This overlay will guide you through the buttons:

| |
|
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरात् तूर्णं कुम्भकर्णो महाबलः ॥ 1 ॥
स लङ्घयित्वा प्राकारम् गिरि-कूट-उपमः महान् । निर्ययौ नगरात् तूर्णम् कुम्भकर्णः महा-बलः ॥ १ ॥
sa laṅghayitvā prākāram giri-kūṭa-upamaḥ mahān . niryayau nagarāt tūrṇam kumbhakarṇaḥ mahā-balaḥ .. 1 ..
ननाद च महानादं समुद्रमभिनादयन् । विजयन्निव निर्घातान्विधमन्निव पर्वतान् ॥ 2 ॥
ननाद च महा-नादम् समुद्रम् अभिनादयन् । विजयन् इव निर्घातान् विधमन् इव पर्वतान् ॥ २ ॥
nanāda ca mahā-nādam samudram abhinādayan . vijayan iva nirghātān vidhaman iva parvatān .. 2 ..
तमवध्यं मघवता यमेन वरुणेन च । प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ 3 ॥
तम् अवध्यम् मघवता यमेन वरुणेन च । प्रेक्ष्य भीम-अक्षम् आयान्तम् वानराः विप्रदुद्रुवुः ॥ ३ ॥
tam avadhyam maghavatā yamena varuṇena ca . prekṣya bhīma-akṣam āyāntam vānarāḥ vipradudruvuḥ .. 3 ..
तांस्तु विद्रवतो दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत् । नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ 4 ॥
तान् तु विद्रवतः दृष्ट्वा राज-पुत्रः अङ्गदः अब्रवीत् । नलम् नीलम् गवाक्षम् च कुमुदम् च महा-बलम् ॥ ४ ॥
tān tu vidravataḥ dṛṣṭvā rāja-putraḥ aṅgadaḥ abravīt . nalam nīlam gavākṣam ca kumudam ca mahā-balam .. 4 ..
आत्मानस्तानि विस्मृत्य वीर्याण्यभिजनानि च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ 5 ॥
आत्मानः तानि विस्मृत्य वीर्याणि अभिजनानि च । क्व गच्छत भय-त्रस्ताः प्राकृताः हरयः यथा ॥ ५ ॥
ātmānaḥ tāni vismṛtya vīryāṇi abhijanāni ca . kva gacchata bhaya-trastāḥ prākṛtāḥ harayaḥ yathā .. 5 ..
साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ । नालं युद्धाय वै रक्षो महतीयं विभीषिकाः ॥ 6 ॥
साधु सौम्याः निवर्तध्वम् किम् प्राणान् परिरक्षथ । न अलम् युद्धाय वै रक्षः महती इयम् विभीषिकाः ॥ ६ ॥
sādhu saumyāḥ nivartadhvam kim prāṇān parirakṣatha . na alam yuddhāya vai rakṣaḥ mahatī iyam vibhīṣikāḥ .. 6 ..
महतीमुत्थितामेनां राक्षसानां विभीषिकाम् । विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ 7 ॥
महतीम् उत्थिताम् एनाम् राक्षसानाम् विभीषिकाम् । विक्रमात् विधमिष्यामः निवर्तध्वम् प्लवङ्गमाः ॥ ७ ॥
mahatīm utthitām enām rākṣasānām vibhīṣikām . vikramāt vidhamiṣyāmaḥ nivartadhvam plavaṅgamāḥ .. 7 ..
कृच्छ्रेण तु समाश्वास्य सङ्गम्य च ततस्ततः । वृक्षान् गिहस्वा हरयः सम्प्रतस्थू रणाजिरे ॥ 8 ॥
कृच्छ्रेण तु समाश्वास्य सङ्गम्य च ततस् ततस् । वृक्षान् गिहस्व हरयः सम्प्रतस्थुः रण-अजिरे ॥ ८ ॥
kṛcchreṇa tu samāśvāsya saṅgamya ca tatas tatas . vṛkṣān gihasva harayaḥ sampratasthuḥ raṇa-ajire .. 8 ..
