This overlay will guide you through the buttons:

| |
|
प्रवृत्ते सङ्कुले तस्मिन्घोरे वीरजनक्षये । अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ १॥
प्रवृत्ते सङ्कुले तस्मिन् घोरे वीर-जन-क्षये । अङ्गदः कम्पनम् वीरम् आससाद रण-उत्सुकः ॥ १॥
pravṛtte saṅkule tasmin ghore vīra-jana-kṣaye . aṅgadaḥ kampanam vīram āsasāda raṇa-utsukaḥ .. 1..
आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः । गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥ २॥
आहूय सः अङ्गदम् कोपात् ताडयामास वेगितः । गदया कम्पनः पूर्वम् स चचाल भृश-आहतः ॥ २॥
āhūya saḥ aṅgadam kopāt tāḍayāmāsa vegitaḥ . gadayā kampanaḥ pūrvam sa cacāla bhṛśa-āhataḥ .. 2..
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः । अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥ ३॥
स संज्ञाम् प्राप्य तेजस्वी चिक्षेप शिखरम् गिरेः । अर्दितः च प्रहारेण कम्पनः पतितः भुवि ॥ ३॥
sa saṃjñām prāpya tejasvī cikṣepa śikharam gireḥ . arditaḥ ca prahāreṇa kampanaḥ patitaḥ bhuvi .. 3..
ततस्तु कम्पनं दृष्टवा शोणिताक्षो हतं रणे । रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ॥ 4 ॥
ततस् तु कम्पनम् दृष्टवा शोणिताक्षः हतम् रणे । रथेन अभ्यपतत् क्षिप्रम् तत्र अङ्गदम् अभीत-वत् ॥ ४ ॥
tatas tu kampanam dṛṣṭavā śoṇitākṣaḥ hatam raṇe . rathena abhyapatat kṣipram tatra aṅgadam abhīta-vat .. 4 ..
सोङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः । शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ॥ 5 ॥
स उङ्गदम् निशितैः बाणैः तदा विव्याध वेगितः । शरीर-दारणैः तीक्ष्णैः कालाग्नि-सम-विग्रहैः ॥ ५ ॥
sa uṅgadam niśitaiḥ bāṇaiḥ tadā vivyādha vegitaḥ . śarīra-dāraṇaiḥ tīkṣṇaiḥ kālāgni-sama-vigrahaiḥ .. 5 ..
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तै शिलीमुखैः । कर्णिशल्यविपाठैश्च बहुभिश्चशितैः शरैः ॥ 6 ॥
क्षुर-क्षुरप्रैः नाराचैः वत्सदन्तैः शिलीमुखैः । कर्णि-शल्य-विपाठैः च बहुभिः च शितैः शरैः ॥ ६ ॥
kṣura-kṣurapraiḥ nārācaiḥ vatsadantaiḥ śilīmukhaiḥ . karṇi-śalya-vipāṭhaiḥ ca bahubhiḥ ca śitaiḥ śaraiḥ .. 6 ..
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् । धनुरग्य्रं रथं बाणान् ममर्द तरसा बली ॥ 7 ॥
अङ्गदः प्रतिविद्ध-अङ्गः वालि-पुत्रः प्रतापवान् । धनुः-अग्य्रम् रथम् बाणान् ममर्द तरसा बली ॥ ७ ॥
aṅgadaḥ pratividdha-aṅgaḥ vāli-putraḥ pratāpavān . dhanuḥ-agyram ratham bāṇān mamarda tarasā balī .. 7 ..
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे । उत्पपात तदा क्रुद्धो वेगवानविचारयन् ॥ 8 ॥
शोणित-अक्षः ततस् क्षिप्रम् असि-चर्म समाददे । उत्पपात तदा क्रुद्धः वेगवान् अविचारयन् ॥ ८ ॥
śoṇita-akṣaḥ tatas kṣipram asi-carma samādade . utpapāta tadā kruddhaḥ vegavān avicārayan .. 8 ..
तं क्षिप्रतरमाफ्लुत्य परामृश्याङ्गदो बली । करेण तस्य तं खङ्गं समाच्छिद्य ननाद च ॥ 9 ॥
तम् क्षिप्रतरम् आफ्लुत्य परामृश्य अङ्गदः बली । करेण तस्य तम् खङ्गम् समाच्छिद्य ननाद च ॥ ९ ॥
tam kṣiprataram āphlutya parāmṛśya aṅgadaḥ balī . kareṇa tasya tam khaṅgam samācchidya nanāda ca .. 9 ..
तस्यांसफलके खडगं निजघान ततोऽङ्गदः । यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ॥ 10 ॥
तस्य अंसफलके खडगम् निजघान ततस् अङ्गदः । यज्ञोपवीत-वत् च एनम् चिच्छेद कपि-कुञ्जरः ॥ १० ॥
tasya aṃsaphalake khaḍagam nijaghāna tatas aṅgadaḥ . yajñopavīta-vat ca enam ciccheda kapi-kuñjaraḥ .. 10 ..
तं प्रगृह्य महाखडगं विनद्य च पुनःपुनः । वालिपुत्रोऽभिदुद्राव रणशीर्षेपरानरीन् ॥ 11 ॥
तम् प्रगृह्य महा-खडगम् विनद्य च पुनर् पुनर् । वालि-पुत्रः अभिदुद्राव रण-शीर्षे परान् अरीन् ॥ ११ ॥
tam pragṛhya mahā-khaḍagam vinadya ca punar punar . vāli-putraḥ abhidudrāva raṇa-śīrṣe parān arīn .. 11 ..
