This overlay will guide you through the buttons:

| |
|
तस्य राक्षसराजस्य निशम्य परिदेवितम् । कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च ॥ १॥
तस्य राक्षस-राजस्य निशम्य परिदेवितम् । कुम्भकर्णः बभाषे अथ वचनम् प्रजहास च ॥ १॥
tasya rākṣasa-rājasya niśamya paridevitam . kumbhakarṇaḥ babhāṣe atha vacanam prajahāsa ca .. 1..
दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये । हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥ २॥
दृष्टः दोषः हि यः अस्माभिः पुरा मन्त्र-विनिर्णये । हितेषु अनभियुक्तेन सः अयम् आसादितः त्वया ॥ २॥
dṛṣṭaḥ doṣaḥ hi yaḥ asmābhiḥ purā mantra-vinirṇaye . hiteṣu anabhiyuktena saḥ ayam āsāditaḥ tvayā .. 2..
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः । निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ३॥
शीघ्रम् खलु अभ्युपेतम् त्वाम् फलम् पापस्य कर्मणः । निरयेषु एव पतनम् यथा दुष्कृत-कर्मणः ॥ ३॥
śīghram khalu abhyupetam tvām phalam pāpasya karmaṇaḥ . nirayeṣu eva patanam yathā duṣkṛta-karmaṇaḥ .. 3..
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् । केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥ ४॥
प्रथमम् वै महा-राज कृत्यम् एतत् अ चिन्तितम् । केवलम् वीर्य-दर्पेण न अनुबन्धः विचारितः ॥ ४॥
prathamam vai mahā-rāja kṛtyam etat a cintitam . kevalam vīrya-darpeṇa na anubandhaḥ vicāritaḥ .. 4..
यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः । पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ ५॥
यः पश्चात् पूर्व-कार्याणि कुर्यात् ऐश्वर्यम् आस्थितः । पूर्वम् च उत्तर-कार्याणि न स वेद नय-अनयौ ॥ ५॥
yaḥ paścāt pūrva-kāryāṇi kuryāt aiśvaryam āsthitaḥ . pūrvam ca uttara-kāryāṇi na sa veda naya-anayau .. 5..
देशकालविहीनानि कर्माणि विपरीतवत् । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ६॥
देश-काल-विहीनानि कर्माणि विपरीत-वत् । क्रियमाणानि दुष्यन्ति हवींषि अप्रयतेषु इव ॥ ६॥
deśa-kāla-vihīnāni karmāṇi viparīta-vat . kriyamāṇāni duṣyanti havīṃṣi aprayateṣu iva .. 6..
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति । सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥ ७॥
त्रयाणाम् पञ्चधा योगम् कर्मणाम् यः प्रपश्यति । सचिवैः समयम् कृत्वा स सभ्ये वर्तते पथि ॥ ७॥
trayāṇām pañcadhā yogam karmaṇām yaḥ prapaśyati . sacivaiḥ samayam kṛtvā sa sabhye vartate pathi .. 7..
यथागमं च यो राजा समयं च चिकीर्षति । बुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति ॥ ८॥
यथागमम् च यः राजा समयम् च चिकीर्षति । बुध्यते सचिवान् बुद्ध्या सुहृदः च अनुपश्यति ॥ ८॥
yathāgamam ca yaḥ rājā samayam ca cikīrṣati . budhyate sacivān buddhyā suhṛdaḥ ca anupaśyati .. 8..
धर्ममर्थं हि कामं च सर्वान् वा रक्षसां पते । भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ ९॥
धर्मम् अर्थम् हि कामम् च सर्वान् वा रक्षसाम् पते । भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनर् ॥ ९॥
dharmam artham hi kāmam ca sarvān vā rakṣasām pate . bhajate puruṣaḥ kāle trīṇi dvandvāni vā punar .. 9..
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते । राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ १०॥
त्रिषु च एतेषु यत् श्रेष्ठम् श्रुत्वा तत् न अवबुध्यते । राजा वा राजमात्रः वा व्यर्थम् तस्य बहु-श्रुतम् ॥ १०॥
triṣu ca eteṣu yat śreṣṭham śrutvā tat na avabudhyate . rājā vā rājamātraḥ vā vyartham tasya bahu-śrutam .. 10..
