This overlay will guide you through the buttons:

| |
|
ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोऽतिकायान् । रक्षोगणास्तत्र हतावशिष्टास् ते रावणाय त्वरितं शशंसुः ॥ १॥
ततस् हतान् राक्षस-पुङ्गवान् तान् देवान्तक-आदि-त्रिशिरः-अतिकायान् । रक्षः-गणाः तत्र हत-अवशिष्टाः ते रावणाय त्वरितम् शशंसुः ॥ १॥
tatas hatān rākṣasa-puṅgavān tān devāntaka-ādi-triśiraḥ-atikāyān . rakṣaḥ-gaṇāḥ tatra hata-avaśiṣṭāḥ te rāvaṇāya tvaritam śaśaṃsuḥ .. 1..
ततो हतांस्तान्सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः । पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ॥ २॥
ततस् हतान् तान् सहसा निशम्य राजा मुमोह अश्रु-परिप्लुत-अक्षः । पुत्र-क्षयम् भ्रातृ-वधम् च घोरम् विचिन्त्य राजा विपुलम् प्रदध्यौ ॥ २॥
tatas hatān tān sahasā niśamya rājā mumoha aśru-paripluta-akṣaḥ . putra-kṣayam bhrātṛ-vadham ca ghoram vicintya rājā vipulam pradadhyau .. 2..
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम् । रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद् वाक्यमिदं बभाषे ॥ ३॥
ततस् तु राजानम् उदीक्ष्य दीनम् शोक-अर्णवे सम्परिपुप्लुवानम् । रथ-ऋषभः राक्षस-राज-सूनुः तम् इन्द्रजित् वाक्यम् इदम् बभाषे ॥ ३॥
tatas tu rājānam udīkṣya dīnam śoka-arṇave samparipupluvānam . ratha-ṛṣabhaḥ rākṣasa-rāja-sūnuḥ tam indrajit vākyam idam babhāṣe .. 3..
न तात मोहं परिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति नैर्ऋतेश । नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरेऽभिपातुम् ॥ ४॥
न तात मोहम् परिगन्तुम् अर्हसि यत्र इन्द्रजित् जीवति नैरृत-ईश । न इन्द्र-अरि-बाण-अभिहतः हि कश्चिद् प्राणान् समर्थः समरे अभिपातुम् ॥ ४॥
na tāta moham parigantum arhasi yatra indrajit jīvati nairṛta-īśa . na indra-ari-bāṇa-abhihataḥ hi kaścid prāṇān samarthaḥ samare abhipātum .. 4..
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम् । गतायुषं भूमितले शयानं शितै शरैराचितसर्वगात्रम् ॥ ५॥
पश्य अद्य रामम् सह लक्ष्मणेन मद्-बाण-निर्भिन्न-विकीर्ण-देहम् । गत-आयुषम् भूमि-तले शयानम् शितैः शरैः आचित-सर्व-गात्रम् ॥ ५॥
paśya adya rāmam saha lakṣmaṇena mad-bāṇa-nirbhinna-vikīrṇa-deham . gata-āyuṣam bhūmi-tale śayānam śitaiḥ śaraiḥ ācita-sarva-gātram .. 5..
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम् । अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ॥ ६॥
इमाम् प्रतिज्ञाम् शृणु शक्र-शत्रोः सु निश्चिताम् पौरुष-दैव-युक्ताम् । अद्या एव रामम् सह लक्ष्मणेन सन्तर्पयिष्यामि शरैः अमोघैः ॥ ६॥
imām pratijñām śṛṇu śakra-śatroḥ su niścitām pauruṣa-daiva-yuktām . adyā eva rāmam saha lakṣmaṇena santarpayiṣyāmi śaraiḥ amoghaiḥ .. 6..
अद्येन्द्रवैवस्वतविष्णुरुद्रसाध्याश्च वैश्वानरचन्द्रसूर्याः । द्रक्ष्यन्ति मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥ ७॥
अद्य इन्द्र-वैवस्वत-विष्णु-रुद्र-साध्याः च वैश्वानर-चन्द्र-सूर्याः । द्रक्ष्यन्ति मे विक्रमम् अप्रमेयम् विष्णोः इव उग्रम् बलि-यज्ञ-वाटे ॥ ७॥
adya indra-vaivasvata-viṣṇu-rudra-sādhyāḥ ca vaiśvānara-candra-sūryāḥ . drakṣyanti me vikramam aprameyam viṣṇoḥ iva ugram bali-yajña-vāṭe .. 7..
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः । समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ॥ ८॥
सः एवम् उक्त्वा त्रिदश-इन्द्र-शत्रुः आपृच्छ्य राजानम् अदीन-सत्त्वः । समारुरोह अनिल-तुल्य-वेगम् रथम् खर-श्रेष्ठ-समाधि-युक्तम् ॥ ८॥
saḥ evam uktvā tridaśa-indra-śatruḥ āpṛcchya rājānam adīna-sattvaḥ . samāruroha anila-tulya-vegam ratham khara-śreṣṭha-samādhi-yuktam .. 8..
