This overlay will guide you through the buttons:

| |
|
ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः । अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम् ॥ १॥
ततस् अब्रवीत् महा-तेजाः सुग्रीवः वानर-अधिपः । अर्थ्यम् विजापयन् च अपि हनूमन्तम् महा-बलम् ॥ १॥
tatas abravīt mahā-tejāḥ sugrīvaḥ vānara-adhipaḥ . arthyam vijāpayan ca api hanūmantam mahā-balam .. 1..
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः । नेदानीइमुपनिर्हार.म् रावंओ दातुमर्हति ॥ २॥
यतस् हतः कुम्भकर्णः कुमाराः च निषूदिताः । न इदानीइम् उपनिर्हार।दातुम् अर्हति ॥ २॥
yatas hataḥ kumbhakarṇaḥ kumārāḥ ca niṣūditāḥ . na idānīim upanirhāra.dātum arhati .. 2..
ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः । लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥ ३॥
ये ये महा-बलाः सन्ति लघवः च प्लवङ्गमाः । लङ्काम् अभिपतन्तु आशु गृह्य उल्काः प्लवग-ऋषभाः ॥ ३॥
ye ye mahā-balāḥ santi laghavaḥ ca plavaṅgamāḥ . laṅkām abhipatantu āśu gṛhya ulkāḥ plavaga-ṛṣabhāḥ .. 3..
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे । लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ ४॥
ततस् अस्तम् गते आदित्ये रौद्रे तस्मिन् निशा-मुखे । लङ्काम् अभिमुखाः स उल्काः जग्मुः ते प्लवग-ऋषभाः ॥ ४॥
tatas astam gate āditye raudre tasmin niśā-mukhe . laṅkām abhimukhāḥ sa ulkāḥ jagmuḥ te plavaga-ṛṣabhāḥ .. 4..
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः । आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥ ५॥
उल्का-हस्तैः हरि-गणैः सर्वतस् समभिद्रुताः । आरक्ष-स्थाः विरूप-अक्षाः सहसा विप्रदुद्रुवुः ॥ ५॥
ulkā-hastaiḥ hari-gaṇaiḥ sarvatas samabhidrutāḥ . ārakṣa-sthāḥ virūpa-akṣāḥ sahasā vipradudruvuḥ .. 5..
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च । प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ॥ ६॥
गोपुर-अट्ट-प्रतोलीषु चर्यासु विविधासु च । प्रासादेषु च संहृष्टाः ससृजुः ते हुताशनम् ॥ ६॥
gopura-aṭṭa-pratolīṣu caryāsu vividhāsu ca . prāsādeṣu ca saṃhṛṣṭāḥ sasṛjuḥ te hutāśanam .. 6..
तेषां गृहसहस्राणि ददाह हुतभुक् तदा । आवासान्राक्षसानां च सर्वेषां गृहमेधिनाम् ॥ ७॥
तेषाम् गृह-सहस्राणि ददाह हुतभुज् तदा । आवासान् राक्षसानाम् च सर्वेषाम् गृहमेधिनाम् ॥ ७॥
teṣām gṛha-sahasrāṇi dadāha hutabhuj tadā . āvāsān rākṣasānām ca sarveṣām gṛhamedhinām .. 7..
अगुरुर्दह्यतेतत्रवरं च हरिचन्दनम् । मौक्तिका मणय स्स्निग्धा वज्रं चापि प्रवालकम् ॥ 8 ॥
अगुरुः दह्यते तत्र वरम् च हरिचन्दनम् । मौक्तिकाः मणयः स्निग्धाः वज्रम् च अपि प्रवालकम् ॥ ८ ॥
aguruḥ dahyate tatra varam ca haricandanam . mauktikāḥ maṇayaḥ snigdhāḥ vajram ca api pravālakam .. 8 ..
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनं । आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् । ॥ 9 ॥
क्षौमम् च दह्यते तत्र कौशेयम् च अपि शोभनम् । आविकम् विविधम् चौर्णम् काञ्चनम् भाण्डम् आयुधम् । ॥ ९ ॥
kṣaumam ca dahyate tatra kauśeyam ca api śobhanam . āvikam vividham caurṇam kāñcanam bhāṇḍam āyudham . .. 9 ..
