This overlay will guide you through the buttons:

| |
|
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् । अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥ 1 ॥
स तथा उक्तः तु निर्भर्त्स्य कुम्भकर्णः महोदरम् । अब्रवीत् राक्षस-श्रेष्ठम् भ्रातरम् रावणम् ततस् ॥ १ ॥
sa tathā uktaḥ tu nirbhartsya kumbhakarṇaḥ mahodaram . abravīt rākṣasa-śreṣṭham bhrātaram rāvaṇam tatas .. 1 ..
सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः । रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ॥ 2 ॥
सः अहम् तव भयम् घोरम् वधात् तस्य दुरात्मनः । रामस्य अद्य प्रमार्जामि निर्वैरः हि सुखी भव ॥ २ ॥
saḥ aham tava bhayam ghoram vadhāt tasya durātmanaḥ . rāmasya adya pramārjāmi nirvairaḥ hi sukhī bhava .. 2 ..
गर्जन्ति न वृथा शूर निर्जला इव तोयदाः । पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ॥ 3 ॥
गर्जन्ति न वृथा शूर निर्जलाः इव तोयदाः । पश्य सम्पाद्यमानम् तु गर्जितम् युधि कर्मणा ॥ ३ ॥
garjanti na vṛthā śūra nirjalāḥ iva toyadāḥ . paśya sampādyamānam tu garjitam yudhi karmaṇā .. 3 ..
न मर्षयति चात्मानं सम्भावयितुमात्मना । अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥ 4 ॥
न मर्षयति च आत्मानम् सम्भावयितुम् आत्मना । अ दर्शयित्वा शूराः तु कर्म कुर्वन्ति दुष्करम् ॥ ४ ॥
na marṣayati ca ātmānam sambhāvayitum ātmanā . a darśayitvā śūrāḥ tu karma kurvanti duṣkaram .. 4 ..
विक्लवानाम ह्यबुद्धीनां राज्ञां पण्डितमानिनाम् । रोचते त्वद्वचो नित्यं कथ्यमानं महोदर ॥ 5 ॥
विक्लवानाम् अम-हि अबुद्धीनाम् राज्ञाम् पण्डित-मानिनाम् । रोचते त्वद्-वचः नित्यम् कथ्यमानम् महोदर ॥ ५ ॥
viklavānām ama-hi abuddhīnām rājñām paṇḍita-māninām . rocate tvad-vacaḥ nityam kathyamānam mahodara .. 5 ..
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः । राजानमनुगच्छद्भिः सर्व कृत्यं विनाशितम् ॥ 6 ॥
युद्धे कापुरुषैः नित्यम् भवद्भिः प्रिय-वादिभिः । राजानम् अनुगच्छद्भिः सर्व कृत्यम् विनाशितम् ॥ ६ ॥
yuddhe kāpuruṣaiḥ nityam bhavadbhiḥ priya-vādibhiḥ . rājānam anugacchadbhiḥ sarva kṛtyam vināśitam .. 6 ..
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् । राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥ 7 ॥
राज-शेषा कृता लङ्का क्षीणः कोशः बलम् हतम् । राजानम् इमम् आसाद्य सुहृद्-चिह्नम् अमित्रकम् ॥ ७ ॥
rāja-śeṣā kṛtā laṅkā kṣīṇaḥ kośaḥ balam hatam . rājānam imam āsādya suhṛd-cihnam amitrakam .. 7 ..
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये । दुर्नयं भवतामद्य समीकर्तुं महाहवे ॥ 8 ॥
एष निर्यामि अहम् युद्धम् उद्यतः शत्रु-निर्जये । दुर्नयम् भवताम् अद्य समीकर्तुम् महा-आहवे ॥ ८ ॥
eṣa niryāmi aham yuddham udyataḥ śatru-nirjaye . durnayam bhavatām adya samīkartum mahā-āhave .. 8 ..
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः । प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ॥ 9 ॥
एवम् उक्तवतः वाक्यम् कुम्भकर्णस्य धीमतः । प्रत्युवाच ततस् वाक्यम् प्रहसन् राक्षस-अधिपः ॥ ९ ॥
evam uktavataḥ vākyam kumbhakarṇasya dhīmataḥ . pratyuvāca tatas vākyam prahasan rākṣasa-adhipaḥ .. 9 ..