प्रजङ्घस महावीरो यूपाक्षस्तु ततो बली । रथेनाभिययौ क्रुद्दो वालिपुत्रं महाबलम् ॥ 12 ॥
प्रजङ्घस महावीरः यूपाक्षः तु ततस् बली । रथेन अभिययौ क्रुद्दः वालि-पुत्रम् महा-बलम् ॥ १२ ॥
prajaṅghasa mahāvīraḥ yūpākṣaḥ tu tatas balī . rathena abhiyayau kruddaḥ vāli-putram mahā-balam .. 12 ..
आयसीं तु गदां गृह्य स वीरः कनकाङ्गदः । शोणिताक्षः समाश्वस्य तमेवानुपपात ह ॥ 13 ॥
आयसीम् तु गदाम् गृह्य स वीरः कनक-अङ्गदः । शोणिताक्षः समाश्वस्य तम् एव अनुपपात ह ॥ १३ ॥
āyasīm tu gadām gṛhya sa vīraḥ kanaka-aṅgadaḥ . śoṇitākṣaḥ samāśvasya tam eva anupapāta ha .. 13 ..
प्रजङ्घस महावीरो यूपाक्षसहितो बली । रथेनाभिययौ क्रुद्दो वालिपुत्रं महाबलम् ॥ 14 ॥
प्रजङ्घस महावीरः यूप-अक्ष-सहितः बली । रथेन अभिययौ क्रुद्दः वालि-पुत्रम् महा-बलम् ॥ १४ ॥
prajaṅghasa mahāvīraḥ yūpa-akṣa-sahitaḥ balī . rathena abhiyayau kruddaḥ vāli-putram mahā-balam .. 14 ..
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः । विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ॥ 15 ॥
तयोः मध्ये कपि-श्रेष्ठः शोणिताक्ष-प्रजङ्घयोः । विशाखयोः मध्य-गतः पूर्ण-चन्द्रः इव अभवत् ॥ १५ ॥
tayoḥ madhye kapi-śreṣṭhaḥ śoṇitākṣa-prajaṅghayoḥ . viśākhayoḥ madhya-gataḥ pūrṇa-candraḥ iva abhavat .. 15 ..
अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च । तस्य तस्थतुरभ्याशे परस्परदिदृक्ष्या ॥ 16 ॥
अङ्गदम् परिरक्षन्तौ मैन्दः द्विविदः एव च । तस्य तस्थतुः अभ्याशे परस्पर-दिदृक्ष्या ॥ १६ ॥
aṅgadam parirakṣantau maindaḥ dvividaḥ eva ca . tasya tasthatuḥ abhyāśe paraspara-didṛkṣyā .. 16 ..
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः । राक्षसा वानरान् रोषादसिबाणगदाधराः ॥ 17 ॥
अभिपेतुः महा-कायाः प्रतियत्ताः महा-बलाः । राक्षसाः वानरान् रोषात् असि-बाण-गदा-धराः ॥ १७ ॥
abhipetuḥ mahā-kāyāḥ pratiyattāḥ mahā-balāḥ . rākṣasāḥ vānarān roṣāt asi-bāṇa-gadā-dharāḥ .. 17 ..
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः । संसक्तानां महद् युद्धमभवद् रोमहर्षणम् ॥ 18 ॥
त्रयाणाम् वानर-इन्द्राणाम् त्रिभिः राक्षस-पुङ्गवैः । संसक्तानाम् महत् युद्धम् अभवत् रोम-हर्षणम् ॥ १८ ॥
trayāṇām vānara-indrāṇām tribhiḥ rākṣasa-puṅgavaiḥ . saṃsaktānām mahat yuddham abhavat roma-harṣaṇam .. 18 ..
ते तु वृक्षान् समादाय सम्प्रचिपुराहवे । खङ्गेन प्रतिचिक्षेप तान् प्रजङ्घो महाबलः ॥ 19 ॥
ते तु वृक्षान् समादाय सम्प्रचिपुः आहवे । खङ्गेन प्रतिचिक्षेप तान् प्रजङ्घः महा-बलः ॥ १९ ॥
te tu vṛkṣān samādāya sampracipuḥ āhave . khaṅgena praticikṣepa tān prajaṅghaḥ mahā-balaḥ .. 19 ..
रथानश्वान् द्रुमैश्शैलैस्ते प्रचिक्षिपुराहवे । शरौघैः प्रतिचिच्छेद तान् यूपाक्षो महाबलः ॥ 20 ॥
रथान् अश्वान् द्रुमैः शैलैः ते प्रचिक्षिपुः आहवे । शर-ओघैः प्रतिचिच्छेद तान् यूपाक्षः महा-बलः ॥ २० ॥
rathān aśvān drumaiḥ śailaiḥ te pracikṣipuḥ āhave . śara-oghaiḥ praticiccheda tān yūpākṣaḥ mahā-balaḥ .. 20 ..
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान् । बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ॥ 21 ॥
सृष्टान् द्विविद-मैन्दाभ्याम् द्रुमान् उत्पाट्य वीर्यवान् । बभञ्ज गदया मध्ये शोणित-अक्षः प्रतापवान् ॥ २१ ॥
sṛṣṭān dvivida-maindābhyām drumān utpāṭya vīryavān . babhañja gadayā madhye śoṇita-akṣaḥ pratāpavān .. 21 ..