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ । गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः । ॥ 10 ॥
नाना विकृत-संस्थानम् वाजि-भाण्ड-परिच्छदौ । गज-ग्रैवेय-कक्ष्याः च रथ-भाण्डाः च संस्कृताः । ॥ १० ॥
nānā vikṛta-saṃsthānam vāji-bhāṇḍa-paricchadau . gaja-graiveya-kakṣyāḥ ca ratha-bhāṇḍāḥ ca saṃskṛtāḥ . .. 10 ..
तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च । खडगा धनूंषि ज्वाबाणास्तोमराङ्कुशशक्तयः । ॥ 11 ॥
तनुत्राणि च योधानाम् हस्ति-अश्वानाम् च वर्म च । खडगाः धनूंषि ज्वा-बाणाः तोमर-अङ्कुश-शक्तयः । ॥ ११ ॥
tanutrāṇi ca yodhānām hasti-aśvānām ca varma ca . khaḍagāḥ dhanūṃṣi jvā-bāṇāḥ tomara-aṅkuśa-śaktayaḥ . .. 11 ..
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु । मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः । ॥ 12 ॥
रोम-जम् वाल-जम् चर्म व्याघ्र-जम् च अण्ड-जम् बहु । मुक्तामणि-विचित्रान् च प्रासादान् च समन्ततः । ॥ १२ ॥
roma-jam vāla-jam carma vyāghra-jam ca aṇḍa-jam bahu . muktāmaṇi-vicitrān ca prāsādān ca samantataḥ . .. 12 ..
विविधानस्त्रसंयोगानग्निर्दहति तत्र वै । नानाविधान् गृहांश्चित्रान् ददाह हुतभुक् तदा । ॥ 13 ॥
विविधान् अस्त्र-संयोगान् अग्निः दहति तत्र वै । नानाविधान् गृहान् चित्रान् ददाह हुतभुज् तदा । ॥ १३ ॥
vividhān astra-saṃyogān agniḥ dahati tatra vai . nānāvidhān gṛhān citrān dadāha hutabhuj tadā . .. 13 ..
आवासान् राक्षसानां च सर्वेषां गृहगृध्नुनाम् । हेमचित्रतनुत्राण स्रग्दामाम्भरधारिणाम् । ॥ 14 ॥
आवासान् राक्षसानाम् च सर्वेषाम् गृह-गृध्नुनाम् । हेम-चित्र-तनुत्राण स्रग्दाम-अम्भर-धारिणाम् । ॥ १४ ॥
āvāsān rākṣasānām ca sarveṣām gṛha-gṛdhnunām . hema-citra-tanutrāṇa sragdāma-ambhara-dhāriṇām . .. 14 ..
सीधुपानचलाक्षाणां मद्विह्वलगामिनाम् । कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम् । ॥ 15 ॥
सीधु-पान-चल-अक्षाणाम् मद्-विह्वल-गामिनाम् । कान्त-आलम्बित-वस्त्राणाम् शत्रु-सञ्जात-मन्युनाम् । ॥ १५ ॥
sīdhu-pāna-cala-akṣāṇām mad-vihvala-gāminām . kānta-ālambita-vastrāṇām śatru-sañjāta-manyunām . .. 15 ..
गदाशूलासि हस्तानां खादतां पिबताम् अपि । शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ॥ 16 ॥
गदा-शूल असि हस्तानाम् खादताम् पिबताम् अपि । शयनेषु महार्हेषु प्रसुप्तानाम् प्रियैः सह ॥ १६ ॥
gadā-śūla asi hastānām khādatām pibatām api . śayaneṣu mahārheṣu prasuptānām priyaiḥ saha .. 16 ..
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः । तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् ॥ 17 ॥
त्रस्तानाम् गच्छताम् तूर्णम् पुत्रान् आदाय सर्वतस् । तेषाम् गृह-सहस्राणि तदा लङ्का-निवासिनाम् ॥ १७ ॥
trastānām gacchatām tūrṇam putrān ādāya sarvatas . teṣām gṛha-sahasrāṇi tadā laṅkā-nivāsinām .. 17 ..
