This overlay will guide you through the buttons:

| |
|
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ 1 ॥
कुम्भकर्णम् हतम् दृष्ट्वा राघवेण महात्मना । राक्षसाः राक्षस-इन्द्राय रावणाय न्यवेदयन् ॥ १ ॥
kumbhakarṇam hatam dṛṣṭvā rāghaveṇa mahātmanā . rākṣasāḥ rākṣasa-indrāya rāvaṇāya nyavedayan .. 1 ..
राजन् स कालसङ्काश संयुक्तः कालकर्मणा । विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥ 2 ॥
राजन् स काल-सङ्काश संयुक्तः काल-कर्मणा । विद्राव्य वानरीम् सेनाम् भक्षयित्वा च वानरान् ॥ २ ॥
rājan sa kāla-saṅkāśa saṃyuktaḥ kāla-karmaṇā . vidrāvya vānarīm senām bhakṣayitvā ca vānarān .. 2 ..
प्रतपित्वा मुहूर्तं तु प्रशान्तो रामतेजसा । कायेनार्थप्रविष्टेन समुद्रं भीमदर्शनम् ॥ 3 ॥
प्रतपित्वा मुहूर्तम् तु प्रशान्तः राम-तेजसा । कायेन अर्थ-प्रविष्टेन समुद्रम् भीम-दर्शनम् ॥ ३ ॥
pratapitvā muhūrtam tu praśāntaḥ rāma-tejasā . kāyena artha-praviṣṭena samudram bhīma-darśanam .. 3 ..
निकृत्तनासाकर्णेन विक्षुरद्रधिरे ण च । रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ 4 ॥
निकृत्त-नासा-कर्णेन विक्षुर-द्रधिरे ण च । रुद्ध्वा द्वारम् शरीरेण लङ्कायाः पर्वत-उपमः ॥ ४ ॥
nikṛtta-nāsā-karṇena vikṣura-dradhire ṇa ca . ruddhvā dvāram śarīreṇa laṅkāyāḥ parvata-upamaḥ .. 4 ..
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः । अगण्डभूतो विवृतो दावदग्ध इव द्रुमः ॥ 5 ॥
कुम्भकर्णः तव भ्राता काकुत्स्थ-शर-पीडितः । अगण्ड-भूतः विवृतः दाव-दग्धः इव द्रुमः ॥ ५ ॥
kumbhakarṇaḥ tava bhrātā kākutstha-śara-pīḍitaḥ . agaṇḍa-bhūtaḥ vivṛtaḥ dāva-dagdhaḥ iva drumaḥ .. 5 ..
श्रुत्वा विनिहतं सङ्ख्ये कुम्भकर्णं महाबलम् । रावणः शोकसन्तप्तो मुमोह च पपात च ॥ 6 ॥
श्रुत्वा विनिहतम् सङ्ख्ये कुम्भकर्णम् महा-बलम् । रावणः शोक-सन्तप्तः मुमोह च पपात च ॥ ६ ॥
śrutvā vinihatam saṅkhye kumbhakarṇam mahā-balam . rāvaṇaḥ śoka-santaptaḥ mumoha ca papāta ca .. 6 ..
पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ । त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥ 7 ॥
पितृव्यम् निहतम् श्रुत्वा देवान्तक-नरान्तकौ । त्रिशिराः च अतिकायः च रुरुदुः शोक-पीडिताः ॥ ७ ॥
pitṛvyam nihatam śrutvā devāntaka-narāntakau . triśirāḥ ca atikāyaḥ ca ruruduḥ śoka-pīḍitāḥ .. 7 ..
भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा । महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ॥ 8 ॥
भ्रातरम् निहतम् श्रुत्वा रामेण अक्लिष्ट-कर्मणा । महोदर-महापार्श्वौ शोक-आक्रान्तौ बभूवतुः ॥ ८ ॥
bhrātaram nihatam śrutvā rāmeṇa akliṣṭa-karmaṇā . mahodara-mahāpārśvau śoka-ākrāntau babhūvatuḥ .. 8 ..