समास्थाय महातेजा रथं हरिरथोपमम् । जगाम सहसा तत्र यत्र युद्धमरिन्दम ॥ ९॥
समास्थाय महा-तेजाः रथम् हरि-रथ-उपमम् । जगाम सहसा तत्र यत्र युद्धम् अरिन्दम ॥ ९॥
samāsthāya mahā-tejāḥ ratham hari-ratha-upamam . jagāma sahasā tatra yatra yuddham arindama .. 9..
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः । संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥ १०॥
तम् प्रस्थितम् महात्मानम् अनुजग्मुः महा-बलाः । संहर्षमाणाः बहवः धनुः-प्रवर-पाणयः ॥ १०॥
tam prasthitam mahātmānam anujagmuḥ mahā-balāḥ . saṃharṣamāṇāḥ bahavaḥ dhanuḥ-pravara-pāṇayaḥ .. 10..
गजस्कन्धगताः केचित् केचित् परमवाजिभिः । व्याघ्रवृश्चिकमार्जारखरोरोष्ट्रैश्चभुजङ्गमैः ॥ 11 ॥
गज-स्कन्ध-गताः केचिद् केचिद् परम-वाजिभिः । व्याघ्र-वृश्चिक-मार्जार-खर-उर-उष्ट्रैः च भुजङ्गमैः ॥ ११ ॥
gaja-skandha-gatāḥ kecid kecid parama-vājibhiḥ . vyāghra-vṛścika-mārjāra-khara-ura-uṣṭraiḥ ca bhujaṅgamaiḥ .. 11 ..
वराहैः श्वापदैः सिंहैर्जम्बुकैः पर्वतोपमैः । काकहंसमयूरैश्च राक्षसा भीमविक्रमाः ॥ 12 ॥
वराहैः श्वापदैः सिंहैः जम्बुकैः पर्वत-उपमैः । काक-हंस-मयूरैः च राक्षसाः भीम-विक्रमाः ॥ १२ ॥
varāhaiḥ śvāpadaiḥ siṃhaiḥ jambukaiḥ parvata-upamaiḥ . kāka-haṃsa-mayūraiḥ ca rākṣasāḥ bhīma-vikramāḥ .. 12 ..
प्रासपट्टिशनिस्त्रिंशपरश्वधगदाधराः । भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधा ॥ 13 ॥
प्रास-पट्टिश-निस्त्रिंश-परश्वध-गदा-धराः । भुशुण्डि-मुद्गर-आयष्टि-शतघ्नी-परिघ-आयुधा ॥ १३ ॥
prāsa-paṭṭiśa-nistriṃśa-paraśvadha-gadā-dharāḥ . bhuśuṇḍi-mudgara-āyaṣṭi-śataghnī-parigha-āyudhā .. 13 ..
स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः । जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ॥ 14 ॥
स शङ्ख-निनदैः भीमैः भेरीणाम् च महा-स्वनैः । जगाम त्रिदश-इन्द्र-अरिः स्तूयमानः निशाचरैः ॥ १४ ॥
sa śaṅkha-ninadaiḥ bhīmaiḥ bherīṇām ca mahā-svanaiḥ . jagāma tridaśa-indra-ariḥ stūyamānaḥ niśācaraiḥ .. 14 ..
स शङ्खशशिवर्णेन छत्रेण रिपुसादनः । रराज परिपूर्णेन नभश्चन्द्रमसा यथा ॥ 15 ॥
स शङ्ख-शशि-वर्णेन छत्रेण रिपु-सादनः । रराज परिपूर्णेन नभः चन्द्रमसा यथा ॥ १५ ॥
sa śaṅkha-śaśi-varṇena chatreṇa ripu-sādanaḥ . rarāja paripūrṇena nabhaḥ candramasā yathā .. 15 ..
वीज्यतस्ततो वीरो हैमैर्हेमविभूषितैः । चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥ 16 ॥
वीज्यतः ततस् वीरः हैमैः हेम-विभूषितैः । चारु-चामर-मुख्यैः च मुख्यः सर्व-धनुष्मताम् ॥ १६ ॥
vījyataḥ tatas vīraḥ haimaiḥ hema-vibhūṣitaiḥ . cāru-cāmara-mukhyaiḥ ca mukhyaḥ sarva-dhanuṣmatām .. 16 ..
स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् । राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत् ॥ 17 ॥
स तु दृष्ट्वा विनिर्यान्तम् बलेन महता वृतम् । राक्षस-अधिपतिः श्रीमान् रावणः पुत्रम् अब्रवीत् ॥ १७ ॥
sa tu dṛṣṭvā viniryāntam balena mahatā vṛtam . rākṣasa-adhipatiḥ śrīmān rāvaṇaḥ putram abravīt .. 17 ..
त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः । किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम् ॥ 18 ॥
त्वम् अप्रतिरथः पुत्र जितः ते युधि वासवः । किम् पुनर् मानुषम् धृष्यम् न वधिष्यसि राघवम् ॥ १८ ॥
tvam apratirathaḥ putra jitaḥ te yudhi vāsavaḥ . kim punar mānuṣam dhṛṣyam na vadhiṣyasi rāghavam .. 18 ..