ते निवृर्त्य तु संरब्धा कुम्भकर्णं वनौकसः । निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ 9 ॥
ते निवृर्त्य तु संरब्धा कुम्भकर्णम् वनौकसः । निजघ्नुः परम-क्रुद्धाः स मदाः इव कुञ्जराः ॥ ९ ॥
te nivṛrtya tu saṃrabdhā kumbhakarṇam vanaukasaḥ . nijaghnuḥ parama-kruddhāḥ sa madāḥ iva kuñjarāḥ .. 9 ..
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः । पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ॥ 10 ॥
प्रांशुभिः गिरि-शृङ्गैः च शिलाभिः च महा-बलाः । पादपैः पुष्पित-अग्रैः च हन्यमानः न कम्पते ॥ १० ॥
prāṃśubhiḥ giri-śṛṅgaiḥ ca śilābhiḥ ca mahā-balāḥ . pādapaiḥ puṣpita-agraiḥ ca hanyamānaḥ na kampate .. 10 ..
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः । पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ 11 ॥
तस्य गात्रेषु पतिताः भिद्यन्ते शतशस् शिलाः । पादपाः पुष्पित-अग्राः च भग्नाः पेतुः मही-तले ॥ ११ ॥
tasya gātreṣu patitāḥ bhidyante śataśas śilāḥ . pādapāḥ puṣpita-agrāḥ ca bhagnāḥ petuḥ mahī-tale .. 11 ..
सोऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम् । ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ 12 ॥
सः अपि सैन्यानि सङ्क्रुद्धः वानराणाम् महा-ओजसाम् । ममन्थ परम-आयत्तः वनानि अग्निः इव उत्थितः ॥ १२ ॥
saḥ api sainyāni saṅkruddhaḥ vānarāṇām mahā-ojasām . mamantha parama-āyattaḥ vanāni agniḥ iva utthitaḥ .. 12 ..
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः । निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ 13 ॥
लोहित-आर्द्राः तु बहवः शेरते वानर-ऋषभाः । निरस्ताः पतिताः भूमौ ताम्र-पुष्पाः इव द्रुमाः ॥ १३ ॥
lohita-ārdrāḥ tu bahavaḥ śerate vānara-ṛṣabhāḥ . nirastāḥ patitāḥ bhūmau tāmra-puṣpāḥ iva drumāḥ .. 13 ..
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् । केचित् समुद्रे पतिताः केचिद् गगनमाश्रिताः ॥ 14 ॥
लङ्घयन्तः प्रधावन्तः वानराः न अवलोकयन् । केचिद् समुद्रे पतिताः केचिद् गगनम् आश्रिताः ॥ १४ ॥
laṅghayantaḥ pradhāvantaḥ vānarāḥ na avalokayan . kecid samudre patitāḥ kecid gaganam āśritāḥ .. 14 ..
वध्यमानास्तु ते वीरा राक्षसेन च लीलय । सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ॥ 15 ॥
वध्यमानाः तु ते वीराः राक्षसेन च लीलय । सागरम् येन ते तीर्णाः पथा तेन एव दुद्रुवुः ॥ १५ ॥
vadhyamānāḥ tu te vīrāḥ rākṣasena ca līlaya . sāgaram yena te tīrṇāḥ pathā tena eva dudruvuḥ .. 15 ..
ते स्थलानि तथा निम्नं विवर्णवदना भयात् । ऋक्षा वृक्षान्समारूढाः के चित्पर्वतमाश्रिताः ॥ 16 ॥
ते स्थलानि तथा निम्नम् विवर्ण-वदनाः भयात् । ऋक्षाः वृक्षान् समारूढाः के चित् पर्वतम् आश्रिताः ॥ १६ ॥
te sthalāni tathā nimnam vivarṇa-vadanāḥ bhayāt . ṛkṣāḥ vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ .. 16 ..
ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः । निपेदुः केचिद् केचिन्नैवावतस्थिरे ॥ 17 ॥
ममज्जुः अर्णवे केचिद् गुहाः केचिद् समाश्रिताः । निपेदुः केचिद् केचिद् न एव अवतस्थिरे ॥ १७ ॥
mamajjuḥ arṇave kecid guhāḥ kecid samāśritāḥ . nipeduḥ kecid kecid na eva avatasthire .. 17 ..
