This overlay will guide you through the buttons:

| |
|
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ॥ 1 ॥
इति उक्ताः राक्षस-इन्द्रेण राक्षसाः ते महा-बलाः । ऊचुः प्राञ्जलयः सर्वे रावणम् राक्षसेश्वरम् ॥ १ ॥
iti uktāḥ rākṣasa-indreṇa rākṣasāḥ te mahā-balāḥ . ūcuḥ prāñjalayaḥ sarve rāvaṇam rākṣaseśvaram .. 1 ..
द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः । राजन् परिघशक्त्यृष्टिशूलपट्टससङ्कुलम् ॥ 2 ॥
द्विषत्-पक्षम् अ विज्ञाय नीति-बाह्याः तु अबुद्धयः । राजन् परिघ-शक्ति-ऋष्टि-शूल-पट्टस-सङ्कुलम् ॥ २ ॥
dviṣat-pakṣam a vijñāya nīti-bāhyāḥ tu abuddhayaḥ . rājan parigha-śakti-ṛṣṭi-śūla-paṭṭasa-saṅkulam .. 2 ..
सुमहन्नो बलं कस्माद्विषादं भजते भवान् । त्वयाभोगवतींगत्वानिर्जिताःपन्नगायुधि ॥ 3 ॥
सु महत् नः बलम् कस्मात् विषादम् भजते भवान् । त्वया अभोगवतीम् गत्वा निर्जिताः पन्नग-आयुधि ॥ ३ ॥
su mahat naḥ balam kasmāt viṣādam bhajate bhavān . tvayā abhogavatīm gatvā nirjitāḥ pannaga-āyudhi .. 3 ..
कैलासशिखरावासी यक्षैर्बहुभिरावृतः । सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ॥ 4 ॥
कैलास-शिखर-आवासी यक्षैः बहुभिः आवृतः । सु महत् कदनम् कृत्वा वश्यः ते धनदः कृतः ॥ ४ ॥
kailāsa-śikhara-āvāsī yakṣaiḥ bahubhiḥ āvṛtaḥ . su mahat kadanam kṛtvā vaśyaḥ te dhanadaḥ kṛtaḥ .. 4 ..
स महेश्वरसख्येन श्लाघमानस्त्वया विभो । निर्जितः समरे रोषाल्लोकपालो महाबलः ॥ 5 ॥
स महेश्वर-सख्येन श्लाघमानः त्वया विभो । निर्जितः समरे रोषात् लोकपालः महा-बलः ॥ ५ ॥
sa maheśvara-sakhyena ślāghamānaḥ tvayā vibho . nirjitaḥ samare roṣāt lokapālaḥ mahā-balaḥ .. 5 ..
विनिपात्य च यक्षौघान्विक्षोभ्य विगृह्य च । त्वया कैलासशिखराद्विमानमिदमाहृतम् ॥ 6 ॥
विनिपात्य च यक्ष-ओघान् विक्षोभ्य विगृह्य च । त्वया कैलास-शिखरात् विमानम् इदम् आहृतम् ॥ ६ ॥
vinipātya ca yakṣa-oghān vikṣobhya vigṛhya ca . tvayā kailāsa-śikharāt vimānam idam āhṛtam .. 6 ..
मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता । दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव ॥ 7 ॥
मयेन दानव-इन्द्रेण त्वद्-भयात् सख्यम् इच्छता । दुहिता तव भार्या-अर्थे दत्ता राक्षस-पुङ्गव ॥ ७ ॥
mayena dānava-indreṇa tvad-bhayāt sakhyam icchatā . duhitā tava bhāryā-arthe dattā rākṣasa-puṅgava .. 7 ..
दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः । विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ॥ 8 ॥
दानव-इन्द्रः मधुः नाम वीर्य-उत्सिक्तः दुरासदः । विगृह्य वशम् आनीतः कुम्भीनस्याः सुख-आवहः ॥ ८ ॥
dānava-indraḥ madhuḥ nāma vīrya-utsiktaḥ durāsadaḥ . vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukha-āvahaḥ .. 8 ..
