This overlay will guide you through the buttons:

| |
|
तदुक्तमतिकायस्य बलिनो बाहुशालिनः । कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १॥
तत् उक्तम् अतिकायस्य बलिनः बाहु-शालिनः । कुम्भकर्णस्य वचनम् श्रुत्वा उवाच महोदरः ॥ १॥
tat uktam atikāyasya balinaḥ bāhu-śālinaḥ . kumbhakarṇasya vacanam śrutvā uvāca mahodaraḥ .. 1..
कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः । अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥ २॥
कुम्भकर्ण-कुले जातः धृष्टः प्राकृत-दर्शनः । अवलिप्तः न शक्नोषि कृत्यम् सर्वत्र वेदितुम् ॥ २॥
kumbhakarṇa-kule jātaḥ dhṛṣṭaḥ prākṛta-darśanaḥ . avaliptaḥ na śaknoṣi kṛtyam sarvatra veditum .. 2..
न हि राजा न जानीते कुम्भकर्ण नयानयौ । त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ॥ ३॥
न हि राजा न जानीते कुम्भकर्ण नय-अनयौ । त्वम् तु कैशोरकात् हृष्टः केवलम् वक्तुम् इच्छसि ॥ ३॥
na hi rājā na jānīte kumbhakarṇa naya-anayau . tvam tu kaiśorakāt hṛṣṭaḥ kevalam vaktum icchasi .. 3..
स्थानं वृद्धिं च हानिं च देशकालविभागवित् । आत्मनश्च परेषां च बुध्यते राक्षसर्षभ ॥ ४॥
स्थानम् वृद्धिम् च हानिम् च देश-काल-विभाग-विद् । आत्मनः च परेषाम् च बुध्यते राक्षस-ऋषभ ॥ ४॥
sthānam vṛddhim ca hānim ca deśa-kāla-vibhāga-vid . ātmanaḥ ca pareṣām ca budhyate rākṣasa-ṛṣabha .. 4..
यत् त्वशक्यं बलवता कर्तुं प्राकृतबुद्धिना । अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ॥ ५॥
यत् तु अशक्यम् बलवता कर्तुम् प्राकृत-बुद्धिना । अनुपासित-वृद्धेन कः कुर्यात् तादृशम् बुधः ॥ ५॥
yat tu aśakyam balavatā kartum prākṛta-buddhinā . anupāsita-vṛddhena kaḥ kuryāt tādṛśam budhaḥ .. 5..
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् । अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते ॥ ६॥
यान् तु धर्म-अर्थ-कामान् त्वम् ब्रवीषि पृथक् आश्रयान् । अनुबोद्धुम् स्वभावेन न हि लक्षणम् अस्ति ते ॥ ६॥
yān tu dharma-artha-kāmān tvam bravīṣi pṛthak āśrayān . anuboddhum svabhāvena na hi lakṣaṇam asti te .. 6..
कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् । श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ ७॥
कर्म च एव हि सर्वेषाम् कारणानाम् प्रयोजनम् । श्रेयः पापीयसाम् च अत्र फलम् भवति कर्मणाम् ॥ ७॥
karma ca eva hi sarveṣām kāraṇānām prayojanam . śreyaḥ pāpīyasām ca atra phalam bhavati karmaṇām .. 7..
निःश्रेयस फलावेव धर्मार्थावितरावपि । अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ॥ ८॥
निःश्रेयस-फलौ एव धर्म-अर्थौ इतरौ अपि । अधर्म-अनर्थयोः प्राप्तिः फलम् च प्रत्यवायिकम् ॥ ८॥
niḥśreyasa-phalau eva dharma-arthau itarau api . adharma-anarthayoḥ prāptiḥ phalam ca pratyavāyikam .. 8..
ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते । कर्माण्यपि तु कल्प्यानि लभते काममास्थितः ॥ ९॥
ऐहलौकिक-पारत्र्यम् कर्म पुम्भिः निषेव्यते । कर्माणि अपि तु कल्प्यानि लभते कामम् आस्थितः ॥ ९॥
aihalaukika-pāratryam karma pumbhiḥ niṣevyate . karmāṇi api tu kalpyāni labhate kāmam āsthitaḥ .. 9..
तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः । शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते ॥ १०॥
तत्र कॢप्तम् इदम् राज्ञा हृदि कार्यम् मतम् च नः । शत्रौ हि साहसम् यत् स्यात् किम् इव अत्र अपनीयते ॥ १०॥
tatra kḷptam idam rājñā hṛdi kāryam matam ca naḥ . śatrau hi sāhasam yat syāt kim iva atra apanīyate .. 10..
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया । तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ॥ ११॥
एकस्य एव अभियाने तु हेतुः यः प्रकृतः त्वया । तत्र अपि अनुपपन्नम् ते वक्ष्यामि यत् असाधु च ॥ ११॥
ekasya eva abhiyāne tu hetuḥ yaḥ prakṛtaḥ tvayā . tatra api anupapannam te vakṣyāmi yat asādhu ca .. 11..
येन पूर्वं जनस्थाने बहवोऽतिबला हताः । राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥ १२॥
येन पूर्वम् जनस्थाने बहवः अतिबलाः हताः । राक्षसाः राघवम् तम् त्वम् कथम् एकः जयिष्यसि ॥ १२॥
yena pūrvam janasthāne bahavaḥ atibalāḥ hatāḥ . rākṣasāḥ rāghavam tam tvam katham ekaḥ jayiṣyasi .. 12..
ये पूर्व निर्जितास्तेन जनस्थाने महौजसः । राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि ॥ १३॥
ये पूर्व निर्जिताः तेन जनस्थाने महा-ओजसः । राक्षसान् तान् पुरे सर्वान् भीतान् अद्य अपि पश्यसि ॥ १३॥
ye pūrva nirjitāḥ tena janasthāne mahā-ojasaḥ . rākṣasān tān pure sarvān bhītān adya api paśyasi .. 13..
तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम् । सर्पं सुप्तमिवाबुध्ह्या प्रबोधयितुमिच्छसि ॥ १४॥
तम् सिंहम् इव सङ्क्रुद्धम् रामम् दशरथ-आत्मजम् । सर्पम् सुप्तम् इव अ बुध्ह्या प्रबोधयितुम् इच्छसि ॥ १४॥
tam siṃham iva saṅkruddham rāmam daśaratha-ātmajam . sarpam suptam iva a budhhyā prabodhayitum icchasi .. 14..
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् । कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥ १५॥
ज्वलन्तम् तेजसा नित्यम् क्रोधेन च दुरासदम् । कः तम् मृत्युम् इव असह्यम् आसादयितुम् अर्हति ॥ १५॥
jvalantam tejasā nityam krodhena ca durāsadam . kaḥ tam mṛtyum iva asahyam āsādayitum arhati .. 15..
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने । एकस्य गमनं तत्र न हि मे रोचते तव ॥ १६॥
संशय-स्थम् इदम् सर्वम् शत्रोः प्रतिसमासने । एकस्य गमनम् तत्र न हि मे रोचते तव ॥ १६॥
saṃśaya-stham idam sarvam śatroḥ pratisamāsane . ekasya gamanam tatra na hi me rocate tava .. 16..
हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा । निश्चितं जीवितत्यागे वशमानेतुमिच्छति ॥ १७॥
हीन-अर्थः तु समृद्ध-अर्थम् कः रिपुम् प्राकृतः यथा । निश्चितम् जीवित-त्यागे वशम् आनेतुम् इच्छति ॥ १७॥
hīna-arthaḥ tu samṛddha-artham kaḥ ripum prākṛtaḥ yathā . niścitam jīvita-tyāge vaśam ānetum icchati .. 17..
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम । कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ॥ १८॥
यस्य ना अस्ति मनुष्येषु सदृशः राक्षस-उत्तम । कथम् आशंससे योद्धुम् तुल्येन इन्द्र-विवस्वतोः ॥ १८॥
yasya nā asti manuṣyeṣu sadṛśaḥ rākṣasa-uttama . katham āśaṃsase yoddhum tulyena indra-vivasvatoḥ .. 18..
एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः । उवाच रक्षसां मध्ये रावणो लोकरावणम् ॥ १९॥
एवम् उक्त्वा तु संरब्धम् कुम्भकर्णम् महोदरः । उवाच रक्षसाम् मध्ये रावणः लोक-रावणम् ॥ १९॥
evam uktvā tu saṃrabdham kumbhakarṇam mahodaraḥ . uvāca rakṣasām madhye rāvaṇaḥ loka-rāvaṇam .. 19..
