata-vanā sarvā saḥ api nā eva prabudhyate .. 47 ..
ततो भेरीसहस्त्र तु युगपत् समहन्यत । मृष्टकाञ्चनकोणानामसक्तानां समन्ततः ॥ 48 ॥
ततस् भेरी-सहस्त्र तु युगपद् समहन्यत । मृष्ट-काञ्चन-कोणानाम् असक्तानाम् समन्ततः ॥ ४८ ॥
tatas bherī-sahastra tu yugapad samahanyata . mṛṣṭa-kāñcana-koṇānām asaktānām samantataḥ .. 48 ..
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत । शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ॥ 49 ॥
एवम् अपि अति निद्रः तु यदा ना एव प्रबुध्यत । शापस्य वशम् आपन्नः ततस् क्रुद्धाः निशाचराः ॥ ४९ ॥
evam api ati nidraḥ tu yadā nā eva prabudhyata . śāpasya vaśam āpannaḥ tatas kruddhāḥ niśācarāḥ .. 49 ..
ततः कोपसमाविष्टाः सर्वे भीमपराक्रमाः । तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ॥ 50 ॥
ततस् कोप-समाविष्टाः सर्वे भीम-पराक्रमाः । तत् रक्षः बोधयिष्यन्तः चक्रुः अन्ये पराक्रमम् ॥ ५० ॥
tatas kopa-samāviṣṭāḥ sarve bhīma-parākramāḥ . tat rakṣaḥ bodhayiṣyantaḥ cakruḥ anye parākramam .. 50 ..
अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् । केशानन्ये प्रलुलुपुः कर्णानन्ये दशन्ति च ॥ 51 ॥
अन्ये भेरीः समाजघ्नुः अन्ये चक्रुः महा-स्वनम् । केशान् अन्ये प्रलुलुपुः कर्णान् अन्ये दशन्ति च ॥ ५१ ॥
anye bherīḥ samājaghnuḥ anye cakruḥ mahā-svanam . keśān anye pralulupuḥ karṇān anye daśanti ca .. 51 ..
उदकुम्बशतान्यन्ये समसिञ्चन्त कर्णयोः । न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥ 52 ॥
उद-कुम्ब-शतानि अन्ये समसिञ्चन्त कर्णयोः । न कुम्भकर्णः पस्पन्दे महा-निद्रा-वशम् गतः ॥ ५२ ॥
uda-kumba-śatāni anye samasiñcanta karṇayoḥ . na kumbhakarṇaḥ paspande mahā-nidrā-vaśam gataḥ .. 52 ..
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः । मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् ॥ 53 ॥
अन्ये च बलिनः तस्य कूटमुद्गर-पाणयः । मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ॥ ५३ ॥
anye ca balinaḥ tasya kūṭamudgara-pāṇayaḥ . mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān .. 53 ..
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः । वध्यमानो महाकायो न प्राबुध्यत राक्षसः ॥ 54 ॥
रज्जु-बन्धन-बद्धाभिः शतघ्नीभिः च सर्वतस् । वध्यमानः महा-कायः न प्राबुध्यत राक्षसः ॥ ५४ ॥
rajju-bandhana-baddhābhiḥ śataghnībhiḥ ca sarvatas . vadhyamānaḥ mahā-kāyaḥ na prābudhyata rākṣasaḥ .. 54 ..
वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् । कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ॥ 55 ॥
वारणानाम् सहस्रम् तु शरीरे अस्य प्रधावितम् । कुम्भकर्णः ततस् बुद्धः स्पर्शम् परम् अबुध्यत ॥ ५५ ॥
vāraṇānām sahasram tu śarīre asya pradhāvitam . kumbhakarṇaḥ tatas buddhaḥ sparśam param abudhyata .. 55 ..
स पात्यमानैर्गिरिशृङ्गवृक्षैर् अचिन्तयंस्तान् विपुलान् प्रहारान् । निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ॥ 56 ॥
स पात्यमानैः गिरि-शृङ्ग-वृक्षैः अचिन्तयान् तान् विपुलान् प्रहारान् । निद्रा-क्षयात् क्षुध्-भय-पीडितः च विजृम्भमाणः सहसा उत्पपात ॥ ५६ ॥
sa pātyamānaiḥ giri-śṛṅga-vṛkṣaiḥ acintayān tān vipulān prahārān . nidrā-kṣayāt kṣudh-bhaya-pīḍitaḥ ca vijṛmbhamāṇaḥ sahasā utpapāta .. 56 ..
