This overlay will guide you through the buttons:

| |
|
ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः । अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम् ॥ १॥
tato'bravīnmahātejāḥ sugrīvo vānarādhipaḥ . arthyaṃ vijāpayaṃścāpi hanūmantaṃ mahābalam .. 1..
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः । नेदानीइमुपनिर्हार.म् रावंओ दातुमर्हति ॥ २॥
yato hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ . nedānīimupanirhāra.m rāvaṃo dātumarhati .. 2..
ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः । लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥ ३॥
ye ye mahābalāḥ santi laghavaśca plavaṅgamāḥ . laṅkāmabhipatantvāśu gṛhyolkāḥ plavagarṣabhāḥ .. 3..
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे । लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ ४॥
tato'staṃ gata āditye raudre tasminniśāmukhe . laṅkāmabhimukhāḥ solkā jagmuste plavagarṣabhāḥ .. 4..
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः । आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥ ५॥
ulkāhastairharigaṇaiḥ sarvataḥ samabhidrutāḥ . ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ .. 5..
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च । प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ॥ ६॥
gopurāṭṭapratolīṣu caryāsu vividhāsu ca . prāsādeṣu ca saṃhṛṣṭāḥ sasṛjuste hutāśanam .. 6..
तेषां गृहसहस्राणि ददाह हुतभुक् तदा । आवासान्राक्षसानां च सर्वेषां गृहमेधिनाम् ॥ ७॥
teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā . āvāsānrākṣasānāṃ ca sarveṣāṃ gṛhamedhinām .. 7..
अगुरुर्दह्यतेतत्रवरं च हरिचन्दनम् । मौक्तिका मणय स्स्निग्धा वज्रं चापि प्रवालकम् ॥ 8 ॥
agururdahyatetatravaraṃ ca haricandanam . mauktikā maṇaya ssnigdhā vajraṃ cāpi pravālakam .. 8 ..
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनं । आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् । ॥ 9 ॥
kṣaumaṃ ca dahyate tatra kauśeyaṃ cāpi śobhanaṃ . āvikaṃ vividhaṃ caurṇaṃ kāñcanaṃ bhāṇḍamāyudham . .. 9 ..
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ । गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः । ॥ 10 ॥
nānāvikṛtasaṃsthānaṃ vājibhāṇḍaparicchadau . gajagraiveyakakṣyāśca rathabhāṇḍāśca saṃskṛtāḥ . .. 10 ..
तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च । खडगा धनूंषि ज्वाबाणास्तोमराङ्कुशशक्तयः । ॥ 11 ॥
tanutrāṇi ca yodhānāṃ hastyaśvānāṃ ca varma ca . khaḍagā dhanūṃṣi jvābāṇāstomarāṅkuśaśaktayaḥ . .. 11 ..
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु । मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः । ॥ 12 ॥
romajaṃ vālajaṃ carma vyāghrajaṃ cāṇḍajaṃ bahu . muktāmaṇivicitrāṃśca prāsādāṃśca samantataḥ . .. 12 ..
विविधानस्त्रसंयोगानग्निर्दहति तत्र वै । नानाविधान् गृहांश्चित्रान् ददाह हुतभुक् तदा । ॥ 13 ॥
vividhānastrasaṃyogānagnirdahati tatra vai . nānāvidhān gṛhāṃścitrān dadāha hutabhuk tadā . .. 13 ..
आवासान् राक्षसानां च सर्वेषां गृहगृध्नुनाम् । हेमचित्रतनुत्राण स्रग्दामाम्भरधारिणाम् । ॥ 14 ॥
āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhagṛdhnunām . hemacitratanutrāṇa sragdāmāmbharadhāriṇām . .. 14 ..
सीधुपानचलाक्षाणां मद्विह्वलगामिनाम् । कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम् । ॥ 15 ॥
sīdhupānacalākṣāṇāṃ madvihvalagāminām . kāntālambitavastrāṇāṃ śatrusañjātamanyunām . .. 15 ..
गदाशूलासि हस्तानां खादतां पिबताम् अपि । शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ॥ 16 ॥
gadāśūlāsi hastānāṃ khādatāṃ pibatām api . śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha .. 16 ..
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः । तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् ॥ 17 ॥
trastānāṃ gacchatāṃ tūrṇaṃ putrānādāya sarvataḥ . teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām .. 17 ..