लब्ध्वा पुनस्ताद् वैदेहीं किमर्थं त्वं विलम्बसे । यदीच्छसि तदा सीता वशगा ते भविष्यति ॥ २०॥
लब्ध्वा पुनर् तात् वैदेहीम् किमर्थम् त्वम् विलम्बसे । यदि इच्छसि तदा सीता वश-गा ते भविष्यति ॥ २०॥
labdhvā punar tāt vaidehīm kimartham tvam vilambase . yadi icchasi tadā sītā vaśa-gā te bhaviṣyati .. 20..
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः । रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर ततः शृणु ॥ २१॥
दृष्टः कश्चिद् उपायः मे सीता-उपस्थान-कारकः । रुचितः चेद् स्वया बुद्ध्या राक्षसेश्वर ततस् शृणु ॥ २१॥
dṛṣṭaḥ kaścid upāyaḥ me sītā-upasthāna-kārakaḥ . rucitaḥ ced svayā buddhyā rākṣaseśvara tatas śṛṇu .. 21..
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः । पञ्च रामवधायैते निर्यान्तीत्यवघोषय ॥ २२॥
अहम् द्विजिह्वः संह्रादी कुम्भकर्णः वितर्दनः । पञ्च राम-वधाय एते निर्यान्ति इति अवघोषय ॥ २२॥
aham dvijihvaḥ saṃhrādī kumbhakarṇaḥ vitardanaḥ . pañca rāma-vadhāya ete niryānti iti avaghoṣaya .. 22..
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः । जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ॥ २३॥
ततस् गत्वा वयम् युद्धम् दास्यामः तस्य यत्नतः । जेष्यामः यदि ते शत्रून् न उपायैः कृत्यम् अस्ति नः ॥ २३॥
tatas gatvā vayam yuddham dāsyāmaḥ tasya yatnataḥ . jeṣyāmaḥ yadi te śatrūn na upāyaiḥ kṛtyam asti naḥ .. 23..
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः । ततः समभिपत्स्यामो मनसा यत्समीक्षितम् ॥ २४॥
अथ जीवति नः शत्रुः वयम् च कृत-संयुगाः । ततस् समभिपत्स्यामः मनसा यत् समीक्षितम् ॥ २४॥
atha jīvati naḥ śatruḥ vayam ca kṛta-saṃyugāḥ . tatas samabhipatsyāmaḥ manasā yat samīkṣitam .. 24..
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः । विदार्य स्वतनुं बाणै रामनामाङ्कितैः शरैः ॥ २५॥
वयम् युद्धात् इह एष्यामः रुधिरेण समुक्षिताः । विदार्य स्व-तनुम् बाणैः राम-नाम-अङ्कितैः शरैः ॥ २५॥
vayam yuddhāt iha eṣyāmaḥ rudhireṇa samukṣitāḥ . vidārya sva-tanum bāṇaiḥ rāma-nāma-aṅkitaiḥ śaraiḥ .. 25..
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः । तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय ॥ २६॥
भक्षितः राघवः अस्माभिः लक्ष्मणः च इति वादिनः । तव पादौ ग्रहीष्यामः त्वम् नः काम प्रपूरय ॥ २६॥
bhakṣitaḥ rāghavaḥ asmābhiḥ lakṣmaṇaḥ ca iti vādinaḥ . tava pādau grahīṣyāmaḥ tvam naḥ kāma prapūraya .. 26..
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव । हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥ २७॥
ततस् अवघोषय पुरे गज-स्कन्धेन पार्थिव । हतः रामः सह भ्रात्रा स सैन्यः इति सर्वतस् ॥ २७॥
tatas avaghoṣaya pure gaja-skandhena pārthiva . hataḥ rāmaḥ saha bhrātrā sa sainyaḥ iti sarvatas .. 27..
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम । भोगांश्च परिवारांश्च कामां वसु च दापय ॥ २८॥
प्रीतः नाम ततस् भूत्वा भृत्यानाम् त्वम् अरिन्दम । भोगान् च परिवारान् च कामाम् वसु च दापय ॥ २८॥
prītaḥ nāma tatas bhūtvā bhṛtyānām tvam arindama . bhogān ca parivārān ca kāmām vasu ca dāpaya .. 28..
