This overlay will guide you through the buttons:

| |
|
तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम् । सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किं चित्प्रतिपेदिरे ते ॥ १॥
तयोः तदा सादितयोः रण-अग्रे मुमोह सैन्यम् हरि-यूथपानाम् । सुग्रीव-नील-अङ्गद-जाम्बवन्तः न च अपि किम् चित् प्रतिपेदिरे ते ॥ १॥
tayoḥ tadā sāditayoḥ raṇa-agre mumoha sainyam hari-yūthapānām . sugrīva-nīla-aṅgada-jāmbavantaḥ na ca api kim cit pratipedire te .. 1..
ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः । उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥ २॥
ततस् विषण्णम् समवेक्ष्य सैन्यम् विभीषणः बुद्धिमताम् वरिष्ठः । उवाच शाखामृग-राज-वीरान् आश्वासयन् अप्रतिमैः वचोभिः ॥ २॥
tatas viṣaṇṇam samavekṣya sainyam vibhīṣaṇaḥ buddhimatām variṣṭhaḥ . uvāca śākhāmṛga-rāja-vīrān āśvāsayan apratimaiḥ vacobhiḥ .. 2..
मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्मवशौ विषण्णौ । स्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः ॥ ३॥
मा भैष्ट न अस्ति अत्र विषाद-कालः यदा आर्य-पुत्रौ ह्म वशौ विषण्णौ । स्वयम्भुवः वाक्यम् अथ उद्वहन्तौ यत् सादितौ इन्द्रजित्-अस्त्र-जालैः ॥ ३॥
mā bhaiṣṭa na asti atra viṣāda-kālaḥ yadā ārya-putrau hma vaśau viṣaṇṇau . svayambhuvaḥ vākyam atha udvahantau yat sāditau indrajit-astra-jālaiḥ .. 3..
तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवीर्यम् । तन्मानयन्तौ यदि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ॥ ४ ॥
तस्मै तु दत्तम् परम-अस्त्रम् एतत् स्वयम्भुवा ब्राह्मम् अमोघ-वीर्यम् । तत् मानयन्तौ यदि राज-पुत्रौ निपातितौ कः अत्र विषाद-कालः ॥ ४ ॥
tasmai tu dattam parama-astram etat svayambhuvā brāhmam amogha-vīryam . tat mānayantau yadi rāja-putrau nipātitau kaḥ atra viṣāda-kālaḥ .. 4 ..
ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः । विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् ॥ ५॥
ब्राह्मम् अस्त्रम् ततस् धीमान् मानयित्वा तु मारुतिः । विभीषण-वचः श्रुत्वा हनूमान् तम् अथा अब्रवीत् ॥ ५॥
brāhmam astram tatas dhīmān mānayitvā tu mārutiḥ . vibhīṣaṇa-vacaḥ śrutvā hanūmān tam athā abravīt .. 5..
अस्मिन्निस्त्रहते सैन्ये वानराणां तरस्विनाम् । यो यो धारयते प्राणांस्तं तमाश्वासयावहे ॥ ६ ॥
अस्मिन् निस्त्रहते सैन्ये वानराणाम् तरस्विनाम् । यः यः धारयते प्राणान् तम् तम् आश्वासयावहे ॥ ६ ॥
asmin nistrahate sainye vānarāṇām tarasvinām . yaḥ yaḥ dhārayate prāṇān tam tam āśvāsayāvahe .. 6 ..
तावुभौ युगपद् वीरौ हनूमद्राक्षसोत्तमौ । उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ७॥
तौ उभौ युगपद् वीरौ हनूमत्-द्राक्षस-उत्तमौ । उल्का-हस्तौ तदा रात्रौ रण-शीर्षे विचेरतुः ॥ ७॥
tau ubhau yugapad vīrau hanūmat-drākṣasa-uttamau . ulkā-hastau tadā rātrau raṇa-śīrṣe viceratuḥ .. 7..
भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः । स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥ ८॥
भिन्न-लाङ्गूल-हस्त-ऊरु-पाद-अङ्गुलि-शिरोधरैः । स्रवद्भिः क्षतजम् गात्रैः प्रस्रवद्भिः समन्ततः ॥ ८॥
bhinna-lāṅgūla-hasta-ūru-pāda-aṅguli-śirodharaiḥ . sravadbhiḥ kṣatajam gātraiḥ prasravadbhiḥ samantataḥ .. 8..
पतितैः पर्वताकारैर्वानरैरभिसंवृताम् । शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ ९ ॥
पतितैः पर्वत-आकारैः वानरैः अभिसंवृताम् । शस्त्रैः च पतितैः दीप्तैः ददृशाते वसुन्धराम् ॥ ९ ॥
patitaiḥ parvata-ākāraiḥ vānaraiḥ abhisaṃvṛtām . śastraiḥ ca patitaiḥ dīptaiḥ dadṛśāte vasundharām .. 9 ..