अदहत्पावकस्तत्र जज्वाल च पुनः पुनः । सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ॥ 18 ॥
adahatpāvakastatra jajvāla ca punaḥ punaḥ . sāravanti mahārhāṇi gambhīraguṇavanti ca .. 18 ..
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च । रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ॥ 19 ॥
hemacandrārdhacandrāṇi candraśālonnatāni ca . ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ .. 19 ..
मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् । क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः ॥ 20 ॥
maṇividrumacitrāṇi spṛśantīva ca bhāskaram . krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ .. 20 ..
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः । ज्वलनेन परीतानि तोरणानि चकाशिरे ॥ 21 ॥
nāditānyacalābhāni veśmānyagnirdadāha saḥ . jvalanena parītāni toraṇāni cakāśire .. 21 ..
विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे । ज्वलनेन परीतानि गहाणि प्रचकाशिरे ॥ 22 ॥
vidyudbhiriva naddhāni meghajālāni gharmage . jvalanena parītāni gahāṇi pracakāśire .. 22 ..
दावाग्निदीप्तानि यथा शिखराणि महागिरेः । विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ॥ 23 ॥
dāvāgnidīptāni yathā śikharāṇi mahāgireḥ . vimāneṣu prasuptāśca dahyamānā varāṅganāḥ .. 23 ..
त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः । तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि ॥ 24 ॥
tyaktābharaṇasaṃyogā hāhetyuccairvicukruśaḥ . tatra cāgniparītāni nipeturbhavanānyapi .. 24 ..
वज्रिवज्रहतानीव शिखराणि महागिरेः । तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ॥ 25 ॥
vajrivajrahatānīva śikharāṇi mahāgireḥ . tāni nirdahyamānāni dūrataḥ pracakāśire .. 25 ..
हिमवच्छिखराणीव दीप्तौषधिवनानि च । हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ॥ 26 ॥
himavacchikharāṇīva dīptauṣadhivanāni ca . harmyāgrairdahyamānaiśca jvālāprajvalitairapi .. 26 ..
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः । हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश् च तुरगैरपि । बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥ 27 ॥
rātrau sā dṛśyate laṅkā puṣpitairiva kiṃśukaiḥ . hastyadhyakṣairgajairmuktairmuktaiś ca turagairapi . babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ .. 27 ..
अश्वं मुक्तं गजो दृष्ट्वा कच्चिद् भीतोऽपसर्पति । भीतो भीतं गजं दृष्ट्वा क्व चिदश्वो निवर्तते ॥ 28 ॥
aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto'pasarpati . bhīto bhītaṃ gajaṃ dṛṣṭvā kva cidaśvo nivartate .. 28 ..
लङ्कायां दह्यमानायां शुशुभे स महोदधिः । छायासंसक्तसलिलो लोहितोद इवार्णवः ॥ 29 ॥
laṅkāyāṃ dahyamānāyāṃ śuśubhe sa mahodadhiḥ . chāyāsaṃsaktasalilo lohitoda ivārṇavaḥ .. 29 ..
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी । लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ॥ 30 ॥
sā babhūva muhūrtena haribhirdīpitā purī . lokasyāsya kṣaye ghore pradīpteva vasundharā .. 30 ..
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः । स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ॥ 31 ॥
nārījanasya dhūmena vyāptasyoccairvineduṣaḥ . svano jvalanataptasya śuśruve daśayojanam .. 31 ..
प्रदग्धकायानपरान् राक्षसान् निर्गतान् बहिः । सहसा ह्मुत्पतन्ति स्म हरयोऽथ युयुत्सवः ॥ 32 ॥
pradagdhakāyānaparān rākṣasān nirgatān bahiḥ . sahasā hmutpatanti sma harayo'tha yuyutsavaḥ .. 32 ..
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः । दिशो दश समुद्रं च पृथिवीं च व्यनादयत् ॥ 33 ॥
udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ . diśo daśa samudraṃ ca pṛthivīṃ ca vyanādayat .. 33 ..
विशल्यौ च महात्मानौ तावुभौ रामलक्ष्मणौ । असम्भ्रान्तौ जगृहतुस्ते उभौ धनुषी वरे ॥ 34 ॥
viśalyau ca mahātmānau tāvubhau rāmalakṣmaṇau . asambhrāntau jagṛhatuste ubhau dhanuṣī vare .. 34 ..
