This overlay will guide you through the buttons:

| |
|
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः । देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ 1 ॥
नरान्तकम् हतम् दृष्ट्वा चुक्रुशुः नैरृत-ऋषभाः । देवान्तकः त्रिमूर्धा च पौलस्त्यः च महोदरः ॥ १ ॥
narāntakam hatam dṛṣṭvā cukruśuḥ nairṛta-ṛṣabhāḥ . devāntakaḥ trimūrdhā ca paulastyaḥ ca mahodaraḥ .. 1 ..
आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वेगवान् ॥ 2 ॥
आरूढः मेघ-सङ्काशम् वारण-इन्द्रम् महोदरः । वालि-पुत्रम् महा-वीर्यम् अभिदुद्राव वेगवान् ॥ २ ॥
ārūḍhaḥ megha-saṅkāśam vāraṇa-indram mahodaraḥ . vāli-putram mahā-vīryam abhidudrāva vegavān .. 2 ..
भ्रातृव्यसनतसंप्तस्तदा देवान्तको बली । आदाय परिघं घोरमङ्गदं समभिद्रवत् ॥ 3 ॥
भ्रातृ-व्यसन-तसंप्तः तदा देवान्तकः बली । आदाय परिघम् घोरम् अङ्गदम् समभिद्रवत् ॥ ३ ॥
bhrātṛ-vyasana-tasaṃptaḥ tadā devāntakaḥ balī . ādāya parigham ghoram aṅgadam samabhidravat .. 3 ..
रथमादित्यसङ्काशं युक्तं परमवाजिभिः । आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्यगात् ॥ 4 ॥
रथम् आदित्य-सङ्काशम् युक्तम् परम-वाजिभिः । आस्थाय त्रिशिराः वीरः वालि-पुत्रम् अथ अभ्यगात् ॥ ४ ॥
ratham āditya-saṅkāśam yuktam parama-vājibhiḥ . āsthāya triśirāḥ vīraḥ vāli-putram atha abhyagāt .. 4 ..
स त्रिभिर्देवदर्पघ्नै राक्षसेन्द्रैरभिद्रुतः । वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ 5 ॥
स त्रिभिः देव-दर्प-घ्नैः राक्षस-इन्द्रैः अभिद्रुतः । वृक्षम् उत्पाटयामास महा-विटपम् अङ्गदः ॥ ५ ॥
sa tribhiḥ deva-darpa-ghnaiḥ rākṣasa-indraiḥ abhidrutaḥ . vṛkṣam utpāṭayāmāsa mahā-viṭapam aṅgadaḥ .. 5 ..
देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः । महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥ 6 ॥
देवान्तकाय तम् वीरः चिक्षेप सहसा अङ्गदः । महा-वृक्षम् महा-शाखम् शक्रः दीप्तम् इव अशनिम् ॥ ६ ॥
devāntakāya tam vīraḥ cikṣepa sahasā aṅgadaḥ . mahā-vṛkṣam mahā-śākham śakraḥ dīptam iva aśanim .. 6 ..
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः । स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः ॥ 7 ॥
त्रिशिराः तम् प्रचिच्छेद शरैः आशीविष-उपमैः । स वृक्षम् कृत्तम् आलोक्य उत्पपात ततस् अङ्गदः ॥ ७ ॥
triśirāḥ tam praciccheda śaraiḥ āśīviṣa-upamaiḥ . sa vṛkṣam kṛttam ālokya utpapāta tatas aṅgadaḥ .. 7 ..
स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः । तान्प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ॥ 8 ॥
स ववर्ष ततस् वृक्षान् शिलाः च कपि-कुञ्जरः । तान् प्रचिच्छेद सङ्क्रुद्धः त्रिशिराः निशितैः शरैः ॥ ८ ॥
sa vavarṣa tatas vṛkṣān śilāḥ ca kapi-kuñjaraḥ . tān praciccheda saṅkruddhaḥ triśirāḥ niśitaiḥ śaraiḥ .. 8 ..
परिघाग्रेण तान्वृक्षान्बभञ्ज च महोदरः । त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ 9 ॥
परिघ-अग्रेण तान् वृक्षान् बभञ्ज च महोदरः । त्रिशिराः च अङ्गदम् वीरम् अभिदुद्राव सायकैः ॥ ९ ॥
parigha-agreṇa tān vṛkṣān babhañja ca mahodaraḥ . triśirāḥ ca aṅgadam vīram abhidudrāva sāyakaiḥ .. 9 ..
