This overlay will guide you through the buttons:

| |
|
स तु राक्षसशार्दूलो निद्रामदसमाकुलः । राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ 1 ॥
स तु राक्षस-शार्दूलः निद्रा-मद-समाकुलः । राजमार्गम् श्रिया जुष्टम् ययौ विपुल-विक्रमः ॥ १ ॥
sa tu rākṣasa-śārdūlaḥ nidrā-mada-samākulaḥ . rājamārgam śriyā juṣṭam yayau vipula-vikramaḥ .. 1 ..
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः । गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ ॥ 2 ॥
राक्षसानाम् सहस्रैः च वृतः परम-दुर्जयः । गृहेभ्यः पुष्प-वर्षेण कार्यमाणः तदा ययौ ॥ २ ॥
rākṣasānām sahasraiḥ ca vṛtaḥ parama-durjayaḥ . gṛhebhyaḥ puṣpa-varṣeṇa kāryamāṇaḥ tadā yayau .. 2 ..
स हेमजालविततं भानुभास्वरदर्शनम् । ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ 3 ॥
स हेम-जाल-विततम् भानु-भास्वर-दर्शनम् । ददर्श विपुलम् रम्यम् राक्षस-इन्द्र-निवेशनम् ॥ ३ ॥
sa hema-jāla-vitatam bhānu-bhāsvara-darśanam . dadarśa vipulam ramyam rākṣasa-indra-niveśanam .. 3 ..
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर्निवेशनम् । ददर्श दूरेऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ॥ 4 ॥
स तत् तदा सूर्यः इव अभ्र-जालम् प्रविश्य रक्षः-अधिपतेः निवेशनम् । ददर्श दूरे अग्रजम् आसन-स्थम् स्वयम्भुवम् शक्रः इव आसन-स्थम् ॥ ४ ॥
sa tat tadā sūryaḥ iva abhra-jālam praviśya rakṣaḥ-adhipateḥ niveśanam . dadarśa dūre agrajam āsana-stham svayambhuvam śakraḥ iva āsana-stham .. 4 ..
भ्रातु स भवनं गच्छन् रक्षोगणसमन्विम् । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ 5 ॥
भ्रातु स भवनम् गच्छन् रक्षः-गण-समन्विम् । कुम्भकर्णः पद-न्यासैः अकम्पयत मेदिनीम् ॥ ५ ॥
bhrātu sa bhavanam gacchan rakṣaḥ-gaṇa-samanvim . kumbhakarṇaḥ pada-nyāsaiḥ akampayata medinīm .. 5 ..
सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च । ददर्शोद्विगन्नमासीनं विमाने पुष्पके गुरुम् ॥ 6 ॥
सः अभिगम्य गृहम् भ्रातुः कक्ष्याम् अभिविगाह्य च । ददर्श उद्विगन्नम् आसीनम् विमाने पुष्पके गुरुम् ॥ ६ ॥
saḥ abhigamya gṛham bhrātuḥ kakṣyām abhivigāhya ca . dadarśa udvigannam āsīnam vimāne puṣpake gurum .. 6 ..
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् । तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत् ॥ 7 ॥
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णम् उपस्थितम् । तूर्णम् उत्थाय संहृष्टः संनिकर्षम् उपानयत् ॥ ७ ॥
atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam . tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat .. 7 ..
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः । भ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत् ॥ 8 ॥
अथ आसीनस्य पर्यङ्के कुम्भकर्णः महा-बलः । भ्रातुः ववन्दे चरणाम् किम् कृत्यम् इति च अब्रवीत् ॥ ८ ॥
atha āsīnasya paryaṅke kumbhakarṇaḥ mahā-balaḥ . bhrātuḥ vavande caraṇām kim kṛtyam iti ca abravīt .. 8 ..
उत्पत्य चैनं मुदितो रावणः परिषस्वजे । स भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः ॥ 9 ॥
उत्पत्य च एनम् मुदितः रावणः परिषस्वजे । स भ्रात्रा सम्परिष्वक्तः यथावत् च अभिनन्दितः ॥ ९ ॥
utpatya ca enam muditaḥ rāvaṇaḥ pariṣasvaje . sa bhrātrā sampariṣvaktaḥ yathāvat ca abhinanditaḥ .. 9 ..
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् । स तदासनमाश्रित्य कुम्भकर्णो महाबलः ॥ 10 ॥
कुम्भकर्णः शुभम् दिव्यम् प्रतिपेदे वरासनम् । स तत् आसनम् आश्रित्य कुम्भकर्णः महा-बलः ॥ १० ॥
kumbhakarṇaḥ śubham divyam pratipede varāsanam . sa tat āsanam āśritya kumbhakarṇaḥ mahā-balaḥ .. 10 ..
संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् । किमर्थमहमादृत्य त्वया राजन्प्रबोधितः ॥ 11 ॥
संरक्त-नयनः कोप-आद्रावणम् वाक्यम् अब्रवीत् । किमर्थम् अहम् आदृत्य त्वया राजन् प्रबोधितः ॥ ११ ॥
saṃrakta-nayanaḥ kopa-ādrāvaṇam vākyam abravīt . kimartham aham ādṛtya tvayā rājan prabodhitaḥ .. 11 ..
शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति । भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् ॥ 12 ॥
शंस कस्मात् भयम् ते अस्ति कः अद्य प्रेतः भविष्यति । भ्रातरम् रावणः क्रुद्धम् कुम्भकर्णम् अवस्थितम् ॥ १२ ॥
śaṃsa kasmāt bhayam te asti kaḥ adya pretaḥ bhaviṣyati . bhrātaram rāvaṇaḥ kruddham kumbhakarṇam avasthitam .. 12 ..
