This overlay will guide you through the buttons:

| |
|
अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा । उद्वेगमगमद् राजा वचनं चेदमब्रवीत् ॥ 1 ॥
अतिकायम् हतम् श्रुत्वा लक्ष्मणेन महा-ओजसा । उद्वेगम् अगमत् राजा वचनम् च इदम् अब्रवीत् ॥ १ ॥
atikāyam hatam śrutvā lakṣmaṇena mahā-ojasā . udvegam agamat rājā vacanam ca idam abravīt .. 1 ..
धूम्राक्षः परमामर्षी सर्वशस्त्रभृतां वरः । अकम्पनः प्रहस्तश्च कुम्भुकर्णस्तथैव च ॥ 2 ॥
परम-अमर्षी सर्व । अकम्पनः प्रहस्तः च कुम्भुकर्णः तथा एव च ॥ २ ॥
parama-amarṣī sarva . akampanaḥ prahastaḥ ca kumbhukarṇaḥ tathā eva ca .. 2 ..
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः । जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥ 3 ॥
एते महा-बलाः वीराः राक्षसाः युद्ध-काङ्क्षिणः । जेतारः पर-सैन्यानाम् परैः नित्य-अपराजिताः ॥ ३ ॥
ete mahā-balāḥ vīrāḥ rākṣasāḥ yuddha-kāṅkṣiṇaḥ . jetāraḥ para-sainyānām paraiḥ nitya-aparājitāḥ .. 3 ..
ससैन्यास्ते हता वीर्या रामेणाक्लिष्टकर्मणा । राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ॥ 4 ॥
स सैन्याः ते हताः वीर्याः रामेण अक्लिष्ट-कर्मणा । राक्षसाः सु महा-कायाः नाना शस्त्र-विशारदाः ॥ ४ ॥
sa sainyāḥ te hatāḥ vīryāḥ rāmeṇa akliṣṭa-karmaṇā . rākṣasāḥ su mahā-kāyāḥ nānā śastra-viśāradāḥ .. 4 ..
अन्ये च बहवः शूरा महात्मानो निपातिताः । प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ॥ 5 ॥
अन्ये च बहवः शूराः महात्मानः निपातिताः । प्रख्यात-बल-वीर्येण पुत्रेण इन्द्रजिता मम ॥ ५ ॥
anye ca bahavaḥ śūrāḥ mahātmānaḥ nipātitāḥ . prakhyāta-bala-vīryeṇa putreṇa indrajitā mama .. 5 ..
तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः । यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ॥ 6 ॥
तौ भ्रातरौ तदा बद्धौ घोरैः दत्त-वरैः शरैः । यत् न शक्यम् सुरैः सर्वैः असुरैः वा महा-बलैः ॥ ६ ॥
tau bhrātarau tadā baddhau ghoraiḥ datta-varaiḥ śaraiḥ . yat na śakyam suraiḥ sarvaiḥ asuraiḥ vā mahā-balaiḥ .. 6 ..
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः । तन्न जाने प्रभावैर्वा मायया मोहनेन वा ॥ 7 ॥
मोक्तुम् तत् बन्धनम् घोरम् यक्ष-गन्धर्व-किन्नरैः । तत् न जाने प्रभावैः वा मायया मोहनेन वा ॥ ७ ॥
moktum tat bandhanam ghoram yakṣa-gandharva-kinnaraiḥ . tat na jāne prabhāvaiḥ vā māyayā mohanena vā .. 7 ..
शरबन्धाद् विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ । ये योधा निर्गताः शूरा राक्षसा मम शासनात् ॥ 8 ॥
शर-बन्धात् विमुक्तौ तौ भ्रातरौ राम-लक्ष्मणौ । ये योधाः निर्गताः शूराः राक्षसाः मम शासनात् ॥ ८ ॥
śara-bandhāt vimuktau tau bhrātarau rāma-lakṣmaṇau . ye yodhāḥ nirgatāḥ śūrāḥ rākṣasāḥ mama śāsanāt .. 8 ..
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः । तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् ॥ 9 ॥
ते सर्वे निहताः युद्धे वानरैः सु महा-बलैः । तम् न पश्यामि अहम् युद्धे यः अद्य रामम् स लक्ष्मणम् ॥ ९ ॥
te sarve nihatāḥ yuddhe vānaraiḥ su mahā-balaiḥ . tam na paśyāmi aham yuddhe yaḥ adya rāmam sa lakṣmaṇam .. 9 ..
नाशयेत् सबलं वीरं ससुग्रीव विभीषणम् । अहो सुबलवान् रामो महदस्त्रबलं च वै ॥ 10 ॥
नाशयेत् स बलम् वीरम् स सुग्रीव विभीषणम् । अहो सु बलवान् रामः महत् अस्त्र-बलम् च वै ॥ १० ॥
nāśayet sa balam vīram sa sugrīva vibhīṣaṇam . aho su balavān rāmaḥ mahat astra-balam ca vai .. 10 ..
