This overlay will guide you through the buttons:

| |
|
एवं विलपमानस्य रावणस्य दुरात्मनः । श्रुत्वा शोकाभिभूतस्य त्रिशिरा वाक्यमब्रवीत् ॥ 1 ॥
एवम् विलपमानस्य रावणस्य दुरात्मनः । श्रुत्वा शोक-अभिभूतस्य त्रिशिराः वाक्यम् अब्रवीत् ॥ १ ॥
evam vilapamānasya rāvaṇasya durātmanaḥ . śrutvā śoka-abhibhūtasya triśirāḥ vākyam abravīt .. 1 ..
एवमेव महावीर्यो हतो नस्तात मध्यमः । न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ 2 ॥
एवम् एव महा-वीर्यः हतः नः तात मध्यमः । न तु सत्-पुरुषाः राजन् विलपन्ति यथा भवान् ॥ २ ॥
evam eva mahā-vīryaḥ hataḥ naḥ tāta madhyamaḥ . na tu sat-puruṣāḥ rājan vilapanti yathā bhavān .. 2 ..
नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो । स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् ॥ 3 ॥
नूनम् त्रिभुवणस्य अपि पर्याप्तः त्वम् असि प्रभो । स कस्मात् प्राकृतः इव शोकस्य आत्मानम् ईदृशम् ॥ ३ ॥
nūnam tribhuvaṇasya api paryāptaḥ tvam asi prabho . sa kasmāt prākṛtaḥ iva śokasya ātmānam īdṛśam .. 3 ..
ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः । सहस्रखरसंयुक्तो रथो मेघसमस्वनः ॥ 4 ॥
ब्रह्म-दत्ता अस्ति ते शक्तिः कवचः सायकः धनुः । सहस्र-खर-संयुक्तः रथः मेघ-सम-स्वनः ॥ ४ ॥
brahma-dattā asti te śaktiḥ kavacaḥ sāyakaḥ dhanuḥ . sahasra-khara-saṃyuktaḥ rathaḥ megha-sama-svanaḥ .. 4 ..
त्वयासकृद्वि शस्त्रेण विशस्ता देवदानवाः । स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥ 5 ॥
त्वया असकृत् वि शस्त्रेण विशस्ताः देव-दानवाः । स सर्व-आयुध-सम्पन्नः राघवम् शास्तुम् अर्हसि ॥ ५ ॥
tvayā asakṛt vi śastreṇa viśastāḥ deva-dānavāḥ . sa sarva-āyudha-sampannaḥ rāghavam śāstum arhasi .. 5 ..
कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणे । उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह ॥ 6 ॥
कामम् तिष्ठ महा-राज निर्गमिष्यामि अहम् रणे । उद्धरिष्यामि ते शत्रून् गरुडः पन्नगान् इह ॥ ६ ॥
kāmam tiṣṭha mahā-rāja nirgamiṣyāmi aham raṇe . uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha .. 6 ..
शम्बरो देवराजेन नरको विष्णुना यथा । तथाद्य शयिता रामो मया युधि निपातितः ॥ 7 ॥
शम्बरः देवराजेन नरकः विष्णुना यथा । तथा अद्य शयिता रामः मया युधि निपातितः ॥ ७ ॥
śambaraḥ devarājena narakaḥ viṣṇunā yathā . tathā adya śayitā rāmaḥ mayā yudhi nipātitaḥ .. 7 ..
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः । पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ 8 ॥
श्रुत्वा त्रिशिरसः वाक्यम् रावणः राक्षस-अधिपः । पुनर् जातम् इव आत्मानम् मन्यते काल-चोदितः ॥ ८ ॥
śrutvā triśirasaḥ vākyam rāvaṇaḥ rākṣasa-adhipaḥ . punar jātam iva ātmānam manyate kāla-coditaḥ .. 8 ..
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ । अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ 9 ॥
श्रुत्वा त्रिशिरसः वाक्यम् देवान्तक-नरान्तकौ । अतिकायः च तेजस्वी बभूवुः युद्ध-हर्षिताः ॥ ९ ॥
śrutvā triśirasaḥ vākyam devāntaka-narāntakau . atikāyaḥ ca tejasvī babhūvuḥ yuddha-harṣitāḥ .. 9 ..
ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः । रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ 10 ॥
ततस् अहम् अहम् इति एवम् गर्जन्तः नैरृत-ऋषभाः । रावणस्य सुताः वीराः शक्र-तुल्य-पराक्रमाः ॥ १० ॥
tatas aham aham iti evam garjantaḥ nairṛta-ṛṣabhāḥ . rāvaṇasya sutāḥ vīrāḥ śakra-tulya-parākramāḥ .. 10 ..
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः । सर्वे त्रिदशदर्पघ्नाः सर्वे समरदुर्मदाः ॥ 11 ॥
अन्तरिक्ष-गताः सर्वे सर्वे माया-विशारदाः । सर्वे त्रिदश-दर्प-घ्नाः सर्वे समर-दुर्मदाः ॥ ११ ॥
antarikṣa-gatāḥ sarve sarve māyā-viśāradāḥ . sarve tridaśa-darpa-ghnāḥ sarve samara-durmadāḥ .. 11 ..
सर्वे सुबलसम्पन्नाः सर्वे विस्तीर्ण कीर्तयः । सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ॥ 12 ॥
सर्वे सु बल-सम्पन्नाः सर्वे कीर्तयः । सर्वे समरम् आसाद्य न श्रूयन्ते स्म निर्जिताः ॥ १२ ॥
sarve su bala-sampannāḥ sarve kīrtayaḥ . sarve samaram āsādya na śrūyante sma nirjitāḥ .. 12 ..
सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः । सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा ॥ 13 ॥
सर्वे अस्त्र-विदुषः वीराः सर्वे युद्ध-विशारदाः । सर्वे प्रवर-जिज्ञानाः सर्वे लब्ध-वराः तथा ॥ १३ ॥
sarve astra-viduṣaḥ vīrāḥ sarve yuddha-viśāradāḥ . sarve pravara-jijñānāḥ sarve labdha-varāḥ tathā .. 13 ..