उद्यम्य विपुलं खङ्गं परमर्मविदारणम् । प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ॥ 22 ॥
उद्यम्य विपुलम् खङ्गम् पर-मर्म-विदारणम् । प्रजङ्घः वालि-पुत्राय अभिदुद्राव वेगितः ॥ २२ ॥
udyamya vipulam khaṅgam para-marma-vidāraṇam . prajaṅghaḥ vāli-putrāya abhidudrāva vegitaḥ .. 22 ..
तमभ्याशगतं दृष्टवा वानरेन्द्रो महाबलः । आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ॥ 23 ॥
तम् अभ्याश-गतम् दृष्टवा वानर-इन्द्रः महा-बलः । आजघान अश्वकर्णेन द्रुमेण अति बलः तदा ॥ २३ ॥
tam abhyāśa-gatam dṛṣṭavā vānara-indraḥ mahā-balaḥ . ājaghāna aśvakarṇena drumeṇa ati balaḥ tadā .. 23 ..
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना । वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥ 24 ॥
बाहुम् च अस्य स निस्त्रिंशम् आजघान स मुष्टिना । वालि-पुत्रस्य घातेन स पपात क्षितौ असिः ॥ २४ ॥
bāhum ca asya sa nistriṃśam ājaghāna sa muṣṭinā . vāli-putrasya ghātena sa papāta kṣitau asiḥ .. 24 ..
तं दृष्टवा पतितं भूमौ खङ्ग मुलसन्निभम् । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ 25 ॥
तम् दृष्टवा पतितम् भूमौ खङ्ग मुल-सन्निभम् । मुष्टिम् संवर्तयामास वज्र-कल्पम् महा-बलः ॥ २५ ॥
tam dṛṣṭavā patitam bhūmau khaṅga mula-sannibham . muṣṭim saṃvartayāmāsa vajra-kalpam mahā-balaḥ .. 25 ..
स ललाटे महावीर्यमङ्गदं वानरर्षभम् । आजघान महातेजाः स मुहूर्तं चचाल ह ॥ 26 ॥
स ललाटे महा-वीर्यम् अङ्गदम् वानर-ऋषभम् । आजघान महा-तेजाः स मुहूर्तम् चचाल ह ॥ २६ ॥
sa lalāṭe mahā-vīryam aṅgadam vānara-ṛṣabham . ājaghāna mahā-tejāḥ sa muhūrtam cacāla ha .. 26 ..
स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् । प्रजङ्घस्य शिरः कायात् पातयामास मुष्टिना ॥ 27 ॥
स संज्ञाम् प्राप्य तेजस्वी वालि-पुत्रः प्रतापवान् । प्रजङ्घस्य शिरः कायात् पातयामास मुष्टिना ॥ २७ ॥
sa saṃjñām prāpya tejasvī vāli-putraḥ pratāpavān . prajaṅghasya śiraḥ kāyāt pātayāmāsa muṣṭinā .. 27 ..
स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे । अवरुह्य रथात् क्षिप्रं क्षीणेषु खङ्गमाददे ॥ 28 ॥
स यूप-अक्षः अश्रु-पूर्ण-अक्षः पितृव्ये निहते रणे । अवरुह्य रथात् क्षिप्रम् क्षीणेषु खङ्गम् आददे ॥ २८ ॥
sa yūpa-akṣaḥ aśru-pūrṇa-akṣaḥ pitṛvye nihate raṇe . avaruhya rathāt kṣipram kṣīṇeṣu khaṅgam ādade .. 28 ..
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन् । आजघानोरसि क्रुद्धो जग्राह च बलाद्बली ॥ 29 ॥
तम् आपतन्तम् सम्प्रेक्ष्य यूपाक्षम् द्विविदः त्वरन् । आजघान उरसि क्रुद्धः जग्राह च बलात् बली ॥ २९ ॥
tam āpatantam samprekṣya yūpākṣam dvividaḥ tvaran . ājaghāna urasi kruddhaḥ jagrāha ca balāt balī .. 29 ..
गृहीतं भ्रातरं दृष्टवा शोणिताक्षो महाबलः । आजघान महातेजा वक्षसि द्विविदं ततः ॥ 30 ॥
गृहीतम् भ्रातरम् दृष्टवा शोणित-अक्षः महा-बलः । आजघान महा-तेजाः वक्षसि द्विविदम् ततस् ॥ ३० ॥
gṛhītam bhrātaram dṛṣṭavā śoṇita-akṣaḥ mahā-balaḥ . ājaghāna mahā-tejāḥ vakṣasi dvividam tatas .. 30 ..
स ततोऽभिहतस्तेन चचाल च महाबलः । उद्यता च पुनस्तस्य जहार द्विविदो गदाम् ॥ 31 ॥
स ततस् अभिहतः तेन चचाल च महा-बलः । उद्यता च पुनर् तस्य जहार द्विविदः गदाम् ॥ ३१ ॥
sa tatas abhihataḥ tena cacāla ca mahā-balaḥ . udyatā ca punar tasya jahāra dvividaḥ gadām .. 31 ..
एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत् । यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ॥ 32 ॥
एतस्मिन् अन्तरे मैन्दः द्विविद-अभ्याशम् आगमत् । यूपाक्षम् ताडयामास तलेन उरसि वीर्यवान् ॥ ३२ ॥
etasmin antare maindaḥ dvivida-abhyāśam āgamat . yūpākṣam tāḍayāmāsa talena urasi vīryavān .. 32 ..