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् । योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥ ११॥
उपप्रदानम् सान्त्वम् वा भेदम् काले च विक्रमम् । योगम् च रक्षसाम् श्रेष्ठ तौ उभौ च नय-अनयौ ॥ ११॥
upapradānam sāntvam vā bhedam kāle ca vikramam . yogam ca rakṣasām śreṣṭha tau ubhau ca naya-anayau .. 11..
काले धर्मार्थकामान् यः संम्मन्त्र्य सचिवैः सह । निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ १२॥
काले धर्म-अर्थ-कामान् यः संम्मन्त्र्य सचिवैः सह । निषेवेत आत्मवान् लोके न स व्यसनम् आप्नुयात् ॥ १२॥
kāle dharma-artha-kāmān yaḥ saṃmmantrya sacivaiḥ saha . niṣeveta ātmavān loke na sa vyasanam āpnuyāt .. 12..
हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः । राजा सहार्थतत्त्वज्ञैः सचिवैर्बुध्दिजीवभिः ॥ १३ ॥
हित-अनुबन्धम् आलोक्य कुर्यात् कार्यम् इह आत्मनः । राजा सह अर्थ-तत्त्व-ज्ञैः सचिवैः बुध्दि-जीवभिः ॥ १३ ॥
hita-anubandham ālokya kuryāt kāryam iha ātmanaḥ . rājā saha artha-tattva-jñaiḥ sacivaiḥ budhdi-jīvabhiḥ .. 13 ..
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः । प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः ॥ १४॥
अन् अभिज्ञाय शास्त्र-अर्थान् पुरुषाः पशु-बुद्धयः । प्रागल्भ्यात् वक्तुम् इच्छन्ति मन्त्रिषु अभ्यन्तरीकृताः ॥ १४॥
an abhijñāya śāstra-arthān puruṣāḥ paśu-buddhayaḥ . prāgalbhyāt vaktum icchanti mantriṣu abhyantarīkṛtāḥ .. 14..
अशास्त्रविदुषां तेषां कार्य नाभिमहितं वचः । अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ १५॥
अ शास्त्र-विदुषाम् तेषाम् कार्य नाभि-महितम् वचः । अर्थशास्त्र-अनभिज्ञानाम् विपुलाम् श्रियम् इच्छताम् ॥ १५॥
a śāstra-viduṣām teṣām kārya nābhi-mahitam vacaḥ . arthaśāstra-anabhijñānām vipulām śriyam icchatām .. 15..
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः । अवक्ष्यं मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः ॥ १६॥
अहितम् च हित-आकारम् धार्ष्ट्यात् जल्पन्ति ये नराः । अवक्ष्यम् मन्त्र-बाह्याः ते कर्तव्याः कृत्य-दूषकाः ॥ १६॥
ahitam ca hita-ākāram dhārṣṭyāt jalpanti ye narāḥ . avakṣyam mantra-bāhyāḥ te kartavyāḥ kṛtya-dūṣakāḥ .. 16..
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ १७॥
विनाशयन्तः भर्तारम् सहिताः शत्रुभिः बुधैः । विपरीतानि कृत्यानि कारयन्ति इह मन्त्रिणः ॥ १७॥
vināśayantaḥ bhartāram sahitāḥ śatrubhiḥ budhaiḥ . viparītāni kṛtyāni kārayanti iha mantriṇaḥ .. 17..
तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये । व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥ १८॥
तान् भर्ता मित्र-सङ्काशान् अमित्रान् मन्त्र-निर्णये । व्यवहारेण जानीयात् सचिवान् उपसंहितान् ॥ १८॥
tān bhartā mitra-saṅkāśān amitrān mantra-nirṇaye . vyavahāreṇa jānīyāt sacivān upasaṃhitān .. 18..
चपलस्येह कृत्यानि सहसानुप्रधावतः । छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ १९॥
चपलस्य इह कृत्यानि सहसा अनुप्रधावतः । छिद्रम् अन्ये प्रपद्यन्ते क्रौञ्चस्य खम् इव द्विजाः ॥ १९॥
capalasya iha kṛtyāni sahasā anupradhāvataḥ . chidram anye prapadyante krauñcasya kham iva dvijāḥ .. 19..
यो हि शत्रुमवज्ञाय आत्मानं नाभिरक्षति । अवाप्नोतिहिसोऽनर्थान्स्थानाच्च व्यवरोप्यते ॥ २०॥
यः हि शत्रुम् अवज्ञाय आत्मानम् न अभिरक्षति । अवाप्नोति हिसः अनर्थान् स्थानात् च व्यवरोप्यते ॥ २०॥
yaḥ hi śatrum avajñāya ātmānam na abhirakṣati . avāpnoti hisaḥ anarthān sthānāt ca vyavaropyate .. 20..