गजेन समभिद्रुत्य वालिपुत्रं महोदरः । जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसंनिभैः ॥ 10 ॥
गजेन समभिद्रुत्य वालि-पुत्रम् महोदरः । जघान उरसि सङ्क्रुद्धः तोमरैः वज्र-संनिभैः ॥ १० ॥
gajena samabhidrutya vāli-putram mahodaraḥ . jaghāna urasi saṅkruddhaḥ tomaraiḥ vajra-saṃnibhaiḥ .. 10 ..
देवान्तकश्च सङ्क्रुद्धः परिघेण तदाङ्गदम् । उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ 11 ॥
देवान्तकः च सङ्क्रुद्धः परिघेण तदा अङ्गदम् । उपगम्य अभिहत्य आशु व्यपचक्राम वेगवान् ॥ ११ ॥
devāntakaḥ ca saṅkruddhaḥ parigheṇa tadā aṅgadam . upagamya abhihatya āśu vyapacakrāma vegavān .. 11 ..
स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः । न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ 12 ॥
स त्रिभिः नैरृत-श्रेष्ठैः युगपद् समभिद्रुतः । न विव्यथे महा-तेजाः वालि-पुत्रः प्रतापवान् ॥ १२ ॥
sa tribhiḥ nairṛta-śreṣṭhaiḥ yugapad samabhidrutaḥ . na vivyathe mahā-tejāḥ vāli-putraḥ pratāpavān .. 12 ..
स वेगवान् महावेगं कृत्वा परमदुर्जयः । तलेन भृशमुत्पत्य जघानास्य महागजम् ॥ 13 ॥
स वेगवान् महा-वेगम् कृत्वा परम-दुर्जयः । तलेन भृशम् उत्पत्य जघान अस्य महा-गजम् ॥ १३ ॥
sa vegavān mahā-vegam kṛtvā parama-durjayaḥ . talena bhṛśam utpatya jaghāna asya mahā-gajam .. 13 ..
तस्य तेन प्रहारेण नागराजस्य संयुगे । पेततुर्लोचने तस्य विननाश स कुञ्जरः ॥ 14 ॥
तस्य तेन प्रहारेण नाग-राजस्य संयुगे । पेततुः लोचने तस्य विननाश स कुञ्जरः ॥ १४ ॥
tasya tena prahāreṇa nāga-rājasya saṃyuge . petatuḥ locane tasya vinanāśa sa kuñjaraḥ .. 14 ..
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः । देवान्तकमभिद्रुत्य ताडयामास संयुगे ॥ 15 ॥
विषाणम् च अस्य निष्कृष्य वालि-पुत्रः महा-बलः । देवान्तकम् अभिद्रुत्य ताडयामास संयुगे ॥ १५ ॥
viṣāṇam ca asya niṣkṛṣya vāli-putraḥ mahā-balaḥ . devāntakam abhidrutya tāḍayāmāsa saṃyuge .. 15 ..
स विह्वलस्तु तेजस्वी वातोद्धूत इव द्रुमः । लाक्षारससवर्णं च सुस्राव रुधिरं मुहत् ॥ 16 ॥
स विह्वलः तु तेजस्वी वात-उद्धूतः इव द्रुमः । लाक्षा-रस-सवर्णम् च सुस्राव रुधिरम् मुहत् ॥ १६ ॥
sa vihvalaḥ tu tejasvī vāta-uddhūtaḥ iva drumaḥ . lākṣā-rasa-savarṇam ca susrāva rudhiram muhat .. 16 ..
अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली । आविध्य परिघं वेगादाजघान तदाङ्गदम् ॥ 17 ॥
अथ आश्वास्य महा-तेजाः कृच्छ्रात् देवान्तकः बली । आविध्य परिघम् वेगात् आजघान तदा अङ्गदम् ॥ १७ ॥
atha āśvāsya mahā-tejāḥ kṛcchrāt devāntakaḥ balī . āvidhya parigham vegāt ājaghāna tadā aṅgadam .. 17 ..
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा । जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ 18 ॥
परिघ-अभिहतः च अपि वानर-इन्द्र-आत्मजः तदा । जानुभ्याम् पतितः भूमौ पुनर् एव उत्पपात ह ॥ १८ ॥
parigha-abhihataḥ ca api vānara-indra-ātmajaḥ tadā . jānubhyām patitaḥ bhūmau punar eva utpapāta ha .. 18 ..
समुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः । घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ 19 ॥
समुत्पतन्तम् त्रिशिराः त्रिभिः बाणैः अजिह्मगैः । घोरैः हरि-पतेः पुत्रम् ललाटे अभिजघान ह ॥ १९ ॥
samutpatantam triśirāḥ tribhiḥ bāṇaiḥ ajihmagaiḥ . ghoraiḥ hari-pateḥ putram lalāṭe abhijaghāna ha .. 19 ..
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुङ्गवैः । हनूमानथ विज्ञाय नीलश्चापि प्रतस्थतुः ॥ 20 ॥
ततस् अङ्गदम् परिक्षिप्तम् त्रिभिः नैरृत-पुङ्गवैः । हनूमान् अथ विज्ञाय नीलः च अपि प्रतस्थतुः ॥ २० ॥
tatas aṅgadam parikṣiptam tribhiḥ nairṛta-puṅgavaiḥ . hanūmān atha vijñāya nīlaḥ ca api pratasthatuḥ .. 20 ..
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा । तद् रावणसुतो धीमान् बिभेद निशितैः शरैः ॥ 21 ॥
ततस् चिक्षेप शैल-अग्रम् नीलः त्रिशिरसे तदा । तत् रावण-सुतः धीमान् बिभेद निशितैः शरैः ॥ २१ ॥
tatas cikṣepa śaila-agram nīlaḥ triśirase tadā . tat rāvaṇa-sutaḥ dhīmān bibheda niśitaiḥ śaraiḥ .. 21 ..
तद्बाणशतनिर्भिन्नं विदारितशिलातलम् । सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ 22 ॥
तद्-बाण-शत-निर्भिन्नम् विदारित-शिला-तलम् । स विस्फुलिङ्गम् स ज्वालम् निपपात गिरेः शिरः ॥ २२ ॥
tad-bāṇa-śata-nirbhinnam vidārita-śilā-talam . sa visphuliṅgam sa jvālam nipapāta gireḥ śiraḥ .. 22 ..
स विजृम्भितमालोक्य हर्षाद् देवान्तको बली । परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ 23 ॥
स विजृम्भितम् आलोक्य हर्षात् देवान्तकः बली । परिघेण अभिदुद्राव मारुतात्मजम् आहवे ॥ २३ ॥
sa vijṛmbhitam ālokya harṣāt devāntakaḥ balī . parigheṇa abhidudrāva mārutātmajam āhave .. 23 ..
तमापतन्तमुत्पत्य हनूमान् कपिकुञ्जरः । आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥ 24 ॥
तम् आपतन्तम् उत्पत्य हनूमान् कपि-कुञ्जरः । आजघान तदा मूर्ध्नि वज्र-कल्पेन मुष्टिना ॥ २४ ॥
tam āpatantam utpatya hanūmān kapi-kuñjaraḥ . ājaghāna tadā mūrdhni vajra-kalpena muṣṭinā .. 24 ..
शिरसि प्राहरद् वनीरस्तदा वायुसुतो बली । नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ॥ 25 ॥
शिरसि प्राहरत् वनीरः तदा वायु-सुतः बली । नादेन अकम्पयत् च एव राक्षसान् स महा-कपिः ॥ २५ ॥
śirasi prāharat vanīraḥ tadā vāyu-sutaḥ balī . nādena akampayat ca eva rākṣasān sa mahā-kapiḥ .. 25 ..
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः । देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ॥ 26 ॥
स मुष्टि-निष्पिष्ट-विकीर्ण-मूर्धा निर्वान्त-दन्त-अक्षि-विलम्बि-जिह्वः । देवान्तकः राक्षस-राज-सूनुः गतासुः उर्व्याम् सहसा पपात ॥ २६ ॥
sa muṣṭi-niṣpiṣṭa-vikīrṇa-mūrdhā nirvānta-danta-akṣi-vilambi-jihvaḥ . devāntakaḥ rākṣasa-rāja-sūnuḥ gatāsuḥ urvyām sahasā papāta .. 26 ..
तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ । क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥ 27 ॥
तस्मिन् हते राक्षस-योध-मुख्ये महा-बले संयति देवशत्रौ । क्रुद्धः त्रिशीर्षा निशित-अस्त्रम् उग्रम् ववर्ष नील-उरसि बाण-वर्षम् ॥ २७ ॥
tasmin hate rākṣasa-yodha-mukhye mahā-bale saṃyati devaśatrau . kruddhaḥ triśīrṣā niśita-astram ugram vavarṣa nīla-urasi bāṇa-varṣam .. 27 ..