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू जितवज्रसारौ । विवृत्य वक्त्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे ॥ 57 ॥
स नाग-भोग-अचल-शृङ्ग-कल्पौ विक्षिप्य बाहू जित-वज्र-सारौ । विवृत्य वक्त्रम् वडवामुख-आभम् निशाचरः असौ विकृतम् जजृम्भे ॥ ५७ ॥
sa nāga-bhoga-acala-śṛṅga-kalpau vikṣipya bāhū jita-vajra-sārau . vivṛtya vaktram vaḍavāmukha-ābham niśācaraḥ asau vikṛtam jajṛmbhe .. 57 ..
तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् । ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥ 58 ॥
तस्य जाजृम्भमाणस्य वक्त्रम् पाताल-संनिभम् । ददृशे मेरु-शृङ्ग-अग्रे दिवाकरः इव उदितः ॥ ५८ ॥
tasya jājṛmbhamāṇasya vaktram pātāla-saṃnibham . dadṛśe meru-śṛṅga-agre divākaraḥ iva uditaḥ .. 58 ..
विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः । निश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः ॥ 59 ॥
विजृम्भमाणः अतिबलः प्रतिबुद्धः निशाचरः । निश्वासः च अस्य संजज्ञे पर्वतात् इव मारुतः ॥ ५९ ॥
vijṛmbhamāṇaḥ atibalaḥ pratibuddhaḥ niśācaraḥ . niśvāsaḥ ca asya saṃjajñe parvatāt iva mārutaḥ .. 59 ..
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ । युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥ 60 ॥
रूपम् उत्तिष्ठतः तस्य कुम्भकर्णस्य तत् बभौ । युग-अन्ते सर्व-भूतानि कालस्य इव दिधक्षतः ॥ ६० ॥
rūpam uttiṣṭhataḥ tasya kumbhakarṇasya tat babhau . yuga-ante sarva-bhūtāni kālasya iva didhakṣataḥ .. 60 ..
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी । ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥ 61 ॥
तस्य दीप्त-अग्नि-सदृशे विद्युत्-सदृश-वर्चसी । ददृशाते महा-नेत्रे दीप्तौ इव महा-ग्रहौ ॥ ६१ ॥
tasya dīpta-agni-sadṛśe vidyut-sadṛśa-varcasī . dadṛśāte mahā-netre dīptau iva mahā-grahau .. 61 ..
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् । वराहान् महिषांश्चैव बभक्ष स महाबलः ॥ 62 ॥
ततस् तु अदर्शयन् सर्वान् भक्ष्यान् च विविधान् बहून् । वराहान् महिषान् च एव बभक्ष स महा-बलः ॥ ६२ ॥
tatas tu adarśayan sarvān bhakṣyān ca vividhān bahūn . varāhān mahiṣān ca eva babhakṣa sa mahā-balaḥ .. 62 ..
आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् । मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस्तदा ॥ 63 ॥
आदत् बुभुक्षितः मांसम् शोणितम् तृषितः अपिबत् । मेदः कुम्भम् च मद्यम् च पपौ शक्र-रिपुः तदा ॥ ६३ ॥
ādat bubhukṣitaḥ māṃsam śoṇitam tṛṣitaḥ apibat . medaḥ kumbham ca madyam ca papau śakra-ripuḥ tadā .. 63 ..
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः । शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ 64 ॥
ततस् तृप्तः इति ज्ञात्वा समुत्पेतुः निशाचराः । शिरोभिः च प्रणम्य एनम् सर्वतस् पर्यवारयन् ॥ ६४ ॥
tatas tṛptaḥ iti jñātvā samutpetuḥ niśācarāḥ . śirobhiḥ ca praṇamya enam sarvatas paryavārayan .. 64 ..
निद्राविशदनेत्रस्तु कलुषीकृतलोचनः । चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ॥ 65 ॥
निद्रा-विशद-नेत्रः तु कलुषीकृत-लोचनः । चारयन् सर्वतस् दृष्टिम् तान् ददर्श निशाचरान् ॥ ६५ ॥
nidrā-viśada-netraḥ tu kaluṣīkṛta-locanaḥ . cārayan sarvatas dṛṣṭim tān dadarśa niśācarān .. 65 ..
स सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः । बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् ॥ 66 ॥
स सर्वान् सान्त्वयामास नैरृतान् नैरृत-ऋषभः । बोधनात् विस्मितः च अपि राक्षसान् इदम् अब्रवीत् ॥ ६६ ॥
sa sarvān sāntvayāmāsa nairṛtān nairṛta-ṛṣabhaḥ . bodhanāt vismitaḥ ca api rākṣasān idam abravīt .. 66 ..
किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः । कच्चित्सुकुशलं राज्ञो भयं वा नेह किं चन ॥ 67 ॥
किमर्थम् अहम् आहत्य भवद्भिः प्रतिबोधितः । कच्चित् सु कुशलम् राज्ञः भयम् वा ना इह किम् चन ॥ ६७ ॥
kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ . kaccit su kuśalam rājñaḥ bhayam vā nā iha kim cana .. 67 ..
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् । यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः ॥ 68 ॥
अथवा ध्रुवम् अन्येभ्यः भयम् परम् उपस्थितम् । यद्-अर्थम् एव त्वरितैः भवद्भिः प्रतिबोधितः ॥ ६८ ॥
athavā dhruvam anyebhyaḥ bhayam param upasthitam . yad-artham eva tvaritaiḥ bhavadbhiḥ pratibodhitaḥ .. 68 ..
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् । दारयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् ॥ 69 ॥
अद्य राक्षस-राजस्य भयम् उत्पाटयामि अहम् । दारयिष्ये महा-इन्द्रम् वा शातयिष्ये तथा अनलम् ॥ ६९ ॥
adya rākṣasa-rājasya bhayam utpāṭayāmi aham . dārayiṣye mahā-indram vā śātayiṣye tathā analam .. 69 ..
न ह्यल्पकारणे सुप्तं बोधयिष्यति मादृशम् । तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ॥ 70 ॥
न हि अल्प-कारणे सुप्तम् बोधयिष्यति मादृशम् । तदा आख्यात-अर्थ-तत्त्वेन मद्-प्रबोधन-कारणम् ॥ ७० ॥
na hi alpa-kāraṇe suptam bodhayiṣyati mādṛśam . tadā ākhyāta-artha-tattvena mad-prabodhana-kāraṇam .. 70 ..
एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिन्दमम् । यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत ॥ 71 ॥
एवम् ब्रुवाणम् संरब्धम् कुम्भकर्णम् अरिन्दमम् । यूपाक्षः सचिवः राज्ञः कृताञ्जलिः अभाषत ॥ ७१ ॥
evam bruvāṇam saṃrabdham kumbhakarṇam arindamam . yūpākṣaḥ sacivaḥ rājñaḥ kṛtāñjaliḥ abhāṣata .. 71 ..
न नो देवकृतं किंचिद् भयमस्ति कदा चन । मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ॥ 72 ॥
न नः देव-कृतम् किंचिद् भयम् अस्ति कदा चन । मानुषान् नः भयम् राजन् तुमुलम् सम्प्रबाधते ॥ ७२ ॥
na naḥ deva-kṛtam kiṃcid bhayam asti kadā cana . mānuṣān naḥ bhayam rājan tumulam samprabādhate .. 72 ..
न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् । यादृशं मानुषं राजन्भयमस्मानुपस्थितम् ॥ 73 ॥
न दैत्य-दानवेभ्यः वा भयम् अस्ति हि तादृशम् । यादृशम् मानुषम् राजन् भयम् अस्म अनुपस्थितम् ॥ ७३ ॥
na daitya-dānavebhyaḥ vā bhayam asti hi tādṛśam . yādṛśam mānuṣam rājan bhayam asma anupasthitam .. 73 ..
वानरैः पर्वताकारैर्लङ्केयं परिवारिता । सीताहरणसन्तप्तादा रामान्नस्तुमुलं भयम् ॥ 74 ॥
वानरैः पर्वत-आकारैः लङ्का इयम् परिवारिता । सीता-हरण-सन्तप्त-अदाः रामात् नः तुमुलम् भयम् ॥ ७४ ॥
vānaraiḥ parvata-ākāraiḥ laṅkā iyam parivāritā . sītā-haraṇa-santapta-adāḥ rāmāt naḥ tumulam bhayam .. 74 ..