स तैस्तथा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलश्रियार्दनैः । रराज राजा मघवान्यथामरैर्वृतो महादानवदर्पनाशनैः ॥ 14 ॥
स तैः तथा भास्कर-तुल्य-वर्चसैः सुतैः वृतः शत्रु-बल-श्रिया अर्दनैः । रराज राजा मघवान् यथा अमरैः वृतः महा-दानव-दर्प-नाशनैः ॥ १४ ॥
sa taiḥ tathā bhāskara-tulya-varcasaiḥ sutaiḥ vṛtaḥ śatru-bala-śriyā ardanaiḥ . rarāja rājā maghavān yathā amaraiḥ vṛtaḥ mahā-dānava-darpa-nāśanaiḥ .. 14 ..
स पुत्रान्सम्परिष्वज्य भूषयित्वा च भूषणैः । आशीर्भिश्च प्रशस्ताभिः प्रेषयामास वै रणे ॥ 15 ॥
स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः । आशीर्भिः च प्रशस्ताभिः प्रेषयामास वै रणे ॥ १५ ॥
sa putrān sampariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ . āśīrbhiḥ ca praśastābhiḥ preṣayāmāsa vai raṇe .. 15 ..
युध्दोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः । रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ 16 ॥
युध्द-उन्मत्तम् च मत्तम् च भ्रातरौ च अपि रावणः । रक्षण-अर्थम् कुमाराणाम् प्रेषयामास संयुगे ॥ १६ ॥
yudhda-unmattam ca mattam ca bhrātarau ca api rāvaṇaḥ . rakṣaṇa-artham kumārāṇām preṣayāmāsa saṃyuge .. 16 ..
तेऽभिवाद्य महात्मानं रावणं लोकरावणम् । कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ 17 ॥
ते अभिवाद्य महात्मानम् रावणम् लोक-रावणम् । कृत्वा प्रदक्षिणम् च एव महा-कायाः प्रतस्थिरे ॥ १७ ॥
te abhivādya mahātmānam rāvaṇam loka-rāvaṇam . kṛtvā pradakṣiṇam ca eva mahā-kāyāḥ pratasthire .. 17 ..
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः । निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ 18 ॥
सर्व-ओषधीभिः गन्धैः च समालभ्य महा-बलाः । निर्जग्मुः नैरृत-श्रेष्ठाः षट् एते युद्ध-काङ्क्षिणः ॥ १८ ॥
sarva-oṣadhībhiḥ gandhaiḥ ca samālabhya mahā-balāḥ . nirjagmuḥ nairṛta-śreṣṭhāḥ ṣaṭ ete yuddha-kāṅkṣiṇaḥ .. 18 ..
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । महोदरमहापार्श्वौ निर्जग्मुः कालचोदिताः ॥ 19 ॥
त्रिशिराः च अतिकायः च देवान्तक-नरान्तकौ । महोदर-महापार्श्वौ निर्जग्मुः काल-चोदिताः ॥ १९ ॥
triśirāḥ ca atikāyaḥ ca devāntaka-narāntakau . mahodara-mahāpārśvau nirjagmuḥ kāla-coditāḥ .. 19 ..
ततः सुदर्शनं नाम नीलजीमूतसंनिभम् । ऐरावतकुले जातमारुरोह महोदरः ॥ 20 ॥
ततस् सुदर्शनम् नाम नील-जीमूत-संनिभम् । ऐरावत-कुले जातम् आरुरोह महोदरः ॥ २० ॥
tatas sudarśanam nāma nīla-jīmūta-saṃnibham . airāvata-kule jātam āruroha mahodaraḥ .. 20 ..
सर्वायुधसमायुक्तं स्तूणीभिश्चाप्यलंकृतम् । रराज गजमास्थाय सवितेवास्तमूर्धनि ॥ 21 ॥
सर्व-आयुध-समायुक्तम् स्तूणीभिः च अपि अलंकृतम् । रराज गजम् आस्थाय सविता इव अस्त-मूर्धनि ॥ २१ ॥
sarva-āyudha-samāyuktam stūṇībhiḥ ca api alaṃkṛtam . rarāja gajam āsthāya savitā iva asta-mūrdhani .. 21 ..
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् । आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ 22 ॥
हय-उत्तम-समायुक्तम् सर्व-आयुध-समाकुलम् । आरुरोह रथ-श्रेष्ठम् त्रिशिराः रावण-आत्मजः ॥ २२ ॥
haya-uttama-samāyuktam sarva-āyudha-samākulam . āruroha ratha-śreṣṭham triśirāḥ rāvaṇa-ātmajaḥ .. 22 ..
त्रिशिरा रथमास्थाय विरराज धनुर्धरः । सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ॥ 23 ॥
त्रिशिराः रथम् आस्थाय विरराज धनुः-धरः । स विद्युत्-उल्कः स ज्वालः स इन्द्रचापः इव अम्बुदः ॥ २३ ॥
triśirāḥ ratham āsthāya virarāja dhanuḥ-dharaḥ . sa vidyut-ulkaḥ sa jvālaḥ sa indracāpaḥ iva ambudaḥ .. 23 ..
त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे । हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ 24 ॥
त्रिभिः किरीटैः त्रिशिराः शुशुभे स रथ-उत्तमे । हिमवान् इव शैल-इन्द्रः त्रिभिः काञ्चन-पर्वतैः ॥ २४ ॥
tribhiḥ kirīṭaiḥ triśirāḥ śuśubhe sa ratha-uttame . himavān iva śaila-indraḥ tribhiḥ kāñcana-parvataiḥ .. 24 ..
अतिकायोऽतितेजस्वी राक्षसेन्द्रसुतस्तदा । आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ 25 ॥
अतिकायः अति तेजस्वी राक्षस-इन्द्र-सुतः तदा । आरुरोह रथ-श्रेष्ठम् श्रेष्ठः सर्व-धनुष्मताम् ॥ २५ ॥
atikāyaḥ ati tejasvī rākṣasa-indra-sutaḥ tadā . āruroha ratha-śreṣṭham śreṣṭhaḥ sarva-dhanuṣmatām .. 25 ..
सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम् । तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम् ॥ 26 ॥
सु चक्र-अक्षम् सु संयुक्तम् सु अनुकर्षम् सु कूबरम् । तूणी-बाणासनैः दीप्तम् परिघ-आकुलम् ॥ २६ ॥
su cakra-akṣam su saṃyuktam su anukarṣam su kūbaram . tūṇī-bāṇāsanaiḥ dīptam parigha-ākulam .. 26 ..