ततः कृच्छ्रात् समासाद्य संज्ञां राक्षसपुङ्गवः । कुम्भकर्णवधाद् दीनो विललापकुलेन्द्रिया ॥ 9 ॥
ततस् कृच्छ्रात् समासाद्य संज्ञाम् राक्षस-पुङ्गवः । कुम्भकर्ण-वधात् दीनः विललाप कुल-इन्द्रिया ॥ ९ ॥
tatas kṛcchrāt samāsādya saṃjñām rākṣasa-puṅgavaḥ . kumbhakarṇa-vadhāt dīnaḥ vilalāpa kula-indriyā .. 9 ..
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल । त्वं मां विहाय वै दैवाद् यातोऽसि यमसादनम् ॥ 10 ॥
हा वीर रिपु-दर्प-घ्न कुम्भकर्ण महा-बल । त्वम् माम् विहाय वै दैवात् यातः असि यम-सादनम् ॥ १० ॥
hā vīra ripu-darpa-ghna kumbhakarṇa mahā-bala . tvam mām vihāya vai daivāt yātaḥ asi yama-sādanam .. 10 ..
मम शल्यमनुद्धृत्य बान्धवानां महाबल । शत्रुसैन्यं प्रताप्यैकः क्व मां सन्त्यज्य गच्छसि ॥ 11 ॥
मम शल्यम् अन् उद्धृत्य बान्धवानाम् महा-बल । शत्रु-सैन्यम् प्रताप्य एकः क्व माम् सन्त्यज्य गच्छसि ॥ ११ ॥
mama śalyam an uddhṛtya bāndhavānām mahā-bala . śatru-sainyam pratāpya ekaḥ kva mām santyajya gacchasi .. 11 ..
इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः । दक्षिणोऽयं समाश्रित्य न बिभेमि सुरासुरानत् ॥ 12 ॥
इदानीम् खलु अहम् न अस्मि यस्य मे पतितः भुजः । दक्षिणः अयम् समाश्रित्य न बिभेमि सुर-असुर-अनत् ॥ १२ ॥
idānīm khalu aham na asmi yasya me patitaḥ bhujaḥ . dakṣiṇaḥ ayam samāśritya na bibhemi sura-asura-anat .. 12 ..
कथमेवंविधो वीरो देवदानवदर्पहा । कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः ॥ 13 ॥
कथम् एवंविधः वीरः देव-दानव-दर्प-हा । कालाग्नि-प्रतिमः हि अद्य राघवेण रणे हतः ॥ १३ ॥
katham evaṃvidhaḥ vīraḥ deva-dānava-darpa-hā . kālāgni-pratimaḥ hi adya rāghaveṇa raṇe hataḥ .. 13 ..
यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा । स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ॥ 14 ॥
यस्य ते वज्र-निष्पेषः न कुर्यात् व्यसनम् सदा । स कथम् राम-बाण-आर्तः प्रसुप्तः असि मही-तले ॥ १४ ॥
yasya te vajra-niṣpeṣaḥ na kuryāt vyasanam sadā . sa katham rāma-bāṇa-ārtaḥ prasuptaḥ asi mahī-tale .. 14 ..
एते देवगणाः सार्धमृषिभिर्गगने स्थिताः । निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ 15 ॥
एते देव-गणाः सार्धम् ऋषिभिः गगने स्थिताः । निहतम् त्वाम् रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ १५ ॥
ete deva-gaṇāḥ sārdham ṛṣibhiḥ gagane sthitāḥ . nihatam tvām raṇe dṛṣṭvā ninadanti praharṣitāḥ .. 15 ..
ध्रुवमद्यैव संहृष्टा लब्धलक्ष्याः प्लवङ्गमाः । आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ 16 ॥
ध्रुवम् अद्य एव संहृष्टाः लब्ध-लक्ष्याः प्लवङ्गमाः । आरोक्ष्यन्ति इह दुर्गाणि लङ्का-द्वाराणि सर्वशस् ॥ १६ ॥
dhruvam adya eva saṃhṛṣṭāḥ labdha-lakṣyāḥ plavaṅgamāḥ . ārokṣyanti iha durgāṇi laṅkā-dvārāṇi sarvaśas .. 16 ..
