This overlay will guide you through the buttons:

| |
|
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा । नैष्ठिकीं बुद्धिमास्थाय सर्वे सङ्ग्रामकाङ्क्षिणः ॥ 1 ॥
ते निवृत्ताः महा-कायाः श्रुत्वा अङ्गद-वचः तदा । नैष्ठिकीम् बुद्धिम् आस्थाय सर्वे सङ्ग्राम-काङ्क्षिणः ॥ १ ॥
te nivṛttāḥ mahā-kāyāḥ śrutvā aṅgada-vacaḥ tadā . naiṣṭhikīm buddhim āsthāya sarve saṅgrāma-kāṅkṣiṇaḥ .. 1 ..
समुदीरितवीर्यास्ते समारोपितविक्रमाः । पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥ 2 ॥
समुदीरित-वीर्याः ते समारोपित-विक्रमाः । पर्यवस्थापिताः वाक्यैः अङ्गदेन वलीमुखाः ॥ २ ॥
samudīrita-vīryāḥ te samāropita-vikramāḥ . paryavasthāpitāḥ vākyaiḥ aṅgadena valīmukhāḥ .. 2 ..
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः । चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ 3 ॥
प्रयाताः च गताः हर्षम् मरणे कृत-निश्चयाः । चक्रुः सु तुमुलम् युद्धम् वानराः त्यक्त-जीविताः ॥ ३ ॥
prayātāḥ ca gatāḥ harṣam maraṇe kṛta-niścayāḥ . cakruḥ su tumulam yuddham vānarāḥ tyakta-jīvitāḥ .. 3 ..
अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च । वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ॥ 4 ॥
अथ वृक्षान् महा-कायाः सानूनि सु महान्ति च । वानराः तूर्णम् उद्यम्य कुम्भकर्णम् अभिद्रवन् ॥ ४ ॥
atha vṛkṣān mahā-kāyāḥ sānūni su mahānti ca . vānarāḥ tūrṇam udyamya kumbhakarṇam abhidravan .. 4 ..
कुम्भकर्णः सुसंक्रुद्धो गदामुद्यम्य वीर्यवान् । धर्षयन् स महाकायः समन्ताद् व्याक्षिपद् रिपून् ॥ 5 ॥
कुम्भकर्णः सु संक्रुद्धः गदाम् उद्यम्य वीर्यवान् । धर्षयन् स महा-कायः समन्तात् व्याक्षिपत् रिपून् ॥ ५ ॥
kumbhakarṇaḥ su saṃkruddhaḥ gadām udyamya vīryavān . dharṣayan sa mahā-kāyaḥ samantāt vyākṣipat ripūn .. 5 ..
शतानि सप्त चाष्टौ च सहस्राणि च वानराः । प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन ताडिताः ॥ 6 ॥
शतानि सप्त च अष्टौ च सहस्राणि च वानराः । प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन ताडिताः ॥ ६ ॥
śatāni sapta ca aṣṭau ca sahasrāṇi ca vānarāḥ . prakīrṇāḥ śerate bhūmau kumbhakarṇena tāḍitāḥ .. 6 ..
षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च । परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति । भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव ॥ 7 ॥
षोडश अष्टौ च दश च विंशत्-त्रिंशत् तथा एव च । परिक्षिप्य च बाहुभ्याम् खादन् विपरिधावति । भक्षयन् भृश-सङ्क्रुद्धः गरुडः पन्नगान् इव ॥ ७ ॥
ṣoḍaśa aṣṭau ca daśa ca viṃśat-triṃśat tathā eva ca . parikṣipya ca bāhubhyām khādan viparidhāvati . bhakṣayan bhṛśa-saṅkruddhaḥ garuḍaḥ pannagān iva .. 7 ..
कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः । वृक्षाद्रिहस्ता हरयस्तस्थु संग्राममूर्थनि । ॥ 8 ॥
कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस् ततस् । वृक्ष-अद्रि-हस्ताः हरयः तस्थुः संग्राम-मूर्थनि । ॥ ८ ॥
kṛcchreṇa ca samāśvastāḥ saṅgamya ca tatas tatas . vṛkṣa-adri-hastāḥ harayaḥ tasthuḥ saṃgrāma-mūrthani . .. 8 ..
ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः । दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः । ॥ 9 ॥
ततस् पर्वतम् उत्पाट्य द्विविदः प्लवग-ऋषभः । दुद्राव गिरि-शृङ्ग-आभम् विलम्बे इव तोयदः । ॥ ९ ॥
tatas parvatam utpāṭya dvividaḥ plavaga-ṛṣabhaḥ . dudrāva giri-śṛṅga-ābham vilambe iva toyadaḥ . .. 9 ..
तं समुत्पत्य चिक्षेप कुम्भकर्णाय वानरः । तमप्राप्य महाकायं तस्य सैन्येऽपतत् ततः । ॥ 10 ॥
तम् समुत्पत्य चिक्षेप कुम्भकर्णाय वानरः । तम् अ प्राप्य महा-कायम् तस्य सैन्ये अपतत् ततस् । ॥ १० ॥
tam samutpatya cikṣepa kumbhakarṇāya vānaraḥ . tam a prāpya mahā-kāyam tasya sainye apatat tatas . .. 10 ..
ममर्दाश्वान् गजांश्चापि रथांश्चापि गजोत्तमान् । तानि चान्यानि रक्षांसि एवं चान्यगदिरेः शिरः । ॥ 11 ॥
ममर्द अश्वान् गजान् च अपि रथान् च अपि गज-उत्तमान् । तानि च अन्यानि रक्षांसि एवम् च अन्य-गदिरेः शिरः । ॥ ११ ॥
mamarda aśvān gajān ca api rathān ca api gaja-uttamān . tāni ca anyāni rakṣāṃsi evam ca anya-gadireḥ śiraḥ . .. 11 ..
तच्चैलवेगाभिहतं हताश्वं हतसारथि । रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् । ॥ 12 ॥
तत् चैल-वेग-अभिहतम् हत-अश्वम् हत-सारथि । रक्षसाम् रुधिर-क्लिन्नम् बभूव आयोधनम् महत् । ॥ १२ ॥
tat caila-vega-abhihatam hata-aśvam hata-sārathi . rakṣasām rudhira-klinnam babhūva āyodhanam mahat . .. 12 ..
रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः । शिरांसि नर्दतां जह्रु सहसा भीमनिःस्वनाः । ॥ 13 ॥
रथिनः वानर-इन्द्राणाम् शरैः काल-अन्तक-उपमैः । शिरांसि नर्दताम् जह्रु सहसा भीम-निःस्वनाः । ॥ १३ ॥
rathinaḥ vānara-indrāṇām śaraiḥ kāla-antaka-upamaiḥ . śirāṃsi nardatām jahru sahasā bhīma-niḥsvanāḥ . .. 13 ..
वानराश्च महात्मान समुत्पाट्य महाद्रुमान् । रथावश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् । ॥ 14 ॥
वानराः च महात्मान समुत्पाट्य महा-द्रुमान् । रथौ अश्वान् गजान् उष्ट्रान् राक्षसान् अभ्यसूदयन् । ॥ १४ ॥
vānarāḥ ca mahātmāna samutpāṭya mahā-drumān . rathau aśvān gajān uṣṭrān rākṣasān abhyasūdayan . .. 14 ..
हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् । ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥ 15 ॥
हनूमान् शैल-शृङ्गाणि वृक्षान् च विविधान् बहून् । ववर्ष कुम्भकर्णस्य शिरसि अम्बरम् आस्थितः ॥ १५ ॥
hanūmān śaila-śṛṅgāṇi vṛkṣān ca vividhān bahūn . vavarṣa kumbhakarṇasya śirasi ambaram āsthitaḥ .. 15 ..
तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह । बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ 16 ॥
तानि पर्वत-शृङ्गाणि शूलेन तु बिभेद ह । बभञ्ज वृक्ष-वर्षम् च कुम्भकर्णः महा-बलः ॥ १६ ॥
tāni parvata-śṛṅgāṇi śūlena tu bibheda ha . babhañja vṛkṣa-varṣam ca kumbhakarṇaḥ mahā-balaḥ .. 16 ..
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य । तस्थौ ततोऽस्यापततः पुरस्तान् महीधराग्रं हनुमान्प्रगृह्य ॥ 17 ॥
ततस् हरीणाम् तत् अनीकम् उग्रम् दुद्राव शूलम् निशितम् प्रगृह्य । तस्थौ ततस् अस्य आपततः पुरस्तात् महीधर-अग्रम् हनुमान् प्रगृह्य ॥ १७ ॥
tatas harīṇām tat anīkam ugram dudrāva śūlam niśitam pragṛhya . tasthau tatas asya āpatataḥ purastāt mahīdhara-agram hanumān pragṛhya .. 17 ..
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् । स चुक्षुभे तेन तदाभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ॥ 18 ॥
स कुम्भकर्णम् कुपितः जघान वेगेन शैल-उत्तम-भीम-कायम् । स चुक्षुभे तेन तदा अभिभूतः मेदा-आर्द्र-गात्रः रुधिर-अवसिक्तः ॥ १८ ॥
sa kumbhakarṇam kupitaḥ jaghāna vegena śaila-uttama-bhīma-kāyam . sa cukṣubhe tena tadā abhibhūtaḥ medā-ārdra-gātraḥ rudhira-avasiktaḥ .. 18 ..
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् । बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥ 19 ॥
स शूलम् आविध्य तडित्-प्रकाशम् गिरिम् यथा प्रज्वलित-अग्र-शृङ्गम् । बाहु-अन्तरे मारुतिम् आजघान गुहः अचलम् क्रौञ्चम् इव उग्र-शक्त्या ॥ १९ ॥
sa śūlam āvidhya taḍit-prakāśam girim yathā prajvalita-agra-śṛṅgam . bāhu-antare mārutim ājaghāna guhaḥ acalam krauñcam iva ugra-śaktyā .. 19 ..
स शूलनिर्भिन्न महाभुजान्तरः प्रविह्वलः शोणितमुद्वमन्मुखात् । ननाद भीमं हनुमान् महाहवो युगान्तमेघस्तनितस्वनोपमम् ॥ 20 ॥
स शूल-निर्भिन्न-महा-भुजान्तरः प्रविह्वलः शोणितम् उद्वमन् मुखात् । ननाद भीमम् हनुमान् महा-आहवः युगान्त-मेघ-स्तनित-स्वन-उपमम् ॥ २० ॥
sa śūla-nirbhinna-mahā-bhujāntaraḥ pravihvalaḥ śoṇitam udvaman mukhāt . nanāda bhīmam hanumān mahā-āhavaḥ yugānta-megha-stanita-svana-upamam .. 20 ..
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य । प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ 21 ॥
ततस् विनेदुः सहसा प्रहृष्टाः रक्षः-गणाः तम् व्यथितम् समीक्ष्य । प्लवङ्गमाः तु व्यथिताः भय-आर्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ २१ ॥
tatas vineduḥ sahasā prahṛṣṭāḥ rakṣaḥ-gaṇāḥ tam vyathitam samīkṣya . plavaṅgamāḥ tu vyathitāḥ bhaya-ārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt .. 21 ..
ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम् । प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते । तमापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह ॥ 22 ॥
ततस् तु नीलः बलवान् पर्यवस्थापयन् बलम् । प्रविचिक्षेप शैल-अग्रम् कुम्भकर्णाय धीमते । तम् आपतन्तम् सम्प्रेक्ष्य मुष्टिना अभिजघान ह ॥ २२ ॥
tatas tu nīlaḥ balavān paryavasthāpayan balam . pravicikṣepa śaila-agram kumbhakarṇāya dhīmate . tam āpatantam samprekṣya muṣṭinā abhijaghāna ha .. 22 ..
मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत । सविस्फुलिङ्गं सज्वालं निपपात महीतले ॥ 23 ॥
मुष्टि-प्रहार-अभिहतम् तत् शैल-अग्रम् व्यशीर्यत । स विस्फुलिङ्गम् स ज्वालम् निपपात मही-तले ॥ २३ ॥
muṣṭi-prahāra-abhihatam tat śaila-agram vyaśīryata . sa visphuliṅgam sa jvālam nipapāta mahī-tale .. 23 ..
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः । पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥ 24 ॥
ऋषभः शरभः नीलः गवाक्षः गन्धमादनः । पञ्च वानर-शार्दूलाः कुम्भकर्णम् उपाद्रवन् ॥ २४ ॥
ṛṣabhaḥ śarabhaḥ nīlaḥ gavākṣaḥ gandhamādanaḥ . pañca vānara-śārdūlāḥ kumbhakarṇam upādravan .. 24 ..
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः । कुम्भकर्णं महाकायं निजघ्नुः सर्वतो युधि ॥ 25 ॥
शैलैः वृक्षैः तलैः पादैः मुष्टिभिः च महा-बलाः । कुम्भकर्णम् महा-कायम् निजघ्नुः सर्वतस् युधि ॥ २५ ॥
śailaiḥ vṛkṣaiḥ talaiḥ pādaiḥ muṣṭibhiḥ ca mahā-balāḥ . kumbhakarṇam mahā-kāyam nijaghnuḥ sarvatas yudhi .. 25 ..
स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे । ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥ 26 ॥
स्पर्शान् इव प्रहारान् तान् वेदयानः न विव्यथे । ऋषभम् तु महा-वेगम् बाहुभ्याम् परिषस्वजे ॥ २६ ॥
sparśān iva prahārān tān vedayānaḥ na vivyathe . ṛṣabham tu mahā-vegam bāhubhyām pariṣasvaje .. 26 ..
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः । निपपातर्षभो भीमः प्रमुखागतशोणितः ॥ 27 ॥
कुम्भकर्ण-भुजाभ्याम् तु पीडितः वानर-ऋषभः । निपपात ऋषभः भीमः प्रमुख-आगत-शोणितः ॥ २७ ॥
kumbhakarṇa-bhujābhyām tu pīḍitaḥ vānara-ṛṣabhaḥ . nipapāta ṛṣabhaḥ bhīmaḥ pramukha-āgata-śoṇitaḥ .. 27 ..
मुष्टिना शरभं हत्वा जानुना नीलमाहवे । आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा । पादेनाभ्यहनत् कृद्धस्तरसा गन्धमादनम् ॥ 28 ॥
मुष्टिना शरभम् हत्वा जानुना नीलम् आहवे । आजघान गवाक्षम् च तलेन इन्द्र-रिपुः तदा । पादेन अभ्यहनत् कृद्धस्त-रसा गन्धमादनम् ॥ २८ ॥
muṣṭinā śarabham hatvā jānunā nīlam āhave . ājaghāna gavākṣam ca talena indra-ripuḥ tadā . pādena abhyahanat kṛddhasta-rasā gandhamādanam .. 28 ..
दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः । निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ॥ 29 ॥
दत्त-प्रहर-व्यथिताः मुमुहुः शोणित-उक्षिताः । निपेतुः ते तु मेदिन्याम् निकृत्ताः इव किंशुकाः ॥ २९ ॥
datta-prahara-vyathitāḥ mumuhuḥ śoṇita-ukṣitāḥ . nipetuḥ te tu medinyām nikṛttāḥ iva kiṃśukāḥ .. 29 ..
तेषु वानरमुख्येषु पतितेषु महात्मसु । वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ 30 ॥
तेषु वानर-मुख्येषु पतितेषु महात्मसु । वानराणाम् सहस्राणि कुम्भकर्णम् प्रदुद्रुवुः ॥ ३० ॥
teṣu vānara-mukhyeṣu patiteṣu mahātmasu . vānarāṇām sahasrāṇi kumbhakarṇam pradudruvuḥ .. 30 ..
तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः । समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥ 31 ॥
तम् शैलम् इव शैल-आभाः सर्वे तु प्लवग-ऋषभाः । समारुह्य समुत्पत्य ददंशुः च महा-बलाः ॥ ३१ ॥
tam śailam iva śaila-ābhāḥ sarve tu plavaga-ṛṣabhāḥ . samāruhya samutpatya dadaṃśuḥ ca mahā-balāḥ .. 31 ..
तं नखैर्दशनैश्चापि मुष्टिभिर्बाबॉहुभिस्तथा । कुम्भकर्णं महाबाहु निजघ्नुः प्लवगर्षभाः ॥ 32 ॥
तम् नखैः दशनैः च अपि मुष्टिभिः बाबःहुभिः तथा । कुम्भकर्णम् महा-बाहु निजघ्नुः प्लवग-ऋषभाः ॥ ३२ ॥
tam nakhaiḥ daśanaiḥ ca api muṣṭibhiḥ bābaḥhubhiḥ tathā . kumbhakarṇam mahā-bāhu nijaghnuḥ plavaga-ṛṣabhāḥ .. 32 ..
स वानरसहस्रैस्तै विचितः पर्वतोपमः । रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ 33 ॥
स वानर-सहस्रैः तैः विचितः पर्वत-उपमः । रराज राक्षस-व्याघ्रः गिरिः रात्मरुहैः इव ॥ ३३ ॥
sa vānara-sahasraiḥ taiḥ vicitaḥ parvata-upamaḥ . rarāja rākṣasa-vyāghraḥ giriḥ rātmaruhaiḥ iva .. 33 ..
बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः । भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ॥ 34 ॥
बाहुभ्याम् वानरान् सर्वान् प्रगृह्य स महा-बलः । भक्षयामास सङ्क्रुद्धः गरुडः पन्नगान् इव ॥ ३४ ॥
bāhubhyām vānarān sarvān pragṛhya sa mahā-balaḥ . bhakṣayāmāsa saṅkruddhaḥ garuḍaḥ pannagān iva .. 34 ..
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे । नासापुटाभ्यां सुजग्मुःकर्णाभ्यां चैव वानराः ॥ 35 ॥
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पाताल-संनिभे । नासा-पुटाभ्याम् सुजग्मुः कर्णाभ्याम् च एव वानराः ॥ ३५ ॥
prakṣiptāḥ kumbhakarṇena vaktre pātāla-saṃnibhe . nāsā-puṭābhyām sujagmuḥ karṇābhyām ca eva vānarāḥ .. 35 ..
भक्षयन्भृशसङ्क्रुद्धो हरीन्पर्वतसंनिभः । बभञ्ज वानरान्सर्वान्सङ्क्रुद्धो राक्षसोत्तमः ॥ 36 ॥
भक्षयन् भृश-सङ्क्रुद्धः हरीन् पर्वत-संनिभः । बभञ्ज वानरान् सर्वान् सङ्क्रुद्धः राक्षस-उत्तमः ॥ ३६ ॥
bhakṣayan bhṛśa-saṅkruddhaḥ harīn parvata-saṃnibhaḥ . babhañja vānarān sarvān saṅkruddhaḥ rākṣasa-uttamaḥ .. 36 ..
मांसशोणितसङ्क्लेदां कुर्वन् भूमिं स राक्षसः । चचार हरिसैन्येषु कालाग्निरिव मूर्छितः ॥ 37 ॥
मांस-शोणित-सङ्क्लेदाम् कुर्वन् भूमिम् स राक्षसः । चचार हरि-सैन्येषु कालाग्निः इव मूर्छितः ॥ ३७ ॥
māṃsa-śoṇita-saṅkledām kurvan bhūmim sa rākṣasaḥ . cacāra hari-sainyeṣu kālāgniḥ iva mūrchitaḥ .. 37 ..
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः । शूलहस्तो बभौ युध्दे कुम्भकर्णो महाबलः ॥ 38 ॥
वज्र-हस्तः यथा शक्रः पाश-हस्तः इव अन्तकः । शूल-हस्तः बभौ कुम्भकर्णः महा-बलः ॥ ३८ ॥
vajra-hastaḥ yathā śakraḥ pāśa-hastaḥ iva antakaḥ . śūla-hastaḥ babhau kumbhakarṇaḥ mahā-balaḥ .. 38 ..
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः । तथा वानरसैन्यानि कुम्भकर्णो ददाह सः ॥ 39 ॥
यथा शुष्काणि अरण्यानि ग्रीष्मे दहति पावकः । तथा वानर-सैन्यानि कुम्भकर्णः ददाह सः ॥ ३९ ॥
yathā śuṣkāṇi araṇyāni grīṣme dahati pāvakaḥ . tathā vānara-sainyāni kumbhakarṇaḥ dadāha saḥ .. 39 ..
ततस्ते वध्यमानास्तु हतयूथा प्लवङ्गमाः । वानरा भयसंविग्ना विनेदुर्विकृतैः स्वरैः ॥ 40 ॥
ततस् ते वध्यमानाः तु हत-यूथा प्लवङ्गमाः । वानराः भय-संविग्नाः विनेदुः विकृतैः स्वरैः ॥ ४० ॥
tatas te vadhyamānāḥ tu hata-yūthā plavaṅgamāḥ . vānarāḥ bhaya-saṃvignāḥ vineduḥ vikṛtaiḥ svaraiḥ .. 40 ..
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः । राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥ 41 ॥
अनेकशस् वध्यमानाः कुम्भकर्णेन वानराः । राघवम् शरणम् जग्मुः व्यथिताः खिन्न-चेतसः ॥ ४१ ॥
anekaśas vadhyamānāḥ kumbhakarṇena vānarāḥ . rāghavam śaraṇam jagmuḥ vyathitāḥ khinna-cetasaḥ .. 41 ..
प्रभग्नान् वानरान् दृष्टवा वज्रहस्तात्मजात्मजः । अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥ 42 ॥
प्रभग्नान् वानरान् दृष्टवा वज्रहस्त-आत्मज-आत्मजः । अभ्यधावत वेगेन कुम्भकर्णम् महा-आहवे ॥ ४२ ॥
prabhagnān vānarān dṛṣṭavā vajrahasta-ātmaja-ātmajaḥ . abhyadhāvata vegena kumbhakarṇam mahā-āhave .. 42 ..
शैलशृङ्गं मह द्गृह्य विनदंन् स मुहुर्मुहुः । त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् ॥ 43 ॥
शैल-शृङ्गम् मह विनदन् स मुहुर् मुहुर् । त्रासयन् राक्षसान् सर्वान् कुम्भकर्ण-पदानुगान् ॥ ४३ ॥
śaila-śṛṅgam maha vinadan sa muhur muhur . trāsayan rākṣasān sarvān kumbhakarṇa-padānugān .. 43 ..
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि । स तेनाभिहतो मूर्ध्नि शैलेनेन्द्ररिपुस्तदा ॥ 44 ॥
चिक्षेप शैल-शिखरम् कुम्भकर्णस्य मूर्धनि । स तेन अभिहतः मूर्ध्नि शैलेन इन्द्र-रिपुः तदा ॥ ४४ ॥
cikṣepa śaila-śikharam kumbhakarṇasya mūrdhani . sa tena abhihataḥ mūrdhni śailena indra-ripuḥ tadā .. 44 ..
कुम्भकर्णः प्रजज्वाल क्रोधेन महता तदा । सोऽभ्यधावत वेगेन वालिपुत्रममर्षणम् ॥ 45 ॥
कुम्भकर्णः प्रजज्वाल क्रोधेन महता तदा । सः अभ्यधावत वेगेन वालि-पुत्रम् अमर्षणम् ॥ ४५ ॥
kumbhakarṇaḥ prajajvāla krodhena mahatā tadā . saḥ abhyadhāvata vegena vāli-putram amarṣaṇam .. 45 ..
कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान् । शूलं ससर्ज वै रोषादङ्गदे तु महाबलः ॥ 46 ॥
कुम्भकर्णः महा-नादः त्रासयन् सर्व-वानरान् । शूलम् ससर्ज वै रोषात् अङ्गदे तु महा-बलः ॥ ४६ ॥
kumbhakarṇaḥ mahā-nādaḥ trāsayan sarva-vānarān . śūlam sasarja vai roṣāt aṅgade tu mahā-balaḥ .. 46 ..