स काञ्चनविचित्रेण किरीटेन विराजता । भूषणैश्च बभौ मेरुः प्रभाभिरिव भासयन् ॥ 27 ॥
स काञ्चन-विचित्रेण किरीटेन विराजता । भूषणैः च बभौ मेरुः प्रभाभिः इव भासयन् ॥ २७ ॥
sa kāñcana-vicitreṇa kirīṭena virājatā . bhūṣaṇaiḥ ca babhau meruḥ prabhābhiḥ iva bhāsayan .. 27 ..
स रराज रथे तस्मिन्राजसूनुर्महाबलः । वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः ॥ 28 ॥
स रराज रथे तस्मिन् राज-सूनुः महा-बलः । वृतः नैरृत-शार्दूलैः वज्रपाणिः इव अमरैः ॥ २८ ॥
sa rarāja rathe tasmin rāja-sūnuḥ mahā-balaḥ . vṛtaḥ nairṛta-śārdūlaiḥ vajrapāṇiḥ iva amaraiḥ .. 28 ..
हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् । मनोजवं महाकायमारुरोह नरान्तकः ॥ 29 ॥
हयम् उच्चैःश्रवः प्रख्यम् श्वेतम् कनक-भूषणम् । मनोजवम् महा-कायम् आरुरोह नरान्तकः ॥ २९ ॥
hayam uccaiḥśravaḥ prakhyam śvetam kanaka-bhūṣaṇam . manojavam mahā-kāyam āruroha narāntakaḥ .. 29 ..
गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः । शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥ 30 ॥
गृहीत्वा प्रासम् उक्ला-आभम् विरराज नरान्तकः । शक्तिम् आदाय तेजस्वी गुहः शिखि-गतः यथा ॥ ३० ॥
gṛhītvā prāsam uklā-ābham virarāja narāntakaḥ . śaktim ādāya tejasvī guhaḥ śikhi-gataḥ yathā .. 30 ..
देवान्तकः समादाय परिघं हेमभूषणम् । परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ 31 ॥
देवान्तकः समादाय परिघम् हेम-भूषणम् । परिगृह्य गिरिम् दोर्भ्याम् वपुः विष्णोः विडम्बयन् ॥ ३१ ॥
devāntakaḥ samādāya parigham hema-bhūṣaṇam . parigṛhya girim dorbhyām vapuḥ viṣṇoḥ viḍambayan .. 31 ..
महापार्श्वो महातेजा गदामादाय वीर्यवान् । विरराज गदापाणिः कुबेर इव संयुगे ॥ 32 ॥
महापार्श्वः महा-तेजाः गदाम् आदाय वीर्यवान् । विरराज गदा-पाणिः कुबेरः इव संयुगे ॥ ३२ ॥
mahāpārśvaḥ mahā-tejāḥ gadām ādāya vīryavān . virarāja gadā-pāṇiḥ kuberaḥ iva saṃyuge .. 32 ..
ते प्रतस्थुर्महात्मानोमरावृत्या सुरा इव । तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः ॥ 33 ॥
ते प्रतस्थुः महात्मानः मरा-आवृत्या सुराः इव । तान् गजैः च तुरङ्गैः च रथैः च अम्बुद-निस्वनैः ॥ ३३ ॥
te pratasthuḥ mahātmānaḥ marā-āvṛtyā surāḥ iva . tān gajaiḥ ca turaṅgaiḥ ca rathaiḥ ca ambuda-nisvanaiḥ .. 33 ..
अनुत्पेतुर्महात्मानो राक्षसाः प्रवरायुधाः । ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः ॥ 34 ॥
अन् उत्पेतुः महात्मानः राक्षसाः प्रवर-आयुधाः । ते विरेजुः महात्मानः कुमाराः सूर्य-वर्चसः ॥ ३४ ॥
an utpetuḥ mahātmānaḥ rākṣasāḥ pravara-āyudhāḥ . te virejuḥ mahātmānaḥ kumārāḥ sūrya-varcasaḥ .. 34 ..
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे । प्रगृहीता बभौ तेषां छत्राणामावलिः सिता ॥ 35 ॥
किरीटिनः श्रिया जुष्टाः ग्रहाः दीप्ताः इव अम्बरे । प्रगृहीता बभौ तेषाम् छत्राणाम् आवलिः सिता ॥ ३५ ॥
kirīṭinaḥ śriyā juṣṭāḥ grahāḥ dīptāḥ iva ambare . pragṛhītā babhau teṣām chatrāṇām āvaliḥ sitā .. 35 ..
शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे । मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥ 36 ॥
शारद-अभ्र-प्रतीकाशाम् हंस-आवलिः इव अम्बरे । मरणम् वा अपि निश्चित्य शत्रूणाम् वा पराजयम् ॥ ३६ ॥
śārada-abhra-pratīkāśām haṃsa-āvaliḥ iva ambare . maraṇam vā api niścitya śatrūṇām vā parājayam .. 36 ..
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः । जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ॥ 37 ॥
इति कृत्वा मतिम् वीराः निर्जग्मुः संयुग-अर्थिनः । जगर्जुः च प्रणेदुः च चिक्षिपुः च अपि सायकान् ॥ ३७ ॥
iti kṛtvā matim vīrāḥ nirjagmuḥ saṃyuga-arthinaḥ . jagarjuḥ ca praṇeduḥ ca cikṣipuḥ ca api sāyakān .. 37 ..
जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः । क्ष्वेडितास्फोटितानां वै सञ्चचालेव मेदिनी ॥ 38 ॥
जहृषुः च महात्मानः निर्यान्तः युद्ध-दुर्मदाः । क्ष्वेडित-आस्फोटितानाम् वै सञ्चचाल इव मेदिनी ॥ ३८ ॥
jahṛṣuḥ ca mahātmānaḥ niryāntaḥ yuddha-durmadāḥ . kṣveḍita-āsphoṭitānām vai sañcacāla iva medinī .. 38 ..
