This overlay will guide you through the buttons:

| |
|
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् । भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ १॥
स्व-बलम् व्यथितम् दृष्ट्वा तुमुलम् लोम-हर्षणम् । भ्रातॄन् च निहतान् दृष्ट्वा शक्र-तुल्य-पराक्रमान् ॥ १॥
sva-balam vyathitam dṛṣṭvā tumulam loma-harṣaṇam . bhrātṝn ca nihatān dṛṣṭvā śakra-tulya-parākramān .. 1..
पितृव्यौ चापि सन्दृश्य समरे संनिपातितौ । युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसौत्तमौ ॥ २॥
पितृव्यौ च अपि सन्दृश्य समरे संनिपातितौ । युद्ध-उन्मत्तम् च मत्तम् च भ्रातरौ राक्षस-औत्तमौ ॥ २॥
pitṛvyau ca api sandṛśya samare saṃnipātitau . yuddha-unmattam ca mattam ca bhrātarau rākṣasa-auttamau .. 2..
चुकोप च महातेजा ब्रह्मदत्तवरो युधि । अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा ॥ ३॥
चुकोप च महा-तेजाः ब्रह्मदत्त-वरः युधि । अतिकायः अद्रि-सङ्काशः देव-दानव-दर्प-हा ॥ ३॥
cukopa ca mahā-tejāḥ brahmadatta-varaḥ yudhi . atikāyaḥ adri-saṅkāśaḥ deva-dānava-darpa-hā .. 3..
स भास्करसहस्रस्य सङ्घातमिव भास्वरम् । रथमारुह्म शक्रारिरभिदुद्राव वानरान् ॥ ४॥
स भास्कर-सहस्रस्य सङ्घातम् इव भास्वरम् । रथम् आरुह्म शक्रारिः अभिदुद्राव वानरान् ॥ ४॥
sa bhāskara-sahasrasya saṅghātam iva bhāsvaram . ratham āruhma śakrāriḥ abhidudrāva vānarān .. 4..
स विस्फार्य तदा चापं किरीटी मृष्टकुण्डलः । नाम संश्रावयामास ननाद च महास्वनम् ॥ ५॥
स विस्फार्य तदा चापम् किरीटी मृष्ट-कुण्डलः । नाम संश्रावयामास ननाद च महा-स्वनम् ॥ ५॥
sa visphārya tadā cāpam kirīṭī mṛṣṭa-kuṇḍalaḥ . nāma saṃśrāvayāmāsa nanāda ca mahā-svanam .. 5..
तेन सिंहप्रणादेन नामविश्रावणेन च । ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ ६॥
तेन सिंहप्रणादेन नाम-विश्रावणेन च । ज्या-शब्देन च भीमेन त्रासयामास वानरान् ॥ ६॥
tena siṃhapraṇādena nāma-viśrāvaṇena ca . jyā-śabdena ca bhīmena trāsayāmāsa vānarān .. 6..
ते दृष्टवा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः । भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश ॥ 7 ॥
ते दृष्टवा देह-माहात्म्यम् कुम्भकर्णः अयम् उत्थितः । भय-आर्ताः वानराः सर्वे विद्रवन्ति दिशः दश ॥ ७ ॥
te dṛṣṭavā deha-māhātmyam kumbhakarṇaḥ ayam utthitaḥ . bhaya-ārtāḥ vānarāḥ sarve vidravanti diśaḥ daśa .. 7 ..
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे । भयाद् वानरयोधास्ते विद्रवन्ति ततस्ततः ॥ 8 ॥
ते तस्य रूपम् आलोक्य यथा विष्णोः त्रिविक्रमे । भयात् वानर-योधाः ते विद्रवन्ति ततस् ततस् ॥ ८ ॥
te tasya rūpam ālokya yathā viṣṇoḥ trivikrame . bhayāt vānara-yodhāḥ te vidravanti tatas tatas .. 8 ..
तेऽतिकायं समासाद्य वानरा मूढचेतसः । शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ 9 ॥
ते अतिकायम् समासाद्य वानराः मूढ-चेतसः । शरण्यम् शरणम् जग्मुः लक्ष्मण-अग्रजम् आहवे ॥ ९ ॥
te atikāyam samāsādya vānarāḥ mūḍha-cetasaḥ . śaraṇyam śaraṇam jagmuḥ lakṣmaṇa-agrajam āhave .. 9 ..
ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् । ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत् ॥ 10 ॥
ततस् अतिकायम् काकुत्स्थः रथ-स्थम् पर्वत-उपमम् । ददर्श धन्विनम् दूरात् गर्जन्तम् काल-मेघ-वत् ॥ १० ॥
tatas atikāyam kākutsthaḥ ratha-stham parvata-upamam . dadarśa dhanvinam dūrāt garjantam kāla-megha-vat .. 10 ..
स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः । वानरान् सान्त्वयित्वा च विभीषणमुवाच ह ॥ 11 ॥
स तम् दृष्ट्वा महात्मानम् राघवः तु सु विस्मितः । वानरान् सान्त्वयित्वा च विभीषणम् उवाच ह ॥ ११ ॥
sa tam dṛṣṭvā mahātmānam rāghavaḥ tu su vismitaḥ . vānarān sāntvayitvā ca vibhīṣaṇam uvāca ha .. 11 ..
कोऽसौ पर्वतसङ्काशो धनुष्मान्हरिलोचनः । युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ 12 ॥
कः असौ पर्वत-सङ्काशः धनुष्मान् हरि-लोचनः । युक्ते हय-सहस्रेण विशाले स्यन्दने स्थितः ॥ १२ ॥
kaḥ asau parvata-saṅkāśaḥ dhanuṣmān hari-locanaḥ . yukte haya-sahasreṇa viśāle syandane sthitaḥ .. 12 ..
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः । अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ 13 ॥
यः एष निशितैः शूलैः सु तीक्ष्णैः प्रास-तोमरैः । अर्चिष्मद्भिः वृतः भाति भूतैः इव महेश्वरः ॥ १३ ॥
yaḥ eṣa niśitaiḥ śūlaiḥ su tīkṣṇaiḥ prāsa-tomaraiḥ . arciṣmadbhiḥ vṛtaḥ bhāti bhūtaiḥ iva maheśvaraḥ .. 13 ..
कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते । आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ 14 ॥
काल-जिह्वा-प्रकाशाभिः यः एषः अभिविराजते । आवृतः रथ-शक्तीभिः विद्युद्भिः इव तोयदः ॥ १४ ॥
kāla-jihvā-prakāśābhiḥ yaḥ eṣaḥ abhivirājate . āvṛtaḥ ratha-śaktībhiḥ vidyudbhiḥ iva toyadaḥ .. 14 ..
धनूंषि चास्य सज्जानि हेमपृष्ठानि सर्वशः । शोभयन्ति रथश्रेष्ठं शक्रचापमिवाम्बरम् ॥ 15 ॥
धनूंषि च अस्य सज्जानि हेम-पृष्ठानि सर्वशस् । शोभयन्ति रथ-श्रेष्ठम् शक्र-चापम् इव अम्बरम् ॥ १५ ॥
dhanūṃṣi ca asya sajjāni hema-pṛṣṭhāni sarvaśas . śobhayanti ratha-śreṣṭham śakra-cāpam iva ambaram .. 15 ..