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः । ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ॥ 19 ॥
तथा उक्तः राक्षस-इन्द्रेण प्रतिगृह्य महा-आशिषः । ततस् तु इन्द्रजिता लङ्का सूर्य-प्रतिम-तेजसा ॥ १९ ॥
tathā uktaḥ rākṣasa-indreṇa pratigṛhya mahā-āśiṣaḥ . tatas tu indrajitā laṅkā sūrya-pratima-tejasā .. 19 ..
रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता । स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः ॥ 20 ॥
रराज अप्रतिवीर्येण द्यौः इव अर्केण भास्वता । स सम्प्राप्य महा-तेजाः युद्ध-भूमिम् अरिन्दमः ॥ २० ॥
rarāja aprativīryeṇa dyauḥ iva arkeṇa bhāsvatā . sa samprāpya mahā-tejāḥ yuddha-bhūmim arindamaḥ .. 20 ..
स्थापयामास रक्षांसि रथं प्रति समन्ततः । ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ॥ 21 ॥
स्थापयामास रक्षांसि रथम् प्रति समन्ततः । ततस् तु हुत-भोक्तारम् हुतभुज्-सदृश-प्रभः ॥ २१ ॥
sthāpayāmāsa rakṣāṃsi ratham prati samantataḥ . tatas tu huta-bhoktāram hutabhuj-sadṛśa-prabhaḥ .. 21 ..
जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा । स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः ॥ 22 ॥
जुहुवे राक्षस-श्रेष्ठः मन्त्रवत् विधिवत् तदा । स हविः-जाल-संस्कारैः माल्य-गन्ध-पुरस्कृतैः ॥ २२ ॥
juhuve rākṣasa-śreṣṭhaḥ mantravat vidhivat tadā . sa haviḥ-jāla-saṃskāraiḥ mālya-gandha-puraskṛtaiḥ .. 22 ..
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् । शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः ॥ 23 ॥
जुहुवे पावकम् तत्र राक्षस-इन्द्रः प्रतापवान् । शस्त्राणि शर-पत्राणि समिधः अथ विभीतकः ॥ २३ ॥
juhuve pāvakam tatra rākṣasa-indraḥ pratāpavān . śastrāṇi śara-patrāṇi samidhaḥ atha vibhītakaḥ .. 23 ..
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा । स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ॥ 24 ॥
लोहितानि च वासांसि स्रुवम् कार्ष्णायसम् तथा । स तत्र अग्निम् समास्तीर्य शर-पत्रैः स तोमरैः ॥ २४ ॥
lohitāni ca vāsāṃsi sruvam kārṣṇāyasam tathā . sa tatra agnim samāstīrya śara-patraiḥ sa tomaraiḥ .. 24 ..
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः । सकृदेव समिद्धस्य विधूमस्य महार्चिषः ॥ 25 ॥
छागस्य सर्व-कृष्णस्य गलम् जग्राह जीवतः । सकृत् एव समिद्धस्य विधूमस्य महा-अर्चिषः ॥ २५ ॥
chāgasya sarva-kṛṣṇasya galam jagrāha jīvataḥ . sakṛt eva samiddhasya vidhūmasya mahā-arciṣaḥ .. 25 ..
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् । प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः ॥ 26 ॥
बभूवुः तानि लिङ्गानि विजयम् यानि अदर्शयन् । प्रदक्षिण-आवर्त-शिखः तप्त-काञ्चन-संनिभः ॥ २६ ॥
babhūvuḥ tāni liṅgāni vijayam yāni adarśayan . pradakṣiṇa-āvarta-śikhaḥ tapta-kāñcana-saṃnibhaḥ .. 26 ..
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः । सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः ॥ 27 ॥
हविः तत् प्रतिजग्राह पावकः स्वयम् उत्थितः । सः अस्त्रम् आहारयामास ब्राह्मम् अस्त्र-विदाम् वरः ॥ २७ ॥
haviḥ tat pratijagrāha pāvakaḥ svayam utthitaḥ . saḥ astram āhārayāmāsa brāhmam astra-vidām varaḥ .. 27 ..
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् । तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके । सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् ॥ 28 ॥
धनुः च आत्म-रथम् च एव सर्वम् तत्र अभ्यमन्त्रयत् । तस्मिन् आहूयमाने अस्त्रे हूयमाने च पावके । स अर्क-ग्रह-इन्दु नक्षत्रम् वितत्रास नभस्तलम् ॥ २८ ॥
dhanuḥ ca ātma-ratham ca eva sarvam tatra abhyamantrayat . tasmin āhūyamāne astre hūyamāne ca pāvake . sa arka-graha-indu nakṣatram vitatrāsa nabhastalam .. 28 ..
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः । सचापबाणासिरथाश्वसूतः खेऽन्तर्दधेऽऽत्मानमचिन्त्यवीर्यः ॥ 29 ॥
स पावकम् पावक-दीप्त-तेजाः हुत्वा महा-इन्द्र-प्रतिम-प्रभावः । स चाप-बाण-असि-रथ-अश्व-सूतः खे अन्तर्दधे आत्मानम् अचिन्त्य-वीर्यः ॥ २९ ॥
sa pāvakam pāvaka-dīpta-tejāḥ hutvā mahā-indra-pratima-prabhāvaḥ . sa cāpa-bāṇa-asi-ratha-aśva-sūtaḥ khe antardadhe ātmānam acintya-vīryaḥ .. 29 ..