रक्षसां सिंहनादैश्च संस्फोटितमिवाम्बरम् । तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ॥ 39 ॥
रक्षसाम् सिंहनादैः च संस्फोटितम् इव अम्बरम् । ते अभिनिष्क्रम्य मुदिताः राक्षस-इन्द्राः महा-बलाः ॥ ३९ ॥
rakṣasām siṃhanādaiḥ ca saṃsphoṭitam iva ambaram . te abhiniṣkramya muditāḥ rākṣasa-indrāḥ mahā-balāḥ .. 39 ..
ददृशुर्वानरानीकं समुद्यतशिलानगम् । हरयोऽपि महात्मानो ददृशु राक्षसेन्द्रा महाबलम् ॥ 40 ॥
ददृशुः वानर-अनीकम् समुद्यत-शिला-नगम् । हरयः अपि महात्मानः ददृशुः राक्षस-इन्द्राः महा-बलम् ॥ ४० ॥
dadṛśuḥ vānara-anīkam samudyata-śilā-nagam . harayaḥ api mahātmānaḥ dadṛśuḥ rākṣasa-indrāḥ mahā-balam .. 40 ..
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् । नीलजीमूतसङ्काशं समुद्यतमहायुधम् ॥ 41 ॥
हस्ति-अश्व-रथ-सम्बाधम् किङ्किणी-शत-नादितम् । नील-जीमूत-सङ्काशम् समुद्यत-महा-आयुधम् ॥ ४१ ॥
hasti-aśva-ratha-sambādham kiṅkiṇī-śata-nāditam . nīla-jīmūta-saṅkāśam samudyata-mahā-āyudham .. 41 ..
दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् । तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवङ्गमाः ॥ 42 ॥
दीप्त-अनल-रवि-प्रख्यैः नैरृतैः सर्वतस् वृतम् । तत् दृष्ट्वा बलम् आयान्तम् लब्ध-लक्ष्याः प्लवङ्गमाः ॥ ४२ ॥
dīpta-anala-ravi-prakhyaiḥ nairṛtaiḥ sarvatas vṛtam . tat dṛṣṭvā balam āyāntam labdha-lakṣyāḥ plavaṅgamāḥ .. 42 ..
समुद्यतमहाशैलाः सम्प्रणेदुर्मुहुर्मुहुः । अमृष्यमाणा रक्षांसि प्रतिनर्दन्त वानराः  ॥ 43 ॥
समुद्यत-महा-शैलाः सम्प्रणेदुः मुहुर् मुहुर् । अ मृष्यमाणाः रक्षांसि प्रतिनर्दन्त वानराः ॥ ४३ ॥
samudyata-mahā-śailāḥ sampraṇeduḥ muhur muhur . a mṛṣyamāṇāḥ rakṣāṃsi pratinardanta vānarāḥ .. 43 ..
ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् । अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥ 44 ॥
ततस् समुद्घुष्ट-रवम् निशम्य रक्षः-गणाः वानर-यूथपानाम् । अमृष्यमाणाः पर-हर्षम् उग्रम् महा-बलाः भीमतरम् विनेदुः ॥ ४४ ॥
tatas samudghuṣṭa-ravam niśamya rakṣaḥ-gaṇāḥ vānara-yūthapānām . amṛṣyamāṇāḥ para-harṣam ugram mahā-balāḥ bhīmataram vineduḥ .. 44 ..
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः । विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ 45 ॥
ते राक्षस-बलम् घोरम् प्रविश्य हरि-यूथपाः । विचेरुः उद्यतैः शैलैः नगाः शिखरिणः यथा ॥ ४५ ॥
te rākṣasa-balam ghoram praviśya hari-yūthapāḥ . viceruḥ udyataiḥ śailaiḥ nagāḥ śikhariṇaḥ yathā .. 45 ..
के चिदाकाशमाविश्य के चिदुर्व्यां प्लवङ्गमाः । रक्षस्सैन्येषु सङ्क्रुद्धा केचिद् द्रुमशिलायुधाः ॥ 46 ॥
के चित् आकाशम् आविश्य के चित् उर्व्याम् प्लवङ्गमाः । रक्षः-सैन्येषु सङ्क्रुद्धा केचिद् द्रुम-शिला-आयुधाः ॥ ४६ ॥
ke cit ākāśam āviśya ke cit urvyām plavaṅgamāḥ . rakṣaḥ-sainyeṣu saṅkruddhā kecid druma-śilā-āyudhāḥ .. 46 ..
द्रुमांश्च विपुलस्कन्थान् गृह्य वानरपुङ्गवाः । तद् युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ॥ 47 ॥
द्रुमान् च विपुल-स्कन्थान् गृह्य वानर-पुङ्गवाः । तत् युद्धम् अभवत् घोरम् रक्षः-वानर-सङ्कुलम् ॥ ४७ ॥
drumān ca vipula-skanthān gṛhya vānara-puṅgavāḥ . tat yuddham abhavat ghoram rakṣaḥ-vānara-saṅkulam .. 47 ..
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम् । बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥ 48 ॥
ते पादप-शिला-शैलैः चक्रुः वृष्टिम् अनु उपमाम् । बाण-ओघैः वार्यमाणाः च हरयः भीम-विक्रमाः ॥ ४८ ॥
te pādapa-śilā-śailaiḥ cakruḥ vṛṣṭim anu upamām . bāṇa-oghaiḥ vāryamāṇāḥ ca harayaḥ bhīma-vikramāḥ .. 48 ..
सिंहनादान्विनेदुश्च रणे राक्षसवानराः । शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवङ्गमाः ॥ 49 ॥
सिंहनादान् विनेदुः च रणे राक्षस-वानराः । शिलाभिः चूर्णयामासुः यातुधानान् प्लवङ्गमाः ॥ ४९ ॥
siṃhanādān vineduḥ ca raṇe rākṣasa-vānarāḥ . śilābhiḥ cūrṇayāmāsuḥ yātudhānān plavaṅgamāḥ .. 49 ..
निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् । के चिद्रथगतान्वीरान्गजवाजिगतानपि ॥ 50 ॥
निजघ्नुः संयुगे क्रुद्धाः कवच-आभरण-आवृतान् । के चित् रथ-गतान् वीरान् गज-वाजि-गतान् अपि ॥ ५० ॥
nijaghnuḥ saṃyuge kruddhāḥ kavaca-ābharaṇa-āvṛtān . ke cit ratha-gatān vīrān gaja-vāji-gatān api .. 50 ..
निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवङ्गमाः । शैलशृङ्गान्विताङ्गास्ते मुष्टिभिर्वान्तलोचनाः ॥ 51 ॥
निजघ्नुः सहसा आप्लुत्य यातुधानान् प्लवङ्गमाः । शैल-शृङ्ग-अन्वित-अङ्गाः ते मुष्टिभिः वा अन्त-लोचनाः ॥ ५१ ॥
nijaghnuḥ sahasā āplutya yātudhānān plavaṅgamāḥ . śaila-śṛṅga-anvita-aṅgāḥ te muṣṭibhiḥ vā anta-locanāḥ .. 51 ..
चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः । राक्षसाश्च शरैस्तीक्ष्णैर्बिदुः कपिकुञ्जरान् ॥ 52 ॥
चेलुः पेतुः च नेदुः च तत्र राक्षस-पुङ्गवाः । राक्षसाः च शरैः तीक्ष्णैः बिदुः कपि-कुञ्जरान् ॥ ५२ ॥
celuḥ petuḥ ca neduḥ ca tatra rākṣasa-puṅgavāḥ . rākṣasāḥ ca śaraiḥ tīkṣṇaiḥ biduḥ kapi-kuñjarān .. 52 ..
शूलमुद्गरखडगैश्च जघ्नुः प्रासैश्च शक्तिभिः । अन्योन्यं पातयामासुः परस्परजयैषिणः ॥ 53 ॥
शूल-मुद्गर-खडगैः च जघ्नुः प्रासैः च शक्तिभिः । अन्योन्यम् पातयामासुः परस्पर-जय-एषिणः ॥ ५३ ॥
śūla-mudgara-khaḍagaiḥ ca jaghnuḥ prāsaiḥ ca śaktibhiḥ . anyonyam pātayāmāsuḥ paraspara-jaya-eṣiṇaḥ .. 53 ..
रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः । ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ॥ 54 ॥
रिपु-शोणित-दिग्ध-अङ्गाः तत्र वानर-राक्षसाः । ततस् शैलैः च खड्गैः च विसृष्टैः हरि-राक्षसैः ॥ ५४ ॥
ripu-śoṇita-digdha-aṅgāḥ tatra vānara-rākṣasāḥ . tatas śailaiḥ ca khaḍgaiḥ ca visṛṣṭaiḥ hari-rākṣasaiḥ .. 54 ..
मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता । विकीर्णैः पर्वताकारै रक्षोभिररिमर्दितैः । आसीद् वसुमती पूर्णा तदा युद्धमदान्वितैः । ॥ 55 ॥
मुहूर्तेन आवृता भूमिः अभवत् शोणित-आप्लुता । विकीर्णैः पर्वत-आकारैः रक्षोभिः अरि-मर्दितैः । आसीत् वसुमती पूर्णा तदा युद्ध-मद-अन्वितैः । ॥ ५५ ॥
muhūrtena āvṛtā bhūmiḥ abhavat śoṇita-āplutā . vikīrṇaiḥ parvata-ākāraiḥ rakṣobhiḥ ari-marditaiḥ . āsīt vasumatī pūrṇā tadā yuddha-mada-anvitaiḥ . .. 55 ..
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः । वानरान्वानरैरेव जग्नुस्ते रजनीचराः ॥ 56 ॥
आक्षिप्ताः क्षिप्यमाणाः च भग्न-शूलाः च वानरैः । वानरान् वानरैः एव जग्नुः ते रजनीचराः ॥ ५६ ॥
ākṣiptāḥ kṣipyamāṇāḥ ca bhagna-śūlāḥ ca vānaraiḥ . vānarān vānaraiḥ eva jagnuḥ te rajanīcarāḥ .. 56 ..
वानरान् वानरैरेव जघ्नुस्ते नैरृतर्षभाः । राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ 57 ॥
वानरान् वानरैः एव जघ्नुः ते नैरृत-ऋषभाः । राक्षसान् राक्षसैः एव जघ्नुः ते वानराः अपि ॥ ५७ ॥
vānarān vānaraiḥ eva jaghnuḥ te nairṛta-ṛṣabhāḥ . rākṣasān rākṣasaiḥ eva jaghnuḥ te vānarāḥ api .. 57 ..
आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् । तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ 58 ॥
आक्षिप्य च शिलाः तेषाम् निजघ्नुः राक्षसाः हरीन् । तेषाम् च आच्छिद्य शस्त्राणि जघ्नुः रक्षांसि वानराः ॥ ५८ ॥
ākṣipya ca śilāḥ teṣām nijaghnuḥ rākṣasāḥ harīn . teṣām ca ācchidya śastrāṇi jaghnuḥ rakṣāṃsi vānarāḥ .. 58 ..
निर्जघ्नुः शैलशृङ्गैश्च बिभिदुश्च परस्परम् । सिंहनादान् विनेदुश्च रणे राक्षसवानराः ॥ 59 ॥
निर्जघ्नुः शैल-शृङ्गैः च बिभिदुः च परस्परम् । सिंहनादान् विनेदुः च रणे राक्षस-वानराः ॥ ५९ ॥
nirjaghnuḥ śaila-śṛṅgaiḥ ca bibhiduḥ ca parasparam . siṃhanādān vineduḥ ca raṇe rākṣasa-vānarāḥ .. 59 ..
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः । रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥ 60 ॥
छिन्न-वर्म-तनु-त्राणाः राक्षसाः वानरैः हताः । रुधिरम् प्रस्रुताः तत्र रस-सारम् इव द्रुमाः ॥ ६० ॥
chinna-varma-tanu-trāṇāḥ rākṣasāḥ vānaraiḥ hatāḥ . rudhiram prasrutāḥ tatra rasa-sāram iva drumāḥ .. 60 ..
रथेन च रथं चापि वारणेनारि वारणम् । हयेन च हयं केचिन्निजघ्नुर्वानरा रणे ॥ 61 ॥
रथेन च रथम् च अपि वारणेन अरि वारणम् । हयेन च हयम् केचिद् निजघ्नुः वानराः रणे ॥ ६१ ॥
rathena ca ratham ca api vāraṇena ari vāraṇam . hayena ca hayam kecid nijaghnuḥ vānarāḥ raṇe .. 61 ..