यस्य विक्रममासाद्य राक्षसा निधनं गताः । न मन्ये राघवं वीरं नारायणमनामयम् ॥ 11 ॥
यस्य विक्रमम् आसाद्य राक्षसाः निधनम् गताः । न मन्ये राघवम् वीरम् नारायणम् अनामयम् ॥ ११ ॥
yasya vikramam āsādya rākṣasāḥ nidhanam gatāḥ . na manye rāghavam vīram nārāyaṇam anāmayam .. 11 ..
तभ्दयाध्दि पुरी लङ्का पिहितद्वारतोरणा। अप्रमत्सैश्चसर्वत्रगुप्सैरक्ष्यापुरीवतियम् ॥ 12 ॥
पुरी लङ्का पिहित-द्वार-तोरणा। अप्रमत्सैः च सर्वत्र गुप्सैः अक्ष्या-पुरीवतियम् ॥ १२ ॥
purī laṅkā pihita-dvāra-toraṇā. apramatsaiḥ ca sarvatra gupsaiḥ akṣyā-purīvatiyam .. 12 ..
अशोकवनिका चैव यत्र सीताभिरक्ष्यते । निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वदैव नः ॥ 13 ॥
अशोक-वनिका च एव यत्र सीता अभिरक्ष्यते । निष्क्रामः वा प्रवेशः वा ज्ञातव्यः सर्वदा एव नः ॥ १३ ॥
aśoka-vanikā ca eva yatra sītā abhirakṣyate . niṣkrāmaḥ vā praveśaḥ vā jñātavyaḥ sarvadā eva naḥ .. 13 ..
यत्र यत्र भवेद् गुल्मस्तत्र तत्र पुनः पुनः । सर्वतश्चापि तिष्ठध्वं स्वै: स्वै: परिवृता बलैः ॥ 14 ॥
यत्र यत्र भवेत् गुल्मः तत्र तत्र पुनर् पुनर् । सर्वतस् च अपि तिष्ठध्वम् स्वैः स्वैः परिवृताः बलैः ॥ १४ ॥
yatra yatra bhavet gulmaḥ tatra tatra punar punar . sarvatas ca api tiṣṭhadhvam svaiḥ svaiḥ parivṛtāḥ balaiḥ .. 14 ..
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः । प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वशः ॥ 15 ॥
द्रष्टव्यम् च पदम् तेषाम् वानराणाम् निशाचराः । प्रदोषे वा अर्धरात्रे वा प्रत्यूषे वा अपि सर्वशस् ॥ १५ ॥
draṣṭavyam ca padam teṣām vānarāṇām niśācarāḥ . pradoṣe vā ardharātre vā pratyūṣe vā api sarvaśas .. 15 ..
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन । द्विषतां बलमुद्युक्तमापतत् किं स्थितं यथा ॥ 16 ॥
न अवज्ञा तत्र कर्तव्या वानरेषु कदाचन । द्विषताम् बलम् उद्युक्तम् आपतत् किम् स्थितम् यथा ॥ १६ ॥
na avajñā tatra kartavyā vānareṣu kadācana . dviṣatām balam udyuktam āpatat kim sthitam yathā .. 16 ..
ततस्ते राक्षसा सर्वे श्रुत्वा लङ्काधिपस्य तत् । वचनं सर्वमातिष्ठन् यथावत् तु महाबलाः ॥ 17 ॥
ततस् ते राक्षसा सर्वे श्रुत्वा लङ्का-अधिपस्य तत् । वचनम् सर्वम् आतिष्ठन् यथावत् तु महा-बलाः ॥ १७ ॥
tatas te rākṣasā sarve śrutvā laṅkā-adhipasya tat . vacanam sarvam ātiṣṭhan yathāvat tu mahā-balāḥ .. 17 ..
तान् सर्वान् हि सन्दिश्य रावणो राक्षसाधिपः । मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ॥ 18 ॥
तान् सर्वान् हि सन्दिश्य रावणः राक्षस-अधिपः । मन्यु-शल्यम् वहन् दीनः प्रविवेश स्वम् आलयम् ॥ १८ ॥
tān sarvān hi sandiśya rāvaṇaḥ rākṣasa-adhipaḥ . manyu-śalyam vahan dīnaḥ praviveśa svam ālayam .. 18 ..
ततः स सन्दीपितकोपह्निर्निशाचराणामधिपो महाबलः । तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा वनिःश्वसन् ॥ 19 ॥
ततस् स सन्दीपित-कोप-अह्निः निशाचराणाम् अधिपः महा-बलः । तत् एव पुत्र-व्यसनम् विचिन्तयन् मुहुर् मुहुर् च एव तदा ॥ १९ ॥
tatas sa sandīpita-kopa-ahniḥ niśācarāṇām adhipaḥ mahā-balaḥ . tat eva putra-vyasanam vicintayan muhur muhur ca eva tadā .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In