महोदरोऽयं रामात्तु परित्रस्तो न संशयः । न हि रोचयते तात युद्धं युद्धविशारद ॥ 10 ॥
महोदरः अयम् रामात् तु परित्रस्तः न संशयः । न हि रोचयते तात युद्धम् युद्ध-विशारद ॥ १० ॥
mahodaraḥ ayam rāmāt tu paritrastaḥ na saṃśayaḥ . na hi rocayate tāta yuddham yuddha-viśārada .. 10 ..
कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च । गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥ 11 ॥
कश्चिद् मे त्वद्-समः ना अस्ति सौहृदेन बलेन च । गच्छ शत्रु-वधाय त्वम् कुम्भकर्ण जयाय च ॥ ११ ॥
kaścid me tvad-samaḥ nā asti sauhṛdena balena ca . gaccha śatru-vadhāya tvam kumbhakarṇa jayāya ca .. 11 ..
शयानः शत्रुनाशार्थं भवान् सम्बोधितो मया । अयं हि काल सुमहान् राक्षसानामरिन्दम ॥ 12 ॥
शयानः शत्रु-नाश-अर्थम् भवान् सम्बोधितः मया । अयम् हि काल सु महान् राक्षसानाम् अरिन्दम ॥ १२ ॥
śayānaḥ śatru-nāśa-artham bhavān sambodhitaḥ mayā . ayam hi kāla su mahān rākṣasānām arindama .. 12 ..
संगच्छ शूलमादाय पाशहस्त इवान्तकः । वानरान् राजपुत्रौ च भक्ष्यादित्यतेजसौ ॥ 13 ॥
संगच्छ शूलम् आदाय पाश-हस्तः इव अन्तकः । वानरान् राज-पुत्रौ च भक्ष्य-आदित्य-तेजसौ ॥ १३ ॥
saṃgaccha śūlam ādāya pāśa-hastaḥ iva antakaḥ . vānarān rāja-putrau ca bhakṣya-āditya-tejasau .. 13 ..
समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः । रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः ॥ 14 ॥
समालोक्य तु ते रूपम् विद्रविष्यन्ति वानराः । राम-लक्ष्मणयोः च अपि हृदये प्रस्फुटिष्यतः ॥ १४ ॥
samālokya tu te rūpam vidraviṣyanti vānarāḥ . rāma-lakṣmaṇayoḥ ca api hṛdaye prasphuṭiṣyataḥ .. 14 ..
एवमुक्त्वा महातेजाः कुम्भकर्णं महाबलम् । पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥ 15 ॥
एवम् उक्त्वा महा-तेजाः कुम्भकर्णम् महा-बलम् । पुनर् जातम् इव आत्मानम् मेने राक्षस-पुङ्गवः ॥ १५ ॥
evam uktvā mahā-tejāḥ kumbhakarṇam mahā-balam . punar jātam iva ātmānam mene rākṣasa-puṅgavaḥ .. 15 ..
कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् । बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥ 16 ॥
कुम्भकर्ण-बल-अभिज्ञः जानन् तस्य पराक्रमम् । बभूव मुदितः राजा शशाङ्कः इव निर्मलः ॥ १६ ॥
kumbhakarṇa-bala-abhijñaḥ jānan tasya parākramam . babhūva muditaḥ rājā śaśāṅkaḥ iva nirmalaḥ .. 16 ..
इत्येवमुक्तः सम्हृष्टो निर्जगाम महाबलः । राज्ञस्तु वचनं श्रुत्वा योध्दुमुद्युक्त्तवांस्तदा: ॥ 17 ॥
इति एवम् उक्तः सम्हृष्टः निर्जगाम महा-बलः । राज्ञः तु वचनम् श्रुत्वा योध्दुम् उद्युक्तवान् तदा ॥ १७ ॥
iti evam uktaḥ samhṛṣṭaḥ nirjagāma mahā-balaḥ . rājñaḥ tu vacanam śrutvā yodhdum udyuktavān tadā .. 17 ..
आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः । सर्व कालायसं दीप्तं तप्तकाञ्चनभूषणम् ॥ 18 ॥
आददे निशितम् शूलम् वेगात् शत्रु-निबर्हणः । कालायसम् दीप्तम् तप्त-काञ्चन-भूषणम् ॥ १८ ॥
ādade niśitam śūlam vegāt śatru-nibarhaṇaḥ . kālāyasam dīptam tapta-kāñcana-bhūṣaṇam .. 18 ..
इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् । देवदानवगन्धर्वयक्षकिंनरसूदनम् ॥ 19 ॥
इन्द्र-अशनि-समम् भीमम् वज्र-प्रतिम-गौरवम् । देव-दानव-गन्धर्व-यक्ष-किंनर-सूदनम् ॥ १९ ॥
indra-aśani-samam bhīmam vajra-pratima-gauravam . deva-dānava-gandharva-yakṣa-kiṃnara-sūdanam .. 19 ..
रक्तमाल्यमहादाम स्वतश्चोद्गतपावकम् । आदाय विपुलं शूलं शत्रुशोणितरञ्जितम् ॥ 20 ॥
रक्त-माल्य-महा-दाम स्वतः च उद्गत-पावकम् । आदाय विपुलम् शूलम् शत्रु-शोणित-रञ्जितम् ॥ २० ॥
rakta-mālya-mahā-dāma svataḥ ca udgata-pāvakam . ādāya vipulam śūlam śatru-śoṇita-rañjitam .. 20 ..
कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् । गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् ॥ 21 ॥
कुम्भकर्णः महा-तेजाः रावणम् वाक्यम् अब्रवीत् । गमिष्यामि अहम् एकाकी तिष्ठतु इह बलम् महत् ॥ २१ ॥
kumbhakarṇaḥ mahā-tejāḥ rāvaṇam vākyam abravīt . gamiṣyāmi aham ekākī tiṣṭhatu iha balam mahat .. 21 ..
अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् । कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥ 22 ॥
अद्य तान् क्षुधितः क्रुद्धः भक्षयिष्यामि वानरान् । कुम्भकर्ण-वचः श्रुत्वा रावणः वाक्यम् अब्रवीत् ॥ २२ ॥
adya tān kṣudhitaḥ kruddhaḥ bhakṣayiṣyāmi vānarān . kumbhakarṇa-vacaḥ śrutvā rāvaṇaḥ vākyam abravīt .. 22 ..
सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः । वानरा हि महात्मानः शूरा सुव्यवसायिनः ॥ 23 ॥
सैन्यैः परिवृतः गच्छ शूल-मुद्गल-पाणिभिः । वानराः हि महात्मानः शूरा सु व्यवसायिनः ॥ २३ ॥
sainyaiḥ parivṛtaḥ gaccha śūla-mudgala-pāṇibhiḥ . vānarāḥ hi mahātmānaḥ śūrā su vyavasāyinaḥ .. 23 ..
एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् । तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज । रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ॥ 24 ॥
एकाकिनम् प्रमत्तम् वा नयेयुः दशनैः क्षयम् । तस्मात् परम-दुर्धर्षैः सैन्यैः परिवृतः व्रज । रक्षसाम् अहितम् सर्वम् शत्रु-पक्षम् निषूदय ॥ २४ ॥
ekākinam pramattam vā nayeyuḥ daśanaiḥ kṣayam . tasmāt parama-durdharṣaiḥ sainyaiḥ parivṛtaḥ vraja . rakṣasām ahitam sarvam śatru-pakṣam niṣūdaya .. 24 ..
अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् । आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥ 25 ॥
अथ आसनात् समुत्पत्य स्रजम् मणि-कृत-अन्तराम् । आबबन्ध महा-तेजाः कुम्भकर्णस्य रावणः ॥ २५ ॥
atha āsanāt samutpatya srajam maṇi-kṛta-antarām . ābabandha mahā-tejāḥ kumbhakarṇasya rāvaṇaḥ .. 25 ..
अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च । हारं च शशिसङ्काशमाबबन्ध महात्मनः ॥ 26 ॥
अङ्गदान् अङ्गुली-वेष्टान् वराणि आभरणानि च । हारम् च शशि-सङ्काशम् आबबन्ध महात्मनः ॥ २६ ॥
aṅgadān aṅgulī-veṣṭān varāṇi ābharaṇāni ca . hāram ca śaśi-saṅkāśam ābabandha mahātmanaḥ .. 26 ..
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः । गात्रेषु सज्जयामास श्रोत्रयोश्चास्य कुण्डले ॥ 27 ॥
दिव्यानि च सुगन्धीनि माल्य-दामानि रावणः । गात्रेषु सज्जयामास श्रोत्रयोः च अस्य कुण्डले ॥ २७ ॥
divyāni ca sugandhīni mālya-dāmāni rāvaṇaḥ . gātreṣu sajjayāmāsa śrotrayoḥ ca asya kuṇḍale .. 27 ..
काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः । कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥ 28 ॥
काञ्चन-अङ्गद-केयूरः निष्क-आभरण-भूषितः । कुम्भकर्णः बृहत्-कर्णः सु हुतः अग्निः इव आबभौ ॥ २८ ॥
kāñcana-aṅgada-keyūraḥ niṣka-ābharaṇa-bhūṣitaḥ . kumbhakarṇaḥ bṛhat-karṇaḥ su hutaḥ agniḥ iva ābabhau .. 28 ..
श्रोणीसूत्रेण महता मेचकेन व्यराजत । अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः । ॥ 29 ॥
श्रोणी-सूत्रेण महता मेचकेन व्यराजत । अमृत-उत्पादने नद्धः भुजङ्गेन इव मन्दरः । ॥ २९ ॥
śroṇī-sūtreṇa mahatā mecakena vyarājata . amṛta-utpādane naddhaḥ bhujaṅgena iva mandaraḥ . .. 29 ..
स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा । आबध्यमानः कवचं रराज सन्ध्यभ्रसंवीत् इवाद्रिराजः ॥ 30 ॥
स काञ्चनम् भार-सहम् निवातम् विद्युत्-प्रभम् दीप्तम् इव आत्म-भासा । आबध्यमानः कवचम् रराज सन्धि-अभ्र-संवीत् इव अद्रिराजः ॥ ३० ॥
sa kāñcanam bhāra-saham nivātam vidyut-prabham dīptam iva ātma-bhāsā . ābadhyamānaḥ kavacam rarāja sandhi-abhra-saṃvīt iva adrirājaḥ .. 30 ..
सर्वाभरणसर्वाङ्ग शूलपाणि स राक्षसः । त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ 31 ॥
सर्व-आभरण-सर्व-अङ्ग शूल-पाणि स राक्षसः । त्रिविक्रम-कृत-उत्साहः नारायणः इव आबभौ ॥ ३१ ॥
sarva-ābharaṇa-sarva-aṅga śūla-pāṇi sa rākṣasaḥ . trivikrama-kṛta-utsāhaḥ nārāyaṇaḥ iva ābabhau .. 31 ..
भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम् । प्रणम्य शिरसा तस्मै प्रतस्थे स महाबलः ॥ 32 ॥
भ्रातरम् सम्परिष्वज्य कृत्वा च अपि प्रदक्षिणम् । प्रणम्य शिरसा तस्मै प्रतस्थे स महा-बलः ॥ ३२ ॥
bhrātaram sampariṣvajya kṛtvā ca api pradakṣiṇam . praṇamya śirasā tasmai pratasthe sa mahā-balaḥ .. 32 ..
तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः । शङ्खदुन्दुभिनिर्घोषै सैन्यैश्चापि वरायुधैः ॥ 33 ॥
तम् आशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः । शङ्ख-दुन्दुभि-निर्घोषैः सैन्यैः च अपि वर-आयुधैः ॥ ३३ ॥
tam āśīrbhiḥ praśastābhiḥ preṣayāmāsa rāvaṇaḥ . śaṅkha-dundubhi-nirghoṣaiḥ sainyaiḥ ca api vara-āyudhaiḥ .. 33 ..
तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः । अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ॥ 34 ॥
तम् गजैः च तुरङ्गैः च स्यन्दनैः च अम्बुद-स्वनैः । अनुजग्मुः महात्मानम् रथिनः रथिनाम् वरम् ॥ ३४ ॥
tam gajaiḥ ca turaṅgaiḥ ca syandanaiḥ ca ambuda-svanaiḥ . anujagmuḥ mahātmānam rathinaḥ rathinām varam .. 34 ..
सर्पैरुष्ट्रैः खरैश्वै सिंहद्विपमृगद्विजैः । अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥ 35 ॥
सर्पैः उष्ट्रैः सिंह-द्विप-मृग-द्विजैः । अनुजग्मुः च तम् घोरम् कुम्भकर्णम् महा-बलम् ॥ ३५ ॥
sarpaiḥ uṣṭraiḥ siṃha-dvipa-mṛga-dvijaiḥ . anujagmuḥ ca tam ghoram kumbhakarṇam mahā-balam .. 35 ..
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः । मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दावनदेवशत्रुः ॥ 36 ॥
स पुष्प-वर्षैः अवकीर्यमाणः धृत-आतपत्रः शित-शूल-पाणिः । मद-उत्कटः शोणित-गन्ध-मत्तः विनिर्ययौ दावन-देव-शत्रुः ॥ ३६ ॥
sa puṣpa-varṣaiḥ avakīryamāṇaḥ dhṛta-ātapatraḥ śita-śūla-pāṇiḥ . mada-utkaṭaḥ śoṇita-gandha-mattaḥ viniryayau dāvana-deva-śatruḥ .. 36 ..
पदातयश्च बहवो महानादा महाबलाः । अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ 37 ॥
पदातयः च बहवः महा-नादाः महा-बलाः । अन्वयुः राक्षसाः भीमाः भीम-अक्षाः शस्त्र-पाणयः ॥ ३७ ॥
padātayaḥ ca bahavaḥ mahā-nādāḥ mahā-balāḥ . anvayuḥ rākṣasāḥ bhīmāḥ bhīma-akṣāḥ śastra-pāṇayaḥ .. 37 ..
रक्ताक्षा सुबहुव्यामा नीलाञ्चनचयोपमाः । शूलानुद्यम्य खडगांश्च निशितांश्च परश्वधान् ॥ 38 ॥
सु बहु-व्यामाः नीलाञ्चन-चय-उपमाः । शूलान् उद्यम्य खडगान् च निशितान् च परश्वधान् ॥ ३८ ॥
su bahu-vyāmāḥ nīlāñcana-caya-upamāḥ . śūlān udyamya khaḍagān ca niśitān ca paraśvadhān .. 38 ..
भिन्दिपालांश्च परिघान् गदाश्च मुसलानि च । तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ॥ 39 ॥
भिन्दिपालान् च परिघान् गदाः च मुसलानि च । ताल-स्कन्धान् च विपुलान् क्षेपणीयान् दुरासदान् ॥ ३९ ॥
bhindipālān ca parighān gadāḥ ca musalāni ca . tāla-skandhān ca vipulān kṣepaṇīyān durāsadān .. 39 ..
अथान्यद्वपुरादाय दारुणं घोरदर्शणम् । निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥ 40 ॥
अथ अन्यत् वपुः आदाय दारुणम् घोर-दर्शणम् । निष्पपात महा-तेजाः कुम्भकर्णः महा-बलः ॥ ४० ॥
atha anyat vapuḥ ādāya dāruṇam ghora-darśaṇam . niṣpapāta mahā-tejāḥ kumbhakarṇaḥ mahā-balaḥ .. 40 ..
धनुःशतपरीणाहः स षट्शतसमुच्छ्रितः । रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ॥ 41 ॥
धनुः-शत-परीणाहः स षष्-शत-समुच्छ्रितः । रौद्रः शकट-चक्र-अक्षः महा-पर्वत-सन्निभः ॥ ४१ ॥
dhanuḥ-śata-parīṇāhaḥ sa ṣaṣ-śata-samucchritaḥ . raudraḥ śakaṭa-cakra-akṣaḥ mahā-parvata-sannibhaḥ .. 41 ..