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः । राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः ॥ 62 ॥
क्षुरप्रैः अर्धचन्द्रैः च भल्लैः च निशितैः शरैः । राक्षसाः वानर-इन्द्राणाम् चिच्छिदुः पादपान् शिलाः ॥ ६२ ॥
kṣurapraiḥ ardhacandraiḥ ca bhallaiḥ ca niśitaiḥ śaraiḥ . rākṣasāḥ vānara-indrāṇām cicchiduḥ pādapān śilāḥ .. 62 ..
विकीर्णैः पर्वतास्तैश्च द्रुमैश्छिन्नैश्च संयुगे । हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ॥ 63 ॥
विकीर्णैः पर्वताः तैः च द्रुमैः छिन्नैः च संयुगे । हतैः च कपि-रक्षोभिः दुर्गमा वसुधा भवत् ॥ ६३ ॥
vikīrṇaiḥ parvatāḥ taiḥ ca drumaiḥ chinnaiḥ ca saṃyuge . hataiḥ ca kapi-rakṣobhiḥ durgamā vasudhā bhavat .. 63 ..
ते वानरा गर्वितहृष्टचेष्टा सङ्ग्राममासाद्य भयं विमुच्य । युद्धं स्म सर्वे सह राक्षसैस्ते नानायुधाश्चक्रुरदीनसत्त्वाः ॥ 64 ॥
ते वानराः गर्वित-हृष्ट-चेष्टा सङ्ग्रामम् आसाद्य भयम् विमुच्य । युद्धम् स्म सर्वे सह राक्षसैः ते नाना आयुधाः चक्रुः अदीन-सत्त्वाः ॥ ६४ ॥
te vānarāḥ garvita-hṛṣṭa-ceṣṭā saṅgrāmam āsādya bhayam vimucya . yuddham sma sarve saha rākṣasaiḥ te nānā āyudhāḥ cakruḥ adīna-sattvāḥ .. 64 ..
तस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वली मुखेषु । निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥ 65 ॥
तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु मुखेषु । निपात्यमानेषु च राक्षसेषु महा-ऋषयः देव-गणाः च नेदुः ॥ ६५ ॥
tasmin pravṛtte tumule vimarde prahṛṣyamāṇeṣu mukheṣu . nipātyamāneṣu ca rākṣaseṣu mahā-ṛṣayaḥ deva-gaṇāḥ ca neduḥ .. 65 ..
ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य । नरान्तको वानरसैन्यंमुग्रं महार्णवं मीन इवाविवेश ॥ 66 ॥
ततस् हयम् मारुत-तुल्य-वेगम् आरुह्य शक्तिम् निशिताम् प्रगृह्य । नरान्तकः वानर-सैन्यम् उग्रम् महा-अर्णवम् मीनः इव आविवेश ॥ ६६ ॥
tatas hayam māruta-tulya-vegam āruhya śaktim niśitām pragṛhya . narāntakaḥ vānara-sainyam ugram mahā-arṇavam mīnaḥ iva āviveśa .. 66 ..
स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद । एकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥ 67 ॥
स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद । एकः क्षणेन इन्द्र-रिपुः महात्मा जघान सैन्यम् हरि-पुङ्गवानाम् ॥ ६७ ॥
sa vānarān sapta śatāni vīraḥ prāsena dīptena vinirbibheda . ekaḥ kṣaṇena indra-ripuḥ mahātmā jaghāna sainyam hari-puṅgavānām .. 67 ..
ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् । चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ 68 ॥
ददृशुः च महात्मानम् हय-पृष्ठे प्रतिष्ठितम् । चरन्तम् हरि-सैन्येषु विद्याधर-महा-ऋषयः ॥ ६८ ॥
dadṛśuḥ ca mahātmānam haya-pṛṣṭhe pratiṣṭhitam . carantam hari-sainyeṣu vidyādhara-mahā-ṛṣayaḥ .. 68 ..
स तस्य ददृशे मार्गो मांसशोणितकर्दमः । पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ 69 ॥
स तस्य ददृशे मार्गः मांस-शोणित-कर्दमः । पतितैः पर्वत-आकारैः वानरैः अभिसंवृतः ॥ ६९ ॥
sa tasya dadṛśe mārgaḥ māṃsa-śoṇita-kardamaḥ . patitaiḥ parvata-ākāraiḥ vānaraiḥ abhisaṃvṛtaḥ .. 69 ..
यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः । तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ 70 ॥
यावत् विक्रमितुम् बुद्धिम् चक्रुः प्लवग-पुङ्गवाः । तावत् एतान् अतिक्रम्य निर्बिभेद नरान्तकः ॥ ७० ॥
yāvat vikramitum buddhim cakruḥ plavaga-puṅgavāḥ . tāvat etān atikramya nirbibheda narāntakaḥ .. 70 ..
ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः । ददाह हरिसैन्यानि वनानीव विभावसुः ॥ 71 ॥
ज्वलन्तम् प्रासम् उद्यम्य सङ्ग्राम-अग्रे नरान्तकः । ददाह हरि-सैन्यानि वनानि इव विभावसुः ॥ ७१ ॥
jvalantam prāsam udyamya saṅgrāma-agre narāntakaḥ . dadāha hari-sainyāni vanāni iva vibhāvasuḥ .. 71 ..
यावदुत्पाटयामासुर्वृक्षाञ्शैलान् वनौकसः । तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥ 72 ॥
यावत् उत्पाटयामासुः वृक्षान् शैलान् वनौकसः । तावत् प्रास-हताः पेतुः वज्र-कृत्ताः इव अचलाः ॥ ७२ ॥
yāvat utpāṭayāmāsuḥ vṛkṣān śailān vanaukasaḥ . tāvat prāsa-hatāḥ petuḥ vajra-kṛttāḥ iva acalāḥ .. 72 ..
दिक्षु सर्वासु बलवान्विचचार नरान्तकः । प्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः ॥ 73 ॥
दिक्षु सर्वासु बलवान् विचचार नरान्तकः । प्रमृद्नन् सर्वतस् युद्धे प्रावृष्-काले यथा अनिलः ॥ ७३ ॥
dikṣu sarvāsu balavān vicacāra narāntakaḥ . pramṛdnan sarvatas yuddhe prāvṛṣ-kāle yathā anilaḥ .. 73 ..