यदुक्तमिह ते पूर्वं प्रियया मेऽनुजेन च । तदेव नो हितं वाक्यं यथेच्छसि तथा कुरु ॥ 21 ॥
यत् उक्तम् इह ते पूर्वम् प्रियया मे अनुजेन च । तत् एव नः हितम् वाक्यम् यथा इच्छसि तथा कुरु ॥ २१ ॥
yat uktam iha te pūrvam priyayā me anujena ca . tat eva naḥ hitam vākyam yathā icchasi tathā kuru .. 21 ..
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् । भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमुवाच ह ॥ 22 ॥
तत् तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् । भ्रुकुटिम् च एव सञ्चक्रे क्रुद्धः च एनम् उवाच ह ॥ २२ ॥
tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam . bhrukuṭim ca eva sañcakre kruddhaḥ ca enam uvāca ha .. 22 ..
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति । किमेवं वाक्ष्रमं कृत्वा काले युक्तं विधीयताम् ॥ 23 ॥
मान्यः गुरुः इव आचार्यः किम् माम् त्वम् अनुशासति । किम् एवम् वा अ क्ष्रमम् कृत्वा काले युक्तम् विधीयताम् ॥ २३ ॥
mānyaḥ guruḥ iva ācāryaḥ kim mām tvam anuśāsati . kim evam vā a kṣramam kṛtvā kāle yuktam vidhīyatām .. 23 ..
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा । नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः ॥ 24 ॥
विभ्रमात् चित्त-मोहात् वा बल-वीर्य-आश्रयेण वा । न अभिपन्नम् इदानीम् यत् व्यर्थाः तस्य पुनर् कृथाः ॥ २४ ॥
vibhramāt citta-mohāt vā bala-vīrya-āśrayeṇa vā . na abhipannam idānīm yat vyarthāḥ tasya punar kṛthāḥ .. 24 ..
अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् । गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ 25 ॥
अस्मिन् काले तु यत् युक्तम् तत् इदानीम् विधीयताम् । गतम् तु न अनुशोचन्ति गतम् तु गतम् एव हि ॥ २५ ॥
asmin kāle tu yat yuktam tat idānīm vidhīyatām . gatam tu na anuśocanti gatam tu gatam eva hi .. 25 ..
ममापनयजं दोषं विक्रमेण समीकुरु । यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि ॥ 26 ॥
मम अपनय-जम् दोषम् विक्रमेण समीकुरु । यदि खलु अस्ति मे स्नेहः भ्रातृ-त्वम् वा अवगच्छसि ॥ २६ ॥
mama apanaya-jam doṣam vikrameṇa samīkuru . yadi khalu asti me snehaḥ bhrātṛ-tvam vā avagacchasi .. 26 ..
यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् । स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते ॥ 27 ॥
यदि वा कार्यम् एतत् ते हृदि कार्यतमम् मतम् । स सुहृद्यः विपन्न-अर्थम् दीनम् अभ्यवपद्यते ॥ २७ ॥
yadi vā kāryam etat te hṛdi kāryatamam matam . sa suhṛdyaḥ vipanna-artham dīnam abhyavapadyate .. 27 ..
स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते । तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ॥ 28 ॥
स बन्धुः यः अपनीतेषु साहाय्याय उपकल्पते । तम् अथा एवम् ब्रुवाणम् तु वचनम् धीर-दारुणम् ॥ २८ ॥
sa bandhuḥ yaḥ apanīteṣu sāhāyyāya upakalpate . tam athā evam bruvāṇam tu vacanam dhīra-dāruṇam .. 28 ..
रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह । अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ॥ 29 ॥
रुष्टः अयम् इति विज्ञाय शनैस् श्लक्ष्णम् उवाच ह । अतीव हि समालक्ष्य भ्रातरम् क्षुभित-इन्द्रियम् ॥ २९ ॥
ruṣṭaḥ ayam iti vijñāya śanais ślakṣṇam uvāca ha . atīva hi samālakṣya bhrātaram kṣubhita-indriyam .. 29 ..