त मापतन्तं बलवान् युद्धमार्गविशारदः । । लाघवान्मोक्षयामास बलवान् वानरर्षभः ॥ 47 ॥
ते मा आपतन्तम् बलवान् युद्ध-मार्ग-विशारदः । । लाघवात् मोक्षयामास बलवान् वानर-ऋषभः ॥ ४७ ॥
te mā āpatantam balavān yuddha-mārga-viśāradaḥ . . lāghavāt mokṣayāmāsa balavān vānara-ṛṣabhaḥ .. 47 ..
उत्पत्य चैनं तरसा तलेनोरस्यताडयत् । स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ॥ 48 ॥
उत्पत्य च एनम् तरसा तलेन उरसि अताडयत् । स तेन अभिहतः कोपात् प्रमुमोह अचल-उपमः ॥ ४८ ॥
utpatya ca enam tarasā talena urasi atāḍayat . sa tena abhihataḥ kopāt pramumoha acala-upamaḥ .. 48 ..
स लब्दसंज्ञोबलवान् मुष्टि संगृह्य राक्षसः । अपहास्तेन चिक्षेप विसंज्ञः स पपात ह ॥ 49 ॥
स लब्द-संज्ञः बलवान् मुष्टि संगृह्य राक्षसः । चिक्षेप विसंज्ञः स पपात ह ॥ ४९ ॥
sa labda-saṃjñaḥ balavān muṣṭi saṃgṛhya rākṣasaḥ . cikṣepa visaṃjñaḥ sa papāta ha .. 49 ..
तस्मिन् प्लवगशार्दूले विसंज्ञे पतिते भुवि । तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥ 50 ॥
तस्मिन् प्लवग-शार्दूले विसंज्ञे पतिते भुवि । तत् शूलम् समुपादाय सुग्रीवम् अभिदुद्रुवे ॥ ५० ॥
tasmin plavaga-śārdūle visaṃjñe patite bhuvi . tat śūlam samupādāya sugrīvam abhidudruve .. 50 ..
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् । उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥ 51 ॥
तम् आपतन्तम् सम्प्रेक्ष्य कुम्भकर्णम् महा-बलम् । उत्पपात तदा वीरः सुग्रीवः वानर-अधिपः ॥ ५१ ॥
tam āpatantam samprekṣya kumbhakarṇam mahā-balam . utpapāta tadā vīraḥ sugrīvaḥ vānara-adhipaḥ .. 51 ..
स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः । अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ 52 ॥
स पर्वत-अग्रम् उत्क्षिप्य समाविध्य महा-कपिः । अभिदुद्राव वेगेन कुम्भकर्णम् महा-बलम् ॥ ५२ ॥
sa parvata-agram utkṣipya samāvidhya mahā-kapiḥ . abhidudrāva vegena kumbhakarṇam mahā-balam .. 52 ..
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् । तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः ॥ 53 ॥
तम् आपतन्तम् सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् । तस्थौ विवृत-सर्व-अङ्गः वानर-इन्द्रस्य संमुखः ॥ ५३ ॥
tam āpatantam samprekṣya kumbhakarṇaḥ plavaṅgamam . tasthau vivṛta-sarva-aṅgaḥ vānara-indrasya saṃmukhaḥ .. 53 ..
कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् । कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ 54 ॥
कपि-शोणित-दिग्ध-अङ्गम् भक्षयन्तम् महा-कपीन् । कुम्भकर्णम् स्थितम् दृष्ट्वा सुग्रीवः वाक्यम् अब्रवीत् ॥ ५४ ॥
kapi-śoṇita-digdha-aṅgam bhakṣayantam mahā-kapīn . kumbhakarṇam sthitam dṛṣṭvā sugrīvaḥ vākyam abravīt .. 54 ..
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् । भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥ 55 ॥
पातिताः च त्वया वीराः कृतम् कर्म सु दुष्करम् । भक्षितानि च सैन्यानि प्राप्तम् ते परमम् यशः ॥ ५५ ॥
pātitāḥ ca tvayā vīrāḥ kṛtam karma su duṣkaram . bhakṣitāni ca sainyāni prāptam te paramam yaśaḥ .. 55 ..
त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि । सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ॥ 56 ॥
त्यज तत् वानर-अनीकम् प्राकृतैः किम् करिष्यसि । सहस्व एकम् निपातम् मे पर्वतस्य अस्य राक्षस ॥ ५६ ॥
tyaja tat vānara-anīkam prākṛtaiḥ kim kariṣyasi . sahasva ekam nipātam me parvatasya asya rākṣasa .. 56 ..
तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् । श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद् वचः ॥ 57 ॥
तत् वाक्यम् हरि-राजस्य सत्त्व-धैर्य-समन्वितम् । श्रुत्वा राक्षस-शार्दूलः कुम्भकर्णः अब्रवीत् वचः ॥ ५७ ॥
tat vākyam hari-rājasya sattva-dhairya-samanvitam . śrutvā rākṣasa-śārdūlaḥ kumbhakarṇaḥ abravīt vacaḥ .. 57 ..
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः । धृतपौरुषसम्पन्नस्तस्माद् गर्जसि वानर ॥ 58 ॥
प्रजापतेः तु पौत्रः त्वम् तथा एव ऋक्षरजः-सुतः । धृत-पौरुष-सम्पन्नः तस्मात् गर्जसि वानर ॥ ५८ ॥
prajāpateḥ tu pautraḥ tvam tathā eva ṛkṣarajaḥ-sutaḥ . dhṛta-pauruṣa-sampannaḥ tasmāt garjasi vānara .. 58 ..
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच । तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसंनिभेन ॥ 59 ॥
स कुम्भकर्णस्य वचः निशम्य व्याविध्य शैलम् सहसा मुमोच । तेन आजघान उरसि कुम्भकर्णम् शैलेन वज्र-अशनि-संनिभेन ॥ ५९ ॥
sa kumbhakarṇasya vacaḥ niśamya vyāvidhya śailam sahasā mumoca . tena ājaghāna urasi kumbhakarṇam śailena vajra-aśani-saṃnibhena .. 59 ..
तच्छैलशृङ्गं सहसा विभिन्नं भुजान्तरे तस्य तदा विशाले । ततो विषेदुः सहसा प्लवङ्गमा रक्षोगणाश्चापि मुदा विनेदुः ॥ 60 ॥
तत् शैल-शृङ्गम् सहसा विभिन्नम् भुजान्तरे तस्य तदा विशाले । ततस् विषेदुः सहसा प्लवङ्गमाः रक्षः-गणाः च अपि मुदा विनेदुः ॥ ६० ॥
tat śaila-śṛṅgam sahasā vibhinnam bhujāntare tasya tadā viśāle . tatas viṣeduḥ sahasā plavaṅgamāḥ rakṣaḥ-gaṇāḥ ca api mudā vineduḥ .. 60 ..
स शैलशृङ्गाभिहतश् चुकोप ननाद रोषच्च विवृत्य वक्त्रम् । व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय ॥ 61 ॥
स शैल-शृङ्ग-अभिहतः चुकोप ननाद रोषत् च विवृत्य वक्त्रम् । व्याविध्य शूलम् च तडित्-प्रकाशम् चिक्षेप हरि-ऋक्ष-पतेः वधाय ॥ ६१ ॥
sa śaila-śṛṅga-abhihataḥ cukopa nanāda roṣat ca vivṛtya vaktram . vyāvidhya śūlam ca taḍit-prakāśam cikṣepa hari-ṛkṣa-pateḥ vadhāya .. 61 ..
तत्कुम्भकर्णस्य भुजप्रणुन्नं शूलं शितं काञ्चनदामयष्टिम् । क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य ॥ 62 ॥
तत् कुम्भकर्णस्य भुज-प्रणुन्नम् शूलम् शितम् काञ्चन-दाम-यष्टिम् । क्षिप्रम् समुत्पत्य निगृह्य दोर्भ्याम् बभञ्ज वेगेन सुतः अनिलस्य ॥ ६२ ॥
tat kumbhakarṇasya bhuja-praṇunnam śūlam śitam kāñcana-dāma-yaṣṭim . kṣipram samutpatya nigṛhya dorbhyām babhañja vegena sutaḥ anilasya .. 62 ..
कृतं भारसहस्रस्य शूलं कालायसं महत् । बभञ्ज जनुमारोप्य तदा हृष्टः प्लवङ्गमः ॥ 63 ॥
कृतम् भार-सहस्रस्य शूलम् कालायसम् महत् । बभञ्ज जनुम् आरोप्य तदा हृष्टः प्लवङ्गमः ॥ ६३ ॥
kṛtam bhāra-sahasrasya śūlam kālāyasam mahat . babhañja janum āropya tadā hṛṣṭaḥ plavaṅgamaḥ .. 63 ..
शूलं भग्नं हनुमता दृष्ट वावानरवाहिनी । हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥ 64 ॥
शूलम् भग्नम् हनुमता दृष्ट वावानर-वाहिनी । हृष्टा ननाद बहुशस् सर्वतस् च अपि दुद्रुवे ॥ ६४ ॥
śūlam bhagnam hanumatā dṛṣṭa vāvānara-vāhinī . hṛṣṭā nanāda bahuśas sarvatas ca api dudruve .. 64 ..
बभूवाथ परित्रस्तो राक्षसो विमुखोऽभवत् । सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः । मारुतिं पूजयाञ्चक्रुर्दृष्टवा शूलं तथागतम् । ॥ 65 ॥
बभूव अथ परित्रस्तः राक्षसः विमुखः अभवत् । सिंहनादम् च ते चक्रुः प्रहृष्टाः वन-गोचराः । मारुतिम् पूजयाञ्चक्रुः दृष्टवा शूलम् तथागतम् । ॥ ६५ ॥
babhūva atha paritrastaḥ rākṣasaḥ vimukhaḥ abhavat . siṃhanādam ca te cakruḥ prahṛṣṭāḥ vana-gocarāḥ . mārutim pūjayāñcakruḥ dṛṣṭavā śūlam tathāgatam . .. 65 ..
स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोऽधिपतिर्महात्मा । उत्पाट्य लङ्कामलयात्स शृङ्गं जघान सुग्रीवमुपेत्य तेन ॥ 66 ॥
स तत् तदा भग्नम् अवेक्ष्य शूलम् चुकोप रक्षः-अधिपतिः महात्मा । उत्पाट्य लङ्का-मलयात् स शृङ्गम् जघान सुग्रीवम् उपेत्य तेन ॥ ६६ ॥
sa tat tadā bhagnam avekṣya śūlam cukopa rakṣaḥ-adhipatiḥ mahātmā . utpāṭya laṅkā-malayāt sa śṛṅgam jaghāna sugrīvam upetya tena .. 66 ..
स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः । तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥ 67 ॥
स शैल-शृङ्ग-अभिहतः विसंज्ञः पपात भूमौ युधि वानर-इन्द्रः । तम् वीक्ष्य भूमौ पतितम् विसंज्ञम् नेदुः प्रहृष्टाः युधि यातुधानाः ॥ ६७ ॥
sa śaila-śṛṅga-abhihataḥ visaṃjñaḥ papāta bhūmau yudhi vānara-indraḥ . tam vīkṣya bhūmau patitam visaṃjñam neduḥ prahṛṣṭāḥ yudhi yātudhānāḥ .. 67 ..
समभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम् । जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमिव प्रचण्डः ॥ 68 ॥
समभ्युपेत्य अद्भुत-घोर-वीर्यम् स कुम्भकर्णः युधि वानर-इन्द्रम् । जहार सुग्रीवम् अभिप्रगृह्य यथा अनिलः मेघम् इव प्रचण्डः ॥ ६८ ॥
samabhyupetya adbhuta-ghora-vīryam sa kumbhakarṇaḥ yudhi vānara-indram . jahāra sugrīvam abhipragṛhya yathā anilaḥ megham iva pracaṇḍaḥ .. 68 ..