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः । उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ॥ 74 ॥
न शेकुः धावितुम् वीराः न स्थातुम् स्पन्दितुम् कुतस् । उत्पतन्तम् स्थितम् यान्तम् सर्वान् विव्याध वीर्यवान् ॥ ७४ ॥
na śekuḥ dhāvitum vīrāḥ na sthātum spanditum kutas . utpatantam sthitam yāntam sarvān vivyādha vīryavān .. 74 ..
एकेनान्तककल्पेन प्रासेनादित्यतेजसा । भग्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ 75 ॥
एकेन अन्तक-कल्पेन प्रासेन आदित्य-तेजसा । भग्नानि हरि-सैन्यानि निपेतुः धरणी-तले ॥ ७५ ॥
ekena antaka-kalpena prāsena āditya-tejasā . bhagnāni hari-sainyāni nipetuḥ dharaṇī-tale .. 75 ..
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् । न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ 76 ॥
वज्र-निष्पेष-सदृशम् प्रासस्य अभिनिपातनम् । न शेकुः वानराः सोढुम् ते विनेदुः महा-स्वनम् ॥ ७६ ॥
vajra-niṣpeṣa-sadṛśam prāsasya abhinipātanam . na śekuḥ vānarāḥ soḍhum te vineduḥ mahā-svanam .. 76 ..
पततां हरिवीराणां रूपाणि प्रचकाशिरे । वज्रभिन्नाग्रकूटानां शैलानां पतताम् इव ॥ 77 ॥
पतताम् हरि-वीराणाम् रूपाणि प्रचकाशिरे । वज्र-भिन्न-अग्र-कूटानाम् शैलानाम् पतताम् इव ॥ ७७ ॥
patatām hari-vīrāṇām rūpāṇi pracakāśire . vajra-bhinna-agra-kūṭānām śailānām patatām iva .. 77 ..
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः । तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ 78 ॥
ये तु पूर्वम् महात्मानः कुम्भकर्णेन पातिताः । ते अस्वस्थाः वानर-श्रेष्ठाः सुग्रीवम् उपतस्थिरे ॥ ७८ ॥
ye tu pūrvam mahātmānaḥ kumbhakarṇena pātitāḥ . te asvasthāḥ vānara-śreṣṭhāḥ sugrīvam upatasthire .. 78 ..
प्रेक्षमाणः स सुग्रीवो ददर्श हरिवाहिनीम् । नरान्तकभयत्रस्तां विद्रवन्तीं यतस्ततः ॥ 79 ॥
प्रेक्षमाणः स सुग्रीवः ददर्श हरि-वाहिनीम् । नरान्तक-भय-त्रस्ताम् विद्रवन्तीम् यतस् ततस् ॥ ७९ ॥
prekṣamāṇaḥ sa sugrīvaḥ dadarśa hari-vāhinīm . narāntaka-bhaya-trastām vidravantīm yatas tatas .. 79 ..
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् । गृहीतप्रासमायान्तं हयपृष्ठप्रतिष्ठितम् ॥ 80 ॥
विद्रुताम् वाहिनीम् दृष्ट्वा स ददर्श नरान्तकम् । गृहीत-प्रासम् आयान्तम् हय-पृष्ठ-प्रतिष्ठितम् ॥ ८० ॥
vidrutām vāhinīm dṛṣṭvā sa dadarśa narāntakam . gṛhīta-prāsam āyāntam haya-pṛṣṭha-pratiṣṭhitam .. 80 ..
दृष्ट्वोवाच महातेजाः सुग्रीवो वानराधिपः । कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ 81 ॥
दृष्ट्वा उवाच महा-तेजाः सुग्रीवः वानर-अधिपः । कुमारम् अङ्गदम् वीरम् शक्र-तुल्य-पराक्रमम् ॥ ८१ ॥
dṛṣṭvā uvāca mahā-tejāḥ sugrīvaḥ vānara-adhipaḥ . kumāram aṅgadam vīram śakra-tulya-parākramam .. 81 ..
गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः । क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ 82 ॥
गच्छ एनम् राक्षसम् वीर यः असौ तुरगम् आस्थितः । क्षोभयन्तम् हरि-बलम् क्षिप्रम् प्राणैः वियोजय ॥ ८२ ॥
gaccha enam rākṣasam vīra yaḥ asau turagam āsthitaḥ . kṣobhayantam hari-balam kṣipram prāṇaiḥ viyojaya .. 82 ..
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा । अनीकान्मेघसङ्काशादंशुमानिव वीर्यवान् ॥ 83 ॥
स भर्तुः वचनम् श्रुत्वा निष्पपात अङ्गदः तदा । अनीकात् मेघ-सङ्काशात् अंशुमान् इव वीर्यवान् ॥ ८३ ॥
sa bhartuḥ vacanam śrutvā niṣpapāta aṅgadaḥ tadā . anīkāt megha-saṅkāśāt aṃśumān iva vīryavān .. 83 ..
शैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः । रराजाङ्गदसंनद्धः सधातुरिव पर्वतः ॥ 84 ॥
शैल-सङ्घात-सङ्काशः हरीणाम् उत्तमः अङ्गदः । रराज अङ्गद-संनद्धः स धातुः इव पर्वतः ॥ ८४ ॥
śaila-saṅghāta-saṅkāśaḥ harīṇām uttamaḥ aṅgadaḥ . rarāja aṅgada-saṃnaddhaḥ sa dhātuḥ iva parvataḥ .. 84 ..
निरायुधो महातेजाः केवलं नखदंष्ट्रवान् । नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद् वचः ॥ 85 ॥
निरायुधः महा-तेजाः केवलम् नख-दंष्ट्रवान् । नरान्तकम् अभिक्रम्य वालि-पुत्रः अब्रवीत् वचः ॥ ८५ ॥
nirāyudhaḥ mahā-tejāḥ kevalam nakha-daṃṣṭravān . narāntakam abhikramya vāli-putraḥ abravīt vacaḥ .. 85 ..
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि । अस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि ॥ 86 ॥
तिष्ठ किम् प्राकृतैः एभिः हरिभिः त्वम् करिष्यसि । अस्मिन् वज्र-सम-स्पर्शे प्रासम् क्षिप मम उरसि ॥ ८६ ॥
tiṣṭha kim prākṛtaiḥ ebhiḥ haribhiḥ tvam kariṣyasi . asmin vajra-sama-sparśe prāsam kṣipa mama urasi .. 86 ..