तौ शोणिताक्ष्यूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ । चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥ 33 ॥
तौ शोणिताक्षी-ऊपाक्षौ प्लवङ्गाभ्याम् तरस्विनौ । चक्रतुः समरे तीव्रम् आकर्ष-उत्पाटनम् भृशम् ॥ ३३ ॥
tau śoṇitākṣī-ūpākṣau plavaṅgābhyām tarasvinau . cakratuḥ samare tīvram ākarṣa-utpāṭanam bhṛśam .. 33 ..
द्विविदः शोणिताक्षं तु विददार नखैर्मुखै । निष्पिपेष स वीर्येण क्षितावाविध्य वीर्यवान् ॥ 34 ॥
द्विविदः शोणिताक्षम् तु विददार नखैः मुखैः । निष्पिपेष स वीर्येण क्षितौ आविध्य वीर्यवान् ॥ ३४ ॥
dvividaḥ śoṇitākṣam tu vidadāra nakhaiḥ mukhaiḥ . niṣpipeṣa sa vīryeṇa kṣitau āvidhya vīryavān .. 34 ..
यूपाक्षमभिसङ्कृद्धो मैन्दो वानरपुगवः । पीडयामास बाहुभ्यां पपात स हतः क्षितौ ॥ 35 ॥
यूप-अक्षम् अभिसङ्कृद्धः मैन्दः वानर-पुगवः । पीडयामास बाहुभ्याम् पपात स हतः क्षितौ ॥ ३५ ॥
yūpa-akṣam abhisaṅkṛddhaḥ maindaḥ vānara-pugavaḥ . pīḍayāmāsa bāhubhyām papāta sa hataḥ kṣitau .. 35 ..
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा । जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ॥ 36 ॥
हत-प्रवीरा व्यथिता राक्षस-इन्द्र-चमूः तदा । जगाम अभिमुखी सा तु कुम्भकर्ण-सुतः यतस् ॥ ३६ ॥
hata-pravīrā vyathitā rākṣasa-indra-camūḥ tadā . jagāma abhimukhī sā tu kumbhakarṇa-sutaḥ yatas .. 36 ..
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् । अथोत्कष्टं महावीर्यैर्लब्धलक्ष्यैः प्लवङ्गमैः ॥ 37 ॥
आपतन्तीम् च वेगेन कुम्भः ताम् सान्त्वयत् चमूम् । अथ उत्कष्टम् महा-वीर्यैः लब्ध-लक्ष्यैः प्लवङ्गमैः ॥ ३७ ॥
āpatantīm ca vegena kumbhaḥ tām sāntvayat camūm . atha utkaṣṭam mahā-vīryaiḥ labdha-lakṣyaiḥ plavaṅgamaiḥ .. 37 ..
निपातितमहावीरां दृष्ट रक्षश्चमूं तदा । कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥ 38 ॥
निपातित-महा-वीराम् दृष्ट रक्षः-चमूम् तदा । कुम्भः प्रचक्रे तेजस्वी रणे कर्म सु दुष्करम् ॥ ३८ ॥
nipātita-mahā-vīrām dṛṣṭa rakṣaḥ-camūm tadā . kumbhaḥ pracakre tejasvī raṇe karma su duṣkaram .. 38 ..
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः । मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ॥ 39 ॥
स धनुः धन्विनाम् श्रेष्ठः प्रगृह्य सु समाहितः । मुमोच आशीविष-प्रख्यान् शरान् देह-विदारणान् ॥ ३९ ॥
sa dhanuḥ dhanvinām śreṣṭhaḥ pragṛhya su samāhitaḥ . mumoca āśīviṣa-prakhyān śarān deha-vidāraṇān .. 39 ..
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् । विद्युदैरावतार्चिष्मद् द्वितीयेन्द्रधनुर्यथा ॥ 40 ॥
तस्य तत् शुशुभे भूयस् स शरम् धनुः उत्तमम् । विद्युत्-ऐरावत-अर्चिष्मत् द्वितीय-इन्द्रधनुः यथा ॥ ४० ॥
tasya tat śuśubhe bhūyas sa śaram dhanuḥ uttamam . vidyut-airāvata-arciṣmat dvitīya-indradhanuḥ yathā .. 40 ..
आकर्णकृष्टमुक्तेन जघान द्विविदं तदा । तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥ 41 ॥
आकर्ण-कृष्ट-मुक्तेन जघान द्विविदम् तदा । तेन हाटक-पुङ्खेन पत्रिणा पत्र-वाससा ॥ ४१ ॥
ākarṇa-kṛṣṭa-muktena jaghāna dvividam tadā . tena hāṭaka-puṅkhena patriṇā patra-vāsasā .. 41 ..
सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् । निपपात त्रिकूटाभो विह्वलन् प्लवगोत्तमः ॥ 42 ॥
सहसा अभिहतः तेन विप्रमुक्त-पदः स्फुरन् । निपपात त्रि-कूट-आभः विह्वलन् प्लवग-उत्तमः ॥ ४२ ॥
sahasā abhihataḥ tena vipramukta-padaḥ sphuran . nipapāta tri-kūṭa-ābhaḥ vihvalan plavaga-uttamaḥ .. 42 ..
मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे । अभिदुद्राव वेगेन प्रगृह्य विपुलां शिलाम् ॥ 43 ॥
मैन्दः तु भ्रातरम् दृष्ट्वा भग्नम् तत्र महा-आहवे । अभिदुद्राव वेगेन प्रगृह्य विपुलाम् शिलाम् ॥ ४३ ॥
maindaḥ tu bhrātaram dṛṣṭvā bhagnam tatra mahā-āhave . abhidudrāva vegena pragṛhya vipulām śilām .. 43 ..