एकेन वानरेणेयं पूर्वं दग्धा महापुरी । कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥ 75 ॥
एकेन वानरेण इयम् पूर्वम् दग्धा महा-पुरी । कुमारः निहतः च अक्षः स अनुयात्रः स कुञ्जरः ॥ ७५ ॥
ekena vānareṇa iyam pūrvam dagdhā mahā-purī . kumāraḥ nihataḥ ca akṣaḥ sa anuyātraḥ sa kuñjaraḥ .. 75 ..
स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः । व्रजेति संयुगे मुक्तो रामेणादित्यवर्चसा ॥ 76 ॥
स्वयम् रक्षः-अधिपः च अपि पौलस्त्यः देव-कण्टकः । व्रज इति संयुगे मुक्तः रामेण आदित्य-वर्चसा ॥ ७६ ॥
svayam rakṣaḥ-adhipaḥ ca api paulastyaḥ deva-kaṇṭakaḥ . vraja iti saṃyuge muktaḥ rāmeṇa āditya-varcasā .. 76 ..
यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः । कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ 77 ॥
यत् न देवैः कृतः राजा न अपि दैत्यैः न दानवैः । कृतः सः इह रामेण विमुक्तः प्राण-संशयात् ॥ ७७ ॥
yat na devaiḥ kṛtaḥ rājā na api daityaiḥ na dānavaiḥ . kṛtaḥ saḥ iha rāmeṇa vimuktaḥ prāṇa-saṃśayāt .. 77 ..
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् । कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ 78 ॥
स यूपाक्ष-वचः श्रुत्वा भ्रातुः युधि पराजयम् । कुम्भकर्णः विवृत्त-अक्षः यूपाक्षम् इदम् अब्रवीत् ॥ ७८ ॥
sa yūpākṣa-vacaḥ śrutvā bhrātuḥ yudhi parājayam . kumbhakarṇaḥ vivṛtta-akṣaḥ yūpākṣam idam abravīt .. 78 ..
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् । राघवं च रणे जित्वा ततो द्रक्ष्यामि रावणम् ॥ 79 ॥
सर्वम् अद्य एव यूपाक्ष हरि-सैन्यम् स लक्ष्मणम् । राघवम् च रणे जित्वा ततस् द्रक्ष्यामि रावणम् ॥ ७९ ॥
sarvam adya eva yūpākṣa hari-sainyam sa lakṣmaṇam . rāghavam ca raṇe jitvā tatas drakṣyāmi rāvaṇam .. 79 ..
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः । रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ॥ 80 ॥
राक्षसान् तर्पयिष्यामि हरीणाम् मांस-शोणितैः । राम-लक्ष्मणयोः च अपि स्वयम् पास्यामि शोणितम् ॥ ८० ॥
rākṣasān tarpayiṣyāmi harīṇām māṃsa-śoṇitaiḥ . rāma-lakṣmaṇayoḥ ca api svayam pāsyāmi śoṇitam .. 80 ..
तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् । महोदरो नैरृतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ॥ 81 ॥
तत् तस्य वाक्यम् ब्रुवतः निशम्य स गर्वितम् रोष-विवृद्ध-दोषम् । महोदरः नैरृत-योध-मुख्यः कृताञ्जलिः वाक्यम् इदम् बभाषे ॥ ८१ ॥
tat tasya vākyam bruvataḥ niśamya sa garvitam roṣa-vivṛddha-doṣam . mahodaraḥ nairṛta-yodha-mukhyaḥ kṛtāñjaliḥ vākyam idam babhāṣe .. 81 ..
रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च । पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि ॥ 82 ॥
रावणस्य वचः श्रुत्वा गुण-दोषौ विमृश्य च । पश्चात् अपि महा-बाहो शत्रून् युधि विजेष्यसि ॥ ८२ ॥
rāvaṇasya vacaḥ śrutvā guṇa-doṣau vimṛśya ca . paścāt api mahā-bāho śatrūn yudhi vijeṣyasi .. 82 ..