स तं महामेघनिकाशरूपमुत्पाट्य गच्छन् युधि कुम्भकर्णः । रराज मेरुप्रतिमानरूपो मेरुर्यथा व्युच्छ्रितघोरशृङ्गः ॥ 69 ॥
स तम् महा-मेघ-निकाश-रूपम् उत्पाट्य गच्छन् युधि कुम्भकर्णः । रराज मेरु-प्रतिमान-रूपः मेरुः यथा व्युच्छ्रित-घोर-शृङ्गः ॥ ६९ ॥
sa tam mahā-megha-nikāśa-rūpam utpāṭya gacchan yudhi kumbhakarṇaḥ . rarāja meru-pratimāna-rūpaḥ meruḥ yathā vyucchrita-ghora-śṛṅgaḥ .. 69 ..
ततस्तमादाय जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रः । शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् ॥ 70 ॥
ततस् तम् आदाय जगाम वीरः संस्तूयमानः युधि राक्षस-इन्द्रः । शृण्वन् निनादम् त्रिदश-आलयानाम् प्लवङ्ग-राज-ग्रह-विस्मितानाम् ॥ ७० ॥
tatas tam ādāya jagāma vīraḥ saṃstūyamānaḥ yudhi rākṣasa-indraḥ . śṛṇvan ninādam tridaśa-ālayānām plavaṅga-rāja-graha-vismitānām .. 70 ..
ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः । अस्मिन्हृते सर्वमिदं हृतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः ॥ 71 ॥
ततस् तम् आदाय तदा स मेने हरि-इन्द्रम् इन्द्र-उपमम् इन्द्र-वीर्यः । अस्मिन् हृते सर्वम् इदम् हृतम् स्यात् स राघवम् सैन्यम् इति इन्द्र-शत्रुः ॥ ७१ ॥
tatas tam ādāya tadā sa mene hari-indram indra-upamam indra-vīryaḥ . asmin hṛte sarvam idam hṛtam syāt sa rāghavam sainyam iti indra-śatruḥ .. 71 ..
विद्रुतां वाहिनीं दृष्ट्वा वानराणातिस्ततः । कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥ 72 ॥
विद्रुताम् वाहिनीम् दृष्ट्वा वानराणातिः ततस् । कुम्भकर्णेन सुग्रीवम् गृहीतम् च अपि वानरम् ॥ ७२ ॥
vidrutām vāhinīm dṛṣṭvā vānarāṇātiḥ tatas . kumbhakarṇena sugrīvam gṛhītam ca api vānaram .. 72 ..
हनूमांश्चिन्तयामास मतिमान् मारुतात्मजः । एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ 73 ॥
हनूमान् चिन्तयामास मतिमान् मारुतात्मजः । एवम् गृहीते सुग्रीवे किम् कर्तव्यम् मया भवेत् ॥ ७३ ॥
hanūmān cintayāmāsa matimān mārutātmajaḥ . evam gṛhīte sugrīve kim kartavyam mayā bhavet .. 73 ..
यध्दि न्याय्यं मया कर्तुं तत् करिष्याम्यसंशयम् । भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसं ॥ 74 ॥
न्याय्यम् मया कर्तुम् तत् करिष्यामि असंशयम् । भूत्वा पर्वत-सङ्काशः नाशयिष्यामि राक्षसम् ॥ ७४ ॥
nyāyyam mayā kartum tat kariṣyāmi asaṃśayam . bhūtvā parvata-saṅkāśaḥ nāśayiṣyāmi rākṣasam .. 74 ..
मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे । विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्रवगाः समग्राः ॥ 75 ॥
मया हते संयति कुम्भकर्णे महा-बले मुष्टि-विशीर्ण-देहे । विमोचिते वानर-पार्थिवे च भवन्तु हृष्टाः प्रवगाः समग्राः ॥ ७५ ॥
mayā hate saṃyati kumbhakarṇe mahā-bale muṣṭi-viśīrṇa-dehe . vimocite vānara-pārthive ca bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ .. 75 ..
अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः । गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः ॥ 76 ॥
अथवा स्वयम् अपि एष मोक्षम् प्राप्स्यति पार्थिवः । गृहीतः अयम् यदि भवेत् त्रिदशैः स असुर-उरगैः ॥ ७६ ॥
athavā svayam api eṣa mokṣam prāpsyati pārthivaḥ . gṛhītaḥ ayam yadi bhavet tridaśaiḥ sa asura-uragaiḥ .. 76 ..
मन्ये न तावदात्मानं बुध्यते वानराधिपः । शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ 77 ॥
मन्ये न तावत् आत्मानम् बुध्यते वानर-अधिपः । शैल-प्रहार-अभिहतः कुम्भकर्णेन संयुगे ॥ ७७ ॥
manye na tāvat ātmānam budhyate vānara-adhipaḥ . śaila-prahāra-abhihataḥ kumbhakarṇena saṃyuge .. 77 ..
अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे । आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ॥ 78 ॥
अयम् मुहूर्तात् सुग्रीवः लब्ध-संज्ञः महा-आहवे । आत्मनः वानराणाम् च यत् पथ्यम् तत् करिष्यति ॥ ७८ ॥
ayam muhūrtāt sugrīvaḥ labdha-saṃjñaḥ mahā-āhave . ātmanaḥ vānarāṇām ca yat pathyam tat kariṣyati .. 78 ..
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः । अप्रीतिश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥ 79 ॥
मया तु मोक्षितस्य अस्य सुग्रीवस्य महात्मनः । अप्रीतिः च भवेत् कष्टा कीर्ति-नाशः च शाश्वतः ॥ ७९ ॥
mayā tu mokṣitasya asya sugrīvasya mahātmanaḥ . aprītiḥ ca bhavet kaṣṭā kīrti-nāśaḥ ca śāśvataḥ .. 79 ..
तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं मोक्षितस्य तु । भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ 80 ॥
तस्मात् मुहूर्तम् काङ्क्षिष्ये विक्रमम् मोक्षितस्य तु । भिन्नम् च वानर-अनीकम् तावत् आश्वासयामि अहम् ॥ ८० ॥
tasmāt muhūrtam kāṅkṣiṣye vikramam mokṣitasya tu . bhinnam ca vānara-anīkam tāvat āśvāsayāmi aham .. 80 ..
इत्येवं चिन्तयित्वा हनूमान्मारुतात्मजः । भूयः संस्तम्भयामास वानराणां महाचमूम् ॥ 81 ॥
इति एवम् चिन्तयित्वा हनूमान् मारुतात्मजः । भूयस् संस्तम्भयामास वानराणाम् महा-चमूम् ॥ ८१ ॥
iti evam cintayitvā hanūmān mārutātmajaḥ . bhūyas saṃstambhayāmāsa vānarāṇām mahā-camūm .. 81 ..
स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम् । विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरभिपूज्यमान् ॥ 82 ॥
स कुम्भकर्णः अथ विवेश लङ्काम् स्फुरन्तम् आदाय महा-हरिम् तम् । विमान-चर्या-गृह-गोपुर-स्थैः पुष्प-अग्र्य-वर्षैः अभिपूज्यमान् ॥ ८२ ॥
sa kumbhakarṇaḥ atha viveśa laṅkām sphurantam ādāya mahā-harim tam . vimāna-caryā-gṛha-gopura-sthaiḥ puṣpa-agrya-varṣaiḥ abhipūjyamān .. 82 ..
लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः । राजवीथ्यास्तु शीतत्वात् संज्ञां प्राप महाबलः ॥ 83 ॥
लाज-गन्ध-उद-वर्षैः तु सेच्यमानः शनैस् शनैस् । राजवीथ्याः तु शीत-त्वात् संज्ञाम् प्राप महा-बलः ॥ ८३ ॥
lāja-gandha-uda-varṣaiḥ tu secyamānaḥ śanais śanais . rājavīthyāḥ tu śīta-tvāt saṃjñām prāpa mahā-balaḥ .. 83 ..
ततः स संज्ञामुपलभ्य कृच्छ्राद् बलीयसस्तस्य भुजान्तरस्थः । अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ॥ 84 ॥
ततस् स संज्ञाम् उपलभ्य कृच्छ्रात् बलीयसः तस्य भुजान्तर-स्थः । अवेक्षमाणः पुर-राजमार्गम् विचिन्तयामास मुहुर् महात्मा ॥ ८४ ॥
tatas sa saṃjñām upalabhya kṛcchrāt balīyasaḥ tasya bhujāntara-sthaḥ . avekṣamāṇaḥ pura-rājamārgam vicintayāmāsa muhur mahātmā .. 84 ..
एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रति कर्तुमद्य । तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ॥ 85 ॥
एवम् गृहीतेन कथम् नु नाम शक्यम् मया सम्प्रति कर्तुम् अद्य । तथा करिष्यामि यथा हरीणाम् भविष्यति इष्टम् च हितम् च कार्यम् ॥ ८५ ॥
evam gṛhītena katham nu nāma śakyam mayā samprati kartum adya . tathā kariṣyāmi yathā harīṇām bhaviṣyati iṣṭam ca hitam ca kāryam .. 85 ..
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः । नखैश्च कर्णौ दशनैश्च नासां ददंश पादैर्विददार पार्श्वौ ॥ 86 ॥
ततस् कर-अग्रैः सहसा समेत्य राजा हरीणाम् अमर-इन्द्र-शत्रोः । नखैः च कर्णौ दशनैः च नासाम् ददंश पादैः विददार पार्श्वौ ॥ ८६ ॥
tatas kara-agraiḥ sahasā sametya rājā harīṇām amara-indra-śatroḥ . nakhaiḥ ca karṇau daśanaiḥ ca nāsām dadaṃśa pādaiḥ vidadāra pārśvau .. 86 ..
स कुम्भकर्णौ हृतकर्णनासो विदारितस्तेन विमर्दितश् च । रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ॥ 87 ॥
स कुम्भकर्णौ हृत-कर्ण-नासः विदारितः तेन विमर्दितः च । रोष-अभिभूतः क्षतज-आर्द्र-गात्रः सुग्रीवम् आविध्य पिपेष भूमौ ॥ ८७ ॥
sa kumbhakarṇau hṛta-karṇa-nāsaḥ vidāritaḥ tena vimarditaḥ ca . roṣa-abhibhūtaḥ kṣataja-ārdra-gātraḥ sugrīvam āvidhya pipeṣa bhūmau .. 87 ..
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः । जगाम खं कन्दुकवज्जवेन पुनश्च रामेण समाजगाम ॥ 88 ॥
स भू-तले भीम-बल-अभिपिष्टः सुरारिभिः तैः अभिहन्यमानः । जगाम खम् कन्दुक-वत् जवेन पुनर् च रामेण समाजगाम ॥ ८८ ॥
sa bhū-tale bhīma-bala-abhipiṣṭaḥ surāribhiḥ taiḥ abhihanyamānaḥ . jagāma kham kanduka-vat javena punar ca rāmeṇa samājagāma .. 88 ..
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः । रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव ॥ 89 ॥
कर्ण-नासा-विहीनः तु कुम्भकर्णः महा-बलः । रराज शोणित-उत्सिक्तः गिरिः प्रस्रवणैः इव ॥ ८९ ॥
karṇa-nāsā-vihīnaḥ tu kumbhakarṇaḥ mahā-balaḥ . rarāja śoṇita-utsiktaḥ giriḥ prasravaṇaiḥ iva .. 89 ..
शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः । युद्धायाभिमुखो भूयो मनश्चक्रे निशाचरः ॥ 90 ॥
शोणित-आर्द्रः महा-कायः राक्षसः भीम-दर्शनः । युद्धाय अभिमुखः भूयस् मनः चक्रे निशाचरः ॥ ९० ॥
śoṇita-ārdraḥ mahā-kāyaḥ rākṣasaḥ bhīma-darśanaḥ . yuddhāya abhimukhaḥ bhūyas manaḥ cakre niśācaraḥ .. 90 ..
अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः । नीलाञ्जनचयप्रख्यः सस्नध्य इव तोयदः ॥ 91 ॥
अमर्षात् शोणित-उद्गारी शुशुभे रावण-अनुजः । नीलाञ्जन-चय-प्रख्यः स स्नध्यः इव तोयदः ॥ ९१ ॥
amarṣāt śoṇita-udgārī śuśubhe rāvaṇa-anujaḥ . nīlāñjana-caya-prakhyaḥ sa snadhyaḥ iva toyadaḥ .. 91 ..
गते च तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः । अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ॥ 92 ॥
गते च तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयस् । अनायुधः अस्मि इति विचिन्त्य रौद्रः घोरम् तदा मुद्गरम् आससाद ॥ ९२ ॥
gate ca tasmin surarājaśatruḥ krodhāt pradudrāva raṇāya bhūyas . anāyudhaḥ asmi iti vicintya raudraḥ ghoram tadā mudgaram āsasāda .. 92 ..
ततः स पुर्याः सहसा महात्मा निष्क्रम्य तद्वानरसैन्यमुग्रम् । बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रवृध्दः ॥ 93 ॥
ततस् स पुर्याः सहसा महात्मा निष्क्रम्य तत् वानर-सैन्यम् उग्रम् । बभक्ष रक्षः युधि कुम्भकर्णः प्रजाः युग-अन्त-अग्निः इव प्रवृध्दः ॥ ९३ ॥
tatas sa puryāḥ sahasā mahātmā niṣkramya tat vānara-sainyam ugram . babhakṣa rakṣaḥ yudhi kumbhakarṇaḥ prajāḥ yuga-anta-agniḥ iva pravṛdhdaḥ .. 93 ..
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् । चखाद रक्षांसि हरीन् पिशाचान्नक्षांश्च मोहाद् युधि कुम्भकर्णः ॥ 94 ॥
बुभुक्षितः शोणित-मांस-गृध्नुः प्रविश्य तत् वानर-सैन्यम् उग्रम् । चखाद रक्षांसि हरीन् पिशाचान् नक्षान् च मोहात् युधि कुम्भकर्णः ॥ ९४ ॥
bubhukṣitaḥ śoṇita-māṃsa-gṛdhnuḥ praviśya tat vānara-sainyam ugram . cakhāda rakṣāṃsi harīn piśācān nakṣān ca mohāt yudhi kumbhakarṇaḥ .. 94 ..
एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः । समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ॥ 95 ॥
एकम् द्वौ त्रीन् बहून् क्रुद्धः वानरान् सह राक्षसैः । समादाय एक-हस्तेन प्रचिक्षेप त्वरन् मुखे ॥ ९५ ॥
ekam dvau trīn bahūn kruddhaḥ vānarān saha rākṣasaiḥ . samādāya eka-hastena pracikṣepa tvaran mukhe .. 95 ..
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः । वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ॥ 96 ॥
सम्प्रस्रवन् तदा मेदः शोणितम् च महा-बलः । वध्यमानः नग-इन्द्र-अग्रैः भक्षयामास वानरान् ॥ ९६ ॥
samprasravan tadā medaḥ śoṇitam ca mahā-balaḥ . vadhyamānaḥ naga-indra-agraiḥ bhakṣayāmāsa vānarān .. 96 ..
ते भक्ष्यमाणा हरयो रामं जुग्मुस्तदा गतिम् । कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ॥ 97 ॥
ते भक्ष्यमाणाः हरयः रामम् जुग्मुः तदा गतिम् । कुम्भकर्णः भृशम् क्रुद्धः कपीन् खादन् प्रधावति ॥ ९७ ॥
te bhakṣyamāṇāḥ harayaḥ rāmam jugmuḥ tadā gatim . kumbhakarṇaḥ bhṛśam kruddhaḥ kapīn khādan pradhāvati .. 97 ..
शतानि सप्त चाष्टौ च विंशत्रतिंशत् तथैव च । । सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ॥ 98 ॥
शतानि सप्त च अष्टौ च विंशत्रतिंशत् तथा एव च । । सम्परिष्वज्य बाहुभ्याम् खादन् विपरिधावति ॥ ९८ ॥
śatāni sapta ca aṣṭau ca viṃśatratiṃśat tathā eva ca . . sampariṣvajya bāhubhyām khādan viparidhāvati .. 98 ..
मेदोवसाशोणितदिग्धगात्रः कर्णवसक्तग्रथितान्त्रमालः । ववर्ष शूलानि सतीक्षणदंष्ट्रः कालो युगान्तस्थ इव वृद्धः ॥ 99 ॥
मेदः-वसा-शोणित-दिग्ध-गात्रः कर्ण-अवसक्त-ग्रथित-अन्त्र-मालः । ववर्ष शूलानि स तीक्षण-दंष्ट्रः कालः युगान्त-स्थः इव वृद्धः ॥ ९९ ॥
medaḥ-vasā-śoṇita-digdha-gātraḥ karṇa-avasakta-grathita-antra-mālaḥ . vavarṣa śūlāni sa tīkṣaṇa-daṃṣṭraḥ kālaḥ yugānta-sthaḥ iva vṛddhaḥ .. 99 ..
तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः । चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः ॥ 100 ॥
तस्मिन् काले सुमित्रायाः पुत्रः पर-बल-अर्दनः । चकार लक्ष्मणः क्रुद्धः युद्धम् परपुरञ्जयः ॥ १०० ॥
tasmin kāle sumitrāyāḥ putraḥ para-bala-ardanaḥ . cakāra lakṣmaṇaḥ kruddhaḥ yuddham parapurañjayaḥ .. 100 ..
स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् । निचखानाददे चान्यान्विससर्ज च लक्ष्मणः ॥ 101 ॥
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान् । निचखान आददे च अन्यान् विससर्ज च लक्ष्मणः ॥ १०१ ॥
sa kumbhakarṇasya śarān śarīre sapta vīryavān . nicakhāna ādade ca anyān visasarja ca lakṣmaṇaḥ .. 101 ..
पीड्यमानस्तदस्त्रं तु विशेषं तत् स राक्षसः । ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः ॥ 102 ॥
पीड्यमानः तत् अस्त्रम् तु विशेषम् तत् स राक्षसः । ततस् चुकोप बलवान् सुमित्रा-आनन्द-वर्धनः ॥ १०२ ॥
pīḍyamānaḥ tat astram tu viśeṣam tat sa rākṣasaḥ . tatas cukopa balavān sumitrā-ānanda-vardhanaḥ .. 102 ..
अथास्य कवचं शुभ्रं जाम्भूनदमयं शुभम् । प्रच्छादयामास शरैः सन्ध्याभ्रमिव मारुतः ॥ 103 ॥
अथ अस्य कवचम् शुभ्रम् जाम्भूनद-मयम् शुभम् । प्रच्छादयामास शरैः सन्ध्या-अभ्रम् इव मारुतः ॥ १०३ ॥
atha asya kavacam śubhram jāmbhūnada-mayam śubham . pracchādayāmāsa śaraiḥ sandhyā-abhram iva mārutaḥ .. 103 ..
नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः । अपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान् ॥ 104 ॥
नीलाञ्जन-चय-प्रख्यः शरैः काञ्चन-भूषणैः । अ पीड्यमानः शुशुभे मेघैः सूर्यः इव अंशुमान् ॥ १०४ ॥
nīlāñjana-caya-prakhyaḥ śaraiḥ kāñcana-bhūṣaṇaiḥ . a pīḍyamānaḥ śuśubhe meghaiḥ sūryaḥ iva aṃśumān .. 104 ..
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् । सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनः ॥ 105 ॥
ततस् स राक्षसः भीमः सुमित्रा-आनन्द-वर्धनम् । स अवज्ञम् एव प्रोवाच वाक्यम् मेघ-ओघ-निःस्वनः ॥ १०५ ॥
tatas sa rākṣasaḥ bhīmaḥ sumitrā-ānanda-vardhanam . sa avajñam eva provāca vākyam megha-ogha-niḥsvanaḥ .. 105 ..
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे । युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥ 106 ॥
अन्तकस्य अपि अकष्टेन युधि जेतारम् आहवे । युध्यता माम् अभीतेन ख्यापिता वीर-ता त्वया ॥ १०६ ॥
antakasya api akaṣṭena yudhi jetāram āhave . yudhyatā mām abhītena khyāpitā vīra-tā tvayā .. 106 ..
प्रगृहीतायुधस्येह मृत्योरिव महामृधे । तिष्ठन्नप्रग्रतः पूज्यः किमु युद्धप्रदायकः ॥ 107 ॥
प्रगृहीत-आयुधस्य इह मृत्योः इव महा-मृधे । तिष्ठन् अप्रग्रतः पूज्यः किमु युद्ध-प्रदायकः ॥ १०७ ॥
pragṛhīta-āyudhasya iha mṛtyoḥ iva mahā-mṛdhe . tiṣṭhan apragrataḥ pūjyaḥ kimu yuddha-pradāyakaḥ .. 107 ..
ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः । । नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन ॥ 108 ॥
ऐरावतम् समारूढः वृतः सर्व-अमरैः प्रभुः । । न एव शक्रः अपि समरे स्थित-पूर्वः कदाचन ॥ १०८ ॥
airāvatam samārūḍhaḥ vṛtaḥ sarva-amaraiḥ prabhuḥ . . na eva śakraḥ api samare sthita-pūrvaḥ kadācana .. 108 ..
अद्य त्वयाह सौमित्रे बालेनापि पराक्रमैः । तोषितो गन्तुमिच्छामि त्यामनुज्ञाप्य राघवम् ॥ 109 ॥
अद्य त्वया आह सौमित्रे बालेन अपि पराक्रमैः । तोषितः गन्तुम् इच्छामि त्याम् अनुज्ञाप्य राघवम् ॥ १०९ ॥
adya tvayā āha saumitre bālena api parākramaiḥ . toṣitaḥ gantum icchāmi tyām anujñāpya rāghavam .. 109 ..
यत् तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया । राममेवैकमिच्छामि हन्तुं यस्मिन् हते हतम् ॥ 110 ॥
यत् तु वीर्य-बल-उत्साहैः तोषितः अहम् रणे त्वया । रामम् एव एकम् इच्छामि हन्तुम् यस्मिन् हते हतम् ॥ ११० ॥
yat tu vīrya-bala-utsāhaiḥ toṣitaḥ aham raṇe tvayā . rāmam eva ekam icchāmi hantum yasmin hate hatam .. 110 ..
रामे मयात्र निहते येऽन्ये स्थास्यन्ति संयुगे । तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥ 111 ॥
रामे मया अत्र निहते ये अन्ये स्थास्यन्ति संयुगे । तान् अहम् योधयिष्यामि स्व-बलेन प्रमाथिना ॥ १११ ॥
rāme mayā atra nihate ye anye sthāsyanti saṃyuge . tān aham yodhayiṣyāmi sva-balena pramāthinā .. 111 ..
इत्युक्तवाक्यं तद् रक्षः प्रोवाच स्तुतिसंहितम् । मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव ॥ 112 ॥
इति उक्त-वाक्यम् तत् रक्षः प्रोवाच स्तुति-संहितम् । मृधे घोरतरम् वाक्यम् सौमित्रिः प्रहसन् इव ॥ ११२ ॥
iti ukta-vākyam tat rakṣaḥ provāca stuti-saṃhitam . mṛdhe ghorataram vākyam saumitriḥ prahasan iva .. 112 ..
यस्त्वं शक्रादिभिर्वरैरसह्यः प्राप्य पौरुषम् । तत् सत्यं नान्यथा वीर दृष्टस्तेद्य पराक्रमः ॥ 113 ॥
यः त्वम् शक्र-आदिभिः वरैः असह्यः प्राप्य पौरुषम् । तत् सत्यम् न अन्यथा वीर दृष्टः ते इद्य पराक्रमः ॥ ११३ ॥
yaḥ tvam śakra-ādibhiḥ varaiḥ asahyaḥ prāpya pauruṣam . tat satyam na anyathā vīra dṛṣṭaḥ te idya parākramaḥ .. 113 ..
एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः । इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः ॥ 114 ॥
एष दाशरथिः रामः तिष्ठति अद्रिः इव अचलः । इति श्रुत्वा हि अन् आदृत्य लक्ष्मणम् स निशाचरः ॥ ११४ ॥
eṣa dāśarathiḥ rāmaḥ tiṣṭhati adriḥ iva acalaḥ . iti śrutvā hi an ādṛtya lakṣmaṇam sa niśācaraḥ .. 114 ..
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः । राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ 115 ॥
अतिक्रम्य च सौमित्रिम् कुम्भकर्णः महा-बलः । रामम् एव अभिदुद्राव दारयन् इव मेदिनीम् ॥ ११५ ॥
atikramya ca saumitrim kumbhakarṇaḥ mahā-balaḥ . rāmam eva abhidudrāva dārayan iva medinīm .. 115 ..
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् । कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् ॥ 116 ॥
अथ दाशरथिः रामः रौद्रम् अस्त्रम् प्रयोजयन् । कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥ ११६ ॥
atha dāśarathiḥ rāmaḥ raudram astram prayojayan . kumbhakarṇasya hṛdaye sasarja niśitān śarān .. 116 ..
तस्य रामेण विद्धस्य सहसाभिप्रधावतः । अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ 117 ॥
तस्य रामेण विद्धस्य सहसा अभिप्रधावतः । अङ्गार-मिश्राः क्रुद्धस्य मुखात् निश्चेरुः अर्चिषः ॥ ११७ ॥
tasya rāmeṇa viddhasya sahasā abhipradhāvataḥ . aṅgāra-miśrāḥ kruddhasya mukhāt niśceruḥ arciṣaḥ .. 117 ..
रामास्त्रविद्धो घोरं वै नर्दन् राक्षसपुङ्गवः । अभ्यधावत सङ्कृद्धो हरीन् निद्रावयन् रणे ॥ 118 ॥
राम-अस्त्र-विद्धः घोरम् वै नर्दन् राक्षस-पुङ्गवः । अभ्यधावत सङ्कृद्धः हरीन् निद्रावयन् रणे ॥ ११८ ॥
rāma-astra-viddhaḥ ghoram vai nardan rākṣasa-puṅgavaḥ . abhyadhāvata saṅkṛddhaḥ harīn nidrāvayan raṇe .. 118 ..
तस्योरसि निमग्नास्ते शरा बर्हिणवाससः । हस्ताच्चास्य परिभ्रष्टा गदा चोर्व्यां पपात ह ॥ 119 ॥
तस्य उरसि निमग्नाः ते शराः बर्हिण-वाससः । हस्तात् च अस्य परिभ्रष्टा गदा च उर्व्याम् पपात ह ॥ ११९ ॥
tasya urasi nimagnāḥ te śarāḥ barhiṇa-vāsasaḥ . hastāt ca asya paribhraṣṭā gadā ca urvyām papāta ha .. 119 ..
आयुधानि च सर्वाणि विप्राकीर्यन्त भूतले । स निरायुधमात्मानं यदा मेने महाबलः ॥ 120 ॥
आयुधानि च सर्वाणि विप्राकीर्यन्त भू-तले । स निरायुधम् आत्मानम् यदा मेने महा-बलः ॥ १२० ॥
āyudhāni ca sarvāṇi viprākīryanta bhū-tale . sa nirāyudham ātmānam yadā mene mahā-balaḥ .. 120 ..
मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत् । स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः । रुधिरं परिसुस्राव गिरिः प्रस्रवणानिव ॥ 121 ॥
मुष्टिभ्याम् च अरणाभ्याम् च चकार कदनम् महत् । स बाणैः अतिविद्ध-अङ्गः क्षतजेन समुक्षितः । रुधिरम् परिसुस्राव गिरिः प्रस्रवणान् इव ॥ १२१ ॥
muṣṭibhyām ca araṇābhyām ca cakāra kadanam mahat . sa bāṇaiḥ atividdha-aṅgaḥ kṣatajena samukṣitaḥ . rudhiram parisusrāva giriḥ prasravaṇān iva .. 121 ..
स तीव्रेण च कोपेन रुधिरेण च मूर्छितः । वानरान् राक्षसानृक्षान् खादन् स परिधावति ॥ 122 ॥
स तीव्रेण च कोपेन रुधिरेण च मूर्छितः । वानरान् राक्षसान् ऋक्षान् खादन् स परिधावति ॥ १२२ ॥
sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ . vānarān rākṣasān ṛkṣān khādan sa paridhāvati .. 122 ..
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः । चिक्षेप राममुद्धिश्य बलवानन्तकोपमः ॥ 123 ॥
अथ शृङ्गम् समाविध्य भीमम् भीम-पराक्रमः । चिक्षेप रामम् उद्धिश्य बलवान् अन्तक-उपमः ॥ १२३ ॥
atha śṛṅgam samāvidhya bhīmam bhīma-parākramaḥ . cikṣepa rāmam uddhiśya balavān antaka-upamaḥ .. 123 ..
अप्राप्तमन्तरा रामः सप्तभिस्तमजिह्मगैः । चिच्छेद गिरिशृङ्गं तं पुनः सन्धाय कार्मुकम् ॥ 124 ॥
अप्राप्तम् अन्तरा रामः सप्तभिः तम् अजिह्मगैः । चिच्छेद गिरि-शृङ्गम् तम् पुनर् सन्धाय कार्मुकम् ॥ १२४ ॥
aprāptam antarā rāmaḥ saptabhiḥ tam ajihmagaiḥ . ciccheda giri-śṛṅgam tam punar sandhāya kārmukam .. 124 ..
ततस्तु रामो धर्मात्मा तस्य शृङ्गं महत्तदा । शरैः काञ्चनचित्राङ्गैश्चिच्छेद भरताग्रजः । ॥ 125 ॥
ततस् तु रामः धर्म-आत्मा तस्य शृङ्गम् महत् तदा । शरैः काञ्चन-चित्र-अङ्गैः चिच्छेद भरताग्रजः । ॥ १२५ ॥
tatas tu rāmaḥ dharma-ātmā tasya śṛṅgam mahat tadā . śaraiḥ kāñcana-citra-aṅgaiḥ ciccheda bharatāgrajaḥ . .. 125 ..
तन्मेरुशिखराकारं द्योतमानमिव श्रिया । । द्वे शते वानराणां च पतमानमपातयत् । ॥ 126 ॥
तत् मेरु-शिखर-आकारम् द्योतमानम् इव श्रिया । । द्वे शते वानराणाम् च पतमानम् अपातयत् । ॥ १२६ ॥
tat meru-śikhara-ākāram dyotamānam iva śriyā . . dve śate vānarāṇām ca patamānam apātayat . .. 126 ..
तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत् । कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् ॥ 127 ॥
तस्मिन् काले स धर्म-आत्मा लक्ष्मणः रामम् अब्रवीत् । कुम्भकर्ण-वधे युक्तः योगान् परिमृशन् बहून् ॥ १२७ ॥
tasmin kāle sa dharma-ātmā lakṣmaṇaḥ rāmam abravīt . kumbhakarṇa-vadhe yuktaḥ yogān parimṛśan bahūn .. 127 ..
नैवायं वानरान्राजन्न विजानाति राक्षसान् । मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति ॥ 128 ॥
न एव अयम् वानरान् राजन् न विजानाति राक्षसान् । मत्तः शोणित-गन्धेन स्वान् परान् च एव खादति ॥ १२८ ॥
na eva ayam vānarān rājan na vijānāti rākṣasān . mattaḥ śoṇita-gandhena svān parān ca eva khādati .. 128 ..
साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः । यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः ॥ 129 ॥
साधु एनम् अधिरोहन्तु सर्वतस् वानर-ऋषभाः । यूथपाः च यथामुख्याः तिष्ठन्तु अस्य समन्ततः ॥ १२९ ॥
sādhu enam adhirohantu sarvatas vānara-ṛṣabhāḥ . yūthapāḥ ca yathāmukhyāḥ tiṣṭhantu asya samantataḥ .. 129 ..
अद्ययं दुर्मतिः काले गुरुभारप्रपीडितः । प्रचरन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान् ॥ 130 ॥
अदि अयम् दुर्मतिः काले गुरु-भार-प्रपीडितः । प्रचरन् राक्षसः भूमौ न अन्यान् हन्यात् प्लवङ्गमान् ॥ १३० ॥
adi ayam durmatiḥ kāle guru-bhāra-prapīḍitaḥ . pracaran rākṣasaḥ bhūmau na anyān hanyāt plavaṅgamān .. 130 ..
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । ते समारुरुहुर्हृष्टाः कुम्भकर्णं महाबलाः ॥ 131 ॥
तस्य तत् वचनम् श्रुत्वा राज-पुत्रस्य धीमतः । ते समारुरुहुः हृष्टाः कुम्भकर्णम् महा-बलाः ॥ १३१ ॥
tasya tat vacanam śrutvā rāja-putrasya dhīmataḥ . te samāruruhuḥ hṛṣṭāḥ kumbhakarṇam mahā-balāḥ .. 131 ..
कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः । व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् ॥ 132 ॥
कुम्भकर्णः तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः । व्यधूनयत् तान् वेगेन दुष्ट-हस्ती इव हस्तिपान् ॥ १३२ ॥
kumbhakarṇaḥ tu saṅkruddhaḥ samārūḍhaḥ plavaṅgamaiḥ . vyadhūnayat tān vegena duṣṭa-hastī iva hastipān .. 132 ..
तान्दृष्ट्वा निधूतान् रामो रुष्टोऽयमिति राक्षसः । समुत्पपात वेगेन धनुरुत्तममाददे ॥ 133 ॥
तान् दृष्ट्वा निधूतान् रामः रुष्टः अयम् इति राक्षसः । समुत्पपात वेगेन धनुः उत्तमम् आददे ॥ १३३ ॥
tān dṛṣṭvā nidhūtān rāmaḥ ruṣṭaḥ ayam iti rākṣasaḥ . samutpapāta vegena dhanuḥ uttamam ādade .. 133 ..
क्रोधरक्तेक्षणो धीरो निर्दहन्निव चक्षुषा । राघवो राक्षसं वेगादभिदुद्राव वेगितः । यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान् ॥ 134 ॥
क्रोध-रक्त-ईक्षणः धीरः निर्दहन् इव चक्षुषा । राघवः राक्षसम् वेगात् अभिदुद्राव वेगितः । यूथपान् हर्षयन् सर्वान् कुम्भकर्ण-भय-अर्दितान् ॥ १३४ ॥
krodha-rakta-īkṣaṇaḥ dhīraḥ nirdahan iva cakṣuṣā . rāghavaḥ rākṣasam vegāt abhidudrāva vegitaḥ . yūthapān harṣayan sarvān kumbhakarṇa-bhaya-arditān .. 134 ..
स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम् । हरीन्समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ॥ 135 ॥
स चापम् आदाय भुजङ्ग-कल्पम् दृढ-ज्यम् उग्रम् तपनीय-चित्रम् । हरीन् समाश्वास्य समुत्पपात रामः निबद्ध-उत्तम-तूण-बाणः ॥ १३५ ॥
sa cāpam ādāya bhujaṅga-kalpam dṛḍha-jyam ugram tapanīya-citram . harīn samāśvāsya samutpapāta rāmaḥ nibaddha-uttama-tūṇa-bāṇaḥ .. 135 ..