ततो हयरथाकीर्णं पताकाध्वजशोभितम् । निर्ययौ राक्षसबलं नर्दमानं ययुत्सया ॥ 30 ॥
ततस् हय-रथ-आकीर्णम् पताका-ध्वज-शोभितम् । निर्ययौ राक्षस-बलम् नर्दमानम् ययुत्सया ॥ ३० ॥
tatas haya-ratha-ākīrṇam patākā-dhvaja-śobhitam . niryayau rākṣasa-balam nardamānam yayutsayā .. 30 ..
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः । तोमरैरङ्कुशैश्चापि वानराञ्जघ्नुराहवे ॥ 31 ॥
ते शरैः बहुभिः चित्रैः तीक्ष्ण-वेगैः अलङ्कृतैः । तोमरैः अङ्कुशैः च अपि वानरान् जघ्नुः आहवे ॥ ३१ ॥
te śaraiḥ bahubhiḥ citraiḥ tīkṣṇa-vegaiḥ alaṅkṛtaiḥ . tomaraiḥ aṅkuśaiḥ ca api vānarān jaghnuḥ āhave .. 31 ..
रावणिस्तु सुसंङ्कृद्धस्तान् निरीक्ष्य निशाचरान् । हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया ॥ 32 ॥
रावणिः तु सुसंङ्कृत् हस्तात् निरीक्ष्य निशाचरान् । हृष्टाः भवन्तः युध्यन्तु वानराणाम् जिघांसया ॥ ३२ ॥
rāvaṇiḥ tu susaṃṅkṛt hastāt nirīkṣya niśācarān . hṛṣṭāḥ bhavantaḥ yudhyantu vānarāṇām jighāṃsayā .. 32 ..
ततस्ते राक्षसा सर्वे गर्जन्तो जयकाङ्क्षिणः । अभ्यवर्षंस्ततो घोरां वानराञ्शरवृष्टिभिः ॥ 33 ॥
ततस् ते राक्षसा सर्वे गर्जन्तः जय-काङ्क्षिणः । अभ्यवर्षन् ततस् घोराम् वानरान् शर-वृष्टिभिः ॥ ३३ ॥
tatas te rākṣasā sarve garjantaḥ jaya-kāṅkṣiṇaḥ . abhyavarṣan tatas ghorām vānarān śara-vṛṣṭibhiḥ .. 33 ..
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि । रक्षोभिः सम्वृतः सङ्ख्ये वानरान् विचकर्ष ह ॥ 34 ॥
स तु नालीक-नाराचैः गदाभिः मुसलैः अपि । रक्षोभिः सम्वृतः सङ्ख्ये वानरान् विचकर्ष ह ॥ ३४ ॥
sa tu nālīka-nārācaiḥ gadābhiḥ musalaiḥ api . rakṣobhiḥ samvṛtaḥ saṅkhye vānarān vicakarṣa ha .. 34 ..
ते वध्यमानाः समरे वानराः पादपायुधाः । अभ्यवर्षन्त सहसा रावणिं शैलपादपैः ॥ 35 ॥
ते वध्यमानाः समरे वानराः पादप-आयुधाः । अभ्यवर्षन्त सहसा रावणिम् शैल-पादपैः ॥ ३५ ॥
te vadhyamānāḥ samare vānarāḥ pādapa-āyudhāḥ . abhyavarṣanta sahasā rāvaṇim śaila-pādapaiḥ .. 35 ..
इन्द्रजित् तु तदा क्रुद्धो महातेजा महाबलः । वानराणां शरीराणि व्यधमद् रावणात्मजः ॥ 36 ॥
इन्द्रजित् तु तदा क्रुद्धः महा-तेजाः महा-बलः । वानराणाम् शरीराणि व्यधमत् रावण-आत्मजः ॥ ३६ ॥
indrajit tu tadā kruddhaḥ mahā-tejāḥ mahā-balaḥ . vānarāṇām śarīrāṇi vyadhamat rāvaṇa-ātmajaḥ .. 36 ..
शरेणैकेन च हरीन् नव पञ्च च सप्त च । बिभेद समरे क्रुद्धो राक्षसान् संप्रहर्षयन् ॥ 37 ॥
शरेण एकेन च हरीन् नव पञ्च च सप्त च । बिभेद समरे क्रुद्धः राक्षसान् संप्रहर्षयन् ॥ ३७ ॥
śareṇa ekena ca harīn nava pañca ca sapta ca . bibheda samare kruddhaḥ rākṣasān saṃpraharṣayan .. 37 ..
स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः । वानरान् समरे वीरः प्रममाथ सुदुर्जयः ॥ 38 ॥
स शरैः सूर्य-सङ्काशैः शातकुम्भ-विभूषितैः । वानरान् समरे वीरः प्रममाथ सु दुर्जयः ॥ ३८ ॥
sa śaraiḥ sūrya-saṅkāśaiḥ śātakumbha-vibhūṣitaiḥ . vānarān samare vīraḥ pramamātha su durjayaḥ .. 38 ..