य एष रक्षश्शार्दूलो रणभूमिं विराजयन् । अभ्येति रथिनां श्रेष्ठो रथेनादित्यवर्जसा ॥ 16 ॥
यः एष रक्षः-शार्दूलः रण-भूमिम् विराजयन् । अभ्येति रथिनाम् श्रेष्ठः रथेन आदित्य-वर्जसा ॥ १६ ॥
yaḥ eṣa rakṣaḥ-śārdūlaḥ raṇa-bhūmim virājayan . abhyeti rathinām śreṣṭhaḥ rathena āditya-varjasā .. 16 ..
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते । सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् ॥ 17 ॥
ध्वज-शृङ्ग-प्रतिष्ठेन राहुणा अभिविराजते । सूर्य-रश्मि-प्रभैः बाणैः दिशः दश विराजयन् ॥ १७ ॥
dhvaja-śṛṅga-pratiṣṭhena rāhuṇā abhivirājate . sūrya-raśmi-prabhaiḥ bāṇaiḥ diśaḥ daśa virājayan .. 17 ..
त्रिनतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम् । शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥ 18 ॥
त्रि-नतम् मेघ-निर्ह्रादम् हेम-पृष्ठम् अलङ्कृतम् । शतक्रतु-धनुः-प्रख्यम् धनुः च अस्य विराजते ॥ १८ ॥
tri-natam megha-nirhrādam hema-pṛṣṭham alaṅkṛtam . śatakratu-dhanuḥ-prakhyam dhanuḥ ca asya virājate .. 18 ..
सध्वजः सपताकश्च सानुकर्षो महारथः । चतुस्सादिसमायुक्तो मेघस्तनितनिस्वनः ॥ 19 ॥
स ध्वजः स पताकः च स अनुकर्षः महा-रथः । चतुर्-सादि-समायुक्तः मेघ-स्तनित-निस्वनः ॥ १९ ॥
sa dhvajaḥ sa patākaḥ ca sa anukarṣaḥ mahā-rathaḥ . catur-sādi-samāyuktaḥ megha-stanita-nisvanaḥ .. 19 ..
विंशतिर्दश चाष्टौ च तूणस्य रथमास्थिताः । कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥ 20 ॥
विंशतिः दश च अष्टौ च तूणस्य रथम् आस्थिताः । कार्मुकाणि च भीमानि ज्याः च काञ्चन-पिङ्गलाः ॥ २० ॥
viṃśatiḥ daśa ca aṣṭau ca tūṇasya ratham āsthitāḥ . kārmukāṇi ca bhīmāni jyāḥ ca kāñcana-piṅgalāḥ .. 20 ..
द्वौ च खड्गौ च पार्श्वस्थौ प्रदिप्तौ पार्श्वशोभितौ । चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ ॥ 21 ॥
द्वौ च खड्गौ च पार्श्व-स्थौ प्रदिप्तौ पार्श्व-शोभितौ । चतुर्-हस्त-त्सरुचितौ व्यक्त-हस्त-दश-आयतौ ॥ २१ ॥
dvau ca khaḍgau ca pārśva-sthau pradiptau pārśva-śobhitau . catur-hasta-tsarucitau vyakta-hasta-daśa-āyatau .. 21 ..
रक्तकण्ठगुणो धीरो महापर्वतसंनिभः । कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ 22 ॥
रक्त-कण्ठ-गुणः धीरः महा-पर्वत-संनिभः । कालः काल-महा-वक्त्रः मेघ-स्थः इव भास्करः ॥ २२ ॥
rakta-kaṇṭha-guṇaḥ dhīraḥ mahā-parvata-saṃnibhaḥ . kālaḥ kāla-mahā-vaktraḥ megha-sthaḥ iva bhāskaraḥ .. 22 ..
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते । शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः ॥ 23 ॥
काञ्चन-अङ्गद-नद्धाभ्याम् भुजाभ्याम् एष शोभते । शृङ्गाभ्याम् इव तुङ्गाभ्याम् हिमवान् पर्वत-उत्तमः ॥ २३ ॥
kāñcana-aṅgada-naddhābhyām bhujābhyām eṣa śobhate . śṛṅgābhyām iva tuṅgābhyām himavān parvata-uttamaḥ .. 23 ..
कुण्डलाभ्यांमुभाभ्यां च भाति वक्त्रं सुभिषणम् । पुनर्वस्वन्तरगतं परिपूर्णो निशाकर ॥ 24 ॥
कुण्डलाभ्याम् उभाभ्याम् च भाति वक्त्रम् सु भिषणम् । पुनर्वसु-अन्तर-गतम् परिपूर्णः निशाकर ॥ २४ ॥
kuṇḍalābhyām ubhābhyām ca bhāti vaktram su bhiṣaṇam . punarvasu-antara-gatam paripūrṇaḥ niśākara .. 24 ..
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् । यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥ 25 ॥
आचक्ष्व मे महा-बाहो त्वम् एनम् राक्षस-उत्तमम् । यम् दृष्ट्वा वानराः सर्वे भय-आर्ताः विद्रुताः दिशः ॥ २५ ॥
ācakṣva me mahā-bāho tvam enam rākṣasa-uttamam . yam dṛṣṭvā vānarāḥ sarve bhaya-ārtāḥ vidrutāḥ diśaḥ .. 25 ..
स पृष्ठो राजपुत्रेण रामेणामिततेजसा । आचचक्षे महातेजा राघवाय विभीषणः ॥ 26 ॥
स पृष्ठः राज-पुत्रेण रामेण अमित-तेजसा । आचचक्षे महा-तेजाः राघवाय विभीषणः ॥ २६ ॥
sa pṛṣṭhaḥ rāja-putreṇa rāmeṇa amita-tejasā . ācacakṣe mahā-tejāḥ rāghavāya vibhīṣaṇaḥ .. 26 ..
दशग्रीवो महातेजा राजा वैश्रवणानुजः । भीमकर्मा महोत्साहो रावणो राक्षसेश्वर ॥ 27 ॥
दशग्रीवः महा-तेजाः राजा वैश्रवण-अनुजः । भीम-कर्मा महा-उत्साहः रावणः राक्षस-ईश्वर ॥ २७ ॥
daśagrīvaḥ mahā-tejāḥ rājā vaiśravaṇa-anujaḥ . bhīma-karmā mahā-utsāhaḥ rāvaṇaḥ rākṣasa-īśvara .. 27 ..
तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो बले । वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः ॥ 28 ॥
तस्य आसीत् वीर्यवान् पुत्रः रावण-प्रतिमः बले । सर्व ॥ २८ ॥
tasya āsīt vīryavān putraḥ rāvaṇa-pratimaḥ bale . sarva .. 28 ..
अश्वपृष्ठे नागपृष्ठे खड्गे धनुषि कर्षणे । भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ॥ 29 ॥
अश्व-पृष्ठे नाग-पृष्ठे खड्गे धनुषि कर्षणे । भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ॥ २९ ॥
aśva-pṛṣṭhe nāga-pṛṣṭhe khaḍge dhanuṣi karṣaṇe . bhede sāntve ca dāne ca naye mantre ca saṃmataḥ .. 29 ..
यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया । तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ 30 ॥
यस्य बाहुम् समाश्रित्य लङ्का भवति निर्भया । तनयम् धान्यमालिन्याः अतिकायम् इमम् विदुः ॥ ३० ॥
yasya bāhum samāśritya laṅkā bhavati nirbhayā . tanayam dhānyamālinyāḥ atikāyam imam viduḥ .. 30 ..