रोषेण परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् । अद्य ते सुमहान्कालः शयानस्य महाबल ॥ 13 ॥
रोषेण परिवृत्ताभ्याम् नेत्राभ्याम् वाक्यम् अब्रवीत् । अद्य ते सु महान् कालः शयानस्य महा-बल ॥ १३ ॥
roṣeṇa parivṛttābhyām netrābhyām vākyam abravīt . adya te su mahān kālaḥ śayānasya mahā-bala .. 13 ..
सुषुप्तस्त्वं न जानीषे मम रामकृतं भयम् । एष दाशरथी रामः सुग्रीवसहितो बली ॥ 14 ॥
सुषुप्तः त्वम् न जानीषे मम राम-कृतम् भयम् । एष दाशरथिः रामः सुग्रीव-सहितः बली ॥ १४ ॥
suṣuptaḥ tvam na jānīṣe mama rāma-kṛtam bhayam . eṣa dāśarathiḥ rāmaḥ sugrīva-sahitaḥ balī .. 14 ..
समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति । हन्त पश्यस्व लङ्काया वनान्युपवनानि च ॥ 15 ॥
समुद्रम् स बलः तीर्त्वा मूलम् नः परिकृन्तति । हन्त पश्यस्व लङ्कायाः वनानि उपवनानि च ॥ १५ ॥
samudram sa balaḥ tīrtvā mūlam naḥ parikṛntati . hanta paśyasva laṅkāyāḥ vanāni upavanāni ca .. 15 ..
सेतुना सुखमागम्य वानरैकार्णवं कृतम् । ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि ॥ 16 ॥
सेतुना सुखम् आगम्य वानर-एकार्णवम् कृतम् । ये राक्षसाः मुख्यतमाः हताः ते वानरैः युधि ॥ १६ ॥
setunā sukham āgamya vānara-ekārṇavam kṛtam . ye rākṣasāḥ mukhyatamāḥ hatāḥ te vānaraiḥ yudhi .. 16 ..
वानराणां क्षयं युद्धे न पश्यामि कथंचन । न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ 17 ॥
वानराणाम् क्षयम् युद्धे न पश्यामि कथंचन । न च अपि वानराः युद्धे जित-पूर्वाः कदाचन ॥ १७ ॥
vānarāṇām kṣayam yuddhe na paśyāmi kathaṃcana . na ca api vānarāḥ yuddhe jita-pūrvāḥ kadācana .. 17 ..
तदेतद् भयमुत्पन्नं त्रायस्वेह महाबल । नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥ 18 ॥
तत् एतत् भयम् उत्पन्नम् त्रायस्व इह महा-बल । नाशय त्वम् इमान् अद्य तद्-अर्थम् बोधितः भवान् ॥ १८ ॥
tat etat bhayam utpannam trāyasva iha mahā-bala . nāśaya tvam imān adya tad-artham bodhitaḥ bhavān .. 18 ..
सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् । त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ 19 ॥
सर्व-क्षपित-कोशम् च स त्वम् अभ्यवपद्य माम् । त्रायस्व इमाम् पुरीम् लङ्काम् बाल-वृद्ध-अवशेषिताम् ॥ १९ ॥
sarva-kṣapita-kośam ca sa tvam abhyavapadya mām . trāyasva imām purīm laṅkām bāla-vṛddha-avaśeṣitām .. 19 ..
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् । मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परन्तप ॥ 20 ॥
भ्रातुः अर्थे महा-बाहो कुरु कर्म सु दुष्करम् । मया एवम् न उक्त-पूर्वः हि कश्चिद् भ्रातर् परन्तप ॥ २० ॥
bhrātuḥ arthe mahā-bāho kuru karma su duṣkaram . mayā evam na ukta-pūrvaḥ hi kaścid bhrātar parantapa .. 20 ..
त्वय्यस्ति मम च स्नेहः परा सम्भावना च मे । देवासुरविमर्देषु बहुशो राक्षसर्षभ ॥ 21 ॥
त्वयि अस्ति मम च स्नेहः परा सम्भावना च मे । देव-असुर-विमर्देषु बहुशस् राक्षस-ऋषभ ॥ २१ ॥
tvayi asti mama ca snehaḥ parā sambhāvanā ca me . deva-asura-vimardeṣu bahuśas rākṣasa-ṛṣabha .. 21 ..
त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि । ॥ 22 ॥
त्वया देवाः प्रतिव्यूह्य निर्जिताः च असुराः युधि । ॥ २२ ॥
tvayā devāḥ prativyūhya nirjitāḥ ca asurāḥ yudhi . .. 22 ..
तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम । नहि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ 23 ॥
तत् एतत् सर्वम् आतिष्ठ वीर्यम् भीम-पराक्रम । नहि ते सर्व-भूतेषु दृश्यते सदृशः बली ॥ २३ ॥
tat etat sarvam ātiṣṭha vīryam bhīma-parākrama . nahi te sarva-bhūteṣu dṛśyate sadṛśaḥ balī .. 23 ..
कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय । स्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ॥ 24 ॥
कुरुष्व मे प्रिय-हितम् एतत् उत्तमम् यथाप्रियम् प्रिय-रण-बान्धव-प्रिय । स्व-तेजसा विधम सपत्न-वाहिनीम् शरद्-घनम् पवनः इव उद्यतः महान् ॥ २४ ॥
kuruṣva me priya-hitam etat uttamam yathāpriyam priya-raṇa-bāndhava-priya . sva-tejasā vidhama sapatna-vāhinīm śarad-ghanam pavanaḥ iva udyataḥ mahān .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In