निर्जितास्ते महाबाहो नागा गत्वा रसातलम् । वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ॥ 9 ॥
निर्जिताः ते महा-बाहो नागाः गत्वा रसातलम् । वासुकिः तक्षकः शङ्खः जटी च वशम् आहृताः ॥ ९ ॥
nirjitāḥ te mahā-bāho nāgāḥ gatvā rasātalam . vāsukiḥ takṣakaḥ śaṅkhaḥ jaṭī ca vaśam āhṛtāḥ .. 9 ..
अक्षया बलवन्तश्च शूरा लब्धवराः पुनः । त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ॥ 10 ॥
अक्षयाः बलवन्तः च शूराः लब्ध-वराः पुनर् । त्वया संवत्सरम् युद्ध्वा समरे दानवाः विभो ॥ १० ॥
akṣayāḥ balavantaḥ ca śūrāḥ labdha-varāḥ punar . tvayā saṃvatsaram yuddhvā samare dānavāḥ vibho .. 10 ..
स्वबलं समुपाश्रित्य नीता वशमरिन्दम । मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप ॥ 11 ॥
स्व-बलम् समुपाश्रित्य नीताः वशम् अरिन्दम । मायाः च अधिगताः तत्र बहवः राक्षस-अधिप ॥ ११ ॥
sva-balam samupāśritya nītāḥ vaśam arindama . māyāḥ ca adhigatāḥ tatra bahavaḥ rākṣasa-adhipa .. 11 ..
शूराश्च बलवन्तश्च वरुणस्य सुता रणे । निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ॥ 12 ॥
शूराः च बलवन्तः च वरुणस्य सुताः रणे । निर्जिताः ते महा-बाहो चतुर्विध-बल-अनुगाः ॥ १२ ॥
śūrāḥ ca balavantaḥ ca varuṇasya sutāḥ raṇe . nirjitāḥ te mahā-bāho caturvidha-bala-anugāḥ .. 12 ..
मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् । कालपाशमहावीचिंयमकिंकरपन्नगम् ॥ 13 ॥
मृत्यु-दण्ड-महा-ग्राहम् शाल्मलि-द्वीप-मण्डितम् । कालपाश-महावीचिम् यम-किंकर-पन्नगम् ॥ १३ ॥
mṛtyu-daṇḍa-mahā-grāham śālmali-dvīpa-maṇḍitam . kālapāśa-mahāvīcim yama-kiṃkara-pannagam .. 13 ..
महाज्वरेणदुर्धर्षंयमलोकमहार्णवम् । अवगाह्य त्वया राजन्यमस्य बलसागरम् ॥ 14 ॥
महा-ज्वरेण दुर्धर्षम् यम-लोक-महा-अर्णवम् । अवगाह्य त्वया राजन् यमस्य बल-सागरम् ॥ १४ ॥
mahā-jvareṇa durdharṣam yama-loka-mahā-arṇavam . avagāhya tvayā rājan yamasya bala-sāgaram .. 14 ..
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः । सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः ॥ 15 ॥
जयः च विपुलः प्राप्तः मृत्युः च प्रतिषेधितः । सु युद्धेन च ते सर्वे लोकाः तत्र सु तोषिताः ॥ १५ ॥
jayaḥ ca vipulaḥ prāptaḥ mṛtyuḥ ca pratiṣedhitaḥ . su yuddhena ca te sarve lokāḥ tatra su toṣitāḥ .. 15 ..
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः । आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ॥ 16 ॥
क्षत्रियैः बहुभिः वीरैः शक्र-तुल्य-पराक्रमैः । आसीत् वसुमती पूर्णा महद्भिः इव पादपैः ॥ १६ ॥
kṣatriyaiḥ bahubhiḥ vīraiḥ śakra-tulya-parākramaiḥ . āsīt vasumatī pūrṇā mahadbhiḥ iva pādapaiḥ .. 16 ..
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे । प्रसह्य ते त्वया राजन्हताः परमदुर्जयाः ॥ 17 ॥
तेषाम् वीर्य-गुण-उत्साहैः न समः राघवः रणे । प्रसह्य ते त्वया राजन् हताः परम-दुर्जयाः ॥ १७ ॥
teṣām vīrya-guṇa-utsāhaiḥ na samaḥ rāghavaḥ raṇe . prasahya te tvayā rājan hatāḥ parama-durjayāḥ .. 17 ..