अदहत्पावकस्तत्र जज्वाल च पुनः पुनः । सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ॥ 18 ॥
अदहत् पावकः तत्र जज्वाल च पुनर् पुनर् । सारवन्ति महार्हाणि गम्भीर-गुणवन्ति च ॥ १८ ॥
adahat pāvakaḥ tatra jajvāla ca punar punar . sāravanti mahārhāṇi gambhīra-guṇavanti ca .. 18 ..
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च । रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ॥ 19 ॥
हेम-चन्द्र-अर्धचन्द्राणि चन्द्रशाला-उन्नतानि च । रत्न-चित्र-गवाक्षाणि स अधिष्ठानानि सर्वशस् ॥ १९ ॥
hema-candra-ardhacandrāṇi candraśālā-unnatāni ca . ratna-citra-gavākṣāṇi sa adhiṣṭhānāni sarvaśas .. 19 ..
मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् । क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः ॥ 20 ॥
मणि-विद्रुम-चित्राणि स्पृशन्ती इव च भास्करम् । क्रौञ्च-बर्हिण-वीणानाम् भूषणानाम् च निस्वनैः ॥ २० ॥
maṇi-vidruma-citrāṇi spṛśantī iva ca bhāskaram . krauñca-barhiṇa-vīṇānām bhūṣaṇānām ca nisvanaiḥ .. 20 ..
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः । ज्वलनेन परीतानि तोरणानि चकाशिरे ॥ 21 ॥
नादितानि अचल-आभानि वेश्मानि अग्निः ददाह सः । ज्वलनेन परीतानि तोरणानि चकाशिरे ॥ २१ ॥
nāditāni acala-ābhāni veśmāni agniḥ dadāha saḥ . jvalanena parītāni toraṇāni cakāśire .. 21 ..
विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे । ज्वलनेन परीतानि गहाणि प्रचकाशिरे ॥ 22 ॥
विद्युद्भिः इव नद्धानि मेघ-जालानि घर्मगे । ज्वलनेन परीतानि गहाणि प्रचकाशिरे ॥ २२ ॥
vidyudbhiḥ iva naddhāni megha-jālāni gharmage . jvalanena parītāni gahāṇi pracakāśire .. 22 ..
दावाग्निदीप्तानि यथा शिखराणि महागिरेः । विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ॥ 23 ॥
दाव-अग्नि-दीप्तानि यथा शिखराणि महा-गिरेः । विमानेषु प्रसुप्ताः च दह्यमानाः वर-अङ्गनाः ॥ २३ ॥
dāva-agni-dīptāni yathā śikharāṇi mahā-gireḥ . vimāneṣu prasuptāḥ ca dahyamānāḥ vara-aṅganāḥ .. 23 ..
त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः । तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि ॥ 24 ॥
त्यक्त-आभरण-संयोगाः हाहा इति उच्चैस् विचुक्रुशः । तत्र च अग्नि-परीतानि निपेतुः भवनानि अपि ॥ २४ ॥
tyakta-ābharaṇa-saṃyogāḥ hāhā iti uccais vicukruśaḥ . tatra ca agni-parītāni nipetuḥ bhavanāni api .. 24 ..
वज्रिवज्रहतानीव शिखराणि महागिरेः । तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ॥ 25 ॥
वज्रि-वज्र-हतानि इव शिखराणि महा-गिरेः । तानि निर्दह्यमानानि दूरतस् प्रचकाशिरे ॥ २५ ॥
vajri-vajra-hatāni iva śikharāṇi mahā-gireḥ . tāni nirdahyamānāni dūratas pracakāśire .. 25 ..
हिमवच्छिखराणीव दीप्तौषधिवनानि च । हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ॥ 26 ॥
हिमवत्-शिखराणि इव दीप्त-ओषधि-वनानि च । हर्म्य-अग्रैः दह्यमानैः च ज्वाला-प्रज्वलितैः अपि ॥ २६ ॥
himavat-śikharāṇi iva dīpta-oṣadhi-vanāni ca . harmya-agraiḥ dahyamānaiḥ ca jvālā-prajvalitaiḥ api .. 26 ..