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् । शृणु राजन्नवहितो मम वाक्यमरिन्द ॥ 30 ॥
कुम्भकर्णः शनैस् वाक्यम् बभाषे परिसान्त्वयन् । शृणु राजन् अवहितः मम वाक्यम् अरिन्द ॥ ३० ॥
kumbhakarṇaḥ śanais vākyam babhāṣe parisāntvayan . śṛṇu rājan avahitaḥ mama vākyam arinda .. 30 ..
अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते । रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ॥ 31 ॥
अलम् राक्षस-राज-इन्द्र सन्तापम् उपपद्य ते । रोषम् च सम्परित्यज्य स्वस्थः भवितुम् अर्हसि ॥ ३१ ॥
alam rākṣasa-rāja-indra santāpam upapadya te . roṣam ca samparityajya svasthaḥ bhavitum arhasi .. 31 ..
नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव । तमहं नाशयिष्यामि यत्कृते परितप्यसे ॥ 32 ॥
न एतत् मनसि कर्तव्व्यम् मयि जीवति पार्थिव । तम् अहम् नाशयिष्यामि यद्-कृते परितप्यसे ॥ ३२ ॥
na etat manasi kartavvyam mayi jīvati pārthiva . tam aham nāśayiṣyāmi yad-kṛte paritapyase .. 32 ..
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव । बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥ 33 ॥
अवश्यम् तु हितम् वाच्यम् सर्व-अवस्थम् मया तव । बन्धु-भावात् अभिहितम् भ्रातृ-स्नेहात् च पार्थिव ॥ ३३ ॥
avaśyam tu hitam vācyam sarva-avastham mayā tava . bandhu-bhāvāt abhihitam bhrātṛ-snehāt ca pārthiva .. 33 ..
सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना । शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥ 34 ॥
सदृशम् यत् तु काले अस्मिन् कर्तुम् स्निग्धेन बन्धुना । शत्रूणाम् कदनम् पश्य क्रियमाणम् मया रणे ॥ ३४ ॥
sadṛśam yat tu kāle asmin kartum snigdhena bandhunā . śatrūṇām kadanam paśya kriyamāṇam mayā raṇe .. 34 ..
अद्य पश्य महाबाहो मया समरमूर्धनि । हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ॥ 35 ॥
अद्य पश्य महा-बाहो मया समर-मूर्धनि । हते रामे सह भ्रात्रा द्रवन्तीम् हरि-वाहिनीम् ॥ ३५ ॥
adya paśya mahā-bāho mayā samara-mūrdhani . hate rāme saha bhrātrā dravantīm hari-vāhinīm .. 35 ..
अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः । सुखीभव महाबाहो सीता भवतु दुःखिता ॥ 36 ॥
अद्य रामस्य तत् दृष्ट्वा मया आनीतम् रणात् शिरः । सुखीभव महा-बाहो सीता भवतु दुःखिता ॥ ३६ ॥
adya rāmasya tat dṛṣṭvā mayā ānītam raṇāt śiraḥ . sukhībhava mahā-bāho sītā bhavatu duḥkhitā .. 36 ..
अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् । लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥ 37 ॥
अद्य रामस्य पश्यन्तु निधनम् सु महत् प्रियम् । लङ्कायाम् राक्षसाः सर्वे ये ते निहत-बान्धवाः ॥ ३७ ॥
adya rāmasya paśyantu nidhanam su mahat priyam . laṅkāyām rākṣasāḥ sarve ye te nihata-bāndhavāḥ .. 37 ..
अद्य शोकपरीतानां स्वबन्धुवधकारणात् । शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम् ॥ 38 ॥
अद्य शोक-परीतानाम् स्व-बन्धु-वध-कारणात् । शत्रोः युधि विनाशेन करोमि अस्र-प्रमार्जनम् ॥ ३८ ॥
adya śoka-parītānām sva-bandhu-vadha-kāraṇāt . śatroḥ yudhi vināśena karomi asra-pramārjanam .. 38 ..
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् । विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् ॥ 39 ॥
अद्य पर्वत-सङ्काशम् स सूर्यम् इव तोयदम् । विकीर्णम् पश्य समरे सुग्रीवम् प्लवग-ईश्वरम् ॥ ३९ ॥
adya parvata-saṅkāśam sa sūryam iva toyadam . vikīrṇam paśya samare sugrīvam plavaga-īśvaram .. 39 ..