एतेनाराधितो ब्रह्मा तपसा भावितात्मना । अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥ 31 ॥
एतेन आराधितः ब्रह्मा तपसा भावितात्मना । अस्त्राणि च अपि अवाप्तानि रिपवः च पराजिताः ॥ ३१ ॥
etena ārādhitaḥ brahmā tapasā bhāvitātmanā . astrāṇi ca api avāptāni ripavaḥ ca parājitāḥ .. 31 ..
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा । एतच्च कवचं दिव्यं रथश्च रविभास्करः ॥ 32 ॥
सुर-असुरैः अवध्य-त्वम् दत्तम् अस्मै स्वयम्भुवा । एतत् च कवचम् दिव्यम् रथः च रवि-भास्करः ॥ ३२ ॥
sura-asuraiḥ avadhya-tvam dattam asmai svayambhuvā . etat ca kavacam divyam rathaḥ ca ravi-bhāskaraḥ .. 32 ..
एतेन शतशो देवा दानवाश्च पराजिताः । रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः ॥ 33 ॥
एतेन शतशस् देवाः दानवाः च पराजिताः । रक्षितानि च रक्षामि यक्षाः च अपि निषूदिताः ॥ ३३ ॥
etena śataśas devāḥ dānavāḥ ca parājitāḥ . rakṣitāni ca rakṣāmi yakṣāḥ ca api niṣūditāḥ .. 33 ..
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः । पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ॥ 34 ॥
वज्रम् विष्टम्भितम् येन बाणैः इन्द्रस्य धीमतः । पाशः सलिलराजस्य युद्धे प्रतिहतः तथा ॥ ३४ ॥
vajram viṣṭambhitam yena bāṇaiḥ indrasya dhīmataḥ . pāśaḥ salilarājasya yuddhe pratihataḥ tathā .. 34 ..
एषोऽतिकायो बलवान् राक्षसानामथर्षभः । स रावणसुतो धीमान् देवदनवदर्पहा ॥ 35 ॥
एषः अतिकायः बलवान् राक्षसानाम् अथ ऋषभः । स रावण-सुतः धीमान् ॥ ३५ ॥
eṣaḥ atikāyaḥ balavān rākṣasānām atha ṛṣabhaḥ . sa rāvaṇa-sutaḥ dhīmān .. 35 ..
तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव । पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥ 36 ॥
तत् अस्मिन् क्रियताम् यत्नः क्षिप्रम् पुरुष-पुङ्गव । पुरा वानर-सैन्यानि क्षयम् नयति सायकैः ॥ ३६ ॥
tat asmin kriyatām yatnaḥ kṣipram puruṣa-puṅgava . purā vānara-sainyāni kṣayam nayati sāyakaiḥ .. 36 ..
ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम् । विस्फारयामास धनुर्ननाद च पुनः पुनः ॥ 37 ॥
ततस् अतिकायः बलवान् प्रविश्य हरि-वाहिनीम् । विस्फारयामास धनुः ननाद च पुनर् पुनर् ॥ ३७ ॥
tatas atikāyaḥ balavān praviśya hari-vāhinīm . visphārayāmāsa dhanuḥ nanāda ca punar punar .. 37 ..
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् । अभिपेतुर्महात्मानो ये प्रधानाः वनौकसः ॥ 38 ॥
तम् भीम-वपुषम् दृष्ट्वा रथ-स्थम् रथिनाम् वरम् । अभिपेतुः महात्मानः ये प्रधानाः वनौकसः ॥ ३८ ॥
tam bhīma-vapuṣam dṛṣṭvā ratha-stham rathinām varam . abhipetuḥ mahātmānaḥ ye pradhānāḥ vanaukasaḥ .. 38 ..
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च । पादपैर्गिरिशृङ्गैश् च युगपत् समभिद्रवन् ॥ 39 ॥
कुमुदः द्विविदः मैन्दः नीलः शरभः एव च । पादपैः गिरि-शृङ्गैः च युगपद् समभिद्रवन् ॥ ३९ ॥
kumudaḥ dvividaḥ maindaḥ nīlaḥ śarabhaḥ eva ca . pādapaiḥ giri-śṛṅgaiḥ ca yugapad samabhidravan .. 39 ..
तेषां वृक्षांश्च शैलांश्च शरैः कनकभूषणैः । अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥ 40 ॥
तेषाम् वृक्षान् च शैलान् च शरैः कनक-भूषणैः । अतिकायः महा-तेजाः चिच्छेद-अस्त्र-विदाम् वरः ॥ ४० ॥
teṣām vṛkṣān ca śailān ca śaraiḥ kanaka-bhūṣaṇaiḥ . atikāyaḥ mahā-tejāḥ ciccheda-astra-vidām varaḥ .. 40 ..
तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बली । विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ॥ 41 ॥
तान् च एव सरान् स हरीन् शरैः सर्व-आयसैः बली । विव्याध अभिमुखः सङ्ख्ये भीम-कायः निशाचरः ॥ ४१ ॥
tān ca eva sarān sa harīn śaraiḥ sarva-āyasaiḥ balī . vivyādha abhimukhaḥ saṅkhye bhīma-kāyaḥ niśācaraḥ .. 41 ..
तेऽर्दिता बाणबर्षेण भिन्नगात्राः पराजिताः । न शेकुरतिकायस्य प्रतिकर्तुं महाहवे ॥ 42 ॥
ते अर्दिताः बाण-बर्षेण भिन्न-गात्राः पराजिताः । न शेकुः अतिकायस्य प्रतिकर्तुम् महा-आहवे ॥ ४२ ॥
te arditāḥ bāṇa-barṣeṇa bhinna-gātrāḥ parājitāḥ . na śekuḥ atikāyasya pratikartum mahā-āhave .. 42 ..
तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः । मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ॥ 43 ॥
तत् सैन्यम् हरि-वीराणाम् त्रासयामास राक्षसः । मृग-यूथम् इव क्रुद्धः हरिः यौवन-दर्पितः ॥ ४३ ॥
tat sainyam hari-vīrāṇām trāsayāmāsa rākṣasaḥ . mṛga-yūtham iva kruddhaḥ hariḥ yauvana-darpitaḥ .. 43 ..
स राषसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कं चित् । उत्पत्य रामं स धनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥ 44 ॥
स राषस-इन्द्रः हरि-सैन्य-मध्ये न अयुध्यमानम् निजघान कम् चित् । उत्पत्य रामम् स धनुः कलापी स गर्वितम् वाक्यम् इदम् बभाषे ॥ ४४ ॥
sa rāṣasa-indraḥ hari-sainya-madhye na ayudhyamānam nijaghāna kam cit . utpatya rāmam sa dhanuḥ kalāpī sa garvitam vākyam idam babhāṣe .. 44 ..
रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कं चन योधयामि । यस्यास्ति शक्तिर्व्यवसाय युक्ता ददातुं मे क्षिप्रमिहाद्य युद्धम् ॥ 45 ॥
रथे स्थितः अहम् शर-चाप-पाणिः न प्राकृतम् कम् चन योधयामि । यस्य अस्ति शक्तिः व्यवसाय युक्ता ददातुम् मे क्षिप्रम् इह अद्य युद्धम् ॥ ४५ ॥
rathe sthitaḥ aham śara-cāpa-pāṇiḥ na prākṛtam kam cana yodhayāmi . yasya asti śaktiḥ vyavasāya yuktā dadātum me kṣipram iha adya yuddham .. 45 ..
तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता । अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ 46 ॥
तत् तस्य वाक्यम् ब्रुवतः निशम्य चुकोप सौमित्रिः अमित्र-हन्ता । अ मृष्यमाणः च समुत्पपात जग्राह चापम् च ततस् स्मयित्वा ॥ ४६ ॥
tat tasya vākyam bruvataḥ niśamya cukopa saumitriḥ amitra-hantā . a mṛṣyamāṇaḥ ca samutpapāta jagrāha cāpam ca tatas smayitvā .. 46 ..
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् । पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ 47 ॥
क्रुद्धः सौमित्रिः उत्पत्य तूणात् आक्षिप्य सायकम् । पुरस्तात् अतिकायस्य विचकर्ष महत् धनुः ॥ ४७ ॥
kruddhaḥ saumitriḥ utpatya tūṇāt ākṣipya sāyakam . purastāt atikāyasya vicakarṣa mahat dhanuḥ .. 47 ..
पूरयन्स महीं सर्वामाकाशं सागरं दिशः । ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ॥ 48 ॥
पूरयन् स महीम् सर्वाम् आकाशम् सागरम् दिशः । ज्या-शब्दः लक्ष्मणस्य उग्रः त्रासयन् रजनीचरान् ॥ ४८ ॥
pūrayan sa mahīm sarvām ākāśam sāgaram diśaḥ . jyā-śabdaḥ lakṣmaṇasya ugraḥ trāsayan rajanīcarān .. 48 ..
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा । विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ 49 ॥
सौमित्रेः चाप-निर्घोषम् श्रुत्वा प्रतिभयम् तदा । विसिष्मिये महा-तेजाः राक्षस-इन्द्र-आत्मजः बली ॥ ४९ ॥
saumitreḥ cāpa-nirghoṣam śrutvā pratibhayam tadā . visiṣmiye mahā-tejāḥ rākṣasa-indra-ātmajaḥ balī .. 49 ..
तदातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् । आदाय निशितं बाणमिदं वचनमब्रवीत् ॥ 50 ॥
तदा अतिकायः कुपितः दृष्ट्वा लक्ष्मणम् उत्थितम् । आदाय निशितम् बाणम् इदम् वचनम् अब्रवीत् ॥ ५० ॥
tadā atikāyaḥ kupitaḥ dṛṣṭvā lakṣmaṇam utthitam . ādāya niśitam bāṇam idam vacanam abravīt .. 50 ..
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः । गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥ 51 ॥
बालः त्वम् असि सौमित्रे विक्रमेषु अविचक्षणः । गच्छ किम् काल-सदृशम् माम् योधयितुम् इच्छसि ॥ ५१ ॥
bālaḥ tvam asi saumitre vikrameṣu avicakṣaṇaḥ . gaccha kim kāla-sadṛśam mām yodhayitum icchasi .. 51 ..
न हि मद्बाहुसृष्टाना बाणांना हिमवानपि । सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥ 52 ॥
न हि मद्-बाहु-सृष्टानाः हिमवान् अपि । सोढुम् उत्सहते वेगम् अन्तरिक्षम् अथो मही ॥ ५२ ॥
na hi mad-bāhu-sṛṣṭānāḥ himavān api . soḍhum utsahate vegam antarikṣam atho mahī .. 52 ..
सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि । न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः ॥ 53 ॥
सुख-प्रसुप्तम् कालाग्निम् प्रबोधयितुम् इच्छसि । न्यस्य चापम् निवर्तस्व मा प्राणान् जहि मद्-गतः ॥ ५३ ॥
sukha-prasuptam kālāgnim prabodhayitum icchasi . nyasya cāpam nivartasva mā prāṇān jahi mad-gataḥ .. 53 ..
अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि । तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् ॥ 54 ॥
अथवा त्वम् प्रतिष्टब्धः न निवर्तितुम् इच्छसि । तिष्ठ प्राणान् परित्यज्य गमिष्यसि यम-क्षयम् ॥ ५४ ॥
athavā tvam pratiṣṭabdhaḥ na nivartitum icchasi . tiṣṭha prāṇān parityajya gamiṣyasi yama-kṣayam .. 54 ..
पश्य मे निशितान्बाणानरिदर्पनिषूदनान् । ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ॥ 55 ॥
पश्य मे निशितान् बाणान् अरि-दर्प-निषूदनान् । ईश्वर-आयुध-सङ्काशान् तप्त-काञ्चन-भूषणान् ॥ ५५ ॥
paśya me niśitān bāṇān ari-darpa-niṣūdanān . īśvara-āyudha-saṅkāśān tapta-kāñcana-bhūṣaṇān .. 55 ..
एष ते सर्पसङ्काशो बाणः पास्यति शोणितम् । मृगराज इव क्रुद्धो नागराजस्य शोणितम् ॥ 56 ॥
एष ते सर्प-सङ्काशः बाणः पास्यति शोणितम् । मृगराजः इव क्रुद्धः नाग-राजस्य शोणितम् ॥ ५६ ॥
eṣa te sarpa-saṅkāśaḥ bāṇaḥ pāsyati śoṇitam . mṛgarājaḥ iva kruddhaḥ nāga-rājasya śoṇitam .. 56 ..
श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः । स सञ्चुकोपातिबलो बृहच्छ्रीर् उवाच वाक्यं च ततो महार्थम् ॥ 57 ॥
श्रुत्वा अतिकायस्य वचः स रोषम् स गर्वितम् संयति राज-पुत्रः । स सञ्चुकोप अतिबलः बृहत्-श्रीः उवाच वाक्यम् च ततस् महार्थम् ॥ ५७ ॥
śrutvā atikāyasya vacaḥ sa roṣam sa garvitam saṃyati rāja-putraḥ . sa sañcukopa atibalaḥ bṛhat-śrīḥ uvāca vākyam ca tatas mahārtham .. 57 ..
न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति । मयि स्थिते धन्विनि बाणपाणौ निदर्शयस्वात्मबलं दुरात्मन् ॥ 58 ॥
न वाक्य-मात्रेण भवान् प्रधानः न कत्थनात् सत्-पुरुषाः भवन्ति । मयि स्थिते धन्विनि बाण-पाणौ निदर्शयस्व आत्म-बलम् दुरात्मन् ॥ ५८ ॥
na vākya-mātreṇa bhavān pradhānaḥ na katthanāt sat-puruṣāḥ bhavanti . mayi sthite dhanvini bāṇa-pāṇau nidarśayasva ātma-balam durātman .. 58 ..
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि । पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ 59 ॥
कर्मणा सूचय आत्मानम् न विकत्थितुम् अर्हसि । पौरुषेण तु यः युक्तः स तु शूरः इति स्मृतः ॥ ५९ ॥
karmaṇā sūcaya ātmānam na vikatthitum arhasi . pauruṣeṇa tu yaḥ yuktaḥ sa tu śūraḥ iti smṛtaḥ .. 59 ..
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः । शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥ 60 ॥
सर्व-आयुध-समायुक्तः धन्वी त्वम् रथम् आस्थितः । शरैः वा यदि वा अपि अस्त्रैः दर्शयस्व पराक्रमम् ॥ ६० ॥
sarva-āyudha-samāyuktaḥ dhanvī tvam ratham āsthitaḥ . śaraiḥ vā yadi vā api astraiḥ darśayasva parākramam .. 60 ..