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः । हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश् च तुरगैरपि । बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥ 27 ॥
रात्रौ सा दृश्यते लङ्का पुष्पितैः इव किंशुकैः । हस्ति-अध्यक्षैः गजैः मुक्तैः मुक्तैः च तुरगैः अपि । बभूव लङ्का लोक-अन्ते भ्रान्त-ग्राहः इव अर्णवः ॥ २७ ॥
rātrau sā dṛśyate laṅkā puṣpitaiḥ iva kiṃśukaiḥ . hasti-adhyakṣaiḥ gajaiḥ muktaiḥ muktaiḥ ca turagaiḥ api . babhūva laṅkā loka-ante bhrānta-grāhaḥ iva arṇavaḥ .. 27 ..
अश्वं मुक्तं गजो दृष्ट्वा कच्चिद् भीतोऽपसर्पति । भीतो भीतं गजं दृष्ट्वा क्व चिदश्वो निवर्तते ॥ 28 ॥
अश्वम् मुक्तम् गजः दृष्ट्वा कच्चित् भीतः अपसर्पति । भीतः भीतम् गजम् दृष्ट्वा क्व चित् अश्वः निवर्तते ॥ २८ ॥
aśvam muktam gajaḥ dṛṣṭvā kaccit bhītaḥ apasarpati . bhītaḥ bhītam gajam dṛṣṭvā kva cit aśvaḥ nivartate .. 28 ..
लङ्कायां दह्यमानायां शुशुभे स महोदधिः । छायासंसक्तसलिलो लोहितोद इवार्णवः ॥ 29 ॥
लङ्कायाम् दह्यमानायाम् शुशुभे स महा-उदधिः । छाया-संसक्त-सलिलः लोहित-उदः इव अर्णवः ॥ २९ ॥
laṅkāyām dahyamānāyām śuśubhe sa mahā-udadhiḥ . chāyā-saṃsakta-salilaḥ lohita-udaḥ iva arṇavaḥ .. 29 ..
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी । लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ॥ 30 ॥
सा बभूव मुहूर्तेन हरिभिः दीपिता पुरी । लोकस्य अस्य क्षये घोरे प्रदीप्ता इव वसुन्धरा ॥ ३० ॥
sā babhūva muhūrtena haribhiḥ dīpitā purī . lokasya asya kṣaye ghore pradīptā iva vasundharā .. 30 ..
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः । स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ॥ 31 ॥
नारी-जनस्य धूमेन व्याप्तस्य उच्चैस् विनेदुषः । स्वनः ज्वलन-तप्तस्य शुश्रुवे दश-योजनम् ॥ ३१ ॥
nārī-janasya dhūmena vyāptasya uccais vineduṣaḥ . svanaḥ jvalana-taptasya śuśruve daśa-yojanam .. 31 ..
प्रदग्धकायानपरान् राक्षसान् निर्गतान् बहिः । सहसा ह्मुत्पतन्ति स्म हरयोऽथ युयुत्सवः ॥ 32 ॥
प्रदग्ध-कायान् अपरान् राक्षसान् निर्गतान् बहिस् । सहसा ह्म् उत्पतन्ति स्म हरयः अथ युयुत्सवः ॥ ३२ ॥
pradagdha-kāyān aparān rākṣasān nirgatān bahis . sahasā hm utpatanti sma harayaḥ atha yuyutsavaḥ .. 32 ..
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः । दिशो दश समुद्रं च पृथिवीं च व्यनादयत् ॥ 33 ॥
उद्घुष्टम् वानराणाम् च राक्षसानाम् च निस्वनः । दिशः दश समुद्रम् च पृथिवीम् च व्यनादयत् ॥ ३३ ॥
udghuṣṭam vānarāṇām ca rākṣasānām ca nisvanaḥ . diśaḥ daśa samudram ca pṛthivīm ca vyanādayat .. 33 ..
विशल्यौ च महात्मानौ तावुभौ रामलक्ष्मणौ । असम्भ्रान्तौ जगृहतुस्ते उभौ धनुषी वरे ॥ 34 ॥
विशल्यौ च महात्मानौ तौ उभौ राम-लक्ष्मणौ । असम्भ्रान्तौ जगृहतुः ते उभौ धनुषी वरे ॥ ३४ ॥
viśalyau ca mahātmānau tau ubhau rāma-lakṣmaṇau . asambhrāntau jagṛhatuḥ te ubhau dhanuṣī vare .. 34 ..