कथं च राक्षसैरेभिर्मया च परिरक्षितः । जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ॥ 40 ॥
कथम् च राक्षसैः एभिः मया च परिरक्षितः । जिघांसुभिः दाशरथिम् वध्यसे त्वम् इह अनघ ॥ ४० ॥
katham ca rākṣasaiḥ ebhiḥ mayā ca parirakṣitaḥ . jighāṃsubhiḥ dāśarathim vadhyase tvam iha anagha .. 40 ..
मां निहत्य किल त्वां हि निहनिष्यति राघवः । नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ॥ 41 ॥
माम् निहत्य किल त्वाम् हि निहनिष्यति राघवः । न अहम् आत्मनि सन्तापम् गच्छेयम् राक्षस-अधिप ॥ ४१ ॥
mām nihatya kila tvām hi nihaniṣyati rāghavaḥ . na aham ātmani santāpam gaccheyam rākṣasa-adhipa .. 41 ..
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप । न परः प्रेषणीयस्ते युद्धायातुलविक्रम ॥ 42 ॥
कामम् तु इदानीम् अपि माम् व्यादिश त्वम् परन्तप । न परः प्रेषणीयः ते युद्धाय अतुल-विक्रम ॥ ४२ ॥
kāmam tu idānīm api mām vyādiśa tvam parantapa . na paraḥ preṣaṇīyaḥ te yuddhāya atula-vikrama .. 42 ..
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल । यदि शक्रो यदि यमो यदि पावकमारुतौ ॥ 43 ॥
अहम् उत्सादयिष्यामि शत्रून् तव महा-बल । यदि शक्रः यदि यमः यदि पावक-मारुतौ ॥ ४३ ॥
aham utsādayiṣyāmi śatrūn tava mahā-bala . yadi śakraḥ yadi yamaḥ yadi pāvaka-mārutau .. 43 ..
तानहं योधयिष्यामि कुबेर वरुणावपि । गिरिमात्रशरीरस्य शितशूलधरस्य मे ॥ 44 ॥
तान् अहम् योधयिष्यामि कुबेर वरुणौ अपि । गिरि-मात्र-शरीरस्य शित-शूल-धरस्य मे ॥ ४४ ॥
tān aham yodhayiṣyāmi kubera varuṇau api . giri-mātra-śarīrasya śita-śūla-dharasya me .. 44 ..
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः । अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् ॥ 45 ॥
नर्दतः तीक्ष्ण-दंष्ट्रस्य बिभीयात् च पुरन्दरः । अथ वा त्यक्त-शस्त्रस्य मृद्-गतः तरसा रिपून् ॥ ४५ ॥
nardataḥ tīkṣṇa-daṃṣṭrasya bibhīyāt ca purandaraḥ . atha vā tyakta-śastrasya mṛd-gataḥ tarasā ripūn .. 45 ..
न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः । नैव शक्त्या न गदया नासिना न शितैः शरैः ॥ 46 ॥
न मे प्रतिमुखे कश्चिद् शक्तः स्थातुम् जिजीविषुः । न एव शक्त्या न गदया न असिना न शितैः शरैः ॥ ४६ ॥
na me pratimukhe kaścid śaktaḥ sthātum jijīviṣuḥ . na eva śaktyā na gadayā na asinā na śitaiḥ śaraiḥ .. 46 ..
हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् । यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति ॥ 47 ॥
हस्ताभ्याम् एव संरब्धः हनिष्यामि अपि वज्रिणम् । यदि मे मुष्टि-वेगम् स राघवः अद्य सहिष्यति ॥ ४७ ॥
hastābhyām eva saṃrabdhaḥ haniṣyāmi api vajriṇam . yadi me muṣṭi-vegam sa rāghavaḥ adya sahiṣyati .. 47 ..
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते । चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति ॥ 48 ॥
ततस् पास्यन्ति बाण-ओघाः रुधिरम् राघवस्य ते । चिन्तया बाध्यसे राजन् किमर्थम् मयि तिष्ठति ॥ ४८ ॥
tatas pāsyanti bāṇa-oghāḥ rudhiram rāghavasya te . cintayā bādhyase rājan kimartham mayi tiṣṭhati .. 48 ..
सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः । मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे ॥ 49 ॥
सः अहम् शत्रु-विनाशाय तव निर्यातुम् उद्यतः । मुञ्च रामात् भयम् राजन् हनिष्यामि इह संयुगे ॥ ४९ ॥
saḥ aham śatru-vināśāya tava niryātum udyataḥ . muñca rāmāt bhayam rājan haniṣyāmi iha saṃyuge .. 49 ..