ततो विस्फारयाणस्य रामश्च धनुरुत्तमम् । बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥ 35 ॥
tato visphārayāṇasya rāmaśca dhanuruttamam . babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ .. 35 ..
अशोभत तदा रामो धनुर्विस्फारयन्महत् । भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ॥ 36 ॥
aśobhata tadā rāmo dhanurvisphārayanmahat . bhagavāniva saṅkruddho bhavo vedamayaṃ dhanuḥ .. 36 ..
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः । ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥ 37 ॥
vānarodghuṣṭaghoṣaśca rākṣasānāṃ ca nisvanaḥ . jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa .. 37 ..
तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम् । कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ॥ 38 ॥
tasya kārmukanirmuktaiḥ śaraistatpuragopuram . kailāsaśṛṅgapratimaṃ vikīrṇamapatadbhuvi .. 38 ..
ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च । संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥ 39 ॥
tato rāmaśarāndṛṣṭvā vimāneṣu gṛheṣu ca . saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata .. 39 ..
तेषां संनह्यमानानां सिंहनादं च कुर्वताम् । शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥ 40 ॥
teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām . śarvarī rākṣasendrāṇāṃ raudrīva samapadyata .. 40 ..
आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना । आसन्ना द्वारमासाद्य युध्यध्वं च प्लवंगमा ॥ 41 ॥
ādiṣṭā vānarendrāste sugrīveṇa mahātmanā . āsannā dvāramāsādya yudhyadhvaṃ ca plavaṃgamā .. 41 ..
यश्च वो वितथं कुर्यात्तत्र तत्र तत्राप्युपस्थितः । स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः ॥ 42 ॥
yaśca vo vitathaṃ kuryāttatra tatra tatrāpyupasthitaḥ . sa hantavyo'bhisamplutya rājaśāsanadūṣakaḥ .. 42 ..
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु । स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत् ॥ 43 ॥
teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu . sthiteṣu dvāramāśritya rāvaṇaṃ krodha āviśat .. 43 ..
तस्य जृम्भितविक्षेपाद् द्व्यामिश्रा वै दिशो दश । रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥ 44 ॥
tasya jṛmbhitavikṣepād dvyāmiśrā vai diśo daśa . rūpavāniva rudrasya manyurgātreṣvadṛśyata .. 44 ..
स कुम्भं च निकुम्भं च कुम्भकर्णात्मजावुभौ । प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ॥ 45 ॥
sa kumbhaṃ ca nikumbhaṃ ca kumbhakarṇātmajāvubhau . preṣayāmāsa saṅkruddho rākṣasairbahubhiḥ saha .. 45 ..
शशास चैव तान् सर्वान् राक्षसान् स महाबलान् । राक्षसा गच्छतात्रैव सिंहनादं च नादयन् ॥ 46 ॥
śaśāsa caiva tān sarvān rākṣasān sa mahābalān . rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan .. 46 ..
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः । लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ॥ 47 ॥
tatastu coditāstena rākṣasā jvalitāyudhāḥ . laṅkāyā niryayurvīrāḥ praṇadantaḥ punaḥ punaḥ .. 47 ..
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः । चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥ 48 ॥
rakṣasāṃ bhūṣaṇasthābhirbhābhiḥ svābhiśca sarvaśaḥ . cakruste saprabhaṃ vyoma harayaścāgnibhiḥ saha .. 48 ..
तत्र ताराधिपस्याभा ताराणां च तथैव च । तयोराभरणाभा च ज्वलिता द्यामभासयनत् ॥ 49 ॥
tatra tārādhipasyābhā tārāṇāṃ ca tathaiva ca . tayorābharaṇābhā ca jvalitā dyāmabhāsayanat .. 49 ..
चन्द्राभा भूषणाभा च गृहाणां सागरः पुनः । हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥ 50 ॥
candrābhā bhūṣaṇābhā ca gṛhāṇāṃ sāgaraḥ punaḥ . harirākṣasasainyāni bhrājayāmāsa sarvataḥ .. 50 ..