महोदरस्तु संकृद्धः कुञ्जरं पर्वतोपमम् । भूयः समधिरुह्याशु मन्दरं रशिमवानिव ॥ 28 ॥
महोदरः तु संकृद्धः कुञ्जरम् पर्वत-उपमम् । भूयस् समधिरुह्य आशु मन्दरम् रशिमवान् इव ॥ २८ ॥
mahodaraḥ tu saṃkṛddhaḥ kuñjaram parvata-upamam . bhūyas samadhiruhya āśu mandaram raśimavān iva .. 28 ..
ततो बाणमयं वर्षं नीलस्योरस्यपातयत् । गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ॥ 29 ॥
ततस् बाण-मयम् वर्षम् नीलस्य उरसि अपातयत् । गिरौ वर्षम् तडित्-चक्र-चापवान् इव तोयदः ॥ २९ ॥
tatas bāṇa-mayam varṣam nīlasya urasi apātayat . girau varṣam taḍit-cakra-cāpavān iva toyadaḥ .. 29 ..
तत् शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः । नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥ 30 ॥
तत् शर-ओघैः अभिवर्ष्यमाणः विभिन्न-गात्रः कपि-सैन्य-पालः । नीलः बभूव अथ विसृष्ट-गात्रः विष्टम्भितः तेन महा-बलेन ॥ ३० ॥
tat śara-oghaiḥ abhivarṣyamāṇaḥ vibhinna-gātraḥ kapi-sainya-pālaḥ . nīlaḥ babhūva atha visṛṣṭa-gātraḥ viṣṭambhitaḥ tena mahā-balena .. 30 ..
ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षखण्डम् । ततः समुत्पत्य महोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥ 31 ॥
ततस् तु नीलः प्रतिलभ्य संज्ञाम् शैलम् समुत्पाट्य स वृक्ष-खण्डम् । ततस् समुत्पत्य महा-उग्र-वेगः महोदरम् तेन जघान मूर्ध्नि ॥ ३१ ॥
tatas tu nīlaḥ pratilabhya saṃjñām śailam samutpāṭya sa vṛkṣa-khaṇḍam . tatas samutpatya mahā-ugra-vegaḥ mahodaram tena jaghāna mūrdhni .. 31 ..
ततः स शैलाभिनिपातभग्नो महोदरस्तेन महद्विपेन । व्यामोहितो भूमितले गतासुः पपात वर्जाभिहतो यथाद्रिः ॥ 32 ॥
ततस् स शैल-अभिनिपात-भग्नः महोदरः तेन महा-द्विपेन । व्यामोहितः भूमि-तले गतासुः पपात वर्ज-अभिहतः यथा अद्रिः ॥ ३२ ॥
tatas sa śaila-abhinipāta-bhagnaḥ mahodaraḥ tena mahā-dvipena . vyāmohitaḥ bhūmi-tale gatāsuḥ papāta varja-abhihataḥ yathā adriḥ .. 32 ..
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे । हनूमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ॥ 33 ॥
पितृव्यम् निहतम् दृष्ट्वा त्रिशिराः चापम् आददे । हनूमन्तम् च सङ्क्रुद्धः विव्याध निशितैः शरैः ॥ ३३ ॥
pitṛvyam nihatam dṛṣṭvā triśirāḥ cāpam ādade . hanūmantam ca saṅkruddhaḥ vivyādha niśitaiḥ śaraiḥ .. 33 ..
स वायुसुनूः कुपितश्चिक्षेप शिखरं गिरेः । त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ 34 ॥
स वायुसुनूः कुपितः चिक्षेप शिखरम् गिरेः । त्रिशिराः तत् शरैः तीक्ष्णैः बिभेद बहुधा बली ॥ ३४ ॥
sa vāyusunūḥ kupitaḥ cikṣepa śikharam gireḥ . triśirāḥ tat śaraiḥ tīkṣṇaiḥ bibheda bahudhā balī .. 34 ..
तद् व्यर्थं शिखरं दृष्टवा द्रुमवर्षं तदा कपिः । विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ॥ 35 ॥
तत् व्यर्थम् शिखरम् दृष्टवा द्रुम-वर्षम् तदा कपिः । विससर्ज रणे तस्मिन् रावणस्य सुतम् प्रति ॥ ३५ ॥
tat vyartham śikharam dṛṣṭavā druma-varṣam tadā kapiḥ . visasarja raṇe tasmin rāvaṇasya sutam prati .. 35 ..
तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान् । त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥ 36 ॥
तम् आपतन्तम् आकाशे द्रुम-वर्षम् प्रतापवान् । त्रिशिराः निशितैः बाणैः चिच्छेद च ननाद च ॥ ३६ ॥
tam āpatantam ākāśe druma-varṣam pratāpavān . triśirāḥ niśitaiḥ bāṇaiḥ ciccheda ca nanāda ca .. 36 ..
हनूमांस्तु समुत्पत्य हयां स्त्रिशिरसस्तदा । विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव ॥ 37 ॥
हनूमान् तु समुत्पत्य हयाम् स्त्रिशिरसः तदा । विददार नखैः क्रुद्धः नाग-इन्द्रम् मृगराज् इव ॥ ३७ ॥
hanūmān tu samutpatya hayām striśirasaḥ tadā . vidadāra nakhaiḥ kruddhaḥ nāga-indram mṛgarāj iva .. 37 ..
अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः । चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ 38 ॥
अथ शक्तिम् समासाद्य कालरात्रिम् इव अन्तकः । चिक्षेप अनिलपुत्राय त्रिशिराः रावण-आत्मजः ॥ ३८ ॥
atha śaktim samāsādya kālarātrim iva antakaḥ . cikṣepa anilaputrāya triśirāḥ rāvaṇa-ātmajaḥ .. 38 ..
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् । गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ 39 ॥
दिवः क्षिप्ताम् इव उल्काम् ताम् शक्तिम् क्षिप्ताम् असङ्ग-ताम् । गृहीत्वा हरि-शार्दूलः बभञ्ज च ननाद च ॥ ३९ ॥
divaḥ kṣiptām iva ulkām tām śaktim kṣiptām asaṅga-tām . gṛhītvā hari-śārdūlaḥ babhañja ca nanāda ca .. 39 ..
तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता । प्रहृष्टा वानरगणा विनेदुर्जलदा यथा ॥ 40 ॥
ताम् दृष्ट्वा घोर-सङ्काशाम् शक्तिम् भग्नाम् हनूमता । प्रहृष्टाः वानर-गणाः विनेदुः जलदाः यथा ॥ ४० ॥
tām dṛṣṭvā ghora-saṅkāśām śaktim bhagnām hanūmatā . prahṛṣṭāḥ vānara-gaṇāḥ vineduḥ jaladāḥ yathā .. 40 ..
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः । निचखान तदा खङ्गं वानरेन्द्रस्य वक्षसि ॥ 41 ॥
ततस् खड्गम् समुद्यम्य त्रिशिराः राक्षस-उत्तमः । निचखान तदा खङ्गम् वानर-इन्द्रस्य वक्षसि ॥ ४१ ॥
tatas khaḍgam samudyamya triśirāḥ rākṣasa-uttamaḥ . nicakhāna tadā khaṅgam vānara-indrasya vakṣasi .. 41 ..
खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः । आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् ॥ 42 ॥
खड्ग-प्रहार-अभिहतः हनूमान् मारुतात्मजः । आजघान त्रिमूर्धानम् तलेन उरसि वीर्यवान् ॥ ४२ ॥
khaḍga-prahāra-abhihataḥ hanūmān mārutātmajaḥ . ājaghāna trimūrdhānam talena urasi vīryavān .. 42 ..
स तलभिहतस्तेन स्रस्तहस्ताम्बरो भुवि । निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ 43 ॥
स तल-भिहतः तेन स्रस्त-हस्त-अम्बरः भुवि । निपपात महा-तेजाः त्रिशिराः त्यक्त-चेतनः ॥ ४३ ॥
sa tala-bhihataḥ tena srasta-hasta-ambaraḥ bhuvi . nipapāta mahā-tejāḥ triśirāḥ tyakta-cetanaḥ .. 43 ..
स तस्य पततः खड्गं समाच्छिद्य महाकपिः । ननाद गिरिसङ्काशस्त्रासयन्सर्वराक्षसान् ॥ 44 ॥
स तस्य पततः खड्गम् समाच्छिद्य महा-कपिः । ननाद गिरि-सङ्काशः त्रासयन् सर्व-राक्षसान् ॥ ४४ ॥
sa tasya patataḥ khaḍgam samācchidya mahā-kapiḥ . nanāda giri-saṅkāśaḥ trāsayan sarva-rākṣasān .. 44 ..