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् । हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता ॥ 50 ॥
राघवम् लक्ष्मणम् च एव सुग्रीवम् च महा-बलम् । हनूमन्तम् च रक्षः-घ्नम् येन लङ्का प्रदीपिता ॥ ५० ॥
rāghavam lakṣmaṇam ca eva sugrīvam ca mahā-balam . hanūmantam ca rakṣaḥ-ghnam yena laṅkā pradīpitā .. 50 ..
हरींश्चा भक्षयिष्यामि संयुगे समुपस्थिते । असाधारणमिच्छामि तव दातुं महद्यशः ॥ 51 ॥
हरीन् च आ भक्षयिष्यामि संयुगे समुपस्थिते । असाधारणम् इच्छामि तव दातुम् महत् यशः ॥ ५१ ॥
harīn ca ā bhakṣayiṣyāmi saṃyuge samupasthite . asādhāraṇam icchāmi tava dātum mahat yaśaḥ .. 51 ..
तदि चेन्द्राद् भयं राजन् यदि चापि स्वयम्भुवः । ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान् ॥ 52 ॥
तदि च इन्द्रात् भयम् राजन् यदि च अपि स्वयम्भुवः । ततस् अहम् नाशयिष्यामि नैशम् तमः इव अंशुमान् ॥ ५२ ॥
tadi ca indrāt bhayam rājan yadi ca api svayambhuvaḥ . tatas aham nāśayiṣyāmi naiśam tamaḥ iva aṃśumān .. 52 ..
अपि देवाः शयिष्यन्ते मयि क्रुद्धे महीतले । यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ॥ 53 ॥
अपि देवाः शयिष्यन्ते मयि क्रुद्धे मही-तले । यमम् च शमयिष्यामि भक्षयिष्यामि पावकम् ॥ ५३ ॥
api devāḥ śayiṣyante mayi kruddhe mahī-tale . yamam ca śamayiṣyāmi bhakṣayiṣyāmi pāvakam .. 53 ..
आदित्यं पातयिष्यामि सनक्षत्रं महीतले । शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ॥ 54 ॥
आदित्यम् पातयिष्यामि स नक्षत्रम् मही-तले । शतक्रतुम् वधिष्यामि पास्यामि वरुणालयम् ॥ ५४ ॥
ādityam pātayiṣyāmi sa nakṣatram mahī-tale . śatakratum vadhiṣyāmi pāsyāmi varuṇālayam .. 54 ..
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् । दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ॥ 55 ॥
पर्वतान् चूर्णयिष्यामि दारयिष्यामि मेदिनीम् । दीर्घ-कालम् प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ॥ ५५ ॥
parvatān cūrṇayiṣyāmi dārayiṣyāmi medinīm . dīrgha-kālam prasuptasya kumbhakarṇasya vikramam .. 55 ..
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः । न त्विदं त्रिदिवं सर्वमाहारो मम पूर्यते ॥ 56 ॥
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशस् । न तु इदम् त्रिदिवम् सर्वम् आहारः मम पूर्यते ॥ ५६ ॥
adya paśyantu bhūtāni bhakṣyamāṇāni sarvaśas . na tu idam tridivam sarvam āhāraḥ mama pūryate .. 56 ..
वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुमहं व्रजामि । निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥ 57 ॥
वधेन ते दाशरथेः सुख-आवहम् सुखम् समाहर्तुम् अहम् व्रजामि । निहत्य रामम् सह लक्ष्मणेन खादामि सर्वान् हरि-यूथ-मुख्यान् ॥ ५७ ॥
vadhena te dāśaratheḥ sukha-āvaham sukham samāhartum aham vrajāmi . nihatya rāmam saha lakṣmaṇena khādāmi sarvān hari-yūtha-mukhyān .. 57 ..
रमस्व राजन् पिब चाद्य वारुणीं कुरुष्व कृत्यानि विनीयतां दुःखम् । मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ 58 ॥
रमस्व राजन् पिब च अद्य वारुणीम् कुरुष्व कृत्यानि विनीयताम् दुःखम् । मया अद्य रामे गमिते यम-क्षयम् चिराय सीता वशगा भविष्यति ॥ ५८ ॥
ramasva rājan piba ca adya vāruṇīm kuruṣva kṛtyāni vinīyatām duḥkham . mayā adya rāme gamite yama-kṣayam cirāya sītā vaśagā bhaviṣyati .. 58 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In