तत्र चोर्ध्वंप्रदीप्तानां गृहाणां सागरः पुनः । भाभिः संसक्तसलिलश्चलोर्मिः शुशुभेऽधिकम् ॥ 51 ॥
tatra cordhvaṃpradīptānāṃ gṛhāṇāṃ sāgaraḥ punaḥ . bhābhiḥ saṃsaktasalilaścalormiḥ śuśubhe'dhikam .. 51 ..
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् । भीमाश्वरथमातङ्गं नानापत्ति समाकुलम् ॥ 52 ॥
patākādhvajasaṃsaktamuttamāsiparaśvadham . bhīmāśvarathamātaṅgaṃ nānāpatti samākulam .. 52 ..
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् । तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ॥ 53 ॥
dīptaśūlagadākhaḍgaprāsatomarakārmukam . tadrākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam .. 53 ..
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् । हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ॥ 54 ॥
dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam . hemajālācitabhujaṃ vyāveṣṭitaparaśvadham .. 54 ..
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् । गन्धमाल्यमधूत्सेकसंमोदित महानिलम् ॥ 55 ॥
vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam . gandhamālyamadhūtsekasaṃmodita mahānilam .. 55 ..
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् । तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ॥ 56 ॥
ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam . taṃ dṛṣṭvā balamāyāntaṃ rākṣasānāṃ sudāruṇam .. 56 ..
सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च । जवेनाप्लुत्य च पुनस्तद्राक्षसबलं महत् ॥ 57 ॥
sañcacāla plavaṅgānāṃ balamuccairnanāda ca . javenāplutya ca punastadrākṣasabalaṃ mahat .. 57 ..
अभ्ययात्प्रत्यरिबलं पतङ्ग इव पावकम् । तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ॥ 58 ॥
abhyayātpratyaribalaṃ pataṅga iva pāvakam . teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani .. 58 ..
राक्षसानां बलं श्रेष्ठं भूयः परमशोभत । तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः ॥ 59 ॥
rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyaḥ paramaśobhata . tatronmattā ivotpeturharayo'tha yuyutsavaḥ .. 59 ..
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् । । तथैवापततां तेषां हरीणां निशितैः शरैः ॥ 60 ॥
taruśailairabhighnanto muṣṭibhiśca niśācarān . . tathaivāpatatāṃ teṣāṃ harīṇāṃ niśitaiḥ śaraiḥ .. 60 ..
शिरांसि सहसा जह्रू राक्षसा भीमविक्रमा । दशनैर्हतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः । शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ॥ 61 ॥
śirāṃsi sahasā jahrū rākṣasā bhīmavikramā . daśanairhatakarṇāśca muṣṭiniṣkīrṇamastakāḥ . śilāprahārabhagnāṅgā vicerustatra rākṣasāḥ .. 61 ..
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः । प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः ॥ 62 ॥
tathaivāpyapare teṣāṃ kapīnāmasibhiḥ śitaiḥ . pravīrānabhito jaghnurghorarūpā niśācarāḥ .. 62 ..
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् । गर्हमाणं जगर्हान्ये दशन्तमपरेऽदशत् ॥ 63 ॥
ghnantamanyaṃ jaghānānyaḥ pātayantamapātayat . garhamāṇaṃ jagarhānye daśantamapare'daśat .. 63 ..
देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनः । किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ 64 ॥
dehītyanye dadātyanyo dadāmītyaparaḥ punaḥ . kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire .. 64 ..
विप्रलम्भितवस्त्रं च विमुक्तकवचायुधम् । समुद्यतमहाप्रासं मुष्टिशूलासिसङ्कुलम् ॥ 65 ॥
vipralambhitavastraṃ ca vimuktakavacāyudham . samudyatamahāprāsaṃ muṣṭiśūlāsisaṅkulam .. 65 ..
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् । वानरान्दश सप्तेति राक्षसा अभ्यपातयन् ॥ 66 ॥
prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām . vānarāndaśa sapteti rākṣasā abhyapātayan .. 66 ..
राक्षसान्दशसप्तेति वानरा जघ्नुराहवे । विस्रस्तकेशरसनं विमुक्तकवचध्वजम् । बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥ 67 ॥
rākṣasāndaśasapteti vānarā jaghnurāhave . visrastakeśarasanaṃ vimuktakavacadhvajam . balaṃ rākṣasamālambya vānarāḥ paryavārayan .. 67 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In