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः । मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ॥ 61 ॥
ततस् शिरः ते निशितैः पातयिष्यामि अहम् शरैः । मारुतः काल-सम्पक्वम् वृन्तात् ताल-फलम् यथा ॥ ६१ ॥
tatas śiraḥ te niśitaiḥ pātayiṣyāmi aham śaraiḥ . mārutaḥ kāla-sampakvam vṛntāt tāla-phalam yathā .. 61 ..
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः । पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ॥ 62 ॥
अद्य ते मामकाः बाणाः तप्त-काञ्चन-भूषणाः । पास्यन्ति रुधिरम् गात्रात् बाण-शल्य-अन्तर-उत्थितम् ॥ ६२ ॥
adya te māmakāḥ bāṇāḥ tapta-kāñcana-bhūṣaṇāḥ . pāsyanti rudhiram gātrāt bāṇa-śalya-antara-utthitam .. 62 ..
बालोऽयमिति विज्ञाय न चावज्ञातुमर्हसि । बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ॥ 63 ॥
बालः अयम् इति विज्ञाय न च अवज्ञातुम् अर्हसि । बालः वा यदि वा वृद्धः मृत्युम् जानीहि संयुगे ॥ ६३ ॥
bālaḥ ayam iti vijñāya na ca avajñātum arhasi . bālaḥ vā yadi vā vṛddhaḥ mṛtyum jānīhi saṃyuge .. 63 ..
बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिविक्रमैः । लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् । अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ 64 ॥
बालेन विष्णुना लोकाः त्रयः क्रान्ताः त्रिविक्रमैः । लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परम-अर्थवत् । अतिकायः प्रचुक्रोध बाणम् च उत्तमम् आददे ॥ ६४ ॥
bālena viṣṇunā lokāḥ trayaḥ krāntāḥ trivikramaiḥ . lakṣmaṇasya vacaḥ śrutvā hetumat parama-arthavat . atikāyaḥ pracukrodha bāṇam ca uttamam ādade .. 64 ..
ततो विद्याधरा भूता देवा दैत्या महर्षयः । गुह्यकाश्च महात्मानस्तद्युद्धं द्रष्टुमागमान् ॥ 65 ॥
ततस् विद्याधराः भूताः देवाः दैत्याः महा-ऋषयः । गुह्यकाः च महात्मानः तत् युद्धम् द्रष्टुम् आगमान् ॥ ६५ ॥
tatas vidyādharāḥ bhūtāḥ devāḥ daityāḥ mahā-ṛṣayaḥ . guhyakāḥ ca mahātmānaḥ tat yuddham draṣṭum āgamān .. 65 ..
ततोऽतिकायः कुपितश्चापमारोप्य सायकम् । लक्ष्मणस्य प्रचिक्षेप सङ्क्षिपन्निव चाम्बरम् ॥ 66 ॥
ततस् अतिकायः कुपितः चापम् आरोप्य सायकम् । लक्ष्मणस्य प्रचिक्षेप सङ्क्षिपन् इव च अम्बरम् ॥ ६६ ॥
tatas atikāyaḥ kupitaḥ cāpam āropya sāyakam . lakṣmaṇasya pracikṣepa saṅkṣipan iva ca ambaram .. 66 ..
तमापतन्तं निशितं शरमाशीविषोपमम् । अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ॥ 67 ॥
तम् आपतन्तम् निशितम् शरम् आशीविष-उपमम् । अर्धचन्द्रेण चिच्छेद लक्ष्मणः पर-वीर-हा ॥ ६७ ॥
tam āpatantam niśitam śaram āśīviṣa-upamam . ardhacandreṇa ciccheda lakṣmaṇaḥ para-vīra-hā .. 67 ..
तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् । अतिकायो भृशं क्रुद्धः पञ्चबाणान्समादधे ॥ 68 ॥
तम् निकृत्तम् शरम् दृष्ट्वा कृत्त-भोगम् इव उरगम् । अतिकायः भृशम् क्रुद्धः पञ्चबाणान् समादधे ॥ ६८ ॥
tam nikṛttam śaram dṛṣṭvā kṛtta-bhogam iva uragam . atikāyaḥ bhṛśam kruddhaḥ pañcabāṇān samādadhe .. 68 ..
ताञ्शरान्सम्प्रचिक्षेप लक्ष्मणाय निशाचरः । तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद भरतानुजः ॥ 69 ॥
तान् शरान् सम्प्रचिक्षेप लक्ष्मणाय निशाचरः । तान् अप्राप्तान् शितैः बाणैः चिच्छेद भरत-अनुजः ॥ ६९ ॥
tān śarān sampracikṣepa lakṣmaṇāya niśācaraḥ . tān aprāptān śitaiḥ bāṇaiḥ ciccheda bharata-anujaḥ .. 69 ..
स तांश्छित्त्वा शितैर्बाणैर्लक्ष्मणः परवीरहा । आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ 70 ॥
स तान् छित्त्वा शितैः बाणैः लक्ष्मणः पर-वीर-हा । आददे निशितम् बाणम् ज्वलन्तम् इव तेजसा ॥ ७० ॥
sa tān chittvā śitaiḥ bāṇaiḥ lakṣmaṇaḥ para-vīra-hā . ādade niśitam bāṇam jvalantam iva tejasā .. 70 ..
तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः । विचकर्ष च वेगेन विससर्ज च सायकम् ॥ 71 ॥
तम् आदाय धनुः श्रेष्ठे योजयामास लक्ष्मणः । विचकर्ष च वेगेन विससर्ज च सायकम् ॥ ७१ ॥
tam ādāya dhanuḥ śreṣṭhe yojayāmāsa lakṣmaṇaḥ . vicakarṣa ca vegena visasarja ca sāyakam .. 71 ..
पूर्णायतविसृष्टेन शरेण नतपर्वणा । ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ 72 ॥
पूर्ण-आयत-विसृष्टेन शरेण नत-पर्वणा । ललाटे राक्षस-श्रेष्ठम् आजघान स वीर्यवान् ॥ ७२ ॥
pūrṇa-āyata-visṛṣṭena śareṇa nata-parvaṇā . lalāṭe rākṣasa-śreṣṭham ājaghāna sa vīryavān .. 72 ..
स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः । ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥ 73 ॥
स ललाटे शरः मग्नः तस्य भीमस्य रक्षसः । ददृशे शोणितेन अक्तः पन्नग-इन्द्रः इव अचले ॥ ७३ ॥
sa lalāṭe śaraḥ magnaḥ tasya bhīmasya rakṣasaḥ . dadṛśe śoṇitena aktaḥ pannaga-indraḥ iva acale .. 73 ..
राक्षसः प्रचकम्पेऽथ लक्ष्मणेषु प्रपीडितः । रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ॥ 74 ॥
राक्षसः प्रचकम्पे अथ लक्ष्मणेषु प्रपीडितः । रुद्र-बाण-हतम् घोरम् यथा त्रिपुर-गोपुरम् ॥ ७४ ॥
rākṣasaḥ pracakampe atha lakṣmaṇeṣu prapīḍitaḥ . rudra-bāṇa-hatam ghoram yathā tripura-gopuram .. 74 ..
चिन्तयामास चाश्वस्य विमृश्य च महाबलः । साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः ॥ 75 ॥
चिन्तयामास च आश्वस्य विमृश्य च महा-बलः । साधु बाण-निपातेन श्लाघनीयः असि मे रिपुः ॥ ७५ ॥
cintayāmāsa ca āśvasya vimṛśya ca mahā-balaḥ . sādhu bāṇa-nipātena ślāghanīyaḥ asi me ripuḥ .. 75 ..