स वानरगणैस्तैस्तु वृतः परमदुर्जयः । लक्ष्मणानुचरो रामः सम्प्रतस्थे महाबलः ॥ 136 ॥
स वानर-गणैः तैः तु वृतः परम-दुर्जयः । लक्ष्मण-अनुचरः रामः सम्प्रतस्थे महा-बलः ॥ १३६ ॥
sa vānara-gaṇaiḥ taiḥ tu vṛtaḥ parama-durjayaḥ . lakṣmaṇa-anucaraḥ rāmaḥ sampratasthe mahā-balaḥ .. 136 ..
स ददर्श महात्मानं किरीटिनमरिन्दमम् । शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलमः ॥ 137 ॥
स ददर्श महात्मानम् किरीटिनम् अरिन्दमम् । शोणित-आप्लुत-सर्व-अङ्गम् कुम्भकर्णम् ॥ १३७ ॥
sa dadarśa mahātmānam kirīṭinam arindamam . śoṇita-āpluta-sarva-aṅgam kumbhakarṇam .. 137 ..
सर्वान्समभिधावन्तं यथा रुष्टं दिशागजम् । मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् ॥ 138 ॥
सर्वान् समभिधावन्तम् यथा रुष्टम् दिशागजम् । मार्गमाणम् हरीन् क्रुद्धम् राक्षसैः परिवारितम् ॥ १३८ ॥
sarvān samabhidhāvantam yathā ruṣṭam diśāgajam . mārgamāṇam harīn kruddham rākṣasaiḥ parivāritam .. 138 ..
विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम् । स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ॥ 139 ॥
विन्ध्य-मन्दर-सङ्काशम् काञ्चन-अङ्गद-भूषणम् । स्रवन्तम् रुधिरम् वक्त्रात् वर्ष-मेघम् इव उत्थितम् ॥ १३९ ॥
vindhya-mandara-saṅkāśam kāñcana-aṅgada-bhūṣaṇam . sravantam rudhiram vaktrāt varṣa-megham iva utthitam .. 139 ..
जिह्वया परिलिह्यन्तं सृक्किणी शोणितोक्षिते । मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ॥ 140 ॥
जिह्वया परिलिह्यन्तम् सृक्किणी शोणित-उक्षिते । मृद्नन्तम् वानर-अनीकम् काल-अन्तक-यम-उपमम् ॥ १४० ॥
jihvayā parilihyantam sṛkkiṇī śoṇita-ukṣite . mṛdnantam vānara-anīkam kāla-antaka-yama-upamam .. 140 ..
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् । विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥ 141 ॥
तम् दृष्ट्वा राक्षस-श्रेष्ठम् प्रदीप्त-अनल-वर्चसम् । विस्फारयामास तदा कार्मुकम् पुरुष-ऋषभः ॥ १४१ ॥
tam dṛṣṭvā rākṣasa-śreṣṭham pradīpta-anala-varcasam . visphārayāmāsa tadā kārmukam puruṣa-ṛṣabhaḥ .. 141 ..
स तस्य चापनिर्घोषात्कुपितो राक्षसर्षभः । अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ 142 ॥
स तस्य चाप-निर्घोषात् कुपितः राक्षस-ऋषभः । अ मृष्यमाणः तम् घोषम् अभिदुद्राव राघवम् ॥ १४२ ॥
sa tasya cāpa-nirghoṣāt kupitaḥ rākṣasa-ṛṣabhaḥ . a mṛṣyamāṇaḥ tam ghoṣam abhidudrāva rāghavam .. 142 ..
ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुः । तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ॥ 143 ॥
ततस् तु वात-उद्धत-मेघ-कल्पम् भुजङ्ग-राज-उत्तम-भोग-बाहुः । तम् आपतन्तम् धरणीधर-आभम् उवाच रामः युधि कुम्भकर्णम् ॥ १४३ ॥
tatas tu vāta-uddhata-megha-kalpam bhujaṅga-rāja-uttama-bhoga-bāhuḥ . tam āpatantam dharaṇīdhara-ābham uvāca rāmaḥ yudhi kumbhakarṇam .. 143 ..
आगच्छ रक्षोऽधिप मा विषादमवस्थितोऽहं प्रगृहीतचापः । अवेहि मां राक्षसवंनाशनं यस्त्वं मुहूर्ताद् भविता विचेताः ॥ 144 ॥
आगच्छ रक्षः-अधिप मा विषादम् अवस्थितः अहम् प्रगृहीत-चापः । अवेहि माम् राक्षसवंनाशनम् यः त्वम् मुहूर्तात् भविता विचेताः ॥ १४४ ॥
āgaccha rakṣaḥ-adhipa mā viṣādam avasthitaḥ aham pragṛhīta-cāpaḥ . avehi mām rākṣasavaṃnāśanam yaḥ tvam muhūrtāt bhavitā vicetāḥ .. 144 ..
रामोऽयमिति विज्ञाय जहास विकृतस्वनम् । अभ्यधावत सक्रुद्धो हरीन् विद्रावयन् रणे ॥ 145 ॥
रामः अयम् इति विज्ञाय जहास विकृत-स्वनम् । अभ्यधावत स क्रुद्धः हरीन् विद्रावयन् रणे ॥ १४५ ॥
rāmaḥ ayam iti vijñāya jahāsa vikṛta-svanam . abhyadhāvata sa kruddhaḥ harīn vidrāvayan raṇe .. 145 ..
दारयन्निव सर्वेषां हृदयानि वनौकसाम् । प्रहस्य विकृतं भीमं स मेघस्वनितोपमम् ॥ 146 ॥
दारयन् इव सर्वेषाम् हृदयानि वनौकसाम् । प्रहस्य विकृतम् भीमम् स मेघ-स्वनित-उपमम् ॥ १४६ ॥
dārayan iva sarveṣām hṛdayāni vanaukasām . prahasya vikṛtam bhīmam sa megha-svanita-upamam .. 146 ..
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ।नाहं विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ 147 ॥
कुम्भकर्णः महा-तेजाः राघवम् वाक्यम् अब्रवीत् ।न अहम् विराधः विज्ञेयः न कबन्धः खरः न च । न वाली न च मारीचः कुम्भकर्णः अहम् आगतः ॥ १४७ ॥
kumbhakarṇaḥ mahā-tejāḥ rāghavam vākyam abravīt .na aham virādhaḥ vijñeyaḥ na kabandhaḥ kharaḥ na ca . na vālī na ca mārīcaḥ kumbhakarṇaḥ aham āgataḥ .. 147 ..
पश्य मे मुद्गरं घोरं सर्वकालायसं महत् । अनेन निर्जिता देवा दानवाश्च पुरा मया ॥ 148 ॥
पश्य मे मुद्गरम् घोरम् सर्व-कालायसम् महत् । अनेन निर्जिताः देवाः दानवाः च पुरा मया ॥ १४८ ॥
paśya me mudgaram ghoram sarva-kālāyasam mahat . anena nirjitāḥ devāḥ dānavāḥ ca purā mayā .. 148 ..
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि । स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ॥ 149 ॥
विकर्ण-नासः इति माम् न अवज्ञातुम् त्वम् अर्हसि । सु अल्पा अपि हि न मे पीडा कर्ण-नासा-विनाशनात् ॥ १४९ ॥
vikarṇa-nāsaḥ iti mām na avajñātum tvam arhasi . su alpā api hi na me pīḍā karṇa-nāsā-vināśanāt .. 149 ..
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मेऽनघ । ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ 150 ॥
दर्शय इक्ष्वाकु-शार्दूल वीर्यम् गात्रेषु मे अनघ । ततस् त्वाम् भक्षयिष्यामि दृष्ट-पौरुष-विक्रमम् ॥ १५० ॥
darśaya ikṣvāku-śārdūla vīryam gātreṣu me anagha . tatas tvām bhakṣayiṣyāmi dṛṣṭa-pauruṣa-vikramam .. 150 ..
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान् । तैराहतो वज्रसमप्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ॥ 151 ॥
स कुम्भकर्णस्य वचः निशम्य रामः सु पुङ्खान् विससर्ज बाणान् । तैः आहतः वज्र-सम-प्रवेगैः न चुक्षुभे न व्यथते सुरारिः ॥ १५१ ॥
sa kumbhakarṇasya vacaḥ niśamya rāmaḥ su puṅkhān visasarja bāṇān . taiḥ āhataḥ vajra-sama-pravegaiḥ na cukṣubhe na vyathate surāriḥ .. 151 ..
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च । ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयांम्प्रचक्रुः ॥ 152 ॥
यैः सायकैः साल-वराः निकृत्ताः वाली हतः वानर-पुङ्गवः च । ते कुम्भकर्णस्य तदा शरीरम् वज्र-उपमाः न व्यथयांप्रचक्रुः ॥ १५२ ॥
yaiḥ sāyakaiḥ sāla-varāḥ nikṛttāḥ vālī hataḥ vānara-puṅgavaḥ ca . te kumbhakarṇasya tadā śarīram vajra-upamāḥ na vyathayāṃpracakruḥ .. 152 ..
स वारिधारा इव सायकांस्तान् पिबञ्शरीरेण महेन्द्रशत्रुः । जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ॥ 153 ॥
स वारि-धाराः इव सायकान् तान् पिबन् शरीरेण महा-इन्द्र-शत्रुः । जघान रामस्य शर-प्रवेगम् व्याविध्य तम् मुद्गरम् उग्र-वेगम् ॥ १५३ ॥
sa vāri-dhārāḥ iva sāyakān tān piban śarīreṇa mahā-indra-śatruḥ . jaghāna rāmasya śara-pravegam vyāvidhya tam mudgaram ugra-vegam .. 153 ..
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् । व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ॥ 154 ॥
ततस् तु रक्षः क्षतज-अनुलिप्तम् वित्रासनम् देव-महा-चमूनाम् । व्याविध्य तम् मुद्गरम् उग्र-वेगम् विद्रावयामास चमूम् हरीणाम् ॥ १५४ ॥
tatas tu rakṣaḥ kṣataja-anuliptam vitrāsanam deva-mahā-camūnām . vyāvidhya tam mudgaram ugra-vegam vidrāvayāmāsa camūm harīṇām .. 154 ..
वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय । समुद्गरं तेन जहार बाहुं स कृत्तबाहुस्तुमुलं ननाद ॥ 155 ॥
वायव्यम् आदाय ततस् वर-अस्त्रम् रामः प्रचिक्षेप निशाचराय । स मुद्गरम् तेन जहार बाहुम् स कृत्त-बाहुः तुमुलम् ननाद ॥ १५५ ॥
vāyavyam ādāya tatas vara-astram rāmaḥ pracikṣepa niśācarāya . sa mudgaram tena jahāra bāhum sa kṛtta-bāhuḥ tumulam nanāda .. 155 ..
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः । पपात तस्मिन्हरिराजसैन्ये जघान तां वानरवाहिनीं च ॥ 156 ॥
स तस्य बाहुः गिरि-शृङ्ग-कल्पः स मुद्गरः राघव-बाण-कृत्तः । पपात तस्मिन् हरि-राज-सैन्ये जघान ताम् वानर-वाहिनीम् च ॥ १५६ ॥
sa tasya bāhuḥ giri-śṛṅga-kalpaḥ sa mudgaraḥ rāghava-bāṇa-kṛttaḥ . papāta tasmin hari-rāja-sainye jaghāna tām vānara-vāhinīm ca .. 156 ..
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः । प्रपीडिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम् ॥ 157 ॥
ते वानराः भग्न-हत-अवशेषाः पर्यन्तम् आश्रित्य तदा विषण्णाः । प्रपीडित-अङ्गाः ददृशुः सु घोरम् नरेन्द्र-रक्षः-अधिप-संनिपातम् ॥ १५७ ॥
te vānarāḥ bhagna-hata-avaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ . prapīḍita-aṅgāḥ dadṛśuḥ su ghoram narendra-rakṣaḥ-adhipa-saṃnipātam .. 157 ..