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् । जाम्बवन्तं सुषेणं च वेगदर्शनमेव च ॥ १० ॥
सुग्रीवम् अङ्गदम् नीलम् शरभम् गन्धमादनम् । जाम्बवन्तम् सुषेणम् च वेगदर्शनम् एव च ॥ १० ॥
sugrīvam aṅgadam nīlam śarabham gandhamādanam . jāmbavantam suṣeṇam ca vegadarśanam eva ca .. 10 ..
मैन्दं नलं ज्योतिमुखं द्विविदं चापि वानरम् । विभीषणो हनूमांश्च ददृशाते हतान् रणे ॥ ११ ॥
मैन्दम् नलम् ज्योतिर्मुखम् द्विविदम् च अपि वानरम् । विभीषणः हनूमान् च ददृशाते हतान् रणे ॥ ११ ॥
maindam nalam jyotirmukham dvividam ca api vānaram . vibhīṣaṇaḥ hanūmān ca dadṛśāte hatān raṇe .. 11 ..
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् । अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ॥ १२॥
सप्तषष्टिः हताः कोट्यः वानराणाम् तरस्विनाम् । अह्नः पञ्चम-शेषेण वल्लभेन स्वयम्भुवः ॥ १२॥
saptaṣaṣṭiḥ hatāḥ koṭyaḥ vānarāṇām tarasvinām . ahnaḥ pañcama-śeṣeṇa vallabhena svayambhuvaḥ .. 12..
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् । मार्गते जाम्बवन्तं च हनूमान्सविभीषणः ॥ १३॥
सागर-ओघ-निभम् भीमम् दृष्ट्वा बाण-अर्दितम् बलम् । मार्गते जाम्बवन्तम् च हनूमान् स विभीषणः ॥ १३॥
sāgara-ogha-nibham bhīmam dṛṣṭvā bāṇa-arditam balam . mārgate jāmbavantam ca hanūmān sa vibhīṣaṇaḥ .. 13..
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् । प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ १४॥
स्वभाव-जरया युक्तम् वृद्धम् शर-शतैः चितम् । प्रजापति-सुतम् वीरम् शाम्यन्तम् इव पावकम् ॥ १४॥
svabhāva-jarayā yuktam vṛddham śara-śataiḥ citam . prajāpati-sutam vīram śāmyantam iva pāvakam .. 14..
दृष्ट्वा समभिसंक्रम्य पौलस्त्यो वाक्यमब्रवीत् । कच्चिदार्य शरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव ॥ १५॥
दृष्ट्वा समभिसंक्रम्य पौलस्त्यः वाक्यम् अब्रवीत् । कच्चित् आर्य शरैः तीक्ष्णैः न प्राणाः ध्वंसिताः तव ॥ १५॥
dṛṣṭvā samabhisaṃkramya paulastyaḥ vākyam abravīt . kaccit ārya śaraiḥ tīkṣṇaiḥ na prāṇāḥ dhvaṃsitāḥ tava .. 15..
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः । कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ॥ १६॥
विभीषण-वचः श्रुत्वा जाम्बवान् ऋक्ष-पुङ्गवः । कृच्छ्रात् अभ्युद्गिरन् वाक्यम् इदम् वचनम् अब्रवीत् ॥ १६॥
vibhīṣaṇa-vacaḥ śrutvā jāmbavān ṛkṣa-puṅgavaḥ . kṛcchrāt abhyudgiran vākyam idam vacanam abravīt .. 16..
नैरृतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये । विध्दगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १७॥
नैरृत-इन्द्र महा-वीर्य स्वरेण त्वा अभिलक्षये । विध्द-गात्रः शितैः बाणैः न त्वाम् पश्यामि चक्षुषा ॥ १७॥
nairṛta-indra mahā-vīrya svareṇa tvā abhilakṣaye . vidhda-gātraḥ śitaiḥ bāṇaiḥ na tvām paśyāmi cakṣuṣā .. 17..
अञ्जना सुप्रजा येन मातरिश्वा च सुव्रत । हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्व चित् ॥ १८॥
अञ्जना सुप्रजाः येन मातरिश्वा च सुव्रत । हनूमान् वानर-श्रेष्ठः प्राणान् धारयते क्व चित् ॥ १८॥
añjanā suprajāḥ yena mātariśvā ca suvrata . hanūmān vānara-śreṣṭhaḥ prāṇān dhārayate kva cit .. 18..
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः । आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥ १९॥
श्रुत्वा जाम्बवतः वाक्यम् उवाच इदम् विभीषणः । आर्य-पुत्रौ अतिक्रम्य कस्मात् पृच्छसि मारुतिम् ॥ १९॥
śrutvā jāmbavataḥ vākyam uvāca idam vibhīṣaṇaḥ . ārya-putrau atikramya kasmāt pṛcchasi mārutim .. 19..
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे । आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ॥ २०॥
ना एव राजनि सुग्रीवे ना अङ्गदे ना अपि राघवे । आर्य सन्दर्शितः स्नेहः यथा वायुसुते परः ॥ २०॥
nā eva rājani sugrīve nā aṅgade nā api rāghave . ārya sandarśitaḥ snehaḥ yathā vāyusute paraḥ .. 20..
विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् । शृणु नैरृतशार्दूल यस्मात् पृच्छामि मारुतिम् ॥ २१॥
विभीषण-वचः श्रुत्वा जाम्बवान् वाक्यम् अब्रवीत् । शृणु नैरृत-शार्दूल यस्मात् पृच्छामि मारुतिम् ॥ २१॥
vibhīṣaṇa-vacaḥ śrutvā jāmbavān vākyam abravīt . śṛṇu nairṛta-śārdūla yasmāt pṛcchāmi mārutim .. 21..
अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् । हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयंम॥ २२॥
अस्मिन् जीवति वीरे तु हतम् अपि अहतम् बलम् । हनूमति उज्झित-प्राणे जीवन्तः अपि मृताः॥ २२॥
asmin jīvati vīre tu hatam api ahatam balam . hanūmati ujjhita-prāṇe jīvantaḥ api mṛtāḥ.. 22..
धरते मारुतिस्तात मारुतप्रतिमो यदि । वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २३॥
धरते मारुतिः तात मारुत-प्रतिमः यदि । वैश्वानर-समः वीर्ये जीवित-आशा ततस् भवेत् ॥ २३॥
dharate mārutiḥ tāta māruta-pratimaḥ yadi . vaiśvānara-samaḥ vīrye jīvita-āśā tatas bhavet .. 23..
ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् । गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः ॥ २४॥
ततस् वृद्धम् उपागम्य नियमेन अभ्यवादयत् । गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः ॥ २४॥
tatas vṛddham upāgamya niyamena abhyavādayat . gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ .. 24..
श्रुत्वा हनुमतो वाक्यं तदा विव्यथितेन्द्रियः । पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ २५॥
श्रुत्वा हनुमतः वाक्यम् तदा विव्यथित-इन्द्रियः । पुनर् जातम् इव आत्मानम् मन्यते स्म ऋक्ष-पुङ्गवः ॥ २५॥
śrutvā hanumataḥ vākyam tadā vivyathita-indriyaḥ . punar jātam iva ātmānam manyate sma ṛkṣa-puṅgavaḥ .. 25..
ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् । आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥ २६॥
ततस् अब्रवीत् महा-तेजाः हनूमन्तम् स जाम्बवान् । आगच्छ हरि-शार्दूल वानरान् त्रातुम् अर्हसि ॥ २६॥
tatas abravīt mahā-tejāḥ hanūmantam sa jāmbavān . āgaccha hari-śārdūla vānarān trātum arhasi .. 26..
नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा । त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥ २७॥
न अन्यः विक्रम-पर्याप्तः त्वम् एषाम् परमः सखा । त्वद्-पराक्रम-कालः अयम् न अन्यम् पश्यामि कञ्चन ॥ २७॥
na anyaḥ vikrama-paryāptaḥ tvam eṣām paramaḥ sakhā . tvad-parākrama-kālaḥ ayam na anyam paśyāmi kañcana .. 27..
ऋक्षवानरवीराणामनीकानि प्रहर्षय । विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २८॥
ऋक्ष-वानर-वीराणाम् अनीकानि प्रहर्षय । विशल्यौ कुरु च अपि एतौ सादितौ राम-लक्ष्मणौ ॥ २८॥
ṛkṣa-vānara-vīrāṇām anīkāni praharṣaya . viśalyau kuru ca api etau sāditau rāma-lakṣmaṇau .. 28..
गत्वा परममध्वानमुपर्युपरि सागरम् । हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि ॥ २९॥
गत्वा परमम् अध्वानम् उपरि उपरि सागरम् । हिमवन्तम् नग-श्रेष्ठम् हनूमन् गन्तुम् अर्हसि ॥ २९॥
gatvā paramam adhvānam upari upari sāgaram . himavantam naga-śreṣṭham hanūman gantum arhasi .. 29..
ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् । कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ ३०॥
ततस् काञ्चनम् अति उच्चम् ऋषभम् पर्वत-उत्तमम् । कैलास-शिखरम् च अपि द्रक्ष्यसि अरि-निषूदन ॥ ३०॥
tatas kāñcanam ati uccam ṛṣabham parvata-uttamam . kailāsa-śikharam ca api drakṣyasi ari-niṣūdana .. 30..
तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् । सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् ॥ ३१॥
तयोः शिखरयोः मध्ये प्रदीप्तम् अतुल-प्रभम् । सर्व-ओषधि-युतम् वीर द्रक्ष्यसि औषधि-पर्वतम् ॥ ३१॥
tayoḥ śikharayoḥ madhye pradīptam atula-prabham . sarva-oṣadhi-yutam vīra drakṣyasi auṣadhi-parvatam .. 31..
तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः । द्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश ॥ ३२॥
तस्य वानर-शार्दूल चतस्रः मूर्ध्नि सम्भवाः । द्रक्ष्यसि ओषधयः दीप्ताः दीपयन्तीः दिशः दश ॥ ३२॥
tasya vānara-śārdūla catasraḥ mūrdhni sambhavāḥ . drakṣyasi oṣadhayaḥ dīptāḥ dīpayantīḥ diśaḥ daśa .. 32..
मृतसञ्जीवनीं चैव विशल्यकरणीमपि । सौवर्णकरणीं चैव सन्धानीं च महौषधीम् ॥ ३३॥
मृतसञ्जीवनीम् च एव विशल्यकरणीम् अपि । सौवर्णकरणीम् च एव सन्धानीम् च महौषधीम् ॥ ३३॥
mṛtasañjīvanīm ca eva viśalyakaraṇīm api . sauvarṇakaraṇīm ca eva sandhānīm ca mahauṣadhīm .. 33..
ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि । आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः ॥ ३४॥
ताः सर्वाः हनुमन् गृह्य क्षिप्रम् आगन्तुम् अर्हसि । आश्वासय हरीन् प्राणैः योज्य गन्धवह-आत्मजः ॥ ३४॥
tāḥ sarvāḥ hanuman gṛhya kṣipram āgantum arhasi . āśvāsaya harīn prāṇaiḥ yojya gandhavaha-ātmajaḥ .. 34..
श्रुत्वा जाम्बवतो वाक्यं हनूमान् मारुतात्मजः । आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ ३५॥
श्रुत्वा जाम्बवतः वाक्यम् हनूमान् मारुतात्मजः । आपूर्यत बल-उद्धर्षैः तोय-वेगैः इव अर्णवः ॥ ३५॥
śrutvā jāmbavataḥ vākyam hanūmān mārutātmajaḥ . āpūryata bala-uddharṣaiḥ toya-vegaiḥ iva arṇavaḥ .. 35..
स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तरम् । हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३६॥
स पर्वत-तट-अग्र-स्थः पीडयन् पर्वत-उत्तरम् । हनूमान् दृश्यते वीरः द्वितीयः इव पर्वतः ॥ ३६॥
sa parvata-taṭa-agra-sthaḥ pīḍayan parvata-uttaram . hanūmān dṛśyate vīraḥ dvitīyaḥ iva parvataḥ .. 36..
हरिपादविनिर्भिन्नो निषसाद स पर्वतः । न शशाक तदाऽऽत्मानं वोढुं भृशनिपीडितः ॥ ३७॥
हरि-पाद-विनिर्भिन्नः निषसाद स पर्वतः । न शशाक तदा आत्मानम् वोढुम् भृश-निपीडितः ॥ ३७॥
hari-pāda-vinirbhinnaḥ niṣasāda sa parvataḥ . na śaśāka tadā ātmānam voḍhum bhṛśa-nipīḍitaḥ .. 37..
तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः । शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥ ३८॥
तस्य पेतुः नगाः भूमौ हरि-वेगात् च जज्वलुः । शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥ ३८॥
tasya petuḥ nagāḥ bhūmau hari-vegāt ca jajvaluḥ . śṛṅgāṇi ca vyaśīryanta pīḍitasya hanūmatā .. 38..
तस्मिन्सम्पीड्यमाने तु भग्नद्रुमशिलातले । न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ३९॥
तस्मिन् सम्पीड्यमाने तु भग्न-द्रुम-शिला-तले । न शेकुः वानराः स्थातुम् घूर्णमाने नग-उत्तमे ॥ ३९॥
tasmin sampīḍyamāne tu bhagna-druma-śilā-tale . na śekuḥ vānarāḥ sthātum ghūrṇamāne naga-uttame .. 39..
सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा । लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥ ४०॥
सा घूर्णित-महा-द्वारा प्रभग्न-गृह-गोपुरा । लङ्का त्रास-आकुला रात्रौ प्रनृत्ता इव अभवत् तदा ॥ ४०॥
sā ghūrṇita-mahā-dvārā prabhagna-gṛha-gopurā . laṅkā trāsa-ākulā rātrau pranṛttā iva abhavat tadā .. 40..
पृथिवीधरसङ्काशो निपीड्य धरणीधरम् । पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥ ४१॥
पृथिवीधर-सङ्काशः निपीड्य धरणीधरम् । पृथिवीम् क्षोभयामास स अर्णवाम् मारुतात्मजः ॥ ४१॥
pṛthivīdhara-saṅkāśaḥ nipīḍya dharaṇīdharam . pṛthivīm kṣobhayāmāsa sa arṇavām mārutātmajaḥ .. 41..
आरुरोह तदा तस्माद्धरिर्मलयपर्वतम् । मेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ॥ 42 ॥
आरुरोह तदा तस्मात् हरिः मलय-पर्वतम् । मेरु-मन्दर-सङ्काशम् नाना प्रस्रवण-आकुलम् ॥ ४२ ॥
āruroha tadā tasmāt hariḥ malaya-parvatam . meru-mandara-saṅkāśam nānā prasravaṇa-ākulam .. 42 ..