ते भिन्नगात्राः समरे वानराः शरपीडिताः । पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ॥ 39 ॥
ते भिन्न-गात्राः समरे वानराः शर-पीडिताः । पेतुः मथित-सङ्कल्पाः सुरैः इव महा-असुराः ॥ ३९ ॥
te bhinna-gātrāḥ samare vānarāḥ śara-pīḍitāḥ . petuḥ mathita-saṅkalpāḥ suraiḥ iva mahā-asurāḥ .. 39 ..
ते तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः । अभ्यधावन्त सङ्कृद्धा संयुगे वानरर्षभाः ॥ 40 ॥
ते तपन्तम् इव आदित्यम् घोरैः बाण-गभस्तिभिः । अभ्यधावन्त सङ्कृद्धा संयुगे वानर-ऋषभाः ॥ ४० ॥
te tapantam iva ādityam ghoraiḥ bāṇa-gabhastibhiḥ . abhyadhāvanta saṅkṛddhā saṃyuge vānara-ṛṣabhāḥ .. 40 ..
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः । व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥ 41 ॥
ततस् तु वानराः सर्वे भिन्न-देहाः विचेतसः । व्यथिताः विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥ ४१ ॥
tatas tu vānarāḥ sarve bhinna-dehāḥ vicetasaḥ . vyathitāḥ vidravanti sma rudhireṇa samukṣitāḥ .. 41 ..
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः । नर्दन्तस्तेऽभिवृत्तास्तु समरे सशिलायुधाः ॥ 42 ॥
रामस्य अर्थे पराक्रम्य वानराः त्यक्त-जीविताः । नर्दन्तः ते अभिवृत्ताः तु समरे स शिला-आयुधाः ॥ ४२ ॥
rāmasya arthe parākramya vānarāḥ tyakta-jīvitāḥ . nardantaḥ te abhivṛttāḥ tu samare sa śilā-āyudhāḥ .. 42 ..
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः । अभ्यवर्षन्त समरे रावणिं समवस्थिताः ॥ 43 ॥
ते द्रुमैः पर्वत-अग्रैः च शिलाभिः च प्लवङ्गमाः । अभ्यवर्षन्त समरे रावणिम् समवस्थिताः ॥ ४३ ॥
te drumaiḥ parvata-agraiḥ ca śilābhiḥ ca plavaṅgamāḥ . abhyavarṣanta samare rāvaṇim samavasthitāḥ .. 43 ..
तं द्रुमाणां शिलानां च वर्षं प्राणहरं महत् । व्यपोहत महातेजा रावणिः समितिंजयः ॥ 44 ॥
तम् द्रुमाणाम् शिलानाम् च वर्षम् प्राण-हरम् महत् । व्यपोहत महा-तेजाः रावणिः समितिंजयः ॥ ४४ ॥
tam drumāṇām śilānām ca varṣam prāṇa-haram mahat . vyapohata mahā-tejāḥ rāvaṇiḥ samitiṃjayaḥ .. 44 ..
ततः पावक सङ्काशैः शरैराशीविषोपमैः । वानराणामनीकानि बिभेद समरे प्रभुः ॥ 45 ॥
ततस् पावक सङ्काशैः शरैः आशीविष-उपमैः । वानराणाम् अनीकानि बिभेद समरे प्रभुः ॥ ४५ ॥
tatas pāvaka saṅkāśaiḥ śaraiḥ āśīviṣa-upamaiḥ . vānarāṇām anīkāni bibheda samare prabhuḥ .. 45 ..
अष्टादशशरैस्तीक्ष्णैः स विदद्वा गन्धमादनम् । विव्याथ नवभिश्चैव नलं दूरादवस्थितम् ॥ 46 ॥
अष्टादश-शरैः तीक्ष्णैः स विदत् वा गन्धमादनम् । विव्याथ नवभिः च एव नलम् दूरात् अवस्थितम् ॥ ४६ ॥
aṣṭādaśa-śaraiḥ tīkṣṇaiḥ sa vidat vā gandhamādanam . vivyātha navabhiḥ ca eva nalam dūrāt avasthitam .. 46 ..
सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः । पञ्चभिर्विशिखैश्चैव गजं विव्याथ संयुगे ॥ 47 ॥
सप्तभिः तु महा-वीर्यः मैन्दम् मर्म-विदारणैः । पञ्चभिः विशिखैः च एव गजम् विव्याथ संयुगे ॥ ४७ ॥
saptabhiḥ tu mahā-vīryaḥ maindam marma-vidāraṇaiḥ . pañcabhiḥ viśikhaiḥ ca eva gajam vivyātha saṃyuge .. 47 ..
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च । सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा ॥ 48 ॥
जाम्बवन्तम् तु दशभिः नीलम् त्रिंशद्भिः एव च । सुग्रीवम् ऋषभम् च एव सः अङ्गदम् द्विविदम् तथा ॥ ४८ ॥
jāmbavantam tu daśabhiḥ nīlam triṃśadbhiḥ eva ca . sugrīvam ṛṣabham ca eva saḥ aṅgadam dvividam tathā .. 48 ..
घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत् तदा । । अन्यानपि तदा मुख्यान् वानरान् बहुभिः शरैः ॥ 49 ॥
घोरैः दत्त-वरैः तीक्ष्णैः निष्प्राणान् अकरोत् तदा । । अन्यान् अपि तदा मुख्यान् वानरान् बहुभिः शरैः ॥ ४९ ॥
ghoraiḥ datta-varaiḥ tīkṣṇaiḥ niṣprāṇān akarot tadā . . anyān api tadā mukhyān vānarān bahubhiḥ śaraiḥ .. 49 ..
अर्दयामास सङ्कृद्धः कालानगिरिव मूर्छितः । स शरैः सूर्यसङ्काशै सुमुक्तैः शीघ्रगामिभिः ॥ 50 ॥
अर्दयामास सङ्कृद्धः कालानगिरि इव मूर्छितः । स शरैः सूर्य-सङ्काशैः सु मुक्तैः शीघ्र-गामिभिः ॥ ५० ॥
ardayāmāsa saṅkṛddhaḥ kālānagiri iva mūrchitaḥ . sa śaraiḥ sūrya-saṅkāśaiḥ su muktaiḥ śīghra-gāmibhiḥ .. 50 ..
वानराणामनीकानि निर्ममन्थ महारणे । । आकुलां वानरीं सेनां शरजालेन मोहिताम् ॥ 51 ॥
वानराणाम् अनीकानि निर्ममन्थ महा-रणे । । आकुलाम् वानरीम् सेनाम् शर-जालेन मोहिताम् ॥ ५१ ॥
vānarāṇām anīkāni nirmamantha mahā-raṇe . . ākulām vānarīm senām śara-jālena mohitām .. 51 ..
हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् । । पुनरेव महातेजा राक्षसेन्द्रात्मजो बली ॥ 52 ॥
हृष्टः स परया प्रीत्या ददर्श क्षतज-उक्षिताम् । । पुनर् एव महा-तेजाः राक्षस-इन्द्र-आत्मजः बली ॥ ५२ ॥
hṛṣṭaḥ sa parayā prītyā dadarśa kṣataja-ukṣitām . . punar eva mahā-tejāḥ rākṣasa-indra-ātmajaḥ balī .. 52 ..
संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम् । ममर्द वानरानीकं परितस्त्विन्द्राजिद् बली ॥ 53 ॥
संसृज्य बाण-वर्षम् च शस्त्र-वर्षम् च दारुणम् । ममर्द वानर-अनीकम् परितस् तु इन्द्राजित् बली ॥ ५३ ॥
saṃsṛjya bāṇa-varṣam ca śastra-varṣam ca dāruṇam . mamarda vānara-anīkam paritas tu indrājit balī .. 53 ..
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महाहवे वानरवाहिनीषु । अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाम्बु ॥ 54 ॥
स्व-सैन्यम् उत्सृज्य समेत्य तूर्णम् महा-आहवे वानर-वाहिनीषु । अदृश्यमानः शर-जालम् उग्रम् ववर्ष नील-अम्बुधरः यथा अम्बु ॥ ५४ ॥
sva-sainyam utsṛjya sametya tūrṇam mahā-āhave vānara-vāhinīṣu . adṛśyamānaḥ śara-jālam ugram vavarṣa nīla-ambudharaḥ yathā ambu .. 54 ..
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः । रणे निपेतुर्हरयोऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ॥ 55 ॥
ते शक्रजित्-बाण-विशीर्ण-देहाः माया-हताः विस्वरम् उन्नदन्तः । रणे निपेतुः हरयः अद्रि-कल्पाः यथा इन्द्र-वज्र-अभिहताः नग-इन्द्राः ॥ ५५ ॥
te śakrajit-bāṇa-viśīrṇa-dehāḥ māyā-hatāḥ visvaram unnadantaḥ . raṇe nipetuḥ harayaḥ adri-kalpāḥ yathā indra-vajra-abhihatāḥ naga-indrāḥ .. 55 ..
ते केवलं सन्ददृशुः शिताग्रान् बाणान्रणे वानरवाहिनीषु । माया निगूढं च सुरेन्द्रशत्रुं न चात्र तं राक्षसमभ्यपश्यन् ॥ 56 ॥
ते केवलम् सन्ददृशुः शित-अग्रान् बाणान् रणे वानर-वाहिनीषु । मायाः निगूढम् च सुर-इन्द्र-शत्रुम् न च अत्र तम् राक्षसम् अभ्यपश्यन् ॥ ५६ ॥
te kevalam sandadṛśuḥ śita-agrān bāṇān raṇe vānara-vāhinīṣu . māyāḥ nigūḍham ca sura-indra-śatrum na ca atra tam rākṣasam abhyapaśyan .. 56 ..
ततः स रक्षोऽधिपतिर्महात्मा सर्वा दिशो बाणगणैः शिताग्रैः । प्रच्छादयामास रविप्रकाशैर्विदारयामास च वानरेन्द्रान् ॥ 57 ॥
ततस् स रक्षः-अधिपतिः महात्मा सर्वाः दिशः बाण-गणैः शित-अग्रैः । प्रच्छादयामास रवि-प्रकाशैः विदारयामास च वानर-इन्द्रान् ॥ ५७ ॥
tatas sa rakṣaḥ-adhipatiḥ mahātmā sarvāḥ diśaḥ bāṇa-gaṇaiḥ śita-agraiḥ . pracchādayāmāsa ravi-prakāśaiḥ vidārayāmāsa ca vānara-indrān .. 57 ..