ततो माल्यानि वासांसि वीराणामनुलेपनम् । पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ॥ २९॥
ततस् माल्यानि वासांसि वीराणाम् अनुलेपनम् । पेयम् च बहु योधेभ्यः स्वयम् च मुदितः पिब ॥ २९॥
tatas mālyāni vāsāṃsi vīrāṇām anulepanam . peyam ca bahu yodhebhyaḥ svayam ca muditaḥ piba .. 29..
ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते । भक्षित ससुहृद् रामो राक्षसैरिति विश्रुते ॥ 30 ॥
ततस् अस्मिन् बहुलीभूते कौलीने सर्वतस् गते । भक्षित स सुहृद् रामः राक्षसैः इति विश्रुते ॥ ३० ॥
tatas asmin bahulībhūte kaulīne sarvatas gate . bhakṣita sa suhṛd rāmaḥ rākṣasaiḥ iti viśrute .. 30 ..
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वयन् । धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥ 31 ॥
प्रविश्य आश्वास्य च अपि त्वम् सीताम् रहसि सान्त्वयन् । धन-धान्यैः च कामैः च रत्नैः च एनाम् प्रलोभय ॥ ३१ ॥
praviśya āśvāsya ca api tvam sītām rahasi sāntvayan . dhana-dhānyaiḥ ca kāmaiḥ ca ratnaiḥ ca enām pralobhaya .. 31 ..
अनयोपधया राजन् भूयः शोकानुबन्धया । अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥ 32 ॥
अनया उपधया राजन् भूयस् शोक-अनुबन्धया । अकामा त्वद्-वशम् सीता नष्ट-नाथा गमिष्यति ॥ ३२ ॥
anayā upadhayā rājan bhūyas śoka-anubandhayā . akāmā tvad-vaśam sītā naṣṭa-nāthā gamiṣyati .. 32 ..
रमनीणं हि भर्तारं विनष्टमधिगम्य सा । नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥ 33 ॥
रमनीणम् हि भर्तारम् विनष्टम् अधिगम्य सा । नैराश्यात् स्त्री-लघु-त्वात् च त्वद्-वशम् प्रतिपत्स्यते ॥ ३३ ॥
ramanīṇam hi bhartāram vinaṣṭam adhigamya sā . nairāśyāt strī-laghu-tvāt ca tvad-vaśam pratipatsyate .. 33 ..
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता । त्वय्यधीनं सुखं ज्ञात्वा सर्वथैव गमिष्यति ॥ 34 ॥
सा पुरा सुख-संवृद्धा सुख-अर्हा दुःख-कर्शिता । त्वयि अधीनम् सुखम् ज्ञात्वा सर्वथा एव गमिष्यति ॥ ३४ ॥
sā purā sukha-saṃvṛddhā sukha-arhā duḥkha-karśitā . tvayi adhīnam sukham jñātvā sarvathā eva gamiṣyati .. 34 ..
एतत्सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः । इहैव ते सेत्स्यति नोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ॥ 35 ॥
एतत् सु नीतम् मम दर्शनेन रामम् हि दृष्ट्वा एव भवेत् अनर्थः । इह एव ते सेत्स्यति ना उत्सुकः भूः महान् अयुद्धेन सुखस्य लाभः ॥ ३५ ॥
etat su nītam mama darśanena rāmam hi dṛṣṭvā eva bhavet anarthaḥ . iha eva te setsyati nā utsukaḥ bhūḥ mahān ayuddhena sukhasya lābhaḥ .. 35 ..
अनष्टसैन्यो ह्यनवाप्तसंशयो रिपुं त्वयुद्धेन जयञ्जनाधिप । यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ॥ 36 ॥
अ नष्ट-सैन्यः हि अन् अवाप्त-संशयः रिपुम् तु अयुद्धेन जयन् जनाधिप । यशः च पुण्यम् च महत् महीपते श्रियम् च कीर्तिम् च चिरम् समश्नुते ॥ ३६ ॥
a naṣṭa-sainyaḥ hi an avāpta-saṃśayaḥ ripum tu ayuddhena jayan janādhipa . yaśaḥ ca puṇyam ca mahat mahīpate śriyam ca kīrtim ca ciram samaśnute .. 36 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In