महोदरवचः श्रुत्वा राक्षसैः परिवारितः । कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ॥ 83 ॥
महोदर-वचः श्रुत्वा राक्षसैः परिवारितः । कुम्भकर्णः महा-तेजाः सम्प्रतस्थे महा-बलः ॥ ८३ ॥
mahodara-vacaḥ śrutvā rākṣasaiḥ parivāritaḥ . kumbhakarṇaḥ mahā-tejāḥ sampratasthe mahā-balaḥ .. 83 ..
सुप्तमुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् । राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ 84 ॥
सुप्तम् उत्थाप्य भीम-अक्षम् भीम-रूप-पराक्रमम् । राक्षसाः त्वरिताः जग्मुः दशग्रीव-निवेशनम् ॥ ८४ ॥
suptam utthāpya bhīma-akṣam bhīma-rūpa-parākramam . rākṣasāḥ tvaritāḥ jagmuḥ daśagrīva-niveśanam .. 84 ..
तेऽभिगम्या दशग्रीवमासीनं परमासने । ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ॥ 85 ॥
ते अभिगम्याः दशग्रीवम् आसीनम् परम-आसने । ऊचुः बद्धाञ्जलि-पुटाः सर्वे एव निशाचराः ॥ ८५ ॥
te abhigamyāḥ daśagrīvam āsīnam parama-āsane . ūcuḥ baddhāñjali-puṭāḥ sarve eva niśācarāḥ .. 85 ..
कुम्भकर्णः प्रबुद्धोऽसौ भ्राता ते राक्षसेश्वर । कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् ॥ 86 ॥
कुम्भकर्णः प्रबुद्धः असौ भ्राता ते राक्षस-ईश्वर । कथम् तत्र एव निर्यातु द्रक्ष्यसे तम् इह आगतम् ॥ ८६ ॥
kumbhakarṇaḥ prabuddhaḥ asau bhrātā te rākṣasa-īśvara . katham tatra eva niryātu drakṣyase tam iha āgatam .. 86 ..
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् । द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम ॥ 87 ॥
रावणः तु अब्रवीत् हृष्टः राक्षसान् तान् उपस्थितान् । द्रष्टुम् एनम् इह इच्छामि यथान्यायम् च पूज्यताम ॥ ८७ ॥
rāvaṇaḥ tu abravīt hṛṣṭaḥ rākṣasān tān upasthitān . draṣṭum enam iha icchāmi yathānyāyam ca pūjyatāma .. 87 ..
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः । कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ 88 ॥
तथा इति उक्त्वा तु ते सर्वे पुनर् आगम्य राक्षसाः । कुम्भकर्णम् इदम् वाक्यम् ऊचुः रावण-चोदिताः ॥ ८८ ॥
tathā iti uktvā tu te sarve punar āgamya rākṣasāḥ . kumbhakarṇam idam vākyam ūcuḥ rāvaṇa-coditāḥ .. 88 ..
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः । गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ॥ 89 ॥
द्रष्टुम् त्वाम् काङ्क्षते राजा सर्व-राक्षस-पुङ्गवः । गमने क्रियताम् बुद्धिः भ्रातरम् सम्प्रहर्षय ॥ ८९ ॥
draṣṭum tvām kāṅkṣate rājā sarva-rākṣasa-puṅgavaḥ . gamane kriyatām buddhiḥ bhrātaram sampraharṣaya .. 89 ..
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् । तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह ॥ 90 ॥
कुम्भकर्णः तु दुर्धर्षः भ्रातुः आज्ञाय शासनम् । तथा इति उक्त्वा महा-वीर्यः शयनात् उत्पपात ह ॥ ९० ॥
kumbhakarṇaḥ tu durdharṣaḥ bhrātuḥ ājñāya śāsanam . tathā iti uktvā mahā-vīryaḥ śayanāt utpapāta ha .. 90 ..
प्रक्षाल्य वदनं हृष्टः स्नातः परमहर्षितः । पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ 91 ॥
प्रक्षाल्य वदनम् हृष्टः स्नातः परम-हर्षितः । पिपासुः त्वरयामास पानम् बल-समीरणम् ॥ ९१ ॥
prakṣālya vadanam hṛṣṭaḥ snātaḥ parama-harṣitaḥ . pipāsuḥ tvarayāmāsa pānam bala-samīraṇam .. 91 ..
ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया । मद्यं भक्ष्यांश्च विविधान्क्षिप्रमेवोपहारयन् ॥ 92 ॥
ततस् ते त्वरिताः तस्य राज्षसाः रावण-आज्ञया । मद्यम् भक्ष्यान् च विविधान् क्षिप्रम् एव उपहारयन् ॥ ९२ ॥
tatas te tvaritāḥ tasya rājṣasāḥ rāvaṇa-ājñayā . madyam bhakṣyān ca vividhān kṣipram eva upahārayan .. 92 ..
पीत्वा घटसहस्रं स गमनायोपचक्रमे । ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः । कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ॥ 93 ॥
पीत्वा घट-सहस्रम् स गमनाय उपचक्रमे । ईषत् समुत्कटः मत्तः तेजः-बल-समन्वितः । कुम्भकर्णः बभौ हृष्टः काल-अन्तक-यम-उपमः ॥ ९३ ॥
pītvā ghaṭa-sahasram sa gamanāya upacakrame . īṣat samutkaṭaḥ mattaḥ tejaḥ-bala-samanvitaḥ . kumbhakarṇaḥ babhau hṛṣṭaḥ kāla-antaka-yama-upamaḥ .. 93 ..
भ्रातुः स भवनं गच्छन्रक्षोबलसमन्वितः । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ 94 ॥
भ्रातुः स भवनम् गच्छन् रक्षः-बल-समन्वितः । कुम्भकर्णः पद-न्यासैः अकम्पयत मेदिनीम् ॥ ९४ ॥
bhrātuḥ sa bhavanam gacchan rakṣaḥ-bala-samanvitaḥ . kumbhakarṇaḥ pada-nyāsaiḥ akampayata medinīm .. 94 ..
स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः । जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ॥ 95 ॥
स राजमार्गम् वपुषा प्रकाशयन् सहस्ररश्मिः धरणीम् इव अंशुभिः । जगाम तत्र अञ्जलि-मालया वृतः शतक्रतुः गेहम् इव स्वयम्भुवः ॥ ९५ ॥
sa rājamārgam vapuṣā prakāśayan sahasraraśmiḥ dharaṇīm iva aṃśubhiḥ . jagāma tatra añjali-mālayā vṛtaḥ śatakratuḥ geham iva svayambhuvaḥ .. 95 ..
तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिस्स्थिताः । दृष्टवाऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते सह यूथपालैः ॥ 96 ॥
तम् राजमार्ग-स्थम् अमित्र-घातिनम् वनौकसः ते सहसा बहिस् स्थिताः । दृष्टवा अप्रमेयम् गिरि-शृङ्ग-कल्पम् वितत्रसुः ते सह यूथ-पालैः ॥ ९६ ॥
tam rājamārga-stham amitra-ghātinam vanaukasaḥ te sahasā bahis sthitāḥ . dṛṣṭavā aprameyam giri-śṛṅga-kalpam vitatrasuḥ te saha yūtha-pālaiḥ .. 96 ..
के चिच्छरण्यं शरणं स्म रामं व्रजन्ति के चिद्व्यथिताः पतन्ति । केचिद् दिशश्च व्यथिताः पतन्ति केचिद् भयार्ता भुवि शेरते स्म ॥ 97 ॥
के चित् शरण्यम् शरणम् स्म रामम् व्रजन्ति के चित् व्यथिताः पतन्ति । केचिद् दिशः च व्यथिताः पतन्ति केचिद् भय-आर्ताः भुवि शेरते स्म ॥ ९७ ॥
ke cit śaraṇyam śaraṇam sma rāmam vrajanti ke cit vyathitāḥ patanti . kecid diśaḥ ca vyathitāḥ patanti kecid bhaya-ārtāḥ bhuvi śerate sma .. 97 ..
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा । वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे यतस्ततः ॥ 98 ॥
तम् अद्रि-शृङ्ग-प्रतिमम् किरीटिनम् स्पृशन्तम् आदित्यम् इव आत्म-तेजसा । वनौकसः प्रेक्ष्य विवृद्धम् अद्भुतम् भय-अर्दिताः दुद्रुविरे यतस् ततस् ॥ ९८ ॥
tam adri-śṛṅga-pratimam kirīṭinam spṛśantam ādityam iva ātma-tejasā . vanaukasaḥ prekṣya vivṛddham adbhutam bhaya-arditāḥ dudruvire yatas tatas .. 98 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In