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः । उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ 45 ॥
अ मृष्यमाणः तम् घोषम् उत्पपात निशाचरः । उत्पत्य च हनूमन्तम् ताडयामास मुष्टिना ॥ ४५ ॥
a mṛṣyamāṇaḥ tam ghoṣam utpapāta niśācaraḥ . utpatya ca hanūmantam tāḍayāmāsa muṣṭinā .. 45 ..
तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः । कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥ 46 ॥
तेन मुष्टि-प्रहारेण सञ्चुकोप महा-कपिः । कुपितः च निजग्राह किरीटे राक्षस-ऋषभम् ॥ ४६ ॥
tena muṣṭi-prahāreṇa sañcukopa mahā-kapiḥ . kupitaḥ ca nijagrāha kirīṭe rākṣasa-ṛṣabham .. 46 ..
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि । क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ॥ 47 ॥
स तस्य शीर्षाणि असिना शितेन किरीट-जुष्टानि स कुण्डलानि । क्रुद्धः प्रचिच्छेद सुतः अनिलस्य त्वष्टुः सुतस्य इव शिरांसि शक्रः ॥ ४७ ॥
sa tasya śīrṣāṇi asinā śitena kirīṭa-juṣṭāni sa kuṇḍalāni . kruddhaḥ praciccheda sutaḥ anilasya tvaṣṭuḥ sutasya iva śirāṃsi śakraḥ .. 47 ..
तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि । पेतुः शिरांसीन्द्ररिपो पृथिव्यां ज्योतींषि मुक्तानि यथार्कमार्गात् ॥ 48 ॥
तानि आयत-अक्षाणि अग-संनिभानि प्रदीप्त-वैश्वानर-लोचनानि । पेतुः शिरांसि इन्द्र-रिपो पृथिव्याम् ज्योतींषि मुक्तानि यथा अर्क-मार्गात् ॥ ४८ ॥
tāni āyata-akṣāṇi aga-saṃnibhāni pradīpta-vaiśvānara-locanāni . petuḥ śirāṃsi indra-ripo pṛthivyām jyotīṃṣi muktāni yathā arka-mārgāt .. 48 ..
तस्मिन्हते देवरिपौ त्रिशीर्षे हनूमत शक्रपराक्रमेण । नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ॥ 49 ॥
तस्मिन् हते देव-रिपौ त्रिशीर्षे हनूमत शक्र-पराक्रमेण । नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांसि अथो दुद्रुविरे समन्तात् ॥ ४९ ॥
tasmin hate deva-ripau triśīrṣe hanūmata śakra-parākrameṇa . neduḥ plavaṅgāḥ pracacāla bhūmī rakṣāṃsi atho dudruvire samantāt .. 49 ..
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् । हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥ 50 ॥
हतम् त्रिशिरसम् दृष्ट्वा तथा एव च महोदरम् । हतौ प्रेक्ष्य दुराधर्षौ देवान्तक-नरान्तकौ ॥ ५० ॥
hatam triśirasam dṛṣṭvā tathā eva ca mahodaram . hatau prekṣya durādharṣau devāntaka-narāntakau .. 50 ..
चुकोप परमामर्षी मतो राक्षसपुङ्गवः । जग्राहार्चिष्मतीं चापि गदां सर्वायसीं तदा ॥ 51 ॥
चुकोप परम-अमर्षी मतः राक्षस-पुङ्गवः । जग्राह अर्चिष्मतीम् च अपि गदाम् सर्व-आयसीम् तदा ॥ ५१ ॥
cukopa parama-amarṣī mataḥ rākṣasa-puṅgavaḥ . jagrāha arciṣmatīm ca api gadām sarva-āyasīm tadā .. 51 ..
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम् । विराजमानां विपुला शत्रुशोणितर्पिताम् ॥ 52 ॥
हेम-पट्ट-परिक्षिप्ताम् मांस-शोणित-फेनिलाम् । विराजमानाम् विपुला शत्रु-शोणित-अर्पिताम् ॥ ५२ ॥
hema-paṭṭa-parikṣiptām māṃsa-śoṇita-phenilām . virājamānām vipulā śatru-śoṇita-arpitām .. 52 ..