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः । बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥ 44 ॥
ताम् शिलाम् तु प्रचिक्षेप राक्षसाय महा-बलः । बिभेद ताम् शिलाम् कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥ ४४ ॥
tām śilām tu pracikṣepa rākṣasāya mahā-balaḥ . bibheda tām śilām kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ .. 44 ..
सन्धाय चान्यं सुमुखं शरमाशीविषोपमम् । आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥ 45 ॥
सन्धाय च अन्यम् सु मुखम् शरम् आशीविष-उपमम् । आजघान महा-तेजाः वक्षसि द्विविद-अग्रजम् ॥ ४५ ॥
sandhāya ca anyam su mukham śaram āśīviṣa-upamam . ājaghāna mahā-tejāḥ vakṣasi dvivida-agrajam .. 45 ..
स तु तेन प्रहारेण मैन्दो वानरयूथपः । मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ॥ 46 ॥
स तु तेन प्रहारेण मैन्दः वानर-यूथपः । मर्मणि अभिहतः तेन पपात भुवि मूर्च्छितः ॥ ४६ ॥
sa tu tena prahāreṇa maindaḥ vānara-yūthapaḥ . marmaṇi abhihataḥ tena papāta bhuvi mūrcchitaḥ .. 46 ..
अङ्गदो मातुलौ दृष्ट्वा मथितौ तु महाबलौ । अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ॥ 47 ॥
अङ्गदः मातुलौ दृष्ट्वा मथितौ तु महा-बलौ । अभिदुद्राव वेगेन कुम्भम् उद्यत-कार्मुकम् ॥ ४७ ॥
aṅgadaḥ mātulau dṛṣṭvā mathitau tu mahā-balau . abhidudrāva vegena kumbham udyata-kārmukam .. 47 ..
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः । त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः । सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् ॥ 48 ॥
तम् आपतन्तम् विव्याध कुम्भः पञ्चभिः आयसैः । त्रिभिः च अन्यैः शितैः बाणैः मातङ्गम् इव तोमरैः । सः अङ्गदम् विविधैः बाणैः कुम्भः विव्याध वीर्यवान् ॥ ४८ ॥
tam āpatantam vivyādha kumbhaḥ pañcabhiḥ āyasaiḥ . tribhiḥ ca anyaiḥ śitaiḥ bāṇaiḥ mātaṅgam iva tomaraiḥ . saḥ aṅgadam vividhaiḥ bāṇaiḥ kumbhaḥ vivyādha vīryavān .. 48 ..
अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः । अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ॥ 49 ॥
अकुण्ठ-धारैः निशितैः तीक्ष्णैः कनक-भूषणैः । अङ्गदः प्रतिविद्ध-अङ्गः वालि-पुत्रः न कम्पते ॥ ४९ ॥
akuṇṭha-dhāraiḥ niśitaiḥ tīkṣṇaiḥ kanaka-bhūṣaṇaiḥ . aṅgadaḥ pratividdha-aṅgaḥ vāli-putraḥ na kampate .. 49 ..
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह । स प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः ॥ 50 ॥
शिला-पादप-वर्षाणि तस्य मूर्ध्नि ववर्ष ह । स प्रचिच्छेद तान् सर्वान् बिभेद च पुनर् शिलाः ॥ ५० ॥
śilā-pādapa-varṣāṇi tasya mūrdhni vavarṣa ha . sa praciccheda tān sarvān bibheda ca punar śilāḥ .. 50 ..
कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् । आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् ॥ 51 ॥
कुम्भकर्ण-आत्मजः श्रीमान् वालि-पुत्र-समीरितान् । आपतन्तम् च सम्प्रेक्ष्य कुम्भः वानर-यूथपम् ॥ ५१ ॥
kumbhakarṇa-ātmajaḥ śrīmān vāli-putra-samīritān . āpatantam ca samprekṣya kumbhaḥ vānara-yūthapam .. 51 ..
भ्रुवौ विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् । तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ॥ 52 ॥
भ्रुवौ विव्याध बाणाभ्याम् उल्काभ्याम् इव कुञ्जरम् । तस्य सुस्राव रुधिरम् पिहिते च अस्य लोचने ॥ ५२ ॥
bhruvau vivyādha bāṇābhyām ulkābhyām iva kuñjaram . tasya susrāva rudhiram pihite ca asya locane .. 52 ..
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते । सालमासन्नमेकेन परिजग्राह पाणिना ॥ 53 ॥
अङ्गदः पाणिना नेत्रे पिधाय रुधिर-उक्षिते । सालम् आसन्नम् एकेन परिजग्राह पाणिना ॥ ५३ ॥
aṅgadaḥ pāṇinā netre pidhāya rudhira-ukṣite . sālam āsannam ekena parijagrāha pāṇinā .. 53 ..
सम्पीड्यरसि सस्कन्धम् करेणाभिनिवेश्य च । किञ्चिदभ्यवनम्यैनमुन्ममाथ महारणे । ॥ 54 ॥
सम्पीड्य रसि स स्कन्धम् करेण अभिनिवेश्य च । किञ्चिद् अभ्यवनम्य एनम् उन्ममाथ महा-रणे । ॥ ५४ ॥
sampīḍya rasi sa skandham kareṇa abhiniveśya ca . kiñcid abhyavanamya enam unmamātha mahā-raṇe . .. 54 ..