विधार्यैवं विदार्यास्यं विनम्य च महाभुजौ । स रथोपस्थमास्थाय रथेन प्रचचार ह ॥ 76 ॥
विधार्य एवम् विदार्य आस्यम् विनम्य च महा-भुजौ । स रथोपस्थम् आस्थाय रथेन प्रचचार ह ॥ ७६ ॥
vidhārya evam vidārya āsyam vinamya ca mahā-bhujau . sa rathopastham āsthāya rathena pracacāra ha .. 76 ..
एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः । आददे सन्दधे चापि विचकर्षोत्ससर्ज च ॥ 77 ॥
एकम् त्रीन् पञ्च सप्त इति सायकान् राक्षस-ऋषभः । आददे सन्दधे च अपि विचकर्ष उत्ससर्ज च ॥ ७७ ॥
ekam trīn pañca sapta iti sāyakān rākṣasa-ṛṣabhaḥ . ādade sandadhe ca api vicakarṣa utsasarja ca .. 77 ..
ते बाणाः कालसङ्काशा राक्षसेन्द्रधनुश्च्युताः । हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ 78 ॥
ते बाणाः काल-सङ्काशाः राक्षस-इन्द्र-धनुः-च्युताः । हेम-पुङ्खाः रवि-प्रख्याः चक्रुः दीप्तम् इव अम्बरम् ॥ ७८ ॥
te bāṇāḥ kāla-saṅkāśāḥ rākṣasa-indra-dhanuḥ-cyutāḥ . hema-puṅkhāḥ ravi-prakhyāḥ cakruḥ dīptam iva ambaram .. 78 ..
ततस्तान् राक्षसोत्सृष्टाञ्शरौघान् राघवानुजः । असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥ 79 ॥
ततस् तान् राक्षस-उत्सृष्टान् शर-ओघान् राघव-अनुजः । असम्भ्रान्तः प्रचिच्छेद निशितैः बहुभिः शरैः ॥ ७९ ॥
tatas tān rākṣasa-utsṛṣṭān śara-oghān rāghava-anujaḥ . asambhrāntaḥ praciccheda niśitaiḥ bahubhiḥ śaraiḥ .. 79 ..
ताञ्शरान्युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः । चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ 80 ॥
तान् शरान् युधि सम्प्रेक्ष्य निकृत्तान् रावण-आत्मजः । चुकोप त्रिदश-इन्द्र-अरिः जग्राह निशितम् शरम् ॥ ८० ॥
tān śarān yudhi samprekṣya nikṛttān rāvaṇa-ātmajaḥ . cukopa tridaśa-indra-ariḥ jagrāha niśitam śaram .. 80 ..
स सन्धाय महातेजास्तं बाणं सहसोत्सृजत् । तेन सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ 81 ॥
स सन्धाय महा-तेजाः तम् बाणम् सहसा उत्सृजत् । तेन सौमित्रिम् आयान्तम् आजघान स्तनान्तरे ॥ ८१ ॥
sa sandhāya mahā-tejāḥ tam bāṇam sahasā utsṛjat . tena saumitrim āyāntam ājaghāna stanāntare .. 81 ..
अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि । सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥ 82 ॥
अतिकायेन सौमित्रिः ताडितः युधि वक्षसि । सुस्राव रुधिरम् तीव्रम् मदम् मत्तः इव द्विपः ॥ ८२ ॥
atikāyena saumitriḥ tāḍitaḥ yudhi vakṣasi . susrāva rudhiram tīvram madam mattaḥ iva dvipaḥ .. 82 ..
स चकार तदात्मानं विशल्यं सहसा विभुः । जग्राह च शरं तीष्णमस्त्रेणापि समाददे ॥ 83 ॥
स चकार तदा आत्मानम् विशल्यम् सहसा विभुः । जग्राह च शरम् तीष्णम् अस्त्रेण अपि समाददे ॥ ८३ ॥
sa cakāra tadā ātmānam viśalyam sahasā vibhuḥ . jagrāha ca śaram tīṣṇam astreṇa api samādade .. 83 ..
आग्नेयेन तदास्त्रेण योजयामास सायकम् । स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥ 84 ॥
आग्नेयेन तदा अस्त्रेण योजयामास सायकम् । स जज्वाल तदा बाणः धनुष्यस्य महात्मनः ॥ ८४ ॥
āgneyena tadā astreṇa yojayāmāsa sāyakam . sa jajvāla tadā bāṇaḥ dhanuṣyasya mahātmanaḥ .. 84 ..
अतिकायोऽतितेजस्वी रौद्रमस्त्रं समाददे । तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् ॥ 85 ॥
अतिकायः अति तेजस्वी रौद्रम् अस्त्रम् समाददे । तेन बाणम् भुजङ्ग-आभम् हेम-पुङ्खम् अयोजयत् ॥ ८५ ॥
atikāyaḥ ati tejasvī raudram astram samādade . tena bāṇam bhujaṅga-ābham hema-puṅkham ayojayat .. 85 ..
ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम् । अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ 86 ॥
ततस् तम् ज्वलितम् घोरम् लक्ष्मणः शरम् आहितम् । अतिकायाय चिक्षेप काल-दण्डम् इव अन्तकः ॥ ८६ ॥
tatas tam jvalitam ghoram lakṣmaṇaḥ śaram āhitam . atikāyāya cikṣepa kāla-daṇḍam iva antakaḥ .. 86 ..
आग्नेयास्त्राभिसंयुक्तं दृष्ट्वा बाणं निशाचरः । उत्ससर्ज तदा बाणं रौद्रं सूर्यास्त्रयोजितम् ॥ 87 ॥
आग्नेय-अस्त्र-अभिसंयुक्तम् दृष्ट्वा बाणम् निशाचरः । उत्ससर्ज तदा बाणम् रौद्रम् सूर्य-अस्त्र-योजितम् ॥ ८७ ॥
āgneya-astra-abhisaṃyuktam dṛṣṭvā bāṇam niśācaraḥ . utsasarja tadā bāṇam raudram sūrya-astra-yojitam .. 87 ..
तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः । तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ ॥ 88 ॥
तौ उभौ अम्बरे बाणौ अन्योन्यम् अभिजघ्नतुः । तेजसा सम्प्रदीप्त-अग्रौ क्रुद्धौ इव भुजम् गमौ ॥ ८८ ॥
tau ubhau ambare bāṇau anyonyam abhijaghnatuḥ . tejasā sampradīpta-agrau kruddhau iva bhujam gamau .. 88 ..
तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले । ॥ 89 ॥
तौ अन्योन्यम् विनिर्दह्य पेततुः धरणी-तले । ॥ ८९ ॥
tau anyonyam vinirdahya petatuḥ dharaṇī-tale . .. 89 ..
निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ । तावुभौ दीप्यमानौ स्म न भ्राजेते महीतले ॥ 90 ॥
निरर्चिषौ भस्म-कृतौ न भ्राजेते शर-उत्तमौ । तौ उभौ दीप्यमानौ स्म न भ्राजेते मही-तले ॥ ९० ॥
nirarciṣau bhasma-kṛtau na bhrājete śara-uttamau . tau ubhau dīpyamānau sma na bhrājete mahī-tale .. 90 ..