स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः । उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ॥ 158 ॥
स कुम्भकर्णः अस्त्र-निकृत्त-बाहुः महान् निकृत्त-अग्रः इव अचल-इन्द्रः । उत्पाटयामास करेण वृक्षम् ततस् अभिदुद्राव रणे नरेन्द्रम् ॥ १५८ ॥
sa kumbhakarṇaḥ astra-nikṛtta-bāhuḥ mahān nikṛtta-agraḥ iva acala-indraḥ . utpāṭayāmāsa kareṇa vṛkṣam tatas abhidudrāva raṇe narendram .. 158 ..
तं तस्य बाहुं सह सालवृक्षं समुद्यतं पन्नगभोगकल्पम् । ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ॥ 159 ॥
तम् तस्य बाहुम् सह साल-वृक्षम् समुद्यतम् पन्नग-भोग-कल्पम् । ऐन्द्र-अस्त्र-युक्तेन जघान रामः बाणेन जाम्बूनद-चित्रितेन ॥ १५९ ॥
tam tasya bāhum saha sāla-vṛkṣam samudyatam pannaga-bhoga-kalpam . aindra-astra-yuktena jaghāna rāmaḥ bāṇena jāmbūnada-citritena .. 159 ..
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः । विवेष्टमानो निजघान वृक्षाञ्शैलाञ्शिलावानरराक्षसांश्च ॥ 160 ॥
स कुम्भकर्णस्य भुजः निकृत्तः पपात भूमौ गिरि-संनिकाशः । विवेष्टमानः निजघान वृक्षान् शैलान् शिला-वानर-राक्षसान् च ॥ १६० ॥
sa kumbhakarṇasya bhujaḥ nikṛttaḥ papāta bhūmau giri-saṃnikāśaḥ . viveṣṭamānaḥ nijaghāna vṛkṣān śailān śilā-vānara-rākṣasān ca .. 160 ..
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् । द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ॥ 161 ॥
तम् छिन्न-बाहुम् समवेक्ष्य रामः समापतन्तम् सहसा नदन्तम् । द्वौ अर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ॥ १६१ ॥
tam chinna-bāhum samavekṣya rāmaḥ samāpatantam sahasā nadantam . dvau ardhacandrau niśitau pragṛhya ciccheda pādau yudhi rākṣasasya .. 161 ..
तौ तस्य पादौ प्रदिशो दिशश्च गिरेर्गुहाश्चैव महार्णवं च । लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ॥ 162 ॥
तौ तस्य पादौ प्रदिशः दिशः च गिरेः गुहाः च एव महा-अर्णवम् च । लङ्काम् च सेनाम् कपि-राक्षसानाम् विनादयन्तौ विनिपेततुः च ॥ १६२ ॥
tau tasya pādau pradiśaḥ diśaḥ ca gireḥ guhāḥ ca eva mahā-arṇavam ca . laṅkām ca senām kapi-rākṣasānām vinādayantau vinipetatuḥ ca .. 162 ..
निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम् । दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे ॥ 163 ॥
निकृत्त-बाहुः विनिकृत्त-पादः विदार्य वक्त्रम् वडवामुख-आभम् । दुद्राव रामम् सहसा अभिगर्जन् राहुः यथा चन्द्रम् इव अन्तरिक्षे ॥ १६३ ॥
nikṛtta-bāhuḥ vinikṛtta-pādaḥ vidārya vaktram vaḍavāmukha-ābham . dudrāva rāmam sahasā abhigarjan rāhuḥ yathā candram iva antarikṣe .. 163 ..
अपूरयत् तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः । सम्पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमूर्च्छ चापि ॥ 164 ॥
अपूरयत् तस्य मुखम् शित-अग्रैः रामः शरैः हेम-पिनद्ध-पुङ्खैः । सम्पूर्ण-वक्त्रः न शशाक वक्तुम् चुकूज कृच्छ्रेण मुमूर्च्छ च अपि ॥ १६४ ॥
apūrayat tasya mukham śita-agraiḥ rāmaḥ śaraiḥ hema-pinaddha-puṅkhaiḥ . sampūrṇa-vaktraḥ na śaśāka vaktum cukūja kṛcchreṇa mumūrccha ca api .. 164 ..
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् । अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ॥ 165 ॥
अथा आददे सूर्य-मरीचि-कल्पम् स ब्रह्मदण्ड-अन्तक-काल-कल्पम् । अरिष्टम् ऐन्द्रम् निशितम् सु पुङ्खम् रामः शरम् मारुत-तुल्य-वेगम् ॥ १६५ ॥
athā ādade sūrya-marīci-kalpam sa brahmadaṇḍa-antaka-kāla-kalpam . ariṣṭam aindram niśitam su puṅkham rāmaḥ śaram māruta-tulya-vegam .. 165 ..
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम् । महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ॥ 166 ॥
तम् वज्र-जाम्बूनद-चारु-पुङ्खम् प्रदीप्त-सूर्य-ज्वलन-प्रकाशम् । महा-इन्द्र-वज्र-अशनि-तुल्य-वेगम् रामः प्रचिक्षेप निशाचराय ॥ १६६ ॥
tam vajra-jāmbūnada-cāru-puṅkham pradīpta-sūrya-jvalana-prakāśam . mahā-indra-vajra-aśani-tulya-vegam rāmaḥ pracikṣepa niśācarāya .. 166 ..
स सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन् । विधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिभिमविक्रमः ॥ 167 ॥
स सायकः राघव-बाहु-चोदितः दिशः स्व-भासा दश सम्प्रकाशयन् । विधूम-वैश्वानर-दीप्त-दर्शनः जगाम शक्र-अशनि-भिम-विक्रमः ॥ १६७ ॥
sa sāyakaḥ rāghava-bāhu-coditaḥ diśaḥ sva-bhāsā daśa samprakāśayan . vidhūma-vaiśvānara-dīpta-darśanaḥ jagāma śakra-aśani-bhima-vikramaḥ .. 167 ..
स तन्महापर्वतकूटसंनिभं सुवृत्तदंष्ट्रं चलचारुकुण्डलम् । चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरन्दरः ॥ 168 ॥
स तत् महा-पर्वत-कूट-संनिभम् सु वृत्त-दंष्ट्रम् चल-चारु-कुण्डलम् । चकर्त रक्षः-अधिपतेः शिरः तदा यथा एव वृत्रस्य पुरा पुरन्दरः ॥ १६८ ॥
sa tat mahā-parvata-kūṭa-saṃnibham su vṛtta-daṃṣṭram cala-cāru-kuṇḍalam . cakarta rakṣaḥ-adhipateḥ śiraḥ tadā yathā eva vṛtrasya purā purandaraḥ .. 168 ..
कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत् । आदित्येऽभ्युदितेरात्रौ मध्यस्थ इव चन्द्रमाः ॥ 169 ॥
कुम्भकर्ण-शिरः भाति कुण्डल-अलङ्कृतम् महत् । आदित्ये अभ्युदितेरात्रौ मध्य-स्थः इव चन्द्रमाः ॥ १६९ ॥
kumbhakarṇa-śiraḥ bhāti kuṇḍala-alaṅkṛtam mahat . āditye abhyuditerātrau madhya-sthaḥ iva candramāḥ .. 169 ..
तद्रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम् । बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥ 170 ॥
तद्-राम-बाण-अभिहतम् पपात रक्षः-शिरः पर्वत-संनिकाशम् । बभञ्ज चर्या-गृह-गोपुराणि प्राकारम् उच्चम् तम् अपातयत् च ॥ १७० ॥
tad-rāma-bāṇa-abhihatam papāta rakṣaḥ-śiraḥ parvata-saṃnikāśam . babhañja caryā-gṛha-gopurāṇi prākāram uccam tam apātayat ca .. 170 ..
तच्चातिकायं हिमवत्प्रकाशं रक्षस्तदा तोयनिधौ पपात । ग्राहान् मीनवरान् भुजंगमान् ममर्द भूमिं च तथा विवेश ॥ 171 ॥
तत् च अतिकायम् हिमवत्-प्रकाशम् रक्षः तदा तोयनिधौ पपात । ग्राहान् मीन-वरान् भुजंगमान् ममर्द भूमिम् च तथा विवेश ॥ १७१ ॥
tat ca atikāyam himavat-prakāśam rakṣaḥ tadā toyanidhau papāta . grāhān mīna-varān bhujaṃgamān mamarda bhūmim ca tathā viveśa .. 171 ..
तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे । चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ 172 ॥
तस्मिन् हते ब्राह्मण-देव-शत्रौ महा-बले संयति कुम्भकर्णे । चचाल भूः भूमिधराः च सर्वे हर्षात् च देवाः तुमुलम् प्रणेदुः ॥ १७२ ॥
tasmin hate brāhmaṇa-deva-śatrau mahā-bale saṃyati kumbhakarṇe . cacāla bhūḥ bhūmidharāḥ ca sarve harṣāt ca devāḥ tumulam praṇeduḥ .. 172 ..
ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः । सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता राम पराक्रमेण ॥ 173 ॥
ततस् तु देव-ऋषि-महा-ऋषि-पन्नगाः सुराः च भूतानि सुपर्ण-गुह्यकाः । स यक्ष-गन्धर्व-गणाः नभः-गताः प्रहर्षिताः राम पराक्रमेण ॥ १७३ ॥
tatas tu deva-ṛṣi-mahā-ṛṣi-pannagāḥ surāḥ ca bhūtāni suparṇa-guhyakāḥ . sa yakṣa-gandharva-gaṇāḥ nabhaḥ-gatāḥ praharṣitāḥ rāma parākrameṇa .. 173 ..
ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैरृतराजबान्धवाः । विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा मतंगजाः ॥ 174 ॥
ततस् तु ते तस्य वधेन भूरिणा मनस्विनः नैरृत-राज-बान्धवाः । विनेदुः उच्चैस् व्यथिताः रघूत्तमम् हरिम् समीक्ष्य एव यथा मतंगजाः ॥ १७४ ॥
tatas tu te tasya vadhena bhūriṇā manasvinaḥ nairṛta-rāja-bāndhavāḥ . vineduḥ uccais vyathitāḥ raghūttamam harim samīkṣya eva yathā mataṃgajāḥ .. 174 ..
स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद् विमुक्तः । तथा व्यभासीद्धरिसैन्यमध्ये निहत्य रामो युधि कुम्भकर्णम् ॥ 175 ॥
स देव-लोकस्य तमः निहत्य सूर्यः यथा राहु-मुखात् विमुक्तः । तथा व्यभासीत् हरि-सैन्य-मध्ये निहत्य रामः युधि कुम्भकर्णम् ॥ १७५ ॥
sa deva-lokasya tamaḥ nihatya sūryaḥ yathā rāhu-mukhāt vimuktaḥ . tathā vyabhāsīt hari-sainya-madhye nihatya rāmaḥ yudhi kumbhakarṇam .. 175 ..
प्रहर्षमीयुर्बहवश्च वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः । अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले नृपात्मजम् ॥ 176 ॥
प्रहर्षम् ईयुः बहवः च वानराः प्रबुद्ध-पद्म-प्रतिमैः इव आननैः । अपूजयन् राघवम् इष्ट-भागिनम् हते रिपौ भीम-बले नृप-आत्मजम् ॥ १७६ ॥
praharṣam īyuḥ bahavaḥ ca vānarāḥ prabuddha-padma-pratimaiḥ iva ānanaiḥ . apūjayan rāghavam iṣṭa-bhāginam hate ripau bhīma-bale nṛpa-ātmajam .. 176 ..
स कुम्भकर्णं सुरसैन्यमर्दनं महत्सु युद्धेषु कदाचनाजित् । ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ॥ 177 ॥
स कुम्भकर्णम् सुर-सैन्य-मर्दनम् महत्सु युद्धेषु कदाचन अजित् । ननन्द हत्वा भरताग्रजः रणे महा-असुरम् वृत्रम् इव अमर-अधिपः ॥ १७७ ॥
sa kumbhakarṇam sura-sainya-mardanam mahatsu yuddheṣu kadācana ajit . nananda hatvā bharatāgrajaḥ raṇe mahā-asuram vṛtram iva amara-adhipaḥ .. 177 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In