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम् । ऐरावतमहापद्मसार्वभौम भयावहाम् ॥ 53 ॥
तेजसा सम्प्रदीप्त-अग्राम् रक्त-माल्य-विभूषिताम् । ऐरावत-महापद्म-सार्वभौम भय-आवहाम् ॥ ५३ ॥
tejasā sampradīpta-agrām rakta-mālya-vibhūṣitām . airāvata-mahāpadma-sārvabhauma bhaya-āvahām .. 53 ..
गदामादाय सङ्क्रुद्धो मतो राक्षसपुङ्गवः । हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ 54 ॥
गदाम् आदाय सङ्क्रुद्धः मतः राक्षस-पुङ्गवः । हरीन् समभिदुद्राव युगान्त-अग्निः इव ज्वलन् ॥ ५४ ॥
gadām ādāya saṅkruddhaḥ mataḥ rākṣasa-puṅgavaḥ . harīn samabhidudrāva yugānta-agniḥ iva jvalan .. 54 ..
अथर्षयः समुत्पत्य वानरो रवणानुजम् । मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥ 55 ॥
अथ ऋषयः समुत्पत्य वानरः रवणानुजम् । मत्त-अनीकम् उपागम्य तस्थौ तस्य अग्रतस् बली ॥ ५५ ॥
atha ṛṣayaḥ samutpatya vānaraḥ ravaṇānujam . matta-anīkam upāgamya tasthau tasya agratas balī .. 55 ..
तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् । आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ 56 ॥
तम् पुरस्तात् स्थितम् दृष्ट्वा वानरम् पर्वत-उपमम् । आजघान उरसि क्रुद्धः गदया वज्र-कल्पया ॥ ५६ ॥
tam purastāt sthitam dṛṣṭvā vānaram parvata-upamam . ājaghāna urasi kruddhaḥ gadayā vajra-kalpayā .. 56 ..
स तयाभिहतस्तेन गदया वानरर्षभः । भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ 57 ॥
स तया अभिहतः तेन गदया वानर-ऋषभः । भिन्न-वक्षाः समाधूतः सुस्राव रुधिरम् बहु ॥ ५७ ॥
sa tayā abhihataḥ tena gadayā vānara-ṛṣabhaḥ . bhinna-vakṣāḥ samādhūtaḥ susrāva rudhiram bahu .. 57 ..
स सम्प्राप्य चिरात्संज्ञामृषभो वानरेश्वरः । क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत ॥ 58 ॥
स सम्प्राप्य चिरात् संज्ञाम् ऋषभः वानर-ईश्वरः । क्रुद्धः विस्फुरमाण-ओष्ठः महापार्श्वम् उदैक्षत ॥ ५८ ॥
sa samprāpya cirāt saṃjñām ṛṣabhaḥ vānara-īśvaraḥ . kruddhaḥ visphuramāṇa-oṣṭhaḥ mahāpārśvam udaikṣata .. 58 ..
स वेगवान् वेगवदभ्युपेत्य तं राक्षसं वानरवीरमुख्यः । सम्वर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः ॥ 59 ॥
स वेगवान् वेगवत् अभ्युपेत्य तम् राक्षसम् वानर-वीर-मुख्यः । सम्वर्त्य मुष्टिम् सहसा जघान बाहु-अन्तरे शैल-निकाश-रूपः ॥ ५९ ॥
sa vegavān vegavat abhyupetya tam rākṣasam vānara-vīra-mukhyaḥ . samvartya muṣṭim sahasā jaghāna bāhu-antare śaila-nikāśa-rūpaḥ .. 59 ..
स कृत्तमूल सहसेव वृक्षः क्षितौ पपात क्षतजोक्षिताङ्गः । तां चास्य घोरां यमदण्डकल्पां गदां प्रगृह्याशु तदा ननाद ॥ 60 ॥
स सहसा इव वृक्षः क्षितौ पपात क्षतज-उक्षित-अङ्गः । ताम् च अस्य घोराम् यम-दण्ड-कल्पाम् गदाम् प्रगृह्य आशु तदा ननाद ॥ ६० ॥
sa sahasā iva vṛkṣaḥ kṣitau papāta kṣataja-ukṣita-aṅgaḥ . tām ca asya ghorām yama-daṇḍa-kalpām gadām pragṛhya āśu tadā nanāda .. 60 ..