ततोऽतिकायः सङ्क्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् । तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् ॥ 91 ॥
ततस् अतिकायः सङ्क्रुद्धः तु अस्त्रम् ऐषीकम् उत्सृजत् । तत् प्रचिच्छेद सौमित्रिः अस्त्रम् ऐन्द्रेण वीर्यवान् ॥ ९१ ॥
tatas atikāyaḥ saṅkruddhaḥ tu astram aiṣīkam utsṛjat . tat praciccheda saumitriḥ astram aindreṇa vīryavān .. 91 ..
ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः । याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् ॥ 92 ॥
ऐषीकम् निहतम् दृष्ट्वा कुमारः रावण-आत्मजः । याम्येन अस्त्रेण सङ्क्रुद्धः योजयामास सायकम् ॥ ९२ ॥
aiṣīkam nihatam dṛṣṭvā kumāraḥ rāvaṇa-ātmajaḥ . yāmyena astreṇa saṅkruddhaḥ yojayāmāsa sāyakam .. 92 ..
ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः । वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः ॥ 93 ॥
ततस् तत् अस्त्रम् चिक्षेप लक्ष्मणाय निशाचरः । वायव्येन तत् अस्त्रम् तु निजघान स लक्ष्मणः ॥ ९३ ॥
tatas tat astram cikṣepa lakṣmaṇāya niśācaraḥ . vāyavyena tat astram tu nijaghāna sa lakṣmaṇaḥ .. 93 ..
अथैनं शरधाराभिर्धाराभिरिव तोयदः । अभ्यवर्षत सङ्क्रुद्धो लक्ष्मणो रावणात्मजम् ॥ 94 ॥
अथ एनम् शर-धाराभिः धाराभिः इव तोयदः । अभ्यवर्षत सङ्क्रुद्धः लक्ष्मणः रावण-आत्मजम् ॥ ९४ ॥
atha enam śara-dhārābhiḥ dhārābhiḥ iva toyadaḥ . abhyavarṣata saṅkruddhaḥ lakṣmaṇaḥ rāvaṇa-ātmajam .. 94 ..
तेऽतिकायं समासाद्य कवचे वज्रभूषिते । भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ 95 ॥
ते अतिकायम् समासाद्य कवचे वज्र-भूषिते । भग्न-अग्र-शल्याः सहसा पेतुः बाणाः मही-तले ॥ ९५ ॥
te atikāyam samāsādya kavace vajra-bhūṣite . bhagna-agra-śalyāḥ sahasā petuḥ bāṇāḥ mahī-tale .. 95 ..
तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा । अभ्यवर्षत बाणानां सहस्रेण महायशाः ॥ 96 ॥
तान् मोघान् अभिसम्प्रेक्ष्य लक्ष्मणः पर-वीर-हा । अभ्यवर्षत बाणानाम् सहस्रेण महा-यशाः ॥ ९६ ॥
tān moghān abhisamprekṣya lakṣmaṇaḥ para-vīra-hā . abhyavarṣata bāṇānām sahasreṇa mahā-yaśāḥ .. 96 ..
स वृष्यमाणो बाणौघैरतिकायो महाबलः । अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे ॥ 97 ॥
स वृष्यमाणः बाण-ओघैः अतिकायः महा-बलः । अवध्य-कवचः सङ्ख्ये राक्षसः ना एव विव्यथे ॥ ९७ ॥
sa vṛṣyamāṇaḥ bāṇa-oghaiḥ atikāyaḥ mahā-balaḥ . avadhya-kavacaḥ saṅkhye rākṣasaḥ nā eva vivyathe .. 97 ..
शरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत् । स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह ॥ 98 ॥
शरम् च आशीविष-आकारम् लक्ष्मणाय व्यपासृजत् । स तेन विद्धः सौमित्रिः मर्म-देशे शरेण ह ॥ ९८ ॥
śaram ca āśīviṣa-ākāram lakṣmaṇāya vyapāsṛjat . sa tena viddhaḥ saumitriḥ marma-deśe śareṇa ha .. 98 ..
मुहूर्तमात्रं निस्संज्ञो ह्यभवच्छत्रुतापनः । ततः स्संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः ॥ 99 ॥
मुहूर्त-मात्रम् निस्संज्ञः हि अभवत् शत्रु-तापनः । ततस् स्संज्ञाम् उपालभ्य चतुर्भिः सायक-उत्तमैः ॥ ९९ ॥
muhūrta-mātram nissaṃjñaḥ hi abhavat śatru-tāpanaḥ . tatas ssaṃjñām upālabhya caturbhiḥ sāyaka-uttamaiḥ .. 99 ..
निजघान हयान् सङ्ख्ये सारथिं च महाबलः । ध्वजस्योन्मथनं कृत्वा शरवर्षैररिन्दमः ॥ 100 ॥
निजघान हयान् सङ्ख्ये सारथिम् च महा-बलः । ध्वजस्य उन्मथनम् कृत्वा शर-वर्षैः अरिन्दमः ॥ १०० ॥
nijaghāna hayān saṅkhye sārathim ca mahā-balaḥ . dhvajasya unmathanam kṛtvā śara-varṣaiḥ arindamaḥ .. 100 ..
असम्भ्रान्तः स सौमित्रिस्तान्शरानभिलक्षितान् । मुमोच लक्ष्मणो बाणान् वधार्थं तस्य रक्षसः ॥ 101 ॥
असम्भ्रान्तः स सौमित्रिः तान् शरान् अभिलक्षितान् । मुमोच लक्ष्मणः बाणान् वध-अर्थम् तस्य रक्षसः ॥ १०१ ॥
asambhrāntaḥ sa saumitriḥ tān śarān abhilakṣitān . mumoca lakṣmaṇaḥ bāṇān vadha-artham tasya rakṣasaḥ .. 101 ..
न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः । अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ॥ 102 ॥
न शशाक रुजम् कर्तुम् युधि तस्य नर-उत्तमः । अथा एनम् अभ्युपागम्य वायुः वाक्यम् उवाच ह ॥ १०२ ॥
na śaśāka rujam kartum yudhi tasya nara-uttamaḥ . athā enam abhyupāgamya vāyuḥ vākyam uvāca ha .. 102 ..
ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः । ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा । अवध्य एष ह्यन्येषामस्त्राणां कवची बली ॥ 103 ॥
ब्रह्म-दत्त-वरः हि एष अवध्य कवच-आवृतः । ब्राह्मेण अस्त्रेण भिन्धि एनम् एष वध्यः हि ना अन्यथा । अवध्यः एष हि अन्येषाम् अस्त्राणाम् कवची बली ॥ १०३ ॥
brahma-datta-varaḥ hi eṣa avadhya kavaca-āvṛtaḥ . brāhmeṇa astreṇa bhindhi enam eṣa vadhyaḥ hi nā anyathā . avadhyaḥ eṣa hi anyeṣām astrāṇām kavacī balī .. 103 ..
ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः । समादधे बाणमथोग्रवेगं तद्ब्राह्ममस्त्रं सहसा नियुज्य ॥ 104 ॥
ततस् तु वायोः वचनम् निशम्य सौमित्रिः इन्द्र-प्रतिमान-वीर्यः । समादधे बाणम् अथ उग्र-वेगम् तत् ब्राह्मम् अस्त्रम् सहसा नियुज्य ॥ १०४ ॥
tatas tu vāyoḥ vacanam niśamya saumitriḥ indra-pratimāna-vīryaḥ . samādadhe bāṇam atha ugra-vegam tat brāhmam astram sahasā niyujya .. 104 ..