ततो विस्फारयाणस्य रामश्च धनुरुत्तमम् । बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥ 35 ॥
ततस् विस्फारयाणस्य रामः च धनुः उत्तमम् । बभूव तुमुलः शब्दः राक्षसानाम् भय-आवहः ॥ ३५ ॥
tatas visphārayāṇasya rāmaḥ ca dhanuḥ uttamam . babhūva tumulaḥ śabdaḥ rākṣasānām bhaya-āvahaḥ .. 35 ..
अशोभत तदा रामो धनुर्विस्फारयन्महत् । भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ॥ 36 ॥
अशोभत तदा रामः धनुः विस्फारयत् महत् । भगवान् इव सङ्क्रुद्धः भवः वेद-मयम् धनुः ॥ ३६ ॥
aśobhata tadā rāmaḥ dhanuḥ visphārayat mahat . bhagavān iva saṅkruddhaḥ bhavaḥ veda-mayam dhanuḥ .. 36 ..
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः । ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥ 37 ॥
वानर-उद्घुष्ट-घोषः च राक्षसानाम् च निस्वनः । ज्या-शब्दः च अपि रामस्य त्रयम् व्याप दिशः दश ॥ ३७ ॥
vānara-udghuṣṭa-ghoṣaḥ ca rākṣasānām ca nisvanaḥ . jyā-śabdaḥ ca api rāmasya trayam vyāpa diśaḥ daśa .. 37 ..
तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम् । कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ॥ 38 ॥
तस्य कार्मुक-निर्मुक्तैः शरैः तत् पुर-गोपुरम् । कैलास-शृङ्ग-प्रतिमम् विकीर्णम् अपतत् भुवि ॥ ३८ ॥
tasya kārmuka-nirmuktaiḥ śaraiḥ tat pura-gopuram . kailāsa-śṛṅga-pratimam vikīrṇam apatat bhuvi .. 38 ..
ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च । संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥ 39 ॥
ततस् राम-शरान् दृष्ट्वा विमानेषु गृहेषु च । संनाहः राक्षस-इन्द्राणाम् तुमुलः समपद्यत ॥ ३९ ॥
tatas rāma-śarān dṛṣṭvā vimāneṣu gṛheṣu ca . saṃnāhaḥ rākṣasa-indrāṇām tumulaḥ samapadyata .. 39 ..
तेषां संनह्यमानानां सिंहनादं च कुर्वताम् । शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥ 40 ॥
तेषाम् संनह्यमानानाम् सिंहनादम् च कुर्वताम् । शर्वरी राक्षस-इन्द्राणाम् रौद्री इव समपद्यत ॥ ४० ॥
teṣām saṃnahyamānānām siṃhanādam ca kurvatām . śarvarī rākṣasa-indrāṇām raudrī iva samapadyata .. 40 ..
आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना । आसन्ना द्वारमासाद्य युध्यध्वं च प्लवंगमा ॥ 41 ॥
आदिष्टाः वानर-इन्द्राः ते सुग्रीवेण महात्मना । आसन्नाः द्वारम् आसाद्य युध्यध्वम् च प्लवंगमा ॥ ४१ ॥
ādiṣṭāḥ vānara-indrāḥ te sugrīveṇa mahātmanā . āsannāḥ dvāram āsādya yudhyadhvam ca plavaṃgamā .. 41 ..
यश्च वो वितथं कुर्यात्तत्र तत्र तत्राप्युपस्थितः । स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः ॥ 42 ॥
यः च वः वितथम् कुर्यात् तत्र तत्र तत्र अपि उपस्थितः । स हन्तव्यः अभिसम्प्लुत्य राज-शासन-दूषकः ॥ ४२ ॥
yaḥ ca vaḥ vitatham kuryāt tatra tatra tatra api upasthitaḥ . sa hantavyaḥ abhisamplutya rāja-śāsana-dūṣakaḥ .. 42 ..
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु । स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत् ॥ 43 ॥
तेषु वानर-मुख्येषु दीप्त-उल्का-उज्ज्वल-पाणिषु । स्थितेषु द्वारम् आश्रित्य रावणम् क्रोधः आविशत् ॥ ४३ ॥
teṣu vānara-mukhyeṣu dīpta-ulkā-ujjvala-pāṇiṣu . sthiteṣu dvāram āśritya rāvaṇam krodhaḥ āviśat .. 43 ..