सन्निपत्य च रक्षांसि दग्धशैलोपमो महान् । कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥ 42 ॥
सन्निपत्य च रक्षांसि दग्ध-शैल-उपमः महान् । कुम्भकर्णः महा-वक्त्रः प्रहसन् इदम् अब्रवीत् ॥ ४२ ॥
sannipatya ca rakṣāṃsi dagdha-śaila-upamaḥ mahān . kumbhakarṇaḥ mahā-vaktraḥ prahasan idam abravīt .. 42 ..
अद्य वानरमुख्यानां तानि यूथानि भागश । निर्दहिष्यामि संक्रुद्ध पतङ्गानिव पावकः ॥ 43 ॥
अद्य वानर-मुख्यानाम् तानि यूथानि भागशस् । निर्दहिष्यामि संक्रुद्ध पतङ्गान् इव पावकः ॥ ४३ ॥
adya vānara-mukhyānām tāni yūthāni bhāgaśas . nirdahiṣyāmi saṃkruddha pataṅgān iva pāvakaḥ .. 43 ..
नापराध्यन्ति मे कामं वानरा: वनचारिणः । जातिरस्मद्विधानां स पुरोद्यानविभूषणम् ॥ 44 ॥
न अपराध्यन्ति मे कामम् वानराः वन-चारिणः । जातिः अस्मद्विधानाम् स पुर-उद्यान-विभूषणम् ॥ ४४ ॥
na aparādhyanti me kāmam vānarāḥ vana-cāriṇaḥ . jātiḥ asmadvidhānām sa pura-udyāna-vibhūṣaṇam .. 44 ..
पुररोधस्य मूलं तु राघव सहलक्ष्मणः । हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ॥ 45 ॥
पुर-रोधस्य मूलम् तु राघव सहलक्ष्मणः । हते तस्मिन् हतम् सर्वम् तम् वधिष्यामि संयुगे ॥ ४५ ॥
pura-rodhasya mūlam tu rāghava sahalakṣmaṇaḥ . hate tasmin hatam sarvam tam vadhiṣyāmi saṃyuge .. 45 ..
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः । नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥ 46 ॥
एवम् तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः । नादम् चक्रुः महा-घोरम् कम्पयन्तः इव अर्णवम् ॥ ४६ ॥
evam tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ . nādam cakruḥ mahā-ghoram kampayantaḥ iva arṇavam .. 46 ..
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः । बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥ 47 ॥
तस्य निष्पततः तूर्णम् कुम्भकर्णस्य धीमतः । बभूवुः घोर-रूपाणि निमित्तानि समन्ततः ॥ ४७ ॥
tasya niṣpatataḥ tūrṇam kumbhakarṇasya dhīmataḥ . babhūvuḥ ghora-rūpāṇi nimittāni samantataḥ .. 47 ..
उल्काशनियुता मेघा बभूवुर्गर्धभारुणाः । ससागरवना चैव वसुधा समकम्पत ॥ 48 ॥
उल्का-अशनि-युताः मेघाः बभूवुः गर्धभ-अरुणाः । स सागर-वना च एव वसुधा समकम्पत ॥ ४८ ॥
ulkā-aśani-yutāḥ meghāḥ babhūvuḥ gardhabha-aruṇāḥ . sa sāgara-vanā ca eva vasudhā samakampata .. 48 ..
घोररूपा शिवा नेदुः सज्वालकवलैर्मुखैः । मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ॥ 49 ॥
घोर-रूपा शिवा नेदुः स ज्वाल-कवलैः मुखैः । मण्डलानि अपसव्यानि बबन्धुः च विहङ्गमाः ॥ ४९ ॥
ghora-rūpā śivā neduḥ sa jvāla-kavalaiḥ mukhaiḥ . maṇḍalāni apasavyāni babandhuḥ ca vihaṅgamāḥ .. 49 ..
निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः । प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत ॥ 50 ॥
निष्पपात च गृध्रे अस्य शूले वै पथि गच्छतः । प्रास्फुरत् नयनम् च अस्य सव्यः बाहुः अकम्पत ॥ ५० ॥
niṣpapāta ca gṛdhre asya śūle vai pathi gacchataḥ . prāsphurat nayanam ca asya savyaḥ bāhuḥ akampata .. 50 ..
निष्पपात तदा चोल्का ज्वलन्ती भीमनिःस्वना । आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ॥ 51 ॥
निष्पपात तदा च उल्का ज्वलन्ती भीम-निःस्वना । आदित्यः निष्प्रभः च आसीत् न प्रवाति सुखः अनिलः ॥ ५१ ॥
niṣpapāta tadā ca ulkā jvalantī bhīma-niḥsvanā . ādityaḥ niṣprabhaḥ ca āsīt na pravāti sukhaḥ anilaḥ .. 51 ..
अचिन्तयन् महोत्पातानुदितान् रोमहर्षणान् । निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥ 52 ॥
अ चिन्तयन् महा-उत्पातान् उदितान् रोम-हर्षणान् । निर्ययौ कुम्भकर्णः तु कृतान्त-बल-चोदितः ॥ ५२ ॥
a cintayan mahā-utpātān uditān roma-harṣaṇān . niryayau kumbhakarṇaḥ tu kṛtānta-bala-coditaḥ .. 52 ..
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः । ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥ 53 ॥
स लङ्घयित्वा प्राकारम् पद्भ्याम् पर्वत-संनिभः । ददर्श अभ्र-घन-प्रख्यम् वानर-अनीकम् अद्भुतम् ॥ ५३ ॥
sa laṅghayitvā prākāram padbhyām parvata-saṃnibhaḥ . dadarśa abhra-ghana-prakhyam vānara-anīkam adbhutam .. 53 ..
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् । वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥ 54 ॥
ते दृष्ट्वा राक्षस-श्रेष्ठम् वानराः पर्वत-उपमम् । वायु-नुन्नाः इव घनाः ययुः सर्वाः दिशः तदा ॥ ५४ ॥
te dṛṣṭvā rākṣasa-śreṣṭham vānarāḥ parvata-upamam . vāyu-nunnāḥ iva ghanāḥ yayuḥ sarvāḥ diśaḥ tadā .. 54 ..
तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् । स कुम्भकर्णः समवेक्ष्य हर्षान् ननाद भूयो घनवद्घनाभः ॥ 55 ॥
तत् वानर-अनीकम् अति प्रचण्डम् दिशः द्रवत्-भिन्नम् इव अभ्र-जालम् । स कुम्भकर्णः समवेक्ष्य हर्षात् ननाद भूयस् घन-वत् घन-आभः ॥ ५५ ॥
tat vānara-anīkam ati pracaṇḍam diśaḥ dravat-bhinnam iva abhra-jālam . sa kumbhakarṇaḥ samavekṣya harṣāt nanāda bhūyas ghana-vat ghana-ābhaḥ .. 55 ..
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य । पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव शालवृक्षाः ॥ 56 ॥
ते तस्य घोरम् निनदम् निशम्य यथा निनादम् दिवि वारिदस्य । पेतुः धरण्याम् बहवः प्लवङ्गाः निकृत्त-मूलाः इव शाल-वृक्षाः ॥ ५६ ॥
te tasya ghoram ninadam niśamya yathā ninādam divi vāridasya . petuḥ dharaṇyām bahavaḥ plavaṅgāḥ nikṛtta-mūlāḥ iva śāla-vṛkṣāḥ .. 56 ..
विपुलपरिघवान्स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा । कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ॥ 57 ॥
विपुल-परिघवान् स कुम्भकर्णः रिपु-निधनाय विनिःसृतः महात्मा । कपि-गण-भयम् आददत् सु भीमम् प्रभुः इव किङ्कर-दण्डवान् युगान्ते ॥ ५७ ॥
vipula-parighavān sa kumbhakarṇaḥ ripu-nidhanāya viniḥsṛtaḥ mahātmā . kapi-gaṇa-bhayam ādadat su bhīmam prabhuḥ iva kiṅkara-daṇḍavān yugānte .. 57 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In