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया । कुम्भकर्णविहीनस्य जीविते नास्ति मे मति ॥ 17 ॥
राज्येन न अस्ति मे कार्यम् किम् करिष्यामि सीतया । कुम्भकर्ण-विहीनस्य जीविते ना अस्ति मे मति ॥ १७ ॥
rājyena na asti me kāryam kim kariṣyāmi sītayā . kumbhakarṇa-vihīnasya jīvite nā asti me mati .. 17 ..
यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम् । ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ 18 ॥
यदि अहम् भ्रातृ-हन्तारम् न हन्मि युधि राघवम् । ननु मे मरणम् श्रेयः न च इदम् व्यर्थ-जीवितम् ॥ १८ ॥
yadi aham bhrātṛ-hantāram na hanmi yudhi rāghavam . nanu me maraṇam śreyaḥ na ca idam vyartha-jīvitam .. 18 ..
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम । न हि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ 19 ॥
अद्या एव तम् गमिष्यामि देशम् यत्र अनुजः मम । न हि भ्रातॄन् समुत्सृज्य क्षणम् जीवितुम् उत्सहे ॥ १९ ॥
adyā eva tam gamiṣyāmi deśam yatra anujaḥ mama . na hi bhrātṝn samutsṛjya kṣaṇam jīvitum utsahe .. 19 ..
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् । कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ 20 ॥
देवाः हि माम् हसिष्यन्ति दृष्ट्वा पूर्व-अपकारिणम् । कथम् इन्द्रम् जयिष्यामि कुम्भकर्ण हते त्वयि ॥ २० ॥
devāḥ hi mām hasiṣyanti dṛṣṭvā pūrva-apakāriṇam . katham indram jayiṣyāmi kumbhakarṇa hate tvayi .. 20 ..
तदिदं मामनुप्राप्तं विभीषणवचः शुभम् । यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ 21 ॥
तत् इदम् माम् अनुप्राप्तम् विभीषण-वचः शुभम् । यत् अज्ञानात् मया तस्य न गृहीतम् महात्मनः ॥ २१ ॥
tat idam mām anuprāptam vibhīṣaṇa-vacaḥ śubham . yat ajñānāt mayā tasya na gṛhītam mahātmanaḥ .. 21 ..
विभीषणवचस्तावत् कुम्भकर्णप्रहस्तयोः । विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥ 22 ॥
विभीषण-वचः तावत् कुम्भकर्ण-प्रहस्तयोः । विनाशः अयम् समुत्पन्नः माम् व्रीडयति दारुणः ॥ २२ ॥
vibhīṣaṇa-vacaḥ tāvat kumbhakarṇa-prahastayoḥ . vināśaḥ ayam samutpannaḥ mām vrīḍayati dāruṇaḥ .. 22 ..
तस्यायं कर्मणः प्रातो विपाको मम शोकदः । यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥ 23 ॥
तस्य अयम् कर्मणः प्रातर् विपाकः मम शोक-दः । यत् मया धार्मिकः श्रीमान् स निरस्तः विभीषणः ॥ २३ ॥
tasya ayam karmaṇaḥ prātar vipākaḥ mama śoka-daḥ . yat mayā dhārmikaḥ śrīmān sa nirastaḥ vibhīṣaṇaḥ .. 23 ..
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् । न्यपतदपि दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ 24 ॥
इति बहुविधम् आकुल-अन्तरात्मा कृपणम् अतीव विलप्य कुम्भकर्णम् । न्यपतत् अपि दशाननः भृश-आर्तः तम् अनुजम् इन्द्र-रिपुम् हतम् विदित्वा ॥ २४ ॥
iti bahuvidham ākula-antarātmā kṛpaṇam atīva vilapya kumbhakarṇam . nyapatat api daśānanaḥ bhṛśa-ārtaḥ tam anujam indra-ripum hatam viditvā .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In