तस्य जृम्भितविक्षेपाद् द्व्यामिश्रा वै दिशो दश । रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥ 44 ॥
तस्य जृम्भित-विक्षेपात् द्वि-आमिश्राः वै दिशः दश । रूपवान् इव रुद्रस्य मन्युः गात्रेषु अदृश्यत ॥ ४४ ॥
tasya jṛmbhita-vikṣepāt dvi-āmiśrāḥ vai diśaḥ daśa . rūpavān iva rudrasya manyuḥ gātreṣu adṛśyata .. 44 ..
स कुम्भं च निकुम्भं च कुम्भकर्णात्मजावुभौ । प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ॥ 45 ॥
स कुम्भम् च निकुम्भम् च कुम्भकर्ण-आत्मजौ उभौ । प्रेषयामास सङ्क्रुद्धः राक्षसैः बहुभिः सह ॥ ४५ ॥
sa kumbham ca nikumbham ca kumbhakarṇa-ātmajau ubhau . preṣayāmāsa saṅkruddhaḥ rākṣasaiḥ bahubhiḥ saha .. 45 ..
शशास चैव तान् सर्वान् राक्षसान् स महाबलान् । राक्षसा गच्छतात्रैव सिंहनादं च नादयन् ॥ 46 ॥
शशास च एव तान् सर्वान् राक्षसान् स महा-बलान् । राक्षसाः गच्छत अत्रा एव सिंहनादम् च नादयन् ॥ ४६ ॥
śaśāsa ca eva tān sarvān rākṣasān sa mahā-balān . rākṣasāḥ gacchata atrā eva siṃhanādam ca nādayan .. 46 ..
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः । लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ॥ 47 ॥
ततस् तु चोदिताः तेन राक्षसाः ज्वलित-आयुधाः । लङ्कायाः निर्ययुः वीराः प्रणदन्तः पुनर् पुनर् ॥ ४७ ॥
tatas tu coditāḥ tena rākṣasāḥ jvalita-āyudhāḥ . laṅkāyāḥ niryayuḥ vīrāḥ praṇadantaḥ punar punar .. 47 ..
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः । चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥ 48 ॥
रक्षसाम् भूषण-स्थाभिः भाभिः स्वाभिः च सर्वशस् । चक्रुः ते स प्रभम् व्योम हरयः च अग्निभिः सह ॥ ४८ ॥
rakṣasām bhūṣaṇa-sthābhiḥ bhābhiḥ svābhiḥ ca sarvaśas . cakruḥ te sa prabham vyoma harayaḥ ca agnibhiḥ saha .. 48 ..
तत्र ताराधिपस्याभा ताराणां च तथैव च । तयोराभरणाभा च ज्वलिता द्यामभासयनत् ॥ 49 ॥
तत्र ताराधिपस्य आभा ताराणाम् च तथा एव च । तयोः आभरण-आभा च ज्वलिता द्याम् अभासयनत् ॥ ४९ ॥
tatra tārādhipasya ābhā tārāṇām ca tathā eva ca . tayoḥ ābharaṇa-ābhā ca jvalitā dyām abhāsayanat .. 49 ..
चन्द्राभा भूषणाभा च गृहाणां सागरः पुनः । हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥ 50 ॥
चन्द्र-आभा भूषण-आभा च गृहाणाम् सागरः पुनर् । हरि-राक्षस-सैन्यानि भ्राजयामास सर्वतस् ॥ ५० ॥
candra-ābhā bhūṣaṇa-ābhā ca gṛhāṇām sāgaraḥ punar . hari-rākṣasa-sainyāni bhrājayāmāsa sarvatas .. 50 ..
तत्र चोर्ध्वंप्रदीप्तानां गृहाणां सागरः पुनः । भाभिः संसक्तसलिलश्चलोर्मिः शुशुभेऽधिकम् ॥ 51 ॥
तत्र च ऊर्ध्वं प्रदीप्तानाम् गृहाणाम् सागरः पुनर् । भाभिः संसक्त-सलिलः चल-ऊर्मिः शुशुभे अधिकम् ॥ ५१ ॥
tatra ca ūrdhvaṃ pradīptānām gṛhāṇām sāgaraḥ punar . bhābhiḥ saṃsakta-salilaḥ cala-ūrmiḥ śuśubhe adhikam .. 51 ..