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् । समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ॥ 55 ॥
तम् इन्द्र-केतु-प्रतिमम् वृक्षम् मन्दर-संनिभम् । समुत्सृजन्तम् वेगेन पश्यताम् सर्व-रक्षसाम् ॥ ५५ ॥
tam indra-ketu-pratimam vṛkṣam mandara-saṃnibham . samutsṛjantam vegena paśyatām sarva-rakṣasām .. 55 ..
स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः । अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च ॥ 56 ॥
स चिच्छेद शितैः बाणैः सप्तभिः काय-भेदनैः । अङ्गदः विव्यथे अभीक्ष्णम् ससाद च मुमोह च ॥ ५६ ॥
sa ciccheda śitaiḥ bāṇaiḥ saptabhiḥ kāya-bhedanaiḥ . aṅgadaḥ vivyathe abhīkṣṇam sasāda ca mumoha ca .. 56 ..
अङ्गदं पतितं दृष्ट्वा सीदन्तमिव सागरे । दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् ॥ 57 ॥
अङ्गदम् पतितम् दृष्ट्वा सीदन्तम् इव सागरे । दुरासदम् हरि-श्रेष्ठाः राघवाय न्यवेदयन् ॥ ५७ ॥
aṅgadam patitam dṛṣṭvā sīdantam iva sāgare . durāsadam hari-śreṣṭhāḥ rāghavāya nyavedayan .. 57 ..
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे । व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः ॥ 58 ॥
रामः तु व्यथितम् श्रुत्वा वालि-पुत्रम् महा-आहवे । व्यादिदेश हरि-श्रेष्ठान् जाम्बवत्-प्रमुखान् ततस् ॥ ५८ ॥
rāmaḥ tu vyathitam śrutvā vāli-putram mahā-āhave . vyādideśa hari-śreṣṭhān jāmbavat-pramukhān tatas .. 58 ..
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् । अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥ 59 ॥
ते तु वानर-शार्दूलाः श्रुत्वा रामस्य शासनम् । अभिपेतुः सु सङ्क्रुद्धाः कुम्भम् उद्यत-कार्मुकम् ॥ ५९ ॥
te tu vānara-śārdūlāḥ śrutvā rāmasya śāsanam . abhipetuḥ su saṅkruddhāḥ kumbham udyata-kārmukam .. 59 ..
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः । रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः ॥ 60 ॥
ततस् द्रुम-शिला-हस्ताः कोप-संरक्त-लोचनाः । रिरक्षिषन्तः अभ्यपतन् अङ्गदम् वानर-ऋषभाः ॥ ६० ॥
tatas druma-śilā-hastāḥ kopa-saṃrakta-locanāḥ . rirakṣiṣantaḥ abhyapatan aṅgadam vānara-ṛṣabhāḥ .. 60 ..
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥ 61 ॥
जाम्बवान् च सुषेणः च वेगदर्शी च वानरः । कुम्भकर्ण-आत्मजम् वीरम् क्रुद्धाः समभिदुद्रुवुः ॥ ६१ ॥
jāmbavān ca suṣeṇaḥ ca vegadarśī ca vānaraḥ . kumbhakarṇa-ātmajam vīram kruddhāḥ samabhidudruvuḥ .. 61 ..
समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान् । आववार शरौघेण नगेनेव जलाशयम् ॥ 62 ॥
समीक्ष्य आतततः तान् तु वानर-इन्द्रान् महा-बलान् । आववार शर-ओघेण नगेन इव जलाशयम् ॥ ६२ ॥
samīkṣya ātatataḥ tān tu vānara-indrān mahā-balān . āvavāra śara-ogheṇa nagena iva jalāśayam .. 62 ..
तस्य बाणचयं प्राप्य न शोकरपु वीक्षितुम् । वानरेन्द्रा महात्मानो वेलामिव महोदधिः ॥ 63 ॥
तस्य बाण-चयम् प्राप्य न शोक-रपु वीक्षितुम् । वानर-इन्द्राः महात्मानः वेलाम् इव महा-उदधिः ॥ ६३ ॥
tasya bāṇa-cayam prāpya na śoka-rapu vīkṣitum . vānara-indrāḥ mahātmānaḥ velām iva mahā-udadhiḥ .. 63 ..
तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् । अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥ 64 ॥
तान् तु दृष्ट्वा हरि-गणान् शर-वृष्टिभिः अर्दितान् । अङ्गदम् पृष्ठतस् कृत्वा भ्रातृ-जम् प्लवग-ईश्वरः ॥ ६४ ॥
tān tu dṛṣṭvā hari-gaṇān śara-vṛṣṭibhiḥ arditān . aṅgadam pṛṣṭhatas kṛtvā bhrātṛ-jam plavaga-īśvaraḥ .. 64 ..
अभिदुद्राव वेगेन सुग्रीवः कुम्भर्णात्मजं रणे । शैलसानुचरं नागं वेगवानिव केसरी ॥ 65 ॥
अभिदुद्राव वेगेन सुग्रीवः कुम्भर्ण-आत्मजम् रणे । शैल-सानु-चरम् नागम् वेगवान् इव केसरी ॥ ६५ ॥
abhidudrāva vegena sugrīvaḥ kumbharṇa-ātmajam raṇe . śaila-sānu-caram nāgam vegavān iva kesarī .. 65 ..
उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् । अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाकपिः ॥ 66 ॥
उत्पाट्य च महा-शैलान् अश्वकर्ण-अन्धवान् बहून् । अन्यान् च विविधान् वृक्षान् चिक्षेप च महा-कपिः ॥ ६६ ॥
utpāṭya ca mahā-śailān aśvakarṇa-andhavān bahūn . anyān ca vividhān vṛkṣān cikṣepa ca mahā-kapiḥ .. 66 ..
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् । कुम्भकर्णात्मजः श्रीमांश्चिच्छेद स्वशरैः शितैः ॥ 67 ॥
ताम् छादयन्तीम् आकाशम् वृक्ष-वृष्टिम् दुरासदाम् । कुम्भकर्ण-आत्मजः श्रीमान् चिच्छेद स्व-शरैः शितैः ॥ ६७ ॥
tām chādayantīm ākāśam vṛkṣa-vṛṣṭim durāsadām . kumbhakarṇa-ātmajaḥ śrīmān ciccheda sva-śaraiḥ śitaiḥ .. 67 ..
अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः । आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः । द्रुमवर्षं तु तद् भिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ॥ 68 ॥
अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः । आचिताः ते द्रुमाः रेजुः यथा घोराः शतघ्नयः । द्रुम-वर्षम् तु तत् भिन्नम् दृष्ट्वा कुम्भेन वीर्यवान् ॥ ६८ ॥
abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ . ācitāḥ te drumāḥ rejuḥ yathā ghorāḥ śataghnayaḥ . druma-varṣam tu tat bhinnam dṛṣṭvā kumbhena vīryavān .. 68 ..
वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे । निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् ॥ 69 ॥
वानर-अधिपतिः श्रीमान् महा-सत्त्वः न विव्यथे । निर्भिद्यमानः सहसा सहमानः च तान् शरान् ॥ ६९ ॥
vānara-adhipatiḥ śrīmān mahā-sattvaḥ na vivyathe . nirbhidyamānaḥ sahasā sahamānaḥ ca tān śarān .. 69 ..
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् । अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ॥ 70 ॥
कुम्भस्य धनुः आक्षिप्य बभञ्ज इन्द्रधनुः-प्रभम् । अवप्लुत्य ततस् शीघ्रम् कृत्वा कर्म सु दुष्करम् ॥ ७० ॥
kumbhasya dhanuḥ ākṣipya babhañja indradhanuḥ-prabham . avaplutya tatas śīghram kṛtvā karma su duṣkaram .. 70 ..
अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् । निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् ॥ 71 ॥
अब्रवीत् कुपितः कुम्भम् भग्न-शृङ्गम् इव द्विपम् । निकुम्भ-अग्रज वीर्यम् ते बाण-वेगम् तत् अद्भुतम् ॥ ७१ ॥
abravīt kupitaḥ kumbham bhagna-śṛṅgam iva dvipam . nikumbha-agraja vīryam te bāṇa-vegam tat adbhutam .. 71 ..
संनतिश्च प्रभावश्च तव वा रावणस्य वा । प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम ॥ 72 ॥
संनतिः च प्रभावः च तव वा रावणस्य वा । प्रह्राद-बलि-वृत्र-घ्न-कुबेर-वरुण-उपम ॥ ७२ ॥
saṃnatiḥ ca prabhāvaḥ ca tava vā rāvaṇasya vā . prahrāda-bali-vṛtra-ghna-kubera-varuṇa-upama .. 72 ..
एकस्त्वमनुजातोऽसि पितरं बलवत्तरः । त्वामेवैकं महाबाहुं शूलहस्तमरिन्दमम् ॥ 73 ॥
एकः त्वम् अनुजातः असि पितरम् बलवत्तरः । त्वाम् एव एकम् महा-बाहुम् शूल-हस्तम् अरिन्दमम् ॥ ७३ ॥
ekaḥ tvam anujātaḥ asi pitaram balavattaraḥ . tvām eva ekam mahā-bāhum śūla-hastam arindamam .. 73 ..
त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः । विक्रमस्व महाबुद्धे कर्माणि मम पश्य च ॥ 74 ॥
त्रिदशाः न अतिवर्तन्ते जित-इन्द्रियम् इव आधयः । विक्रमस्व महाबुद्धे कर्माणि मम पश्य च ॥ ७४ ॥
tridaśāḥ na ativartante jita-indriyam iva ādhayaḥ . vikramasva mahābuddhe karmāṇi mama paśya ca .. 74 ..
वरदानात् पितृव्यस्ते सहते देवदानवान् । कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥ 75 ॥
वर-दानात् पितृव्यः ते सहते देव-दानवान् । कुम्भकर्णः तु वीर्येण सहते च सुर-असुरान् ॥ ७५ ॥
vara-dānāt pitṛvyaḥ te sahate deva-dānavān . kumbhakarṇaḥ tu vīryeṇa sahate ca sura-asurān .. 75 ..
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च । त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ॥ 76 ॥
धनुषि इन्द्रजितः तुल्यः प्रतापे रावणस्य च । त्वम् अद्य रक्षसाम् लोके श्रेष्ठः असि बल-वीर्यतः ॥ ७६ ॥
dhanuṣi indrajitaḥ tulyaḥ pratāpe rāvaṇasya ca . tvam adya rakṣasām loke śreṣṭhaḥ asi bala-vīryataḥ .. 76 ..