स शूलनिस्त्रिंश परश्वधानि व्याविध्यदीप्तानलसप्रभाणि । सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ॥ 58 ॥
स शूल-निस्त्रिंश परश्वधानि व्याविध्य दीप्त-अनल-सप्रभाणि । स विस्फुलिङ्ग-उज्ज्वल-पावकानि ववर्ष तीव्रम् प्लवग-इन्द्र-सैन्ये ॥ ५८ ॥
sa śūla-nistriṃśa paraśvadhāni vyāvidhya dīpta-anala-saprabhāṇi . sa visphuliṅga-ujjvala-pāvakāni vavarṣa tīvram plavaga-indra-sainye .. 58 ..
ततो ज्वलनसङ्काशैर्बाणैर्वानरयूथपाः । ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ॥ 59 ॥
ततस् ज्वलन-सङ्काशैः बाणैः वानर-यूथपाः । ताडिताः शक्रजित्-बाणैः प्रफुल्लाः इव किंशुकाः ॥ ५९ ॥
tatas jvalana-saṅkāśaiḥ bāṇaiḥ vānara-yūthapāḥ . tāḍitāḥ śakrajit-bāṇaiḥ praphullāḥ iva kiṃśukāḥ .. 59 ..
तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् । राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥ 60 ॥
ते अन्योन्यम् अभिसर्पन्तः निनदन्तः च विस्वरम् । राक्षस-इन्द्र-अस्त्र-निर्भिन्नाः निपेतुः वानर-ऋषभाः ॥ ६० ॥
te anyonyam abhisarpantaḥ ninadantaḥ ca visvaram . rākṣasa-indra-astra-nirbhinnāḥ nipetuḥ vānara-ṛṣabhāḥ .. 60 ..
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः । शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥ 61 ॥
उदीक्षमाणाः गगनम् केचिद् नेत्रेषु ताडिताः । शरैः विविशुः अन्योन्यम् पेतुः च जगती-तले ॥ ६१ ॥
udīkṣamāṇāḥ gaganam kecid netreṣu tāḍitāḥ . śaraiḥ viviśuḥ anyonyam petuḥ ca jagatī-tale .. 61 ..
हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम् । जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ 62 ॥
हनूमन्तम् च सुग्रीवम् अङ्गदम् गन्धमादनम् । जाम्बवन्तम् सुषेणम् च वेगदर्शिनम् एव च ॥ ६२ ॥
hanūmantam ca sugrīvam aṅgadam gandhamādanam . jāmbavantam suṣeṇam ca vegadarśinam eva ca .. 62 ..
मैन्दं च द्विविदं नीलं गवाक्षं गवयं तथा । केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् ॥ 63 ॥
मैन्दम् च द्विविदम् नीलम् गवाक्षम् गवयम् तथा । केसरिम् हरि-लोमानम् विद्युत्-दंष्ट्रम् च वानरम् ॥ ६३ ॥
maindam ca dvividam nīlam gavākṣam gavayam tathā . kesarim hari-lomānam vidyut-daṃṣṭram ca vānaram .. 63 ..
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् । पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥ 64 ॥
सूर्य-आननम् ज्योति-मुखम् तथा दधिमुखम् हरिम् । पावक-अक्षम् नलम् च एव कुमुदम् च एव वानरम् ॥ ६४ ॥
sūrya-ānanam jyoti-mukham tathā dadhimukham harim . pāvaka-akṣam nalam ca eva kumudam ca eva vānaram .. 64 ..
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः । विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ॥ 65 ॥
प्रासैः शूलैः शितैः बाणैः इन्द्रजित् मन्त्र-संहितैः । विव्याध हरि-शार्दूलान् सर्वान् तान् राक्षस-उत्तमः ॥ ६५ ॥
prāsaiḥ śūlaiḥ śitaiḥ bāṇaiḥ indrajit mantra-saṃhitaiḥ . vivyādha hari-śārdūlān sarvān tān rākṣasa-uttamaḥ .. 65 ..
स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयपुङ्खैः । ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ॥ 66 ॥
स वै गदाभिः हरि-यूथ-मुख्यान् निर्भिद्य बाणैः तपनीय-पुङ्खैः । ववर्ष रामम् शर-वृष्टि-जालैः स लक्ष्मणम् भास्कर-रश्मि-कल्पैः ॥ ६६ ॥
sa vai gadābhiḥ hari-yūtha-mukhyān nirbhidya bāṇaiḥ tapanīya-puṅkhaiḥ . vavarṣa rāmam śara-vṛṣṭi-jālaiḥ sa lakṣmaṇam bhāskara-raśmi-kalpaiḥ .. 66 ..
स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तानचिन्त्य । समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ॥ 67 ॥
स बाण-वर्षैः अभिवर्ष्यमाणः धारा-निपातान् इव तान् अ चिन्त्य । समीक्षमाणः परम-अद्भुत-श्रीः रामः तदा लक्ष्मणम् इति उवाच ॥ ६७ ॥
sa bāṇa-varṣaiḥ abhivarṣyamāṇaḥ dhārā-nipātān iva tān a cintya . samīkṣamāṇaḥ parama-adbhuta-śrīḥ rāmaḥ tadā lakṣmaṇam iti uvāca .. 67 ..