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् । भीमाश्वरथमातङ्गं नानापत्ति समाकुलम् ॥ 52 ॥
पताका-ध्वज-संसक्तम् उत्तम-असि-परश्वधम् । भीम-अश्व-रथ-मातङ्गम् नाना आपत्ति समाकुलम् ॥ ५२ ॥
patākā-dhvaja-saṃsaktam uttama-asi-paraśvadham . bhīma-aśva-ratha-mātaṅgam nānā āpatti samākulam .. 52 ..
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् । तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ॥ 53 ॥
दीप्त-शूल-गदा-खड्ग-प्रास-तोमर-कार्मुकम् । तत् राक्षस-बलम् घोरम् भीम-विक्रम-पौरुषम् ॥ ५३ ॥
dīpta-śūla-gadā-khaḍga-prāsa-tomara-kārmukam . tat rākṣasa-balam ghoram bhīma-vikrama-pauruṣam .. 53 ..
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् । हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ॥ 54 ॥
ददृशे ज्वलित-प्रासम् किङ्किणी-शत-नादितम् । हेम-जाल-आचित-भुजम् व्यावेष्टित-परश्वधम् ॥ ५४ ॥
dadṛśe jvalita-prāsam kiṅkiṇī-śata-nāditam . hema-jāla-ācita-bhujam vyāveṣṭita-paraśvadham .. 54 ..
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् । गन्धमाल्यमधूत्सेकसंमोदित महानिलम् ॥ 55 ॥
व्याघूर्णित-महा-शस्त्रम् बाण-संसक्त-कार्मुकम् । गन्ध-माल्य-मधूत्सेक-संमोदित महा-अनिलम् ॥ ५५ ॥
vyāghūrṇita-mahā-śastram bāṇa-saṃsakta-kārmukam . gandha-mālya-madhūtseka-saṃmodita mahā-anilam .. 55 ..
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् । तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ॥ 56 ॥
घोरम् शूर-जन-आकीर्णम् महा-अम्बुधर-निस्वनम् । तम् दृष्ट्वा बलम् आयान्तम् राक्षसानाम् सु दारुणम् ॥ ५६ ॥
ghoram śūra-jana-ākīrṇam mahā-ambudhara-nisvanam . tam dṛṣṭvā balam āyāntam rākṣasānām su dāruṇam .. 56 ..
सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च । जवेनाप्लुत्य च पुनस्तद्राक्षसबलं महत् ॥ 57 ॥
सञ्चचाल प्लवङ्गानाम् बलम् उच्चैस् ननाद च । जवेन आप्लुत्य च पुनर् तत् राक्षस-बलम् महत् ॥ ५७ ॥
sañcacāla plavaṅgānām balam uccais nanāda ca . javena āplutya ca punar tat rākṣasa-balam mahat .. 57 ..
अभ्ययात्प्रत्यरिबलं पतङ्ग इव पावकम् । तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ॥ 58 ॥
अभ्ययात् प्रति अरि-बलम् पतङ्गः इव पावकम् । तेषाम् भुज-परामर्श-व्यामृष्ट-परिघ-अशनि ॥ ५८ ॥
abhyayāt prati ari-balam pataṅgaḥ iva pāvakam . teṣām bhuja-parāmarśa-vyāmṛṣṭa-parigha-aśani .. 58 ..
राक्षसानां बलं श्रेष्ठं भूयः परमशोभत । तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः ॥ 59 ॥
राक्षसानाम् बलम् श्रेष्ठम् भूयस् परम् अशोभत । तत्र उन्मत्ताः इव उत्पेतुः हरयः अथ युयुत्सवः ॥ ५९ ॥
rākṣasānām balam śreṣṭham bhūyas param aśobhata . tatra unmattāḥ iva utpetuḥ harayaḥ atha yuyutsavaḥ .. 59 ..
