षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च । परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति । भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव ॥ 7 ॥
PADACHEDA
षोडश अष्टौ च दश च विंशत्-त्रिंशत् तथा एव च । परिक्षिप्य च बाहुभ्याम् खादन् विपरिधावति । भक्षयन् भृश-सङ्क्रुद्धः गरुडः पन्नगान् इव ॥ ७ ॥
TRANSLITERATION
ṣoḍaśa aṣṭau ca daśa ca viṃśat-triṃśat tathā eva ca . parikṣipya ca bāhubhyām khādan viparidhāvati . bhakṣayan bhṛśa-saṅkruddhaḥ garuḍaḥ pannagān iva .. 7 ..
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ।नाहं विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ 147 ॥
PADACHEDA
कुम्भकर्णः महा-तेजाः राघवम् वाक्यम् अब्रवीत् ।न अहम् विराधः विज्ञेयः न कबन्धः खरः न च । न वाली न च मारीचः कुम्भकर्णः अहम् आगतः ॥ १४७ ॥
TRANSLITERATION
kumbhakarṇaḥ mahā-tejāḥ rāghavam vākyam abravīt .na aham virādhaḥ vijñeyaḥ na kabandhaḥ kharaḥ na ca . na vālī na ca mārīcaḥ kumbhakarṇaḥ aham āgataḥ .. 147 ..
स तन्महापर्वतकूटसंनिभं सुवृत्तदंष्ट्रं चलचारुकुण्डलम् । चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरन्दरः ॥ 168 ॥
PADACHEDA
स तत् महा-पर्वत-कूट-संनिभम् सु वृत्त-दंष्ट्रम् चल-चारु-कुण्डलम् । चकर्त रक्षः-अधिपतेः शिरः तदा यथा एव वृत्रस्य पुरा पुरन्दरः ॥ १६८ ॥
TRANSLITERATION
sa tat mahā-parvata-kūṭa-saṃnibham su vṛtta-daṃṣṭram cala-cāru-kuṇḍalam . cakarta rakṣaḥ-adhipateḥ śiraḥ tadā yathā eva vṛtrasya purā purandaraḥ .. 168 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.