नानाद्रुमलताकीर्णं विकासिकमलोत्पलम् । सेवितंदेवगन्धर्वैष्षष्टियोजनमुच्छ्रितम् ॥ 43 ॥
नाना द्रुम-लता-आकीर्णम् विकासि-कमल-उत्पलम् । सेवितम् देव-गन्धर्वैः षष्टि-योजनम् उच्छ्रितम् ॥ ४३ ॥
nānā druma-latā-ākīrṇam vikāsi-kamala-utpalam . sevitam deva-gandharvaiḥ ṣaṣṭi-yojanam ucchritam .. 43 ..
विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् । नानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ 44 ॥
विद्याधरैः मुनि-गणैः अप्सरोभिः निषेवितम् । नाना मृग-गण-आकीर्णम् बहु-कन्दर-शोभितम् ॥ ४४ ॥
vidyādharaiḥ muni-gaṇaiḥ apsarobhiḥ niṣevitam . nānā mṛga-gaṇa-ākīrṇam bahu-kandara-śobhitam .. 44 ..
सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् । हनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ॥ 45 ॥
सर्वान् आकुलयन् तत्र यक्ष-गन्धर्व-किन्नरान् । हनुमान् मेघ-सङ्काशः ववृधे मारुतात्मजः ॥ ४५ ॥
sarvān ākulayan tatra yakṣa-gandharva-kinnarān . hanumān megha-saṅkāśaḥ vavṛdhe mārutātmajaḥ .. 45 ..
पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् । विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ 46 ॥
पद्भ्याम् तु शैलम् आपीड्य वडवामुख-वत् मुखम् । विवृत्य उग्रम् ननाद उच्चैस् त्रासयन् इव राक्षसान् ॥ ४६ ॥
padbhyām tu śailam āpīḍya vaḍavāmukha-vat mukham . vivṛtya ugram nanāda uccais trāsayan iva rākṣasān .. 46 ..
तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् । लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ 47 ॥
तस्य नानद्यमानस्य श्रुत्वा निनदम् अद्भुतम् । लङ्का-स्थाः राक्षसाः सर्वे न शेकुः स्पन्दितुम् भयात् ॥ ४७ ॥
tasya nānadyamānasya śrutvā ninadam adbhutam . laṅkā-sthāḥ rākṣasāḥ sarve na śekuḥ spanditum bhayāt .. 47 ..
नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः । राघवार्थे परं कर्म समैहत परन्तपः ॥ 48 ॥
नमस्कृत्वा अथ रामाय मारुतिः भीम-विक्रमः । राघव-अर्थे परम् कर्म समैहत परन्तपः ॥ ४८ ॥
namaskṛtvā atha rāmāya mārutiḥ bhīma-vikramaḥ . rāghava-arthe param karma samaihata parantapaḥ .. 48 ..
स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुच्य । विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योम्नि स चण्डवेगः ॥ 49 ॥
स पुच्छम् उद्यम्य भुजङ्ग-कल्पम् विनम्य पृष्ठम् श्रवणे निकुच्य । विवृत्य वक्त्रम् वडवामुख-आभम् आपुप्लुवे व्योम्नि स चण्ड-वेगः ॥ ४९ ॥
sa puccham udyamya bhujaṅga-kalpam vinamya pṛṣṭham śravaṇe nikucya . vivṛtya vaktram vaḍavāmukha-ābham āpupluve vyomni sa caṇḍa-vegaḥ .. 49 ..
स वृक्षखण्डांस्तरसा जहार शैलाञ्शिलाः प्राकृतवानरांश् च । बाहूरुवेगोद्गतसम्प्रणुन्नास् ते क्षीणवेगाः सलिले निपेतुः ॥ 50 ॥
स वृक्ष-खण्डान् तरसा जहार शैलान् शिलाः प्राकृत-वानरान् च । बाहु-ऊरु-वेग-उद्गत-सम्प्रणुन्नाः ते क्षीण-वेगाः सलिले निपेतुः ॥ ५० ॥
sa vṛkṣa-khaṇḍān tarasā jahāra śailān śilāḥ prākṛta-vānarān ca . bāhu-ūru-vega-udgata-sampraṇunnāḥ te kṣīṇa-vegāḥ salile nipetuḥ .. 50 ..
स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजङ्गारिनिकाशवीर्यः । जगाम शैलं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ 51 ॥
स तौ प्रसार्य उरग-भोग-कल्पौ भुजौ भुजङ्ग-अरि-निकाश-वीर्यः । जगाम शैलम् नग-राजम् अग्र्यम् दिशः प्रकर्षन् इव वायुसूनुः ॥ ५१ ॥
sa tau prasārya uraga-bhoga-kalpau bhujau bhujaṅga-ari-nikāśa-vīryaḥ . jagāma śailam naga-rājam agryam diśaḥ prakarṣan iva vāyusūnuḥ .. 51 ..