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः । सन्दश्य दशनैरोष्ठं निश्वस्य च भुजङ्गवत् । अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥ 87 ॥
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः । सन्दश्य दशनैः ओष्ठम् निश्वस्य च भुजङ्ग-वत् । अभिगम्य अङ्गदम् क्रुद्धः वालि-पुत्रम् नरान्तकः ॥ ८७ ॥
aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ . sandaśya daśanaiḥ oṣṭham niśvasya ca bhujaṅga-vat . abhigamya aṅgadam kruddhaḥ vāli-putram narāntakaḥ .. 87 ..
स प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज । स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ 88 ॥
स प्रासम् आविध्य तदा अङ्गदाय समुज्ज्वलन्तम् सहसा उत्ससर्ज । स वालि-पुत्र-उरसि वज्र-कल्पे बभूव भग्नः न्यपतत् च भूमौ ॥ ८८ ॥
sa prāsam āvidhya tadā aṅgadāya samujjvalantam sahasā utsasarja . sa vāli-putra-urasi vajra-kalpe babhūva bhagnaḥ nyapatat ca bhūmau .. 88 ..
तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् । तलं समुद्यम्य स वालिपुत्रस् तुरङ्गमस्याभिजघान मूर्ध्नि ॥ 89 ॥
तम् प्रासम् आलोक्य तदा विभग्नम् सुपर्ण-कृत्त-उरग-भोग-कल्पम् । तलम् समुद्यम्य स वालि-पुत्रः तुरङ्गमस्य अभिजघान मूर्ध्नि ॥ ८९ ॥
tam prāsam ālokya tadā vibhagnam suparṇa-kṛtta-uraga-bhoga-kalpam . talam samudyamya sa vāli-putraḥ turaṅgamasya abhijaghāna mūrdhni .. 89 ..
निमग्नपादः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसंनिकाशः । स तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा ॥ 90 ॥
निमग्न-पादः स्फुटित-अक्षि-तारः निष्क्रान्त-जिह्वः अचल-संनिकाशः । स तस्य वाजी निपपात भूमौ तल-प्रहारेण विकीर्ण-मूर्धा ॥ ९० ॥
nimagna-pādaḥ sphuṭita-akṣi-tāraḥ niṣkrānta-jihvaḥ acala-saṃnikāśaḥ . sa tasya vājī nipapāta bhūmau tala-prahāreṇa vikīrṇa-mūrdhā .. 90 ..
नरान्तकः क्रोधवशं जगाम हतं तुरंगं पतितं समीक्ष्य । स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ 91 ॥
नरान्तकः क्रोध-वशम् जगाम हतम् तुरंगम् पतितम् समीक्ष्य । स मुष्टिम् उद्यम्य महा-प्रभावः जघान शीर्षे युधि वालि-पुत्रम् ॥ ९१ ॥
narāntakaḥ krodha-vaśam jagāma hatam turaṃgam patitam samīkṣya . sa muṣṭim udyamya mahā-prabhāvaḥ jaghāna śīrṣe yudhi vāli-putram .. 91 ..
अथाङ्गदो मुष्टिविशीर्णमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् । मुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिस्मिये च ॥ 92 ॥
अथ अङ्गदः मुष्टि-विशीर्ण-मूर्धा सुस्राव तीव्रम् रुधिरम् भृश-उष्णम् । मुहुर् विजज्वाल मुमोह च अपि संज्ञाम् समासाद्य विसिस्मिये च ॥ ९२ ॥
atha aṅgadaḥ muṣṭi-viśīrṇa-mūrdhā susrāva tīvram rudhiram bhṛśa-uṣṇam . muhur vijajvāla mumoha ca api saṃjñām samāsādya visismiye ca .. 92 ..
अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् । निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥ 93 ॥
अथ अङ्गदः वज्र-समान-वेगम् संवर्त्य मुष्टिम् गिरि-शृङ्ग-कल्पम् । निपातयामास तदा महात्मा नरान्तकस्य उरसि वालि-पुत्रः ॥ ९३ ॥
atha aṅgadaḥ vajra-samāna-vegam saṃvartya muṣṭim giri-śṛṅga-kalpam . nipātayāmāsa tadā mahātmā narāntakasya urasi vāli-putraḥ .. 93 ..
स मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालां वमञ्शोणितदिग्धगात्रः । नरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः ॥ 94 ॥
स मुष्टि-निष्पिष्ट-विभिन्न-वक्षाः ज्वालाम् वमन् शोणित-दिग्ध-गात्रः । नरान्तकः भूमि-तले पपात यथा अचलः वज्र-निपात-भग्नः ॥ ९४ ॥
sa muṣṭi-niṣpiṣṭa-vibhinna-vakṣāḥ jvālām vaman śoṇita-digdha-gātraḥ . narāntakaḥ bhūmi-tale papāta yathā acalaḥ vajra-nipāta-bhagnaḥ .. 94 ..
तदान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः । बभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ॥ 95 ॥
तदा अन्तरिक्षे त्रिदश-उत्तमानाम् वनौकसाम् च एव महा-प्रणादः । बभूव तस्मिन् निहते अग्र्य-वीरे नरान्तके वालि-सुतेन सङ्ख्ये ॥ ९५ ॥
tadā antarikṣe tridaśa-uttamānām vanaukasām ca eva mahā-praṇādaḥ . babhūva tasmin nihate agrya-vīre narāntake vāli-sutena saṅkhye .. 95 ..
अथाङ्गदो राममनः प्रहर्षणं सुदुष्करं तं कृतवान् हि विक्रमम् । विसिस्मिये सोऽप्यथ भीमकर्मा पुनश्च युद्धे स बभूव हर्षितः ॥ 96 ॥
अथ अङ्गदः राम-मनः प्रहर्षणम् सु दुष्करम् तम् कृतवान् हि विक्रमम् । विसिस्मिये सः अपि अथ भीम-कर्मा पुनर् च युद्धे स बभूव हर्षितः ॥ ९६ ॥
atha aṅgadaḥ rāma-manaḥ praharṣaṇam su duṣkaram tam kṛtavān hi vikramam . visismiye saḥ api atha bhīma-karmā punar ca yuddhe sa babhūva harṣitaḥ .. 96 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In