तान्समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् । अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ॥ 18 ॥
तान् समीक्ष्य अङ्गदः भग्नान् वानरान् इदम् अब्रवीत् । अवतिष्ठत युध्यामः निवर्तध्वम् प्लवङ्गमाः ॥ १८ ॥
tān samīkṣya aṅgadaḥ bhagnān vānarān idam abravīt . avatiṣṭhata yudhyāmaḥ nivartadhvam plavaṅgamāḥ .. 18 ..
भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम् । स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥ 19 ॥
भग्नानाम् वः न पश्यामि परिक्रम्य महीम् इमाम् । स्थानम् सर्वे निवर्तध्वम् किम् प्राणान् परिरक्षथ ॥ १९ ॥
bhagnānām vaḥ na paśyāmi parikramya mahīm imām . sthānam sarve nivartadhvam kim prāṇān parirakṣatha .. 19 ..
निरायुधानां द्रवतामसङ्गगतिपौरुषाः । दारा ह्यपहसिष्यन्ति स वै घातः सुजीविताम् ॥ 20 ॥
निरायुधानाम् द्रवताम् असङ्ग-गति-पौरुषाः । दाराः हि अपहसिष्यन्ति स वै घातः सु जीविताम् ॥ २० ॥
nirāyudhānām dravatām asaṅga-gati-pauruṣāḥ . dārāḥ hi apahasiṣyanti sa vai ghātaḥ su jīvitām .. 20 ..
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा । अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ 21 ॥
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च । क्व गच्छत भय-त्रस्ताः प्राकृताः हरयः यथा । अनार्याः खलु यत् भीताः त्यक्त्वा वीर्यम् प्रधावत ॥ २१ ॥
kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca . kva gacchata bhaya-trastāḥ prākṛtāḥ harayaḥ yathā . anāryāḥ khalu yat bhītāḥ tyaktvā vīryam pradhāvata .. 21 ..
विकत्थनानि वो यानि भवभ्दिर्जनसंसदि । तानि वः क्व च यतानि सोदग्राणि महान्ति च ॥ 22 ॥
विकत्थनानि वः यानि भवभ्दिः-जन-संसदि । तानि वः क्व च यतानि स उदग्राणि महान्ति च ॥ २२ ॥
vikatthanāni vaḥ yāni bhavabhdiḥ-jana-saṃsadi . tāni vaḥ kva ca yatāni sa udagrāṇi mahānti ca .. 22 ..
भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ 23 ॥
भीरु-प्रवादाः श्रूयन्ते यः तु जीवति धिक्कृतः । मार्गः सत्-पुरुषैः जुष्टः सेव्यताम् त्यज्यताम् भयम् ॥ २३ ॥
bhīru-pravādāḥ śrūyante yaḥ tu jīvati dhikkṛtaḥ . mārgaḥ sat-puruṣaiḥ juṣṭaḥ sevyatām tyajyatām bhayam .. 23 ..
शयामहे वा निहताः पृथिव्यामल्पजीविताः । प्राप्नुयामो ब्रह्मलोकं वा दुष्प्रापं च कुयोधिभिः ॥ 24 ॥
शयामहे वा निहताः पृथिव्याम् अल्प-जीविताः । प्राप्नुयामः ब्रह्म-लोकम् वा दुष्प्रापम् च कु योधिभिः ॥ २४ ॥
śayāmahe vā nihatāḥ pṛthivyām alpa-jīvitāḥ . prāpnuyāmaḥ brahma-lokam vā duṣprāpam ca ku yodhibhiḥ .. 24 ..
अवाप्नुयामःकीर्तिं वा निहत्वा शत्रुमाहवे । निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ॥ 25 ॥
अवाप्नुयामः कीर्तिम् वा निहत्वा शत्रुम् आहवे । निहताः वीर-लोकस्य भोक्ष्यामः वसु वानराः ॥ २५ ॥
avāpnuyāmaḥ kīrtim vā nihatvā śatrum āhave . nihatāḥ vīra-lokasya bhokṣyāmaḥ vasu vānarāḥ .. 25 ..