स सागरं घूर्णितबीचिमालं तदम्भशं भ्रामितसर्वसत्त्वम् । समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ 52 ॥
स सागरम् घूर्णित-बीचि-मालम् तद्-अम्भशम् भ्रामित-सर्व-सत्त्वम् । समीक्षमाणः सहसा जगाम चक्रम् यथा विष्णु-कर-अग्र-मुक्तम् ॥ ५२ ॥
sa sāgaram ghūrṇita-bīci-mālam tad-ambhaśam bhrāmita-sarva-sattvam . samīkṣamāṇaḥ sahasā jagāma cakram yathā viṣṇu-kara-agra-muktam .. 52 ..
स पर्वतान् पक्षिगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि । स्फीताञ्जनांस्तानपि सम्प्रपश्यञ् जगाम वेगात् पितृतुल्यवेगः ॥ 53 ॥
स पर्वतान् पक्षि-गणान् सरांसि नदीः तटाकानि पुर-उत्तमानि । स्फीत-अञ्जनान् तान् अपि सम्प्रपश्यन् जगाम वेगात् पितृ-तुल्य-वेगः ॥ ५३ ॥
sa parvatān pakṣi-gaṇān sarāṃsi nadīḥ taṭākāni pura-uttamāni . sphīta-añjanān tān api samprapaśyan jagāma vegāt pitṛ-tulya-vegaḥ .. 53 ..
आदित्यपथमाश्रित्य जगाम स गतश्रमः । हनूमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥ 54 ॥
आदित्य-पथम् आश्रित्य जगाम स गत-श्रमः । हनूमान् त्वरितः वीरः पितृ-तुल्य-पराक्रमः ॥ ५४ ॥
āditya-patham āśritya jagāma sa gata-śramaḥ . hanūmān tvaritaḥ vīraḥ pitṛ-tulya-parākramaḥ .. 54 ..
जवेन महता युक्तो मारुतिर्वातरंहसा । जगाम हरिशार्दूलो दिशछ शब्देन नादयन् ॥ 55 ॥
जवेन महता युक्तः मारुतिः वात-रंहसा । जगाम हरि-शार्दूलः शब्देन नादयन् ॥ ५५ ॥
javena mahatā yuktaḥ mārutiḥ vāta-raṃhasā . jagāma hari-śārdūlaḥ śabdena nādayan .. 55 ..
स्म्मरन्जाम्बवतो वाक्यं मारुतिर्वातरंहसा । ददर्श सहसा चापि हिमवन्तं महाकपिः ॥ 56 ॥
स्म्मरन् जाम्बवतः वाक्यम् मारुतिः वात-रंहसा । ददर्श सहसा च अपि हिमवन्तम् महा-कपिः ॥ ५६ ॥
smmaran jāmbavataḥ vākyam mārutiḥ vāta-raṃhasā . dadarśa sahasā ca api himavantam mahā-kapiḥ .. 56 ..
नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् । श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः । शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ॥ 57 ॥
नाना प्रस्रवण-उपेतम् बहु-कन्दर-निर्झरम् । श्वेत-अभ्र-चय-सङ्काशैः शिखरैः चारु-दर्शनैः । शोभितम् विविधैः वृक्षैः अगमत् पर्वत-उत्तमम् ॥ ५७ ॥
nānā prasravaṇa-upetam bahu-kandara-nirjharam . śveta-abhra-caya-saṅkāśaiḥ śikharaiḥ cāru-darśanaiḥ . śobhitam vividhaiḥ vṛkṣaiḥ agamat parvata-uttamam .. 57 ..
स तं समासाद्य महानगेन्द्रम् अतिप्रवृद्धोत्तमघोरशृङ्गम् । ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥ 58 ॥
स तम् समासाद्य महा-नग-इन्द्रम् अतिप्रवृद्ध-उत्तम-घोर-शृङ्गम् । ददर्श पुण्यानि महा-आश्रमाणि सुर-ऋषि-सङ्घ-उत्तम-सेवितानि ॥ ५८ ॥
sa tam samāsādya mahā-naga-indram atipravṛddha-uttama-ghora-śṛṅgam . dadarśa puṇyāni mahā-āśramāṇi sura-ṛṣi-saṅgha-uttama-sevitāni .. 58 ..
स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् । हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वत किङ्करांश् च ॥ 59 ॥
स ब्रह्मकोशम् रजत-आलयम् च शक्र-आलयम् रुद्र-शर-प्रमोक्षम् । हय-आननम् ब्रह्मशिरः च दीप्तम् ददर्श वैवस्वत किङ्करान् च ॥ ५९ ॥
sa brahmakośam rajata-ālayam ca śakra-ālayam rudra-śara-pramokṣam . haya-ānanam brahmaśiraḥ ca dīptam dadarśa vaivasvata kiṅkarān ca .. 59 ..