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् । । तथैवापततां तेषां हरीणां निशितैः शरैः ॥ 60 ॥
तरु-शैलैः अभिघ्नन्तः मुष्टिभिः च निशाचरान् । । तथा एव आपतताम् तेषाम् हरीणाम् निशितैः शरैः ॥ ६० ॥
taru-śailaiḥ abhighnantaḥ muṣṭibhiḥ ca niśācarān . . tathā eva āpatatām teṣām harīṇām niśitaiḥ śaraiḥ .. 60 ..
शिरांसि सहसा जह्रू राक्षसा भीमविक्रमा । दशनैर्हतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः । शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ॥ 61 ॥
शिरांसि सहसा जह्रुः राक्षसाः भीम-विक्रमा । दशनैः हत-कर्णाः च मुष्टि-निष्कीर्ण-मस्तकाः । शिला-प्रहार-भग्न-अङ्गाः विचेरुः तत्र राक्षसाः ॥ ६१ ॥
śirāṃsi sahasā jahruḥ rākṣasāḥ bhīma-vikramā . daśanaiḥ hata-karṇāḥ ca muṣṭi-niṣkīrṇa-mastakāḥ . śilā-prahāra-bhagna-aṅgāḥ viceruḥ tatra rākṣasāḥ .. 61 ..
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः । प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः ॥ 62 ॥
तथा एव अपि अपरे तेषाम् कपीनाम् असिभिः शितैः । प्रवीरान् अभितस् जघ्नुः घोर-रूपाः निशाचराः ॥ ६२ ॥
tathā eva api apare teṣām kapīnām asibhiḥ śitaiḥ . pravīrān abhitas jaghnuḥ ghora-rūpāḥ niśācarāḥ .. 62 ..
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् । गर्हमाणं जगर्हान्ये दशन्तमपरेऽदशत् ॥ 63 ॥
घ्नन्तम् अन्यम् जघान अन्यः पातयन्तम् अपातयत् । गर्हमाणम् जगर्ह अन्ये दशन्तम् अपरे अदशत् ॥ ६३ ॥
ghnantam anyam jaghāna anyaḥ pātayantam apātayat . garhamāṇam jagarha anye daśantam apare adaśat .. 63 ..
देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनः । किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ 64 ॥
देहि इति अन्ये ददाति अन्यः ददामि इति अपरः पुनर् । किम् क्लेशयसि तिष्ठ इति तत्र अन्योन्यम् बभाषिरे ॥ ६४ ॥
dehi iti anye dadāti anyaḥ dadāmi iti aparaḥ punar . kim kleśayasi tiṣṭha iti tatra anyonyam babhāṣire .. 64 ..
विप्रलम्भितवस्त्रं च विमुक्तकवचायुधम् । समुद्यतमहाप्रासं मुष्टिशूलासिसङ्कुलम् ॥ 65 ॥
विप्रलम्भित-वस्त्रम् च विमुक्त-कवच-आयुधम् । समुद्यत-महा-प्रासम् मुष्टि-शूल-असि-सङ्कुलम् ॥ ६५ ॥
vipralambhita-vastram ca vimukta-kavaca-āyudham . samudyata-mahā-prāsam muṣṭi-śūla-asi-saṅkulam .. 65 ..
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् । वानरान्दश सप्तेति राक्षसा अभ्यपातयन् ॥ 66 ॥
प्रावर्तत महा-रौद्रम् युद्धम् वानर-रक्षसाम् । वानरान् दश सप्त इति राक्षसाः अभ्यपातयन् ॥ ६६ ॥
prāvartata mahā-raudram yuddham vānara-rakṣasām . vānarān daśa sapta iti rākṣasāḥ abhyapātayan .. 66 ..
राक्षसान्दशसप्तेति वानरा जघ्नुराहवे । विस्रस्तकेशरसनं विमुक्तकवचध्वजम् । बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥ 67 ॥
राक्षसान् दश-सप्त इति वानराः जघ्नुः आहवे । विस्रस्त-केश-रसनम् विमुक्त-कवच-ध्वजम् । बलम् राक्षसम् आलम्ब्य वानराः पर्यवारयन् ॥ ६७ ॥
rākṣasān daśa-sapta iti vānarāḥ jaghnuḥ āhave . visrasta-keśa-rasanam vimukta-kavaca-dhvajam . balam rākṣasam ālambya vānarāḥ paryavārayan .. 67 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In