तिष्ठवाकिंमहाराजश्रमे णतववानरान् । अयमेकोमहाबाहुरिन्द्रजित्क्षपयिष्यति ॥ 18 ॥
तिष्ठ वा किम् महा-राज-श्रमे । अयम् एकः महा-बाहुः इन्द्रजित् क्षपयिष्यति ॥ १८ ॥
tiṣṭha vā kim mahā-rāja-śrame . ayam ekaḥ mahā-bāhuḥ indrajit kṣapayiṣyati .. 18 ..
अनेनहिमहाराजमहेश्वरमनुत्तमम् । इष्ट्वायज्ञंवरोलब्धोलोकेपरमदुर्लभः ॥ 19 ॥
अनेन हि महा-राज-महेश्वरम् अनुत्तमम् । इष्ट्वा यज्ञम् वरः लब्धः लोके परम-दुर्लभः ॥ १९ ॥
anena hi mahā-rāja-maheśvaram anuttamam . iṣṭvā yajñam varaḥ labdhaḥ loke parama-durlabhaḥ .. 19 ..
शक्तितोमरमीनंचविनिकीर्णान्त्रशैवलम् । । गजकछपसम्बाधमश्वमण्डूकसंकुलम् ॥ 20 ॥
शक्ति-तोमर-मीनंच-विनिकीर्ण-अन्त्र-शैवलम् । । गज-कछप-सम्बाधम् अश्व-मण्डूक-संकुलम् ॥ २० ॥
śakti-tomara-mīnaṃca-vinikīrṇa-antra-śaivalam . . gaja-kachapa-sambādham aśva-maṇḍūka-saṃkulam .. 20 ..
रुद्रादित्यमहाग्राहंमरुद्वसुमहोरगम् । । रथश्वगजतोयौघंपदातिपुलिनंमहत् ॥ 21 ॥
रुद्र-आदित्य-महा-ग्राहम् मरुत्-वसु-महा-उरगम् । । रथ-श्व-गज-तोय-ओघम् पदाति-पुलिनम् महत् ॥ २१ ॥
rudra-āditya-mahā-grāham marut-vasu-mahā-uragam . . ratha-śva-gaja-toya-ogham padāti-pulinam mahat .. 21 ..
अनेन हि समासाद्य देवानां बलसागरम् । । गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥ 22 ॥
अनेन हि समासाद्य देवानाम् बल-सागरम् । । गृहीतः दैवतपतिः लङ्काम् च अपि प्रवेशितः ॥ २२ ॥
anena hi samāsādya devānām bala-sāgaram . . gṛhītaḥ daivatapatiḥ laṅkām ca api praveśitaḥ .. 22 ..
पितामहनियोगाच्चमुक्तःशम्बरवृत्रहा । गतस्त्रिविष्टप राजन् सर्वदेवनमस्कृतः ॥ 23 ॥
पितामह-नियोगात् च मुक्तः शम्बर-वृत्र-हा । गतः त्रिविष्टप राजन् सर्व-देव-नमस्कृतः ॥ २३ ॥
pitāmaha-niyogāt ca muktaḥ śambara-vṛtra-hā . gataḥ triviṣṭapa rājan sarva-deva-namaskṛtaḥ .. 23 ..
तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् । यावद् वानरसेनांतांसरामांनयतिक्षयम् ॥ 24 ॥
तम् एव त्वम् महा-राज विसृज इन्द्रजितम् सुतम् । यावत् ॥ २४ ॥
tam eva tvam mahā-rāja visṛja indrajitam sutam . yāvat .. 24 ..
राजन्नापदयुक्तेयमागता प्राकृताज्जनात् । हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥ 25 ॥
राजन् आपद्-अयुक्ता इयम् आगता प्राकृतात् जनात् । हृदि ना एव त्वया कार्या त्वम् वधिष्यसि राघवम् ॥ २५ ॥
rājan āpad-ayuktā iyam āgatā prākṛtāt janāt . hṛdi nā eva tvayā kāryā tvam vadhiṣyasi rāghavam .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In