वज्रालयं वैश्वरणालयं च सूर्यप्रभं सूर्यनिबन्धनं च । ब्रह्मालयं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ॥ 60 ॥
वज्रालयम् वैश्वरणालयम् च सूर्यप्रभम् सूर्यनिबन्धनम् च । ब्रह्म-आलयम् शङ्कर-कार्मुकम् च ददर्श नाभिम् च वसुन्धरायाः ॥ ६० ॥
vajrālayam vaiśvaraṇālayam ca sūryaprabham sūryanibandhanam ca . brahma-ālayam śaṅkara-kārmukam ca dadarśa nābhim ca vasundharāyāḥ .. 60 ..
कैलासमग्र्यं हिमवच्छिलां च तं वै वृष काञ्चनशैलमग्र्यम् । प्रदीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ 61 ॥
कैलासम् अग्र्यम् हिमवत्-शिलाम् च तम् वै वृष काञ्चन-शैलम् अग्र्यम् । प्रदीप्त-सर्व-ओषधि-सम्प्रदीप्तम् ददर्श सर्व-औषधि-पर्वत-इन्द्रम् ॥ ६१ ॥
kailāsam agryam himavat-śilām ca tam vai vṛṣa kāñcana-śailam agryam . pradīpta-sarva-oṣadhi-sampradīptam dadarśa sarva-auṣadhi-parvata-indram .. 61 ..
स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः । आप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥ 62 ॥
स तम् समीक्ष्य अनल-रश्मि-दीप्तम् विसिष्मिये वासव-दूत-सूनुः । आप्लुत्य तम् च औषधि-पर्वत-इन्द्रम् तत्र ओषधीनाम् विचयम् चकार ॥ ६२ ॥
sa tam samīkṣya anala-raśmi-dīptam visiṣmiye vāsava-dūta-sūnuḥ . āplutya tam ca auṣadhi-parvata-indram tatra oṣadhīnām vicayam cakāra .. 62 ..
स योजनसहस्राणि समतीत्य महाकपिः । दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ 63 ॥
स योजन-सहस्राणि समतीत्य महा-कपिः । दिव्य-ओषधि-धरम् शैलम् व्यचरत् मारुतात्मजः ॥ ६३ ॥
sa yojana-sahasrāṇi samatītya mahā-kapiḥ . divya-oṣadhi-dharam śailam vyacarat mārutātmajaḥ .. 63 ..
महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे । विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ 64 ॥
महौषध्यः ततस् सर्वाः तस्मिन् पर्वत-सत्तमे । विज्ञाय अर्थिनम् आयान्तम् ततस् जग्मुः अदर्शनम् ॥ ६४ ॥
mahauṣadhyaḥ tatas sarvāḥ tasmin parvata-sattame . vijñāya arthinam āyāntam tatas jagmuḥ adarśanam .. 64 ..
स ता महात्मा हनुमानपश्यंश्चुकोप रोषाच्च भृशं ननाद । अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥ 65 ॥
स ताः महात्मा हनुमान् अपश्यन् चुकोप रोषात् च भृशम् ननाद । अमृष्यमाणः अग्नि-निकाश-चक्षुः महीधर-इन्द्रम् तम् उवाच वाक्यम् ॥ ६५ ॥
sa tāḥ mahātmā hanumān apaśyan cukopa roṣāt ca bhṛśam nanāda . amṛṣyamāṇaḥ agni-nikāśa-cakṣuḥ mahīdhara-indram tam uvāca vākyam .. 65 ..
किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः । पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ 66 ॥
किम् एतत् एवम् सु विनिश्चितम् ते यत् राघवे न असि कृत-अनुकम्पः । पश्य अद्य मद्-बाहु-बल-अभिभूतः विकीर्णम् आत्मानम् अथो नग-इन्द्र ॥ ६६ ॥
kim etat evam su viniścitam te yat rāghave na asi kṛta-anukampaḥ . paśya adya mad-bāhu-bala-abhibhūtaḥ vikīrṇam ātmānam atho naga-indra .. 66 ..
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् । विकीर्णकूटं ज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ॥ 67 ॥
स तस्य शृङ्गम् स नगम् स नागम् स काञ्चनम् धातु-सहस्र-जुष्टम् । विकीर्ण-कूटम् ज्वलित-अग्र-सानुम् प्रगृह्य वेगात् सहसा उन्ममाथ ॥ ६७ ॥
sa tasya śṛṅgam sa nagam sa nāgam sa kāñcanam dhātu-sahasra-juṣṭam . vikīrṇa-kūṭam jvalita-agra-sānum pragṛhya vegāt sahasā unmamātha .. 67 ..
स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरान्सुरेन्द्रान् । संस्तूयमानः खचरैरनेकैर्जगाम वेगाद् गरुडोग्रवेग ॥ 68 ॥
स तम् समुत्पाट्य खम् उत्पपात वित्रास्य लोकान् स सुरान् सुर-इन्द्रान् । संस्तूयमानः खचरैः अनेकैः जगाम वेगात् गरुड-उग्र-वेग ॥ ६८ ॥
sa tam samutpāṭya kham utpapāta vitrāsya lokān sa surān sura-indrān . saṃstūyamānaḥ khacaraiḥ anekaiḥ jagāma vegāt garuḍa-ugra-vega .. 68 ..