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः । निपातयित्वा हरिसैन्यमुग्रम् अस्माञ्शरैरर्दयति प्रसक्तम् ॥ 68 ॥
असौ पुनर् लक्ष्मण राक्षस-इन्द्रः ब्रह्मास्त्रम् आश्रित्य सुर-इन्द्र-शत्रुः । निपातयित्वा हरि-सैन्यम् उग्रम् अस्मान् शरैः अर्दयति प्रसक्तम् ॥ ६८ ॥
asau punar lakṣmaṇa rākṣasa-indraḥ brahmāstram āśritya sura-indra-śatruḥ . nipātayitvā hari-sainyam ugram asmān śaraiḥ ardayati prasaktam .. 68 ..
स्वयम्भुवा दत्तवरो महात्मा खमाहितोऽन्तर्हितभीमकायः । कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥ 69 ॥
स्वयम्भुवा दत्त-वरः महात्मा खम् आहितः अन्तर्हित-भीम-कायः । कथम् नु शक्यः युधि नष्ट-देहः निहन्तुम् अद्य इन्द्रजित् उद्यत-अस्त्रः ॥ ६९ ॥
svayambhuvā datta-varaḥ mahātmā kham āhitaḥ antarhita-bhīma-kāyaḥ . katham nu śakyaḥ yudhi naṣṭa-dehaḥ nihantum adya indrajit udyata-astraḥ .. 69 ..
मन्ये स्वयम्भूर्भगवानचिन्त्यस्तस्यैतदस्त्रं प्रभवश् च योऽस्य । बाणावपातां त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ॥ 70 ॥
मन्ये स्वयम्भूः भगवान् अचिन्त्यः तस्य एतत् अस्त्रम् प्रभवः च यः अस्य । बाणौ अपाताम् त्वम् इह अद्य धीमत् मया सह अव्यग्र-मनाः सहस्व ॥ ७० ॥
manye svayambhūḥ bhagavān acintyaḥ tasya etat astram prabhavaḥ ca yaḥ asya . bāṇau apātām tvam iha adya dhīmat mayā saha avyagra-manāḥ sahasva .. 70 ..
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः । एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम् ॥ 71 ॥
प्रच्छादयति एष हि राक्षस-इन्द्रः सर्वाः दिशः सायक-वृष्टि-जालैः । एतत् च सर्वम् पतित-अग्र्य-शूरम् न भ्राजते वानर-राज-सैन्यम् ॥ ७१ ॥
pracchādayati eṣa hi rākṣasa-indraḥ sarvāḥ diśaḥ sāyaka-vṛṣṭi-jālaiḥ . etat ca sarvam patita-agrya-śūram na bhrājate vānara-rāja-sainyam .. 71 ..
आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ हतहर्षरोषौ । ध्रुवं प्रवेक्ष्यत्यमरारिवासंमसौ समासाद्य रणाग्रलक्ष्मीम् ॥ 72 ॥
आवाम् तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्त-युद्धौ हत-हर्ष-रोषौ । ध्रुवम् प्रवेक्ष्यति अमर-अरि-वासम् असौ समासाद्य रण-अग्र-लक्ष्मीम् ॥ ७२ ॥
āvām tu dṛṣṭvā patitau visaṃjñau nivṛtta-yuddhau hata-harṣa-roṣau . dhruvam pravekṣyati amara-ari-vāsam asau samāsādya raṇa-agra-lakṣmīm .. 72 ..
ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तदा विशस्तौ । स चापि तौ तत्र विषादयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः ॥ 73 ॥
ततस् तु तौ इन्द्रजित्-अस्त्र-जालैः बभूवतुः तत्र तदा विशस्तौ । स च अपि तौ तत्र विषादयित्वा ननाद हर्षात् युधि राक्षस-इन्द्रः ॥ ७३ ॥
tatas tu tau indrajit-astra-jālaiḥ babhūvatuḥ tatra tadā viśastau . sa ca api tau tatra viṣādayitvā nanāda harṣāt yudhi rākṣasa-indraḥ .. 73 ..
तत स्तदा वानरसैन्यंमेवं रामं च सङ्ख्ये सह लक्ष्मणेन । विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् । संस्तूयमानः स तु यातुधानैः पत्रे च सर्वं हृषितोऽभ्युवाच ॥ 74 ॥
ततस् तदा वानर-सैन्यम् एवम् रामम् च सङ्ख्ये सह लक्ष्मणेन । विषादयित्वा सहसा विवेश पुरीम् दशग्रीव-भुज-अभिगुप्ताम् । संस्तूयमानः स तु यातुधानैः पत्रे च सर्वम् हृषितः अभ्युवाच ॥ ७४ ॥
tatas tadā vānara-sainyam evam rāmam ca saṅkhye saha lakṣmaṇena . viṣādayitvā sahasā viveśa purīm daśagrīva-bhuja-abhiguptām . saṃstūyamānaḥ sa tu yātudhānaiḥ patre ca sarvam hṛṣitaḥ abhyuvāca .. 74 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In