न कुम्भकर्णः काकुत्स्थं दृष्टवा जीवन् गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ 26 ॥
न कुम्भकर्णः काकुत्स्थम् दृष्टवा जीवन् गमिष्यति । दीप्यमानम् इव आसाद्य पतङ्गः ज्वलनम् यथा ॥ २६ ॥
na kumbhakarṇaḥ kākutstham dṛṣṭavā jīvan gamiṣyati . dīpyamānam iva āsādya pataṅgaḥ jvalanam yathā .. 26 ..
पलायनेन चोद्धिष्टाः प्राणान् रक्षामहे वयम् । एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ 27 ॥
पलायनेन च उद्धिष्टाः प्राणान् रक्षामहे वयम् । एकेन बहवः भग्नाः यशः नाशम् गमिष्यति ॥ २७ ॥
palāyanena ca uddhiṣṭāḥ prāṇān rakṣāmahe vayam . ekena bahavaḥ bhagnāḥ yaśaḥ nāśam gamiṣyati .. 27 ..
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् । द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ 28 ॥
एवम् ब्रुवाणम् तम् शूरम् अङ्गदम् कनक-अङ्गदम् । द्रवमाणाः ततस् वाक्यम् ऊचुः शूर-विगर्हितम् ॥ २८ ॥
evam bruvāṇam tam śūram aṅgadam kanaka-aṅgadam . dravamāṇāḥ tatas vākyam ūcuḥ śūra-vigarhitam .. 28 ..
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ 29 ॥
कृतम् नः कदनम् घोरम् कुम्भकर्णेन रक्षसा । न स्थान-कालः गच्छामः दयितम् जीवितम् हि नः ॥ २९ ॥
kṛtam naḥ kadanam ghoram kumbhakarṇena rakṣasā . na sthāna-kālaḥ gacchāmaḥ dayitam jīvitam hi naḥ .. 29 ..
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः । भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ 30 ॥
एतावत् उक्त्वा वचनम् सर्वे ते भेजिरे दिशः । भीमम् भीम-अक्षम् आयान्तम् दृष्ट्वा वानर-यूथपाः ॥ ३० ॥
etāvat uktvā vacanam sarve te bhejire diśaḥ . bhīmam bhīma-akṣam āyāntam dṛṣṭvā vānara-yūthapāḥ .. 30 ..
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः । सान्त्वैश्चनुमानैश्च ततः सर्वे निवर्तिताः ॥ 31 ॥
द्रवमाणाः तु ते वीराः अङ्गदेन वलीमुखाः । सान्त्वैः च अनुमानैः च ततस् सर्वे निवर्तिताः ॥ ३१ ॥
dravamāṇāḥ tu te vīrāḥ aṅgadena valīmukhāḥ . sāntvaiḥ ca anumānaiḥ ca tatas sarve nivartitāḥ .. 31 ..
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता । आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ 32 ॥
प्रहर्षम् उपनीताः च वालि-पुत्रेण धीमता । आज्ञा-प्रतीक्षाः तस्थुः च सर्वे वानर-यूथपाः ॥ ३२ ॥
praharṣam upanītāḥ ca vāli-putreṇa dhīmatā . ājñā-pratīkṣāḥ tasthuḥ ca sarve vānara-yūthapāḥ .. 32 ..
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः । द्विविदपनसवायुपुत्रमुख्यास् त्वरिततराभिमुखं रणं प्रयाताः ॥ 33 ॥
ऋषभ-शरभ-मैन्द-धूम्रनीलाः कुमुद-सुषेण-गवाक्ष-रम्भ-ताराः । द्विविद-पनस-वायुपुत्र-मुख्याः त्वरिततर-अभिमुखम् रणम् प्रयाताः ॥ ३३ ॥
ṛṣabha-śarabha-mainda-dhūmranīlāḥ kumuda-suṣeṇa-gavākṣa-rambha-tārāḥ . dvivida-panasa-vāyuputra-mukhyāḥ tvaritatara-abhimukham raṇam prayātāḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In