स भास्कराध्वानमनुप्रपन्नस्तद् भास्कराभं शिखरं प्रगृह्य । बभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः ॥ 69 ॥
स भास्कर-अध्वानम् अनुप्रपन्नः तत् भास्कर-आभम् शिखरम् प्रगृह्य । बभौ तदा भास्कर-संनिकाशः रवेः समीपे प्रतिभास्कर-आभः ॥ ६९ ॥
sa bhāskara-adhvānam anuprapannaḥ tat bhāskara-ābham śikharam pragṛhya . babhau tadā bhāskara-saṃnikāśaḥ raveḥ samīpe pratibhāskara-ābhaḥ .. 69 ..
स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु । सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ 70 ॥
स तेन शैलेन भृशम् रराज शैल-उपमः गन्धवह-आत्मजः तु । सहस्रधारेण स पावकेन चक्रेण खे विष्णुः इव अर्पितेन ॥ ७० ॥
sa tena śailena bhṛśam rarāja śaila-upamaḥ gandhavaha-ātmajaḥ tu . sahasradhāreṇa sa pāvakena cakreṇa khe viṣṇuḥ iva arpitena .. 70 ..
तं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद । तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ 71 ॥
तम् वानराः प्रेक्ष्य तदा विनेदुः स तान् अपि प्रेक्ष्य मुदा ननाद । तेषाम् समुद्घुष्ट-रवम् निशम्य लङ्का-आलयाः भीमतरम् विनेदुः ॥ ७१ ॥
tam vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda . teṣām samudghuṣṭa-ravam niśamya laṅkā-ālayāḥ bhīmataram vineduḥ .. 71 ..
ततो महात्मा निपपात तस्मिञ् शैलोत्तमे वानरसैन्यमध्ये । हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः ॥ 72 ॥
ततस् महात्मा निपपात तस्मिन् शैल-उत्तमे वानर-सैन्य-मध्ये । हरि-उत्तमेभ्यः शिरसा अभिवाद्य विभीषणम् तत्र च सस्वजे सः ॥ ७२ ॥
tatas mahātmā nipapāta tasmin śaila-uttame vānara-sainya-madhye . hari-uttamebhyaḥ śirasā abhivādya vibhīṣaṇam tatra ca sasvaje saḥ .. 72 ..
तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् । बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ 73 ॥
तौ अपि उभौ मानुष-राज-पुत्रौ तम् गन्धम् आघ्राय महौषधीनाम् । बभूवतुः तत्र तदा विशल्यौ उत्तस्थुः अन्ये च हरि-प्रवीराः ॥ ७३ ॥
tau api ubhau mānuṣa-rāja-putrau tam gandham āghrāya mahauṣadhīnām . babhūvatuḥ tatra tadā viśalyau uttasthuḥ anye ca hari-pravīrāḥ .. 73 ..
सर्वे विशल्या विरुजाः क्षणेन हरिप्रवीराश्च हताश्च ये स्युः । गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥ 74 ॥
सर्वे विशल्याः विरुजाः क्षणेन हरि-प्रवीराः च हताः च ये स्युः । गन्धेन तासाम् प्रवर-ओषधीनाम् सुप्ताः निशा-अन्तेषु इव सम्प्रबुद्धाः ॥ ७४ ॥
sarve viśalyāḥ virujāḥ kṣaṇena hari-pravīrāḥ ca hatāḥ ca ye syuḥ . gandhena tāsām pravara-oṣadhīnām suptāḥ niśā-anteṣu iva samprabuddhāḥ .. 74 ..
यदाप्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः । तदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ 75 ॥
यदा प्रभृति लङ्कायाम् युध्यन्ते हरि-राक्षसाः । तदा प्रभृति मान-अर्थम् आज्ञया रावणस्य च ॥ ७५ ॥
yadā prabhṛti laṅkāyām yudhyante hari-rākṣasāḥ . tadā prabhṛti māna-artham ājñayā rāvaṇasya ca .. 75 ..
ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः । हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ 76 ॥
ये हन्यन्ते रणे तत्र राक्षसाः कपि-कुञ्जरैः । हताः हताः तु क्षिप्यन्ते सर्वे एव तु सागरे ॥ ७६ ॥
ye hanyante raṇe tatra rākṣasāḥ kapi-kuñjaraiḥ . hatāḥ hatāḥ tu kṣipyante sarve eva tu sāgare .. 76 ..
ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः । निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ 77 ॥
ततस् हरिः गन्धवह-आत्मजः तु तम् ओषधी-शैलम् उदग्र-वीर्यः । निनाय वेगात् हिमवन्तम् एव पुनर् च रामेण समाजगाम ॥ ७७ ॥
tatas hariḥ gandhavaha-ātmajaḥ tu tam oṣadhī-śailam udagra-vīryaḥ . nināya vegāt himavantam eva punar ca rāmeṇa samājagāma .. 77 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In