मुहूर्तमासीत् स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः । उत्पत्य सन्ध्याभ्रसमानवर्णस्तं वारिराजात्मजमाजघान ॥ 61 ॥
मुहूर्तम् आसीत् स गतासु-कल्पः प्रत्यागत-आत्मा सहसा सुरारिः । उत्पत्य सन्ध्या-अभ्र-समान-वर्णः तम् वारिराज-आत्मजम् आजघान ॥ ६१ ॥
muhūrtam āsīt sa gatāsu-kalpaḥ pratyāgata-ātmā sahasā surāriḥ . utpatya sandhyā-abhra-samāna-varṇaḥ tam vārirāja-ātmajam ājaghāna .. 61 ..
स मूर्च्छितो भूमितले पपात मुहूर्तमुत्पत्य पुन ससंज्ञः । तामेव तस्याद्रिवराद्रिकल्पां गदां समाविध्य जघान सङ्ख्ये ॥ 62 ॥
स मूर्च्छितः भूमि-तले पपात मुहूर्तम् उत्पत्य पुनर् ससंज्ञः । ताम् एव तस्य अद्रि-वर-अद्रि-कल्पाम् गदाम् समाविध्य जघान सङ्ख्ये ॥ ६२ ॥
sa mūrcchitaḥ bhūmi-tale papāta muhūrtam utpatya punar sasaṃjñaḥ . tām eva tasya adri-vara-adri-kalpām gadām samāvidhya jaghāna saṅkhye .. 62 ..
सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः । बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वम्भ इवाद्रिराजः ॥ 63 ॥
सा तस्य रौद्रा समुपेत्य देहम् रौद्रस्य देव-अध्वर-विप्र-शत्रोः । बिभेद वक्षः क्षतजम् च भूरि सुस्राव धातु-अम्भः इव अद्रिराजः ॥ ६३ ॥
sā tasya raudrā samupetya deham raudrasya deva-adhvara-vipra-śatroḥ . bibheda vakṣaḥ kṣatajam ca bhūri susrāva dhātu-ambhaḥ iva adrirājaḥ .. 63 ..
अभिदुद्राव वेगेन गदां तस्य महात्मनः । तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः ॥ 64 ॥
अभिदुद्राव वेगेन गदाम् तस्य महात्मनः । ताम् गृहीत्वा गदाम् भीमाम् आविध्य च पुनर् पुनर् ॥ ६४ ॥
abhidudrāva vegena gadām tasya mahātmanaḥ . tām gṛhītvā gadām bhīmām āvidhya ca punar punar .. 64 ..
मत्तानीकं महापार्श्वं जघान रणमूर्धनि । स स्वया गदया भिन्नो विकीर्णदशनेक्षणः ॥ 65 ॥
मत्त-अनीकम् महापार्श्वम् जघान रण-मूर्धनि । स स्वया गदया भिन्नः विकीर्ण-दशन-ईक्षणः ॥ ६५ ॥
matta-anīkam mahāpārśvam jaghāna raṇa-mūrdhani . sa svayā gadayā bhinnaḥ vikīrṇa-daśana-īkṣaṇaḥ .. 65 ..
निपपात महापार्श्वो वज्राहत इवाचलः । विदीर्णनयने भूमौ गतसत्त्वे गतायुषि । पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् । ॥ 66 ॥
निपपात महापार्श्वः वज्र-आहतः इव अचलः । विदीर्ण-नयने भूमौ गत-सत्त्वे गत-आयुषि । पतिते राक्षसे तस्मिन् विद्रुतम् राक्षसम् बलम् । ॥ ६६ ॥
nipapāta mahāpārśvaḥ vajra-āhataḥ iva acalaḥ . vidīrṇa-nayane bhūmau gata-sattve gata-āyuṣi . patite rākṣase tasmin vidrutam rākṣasam balam . .. 66 ..
तस्मिन्हते भ्रातरि रावणस्य तन्नैरृतानां बलमर्णवाभम् । त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम् ॥ 67 ॥
तस्मिन् हते भ्रातरि रावणस्य तत् नैरृतानाम् बलम् अर्णव-आभम् । त्यक्त-आयुधम् केवल-जीवित-अर्थम् दुद्राव भिन्न-अर्णव-संनिकाशम् ॥ ६७ ॥
tasmin hate bhrātari rāvaṇasya tat nairṛtānām balam arṇava-ābham . tyakta-āyudham kevala-jīvita-artham dudrāva bhinna-arṇava-saṃnikāśam .. 67 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In