तस्मिन् वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे । दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास ररास चोर्वी ॥ 105 ॥
तस्मिन् वर-अस्त्रे तु नियुज्यमाने सौमित्रिणा बाण-वरे शित-अग्रे । दिशः च चन्द्र-अर्क-महा-ग्रहाः च नभः च तत्रास ररास च उर्वी ॥ १०५ ॥
tasmin vara-astre tu niyujyamāne saumitriṇā bāṇa-vare śita-agre . diśaḥ ca candra-arka-mahā-grahāḥ ca nabhaḥ ca tatrāsa rarāsa ca urvī .. 105 ..
तं ब्रह्मणोऽस्त्रेण नियुज्य चापे शरं सुपुङ्खं यमदूतकल्पम् । सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् ॥ 106 ॥
तम् ब्रह्मणः अस्त्रेण नियुज्य चापे शरम् सु पुङ्खम् यम-दूत-कल्पम् । सौमित्रिः इन्द्र-अरि-सुतस्य तस्य ससर्ज बाणम् युधि वज्र-कल्पम् ॥ १०६ ॥
tam brahmaṇaḥ astreṇa niyujya cāpe śaram su puṅkham yama-dūta-kalpam . saumitriḥ indra-ari-sutasya tasya sasarja bāṇam yudhi vajra-kalpam .. 106 ..
तं लक्ष्मणोत्सृष्टविवृध्दवेगं समापतन्तं श्वसनोग्रवेगम् । सुपर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श ॥ 107 ॥
तम् लक्ष्मण-उत्सृष्ट-विवृध्द-वेगम् समापतन्तम् श्वसन-उग्र-वेगम् । सुपर्ण-वज्र-उत्तम-चित्र-पुङ्खम् तदा अतिकायः समरे ददर्श ॥ १०७ ॥
tam lakṣmaṇa-utsṛṣṭa-vivṛdhda-vegam samāpatantam śvasana-ugra-vegam . suparṇa-vajra-uttama-citra-puṅkham tadā atikāyaḥ samare dadarśa .. 107 ..
तं प्रेक्षमाणः सहसातिकायो जघान बाणैर्निशितैरनेकैः । स सायकस्तस्य सुपर्णवेगस्तथातिवेगेन जगाम पार्श्वम् ॥ 108 ॥
तम् प्रेक्षमाणः सहसा अतिकायः जघान बाणैः निशितैः अनेकैः । स सायकः तस्य सुपर्ण-वेगः तथा अति वेगेन जगाम पार्श्वम् ॥ १०८ ॥
tam prekṣamāṇaḥ sahasā atikāyaḥ jaghāna bāṇaiḥ niśitaiḥ anekaiḥ . sa sāyakaḥ tasya suparṇa-vegaḥ tathā ati vegena jagāma pārśvam .. 108 ..
तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम् । जघान शक्त्यृष्टिगदाकुठारैः शूलैः शलैश्चाप्यविपन्नचेष्टः ॥ 109 ॥
तम् आगतम् प्रेक्ष्य तदा अतिकायः बाणम् प्रदीप्त-अन्तक-काल-कल्पम् । जघान शक्ति-ऋष्टि-गदा-कुठारैः शूलैः शलैः च अपि अविपन्न-चेष्टः ॥ १०९ ॥
tam āgatam prekṣya tadā atikāyaḥ bāṇam pradīpta-antaka-kāla-kalpam . jaghāna śakti-ṛṣṭi-gadā-kuṭhāraiḥ śūlaiḥ śalaiḥ ca api avipanna-ceṣṭaḥ .. 109 ..
तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः । प्रगृह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार ॥ 110 ॥
तानि आयुधानि अद्भुत-विग्रहाणि मोघानि कृत्वा स शरः अग्नि-दीप्तः । प्रगृह्य तस्य एव किरीट-जुष्टम् तदा अतिकायस्य शिरः जहार ॥ ११० ॥
tāni āyudhāni adbhuta-vigrahāṇi moghāni kṛtvā sa śaraḥ agni-dīptaḥ . pragṛhya tasya eva kirīṭa-juṣṭam tadā atikāyasya śiraḥ jahāra .. 110 ..
तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रमर्दितम् । पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥ 111 ॥
तत् शिरः स शिरस्त्राणम् लक्ष्मण-इषु-प्रमर्दितम् । पपात सहसा भूमौ शृङ्गम् हिमवतः यथा ॥ १११ ॥
tat śiraḥ sa śirastrāṇam lakṣmaṇa-iṣu-pramarditam . papāta sahasā bhūmau śṛṅgam himavataḥ yathā .. 111 ..
तं भूमौ पतितं दृष्ट्वा विक्षिप्ताम्बरभूषणम् । बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥ 112 ॥
तम् भूमौ पतितम् दृष्ट्वा विक्षिप्त-अम्बर-भूषणम् । बभूवुः व्यथिताः सर्वे हत-शेषाः निशाचराः ॥ ११२ ॥
tam bhūmau patitam dṛṣṭvā vikṣipta-ambara-bhūṣaṇam . babhūvuḥ vyathitāḥ sarve hata-śeṣāḥ niśācarāḥ .. 112 ..
ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः । विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ॥ 113 ॥
ते विषण्ण-मुखाः दीनाः प्रहार-जनित-श्रमाः । विनेदुः उच्चैस् बहवः सहसा विस्वरैः स्वरैः ॥ ११३ ॥
te viṣaṇṇa-mukhāḥ dīnāḥ prahāra-janita-śramāḥ . vineduḥ uccais bahavaḥ sahasā visvaraiḥ svaraiḥ .. 113 ..
ततस्तत्परितं याता निरपेक्षा निशाचराः । पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥ 114 ॥
ततस् तद्-परितम् याताः निरपेक्षाः निशाचराः । पुरीम् अभिमुखाः भीताः द्रवन्तः नायके हते ॥ ११४ ॥
tatas tad-paritam yātāḥ nirapekṣāḥ niśācarāḥ . purīm abhimukhāḥ bhītāḥ dravantaḥ nāyake hate .. 114 ..
प्रहर्षयुक्ता बहवस्तु वानरा प्रफुल्लपद्मप्रतिमाननास्तदा । अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ 115 ॥
प्रहर्ष-युक्ताः बहवः तु वानरा प्रफुल्ल-पद्म-प्रतिम-आननाः तदा । अपूजयन् लक्ष्मणम् इष्ट-भागिनम् हते रिपौ भीम-बले दुरासदे ॥ ११५ ॥
praharṣa-yuktāḥ bahavaḥ tu vānarā praphulla-padma-pratima-ānanāḥ tadā . apūjayan lakṣmaṇam iṣṭa-bhāginam hate ripau bhīma-bale durāsade .. 115 ..
अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणःप्रहृष्टः । त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम ॥ 116 ॥
अतिबलम् अतिकायम् अभ्र-कल्पम् युधि विनिपात्य स लक्ष्मणः प्रहृष्टः । त्वरितम् अथ तदा स राम-पार्श्वम् कपि-निवहैः च सु पूजितः जगाम ॥ ११६ ॥
atibalam atikāyam abhra-kalpam yudhi vinipātya sa lakṣmaṇaḥ prahṛṣṭaḥ . tvaritam atha tadā sa rāma-pārśvam kapi-nivahaiḥ ca su pūjitaḥ jagāma .. 116 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In