महाविमर्दं समरे मया सह तवाद्भुतम् । अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥ 77 ॥
महा-विमर्दम् समरे मया सह तव अद्भुतम् । अद्य भूतानि पश्यन्तु शक्र-शम्बरयोः इव ॥ ७७ ॥
mahā-vimardam samare mayā saha tava adbhutam . adya bhūtāni paśyantu śakra-śambarayoḥ iva .. 77 ..
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् । पातिता हरिवीराश्च त्वयैते भीमविक्रमाः ॥ 78 ॥
कृतम् अप्रतिमम् कर्म दर्शितम् च अस्त्र-कौशलम् । पातिताः हरि-वीराः च त्वया एते भीम-विक्रमाः ॥ ७८ ॥
kṛtam apratimam karma darśitam ca astra-kauśalam . pātitāḥ hari-vīrāḥ ca tvayā ete bhīma-vikramāḥ .. 78 ..
उपालम्भभयाच्चापि नासि वीर मया हतः । कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ॥ 79 ॥
उपालम्भ-भयात् च अपि न असि वीर मया हतः । कृत-कर्मा परिश्रान्तः विश्रान्तः पश्य मे बलम् ॥ ७९ ॥
upālambha-bhayāt ca api na asi vīra mayā hataḥ . kṛta-karmā pariśrāntaḥ viśrāntaḥ paśya me balam .. 79 ..
तेन सुग्रीववाक्येन सावमानेन मानितः । अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत ॥ 80 ॥
तेन सुग्रीव-वाक्येन स अवमानेन मानितः । अग्नेः आज्य-हुतस्य इव तेजः तस्य अभ्यवर्धत ॥ ८० ॥
tena sugrīva-vākyena sa avamānena mānitaḥ . agneḥ ājya-hutasya iva tejaḥ tasya abhyavardhata .. 80 ..
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा । गजाविवातीतमदौ निःश्वसन्तौ मुहुर्मुहुः ॥ 81 ॥
ततस् कुम्भः तु सुग्रीवम् बाहुभ्याम् जगृहे तदा । गजौ इव अतीत-मदौ निःश्वसन्तौ मुहुर् मुहुर् ॥ ८१ ॥
tatas kumbhaḥ tu sugrīvam bāhubhyām jagṛhe tadā . gajau iva atīta-madau niḥśvasantau muhur muhur .. 81 ..
अन्योन्यगात्रग्रथितौ घर्षन्तावितरेतरम् । सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ॥ 82 ॥
अन्योन्य-गात्र-ग्रथितौ घर्षन्तौ इतरेतरम् । स धूमाम् मुखतः ज्वालाम् विसृजन्तौ परिश्रमात् ॥ ८२ ॥
anyonya-gātra-grathitau gharṣantau itaretaram . sa dhūmām mukhataḥ jvālām visṛjantau pariśramāt .. 82 ..
तयोःपादाभिघाताच्च निमग्ना चाभवन्महि । व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ॥ 83 ॥
तयोः पाद-अभिघातात् च निमग्ना च अभवत् महि । व्याघूर्णित-तरङ्गः च चुक्षुभे वरुणालयः ॥ ८३ ॥
tayoḥ pāda-abhighātāt ca nimagnā ca abhavat mahi . vyāghūrṇita-taraṅgaḥ ca cukṣubhe varuṇālayaḥ .. 83 ..
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि । पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥ 84 ॥
ततस् कुम्भम् समुत्क्षिप्य सुग्रीवः लवणाम्भसि । पातयामास वेगेन दर्शयन् उदधेः तलम् ॥ ८४ ॥
tatas kumbham samutkṣipya sugrīvaḥ lavaṇāmbhasi . pātayāmāsa vegena darśayan udadheḥ talam .. 84 ..
ततः कुम्भनिपातेन जलराशिः समुत्थितः । व्निध्यमन्दरसङ्काशो विससर्प समन्ततः ॥ 85 ॥
ततस् कुम्भ-निपातेन जल-राशिः समुत्थितः । विससर्प समन्ततः ॥ ८५ ॥
tatas kumbha-nipātena jala-rāśiḥ samutthitaḥ . visasarpa samantataḥ .. 85 ..
ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च । आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ॥ 86 ॥
ततस् कुम्भः समुत्पत्य सुग्रीवम् अभिपद्य च । आजघान उरसि क्रुद्धः वज्र-वेगेन मुष्टिना ॥ ८६ ॥
tatas kumbhaḥ samutpatya sugrīvam abhipadya ca . ājaghāna urasi kruddhaḥ vajra-vegena muṣṭinā .. 86 ..
तस्य वर्म च पुस्फोट सञ्जज्ञे चास्य शोणितम् । तस्य मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥ 87 ॥
तस्य वर्म च पुस्फोट सञ्जज्ञे च अस्य शोणितम् । तस्य मुष्टिः महा-वेगः प्रतिजघ्ने अस्थि-मण्डले ॥ ८७ ॥
tasya varma ca pusphoṭa sañjajñe ca asya śoṇitam . tasya muṣṭiḥ mahā-vegaḥ pratijaghne asthi-maṇḍale .. 87 ..
तस्य वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः । वज्रनिष्पेषसञ्जातज्वाला मेरौ यथा गिरौ ॥ 88 ॥
तस्य वेगेन तत्र आसीत् तेजः प्रज्वालितम् मुहुर् । वज्र-निष्पेष-सञ्जात-ज्वाला मेरौ यथा गिरौ ॥ ८८ ॥
tasya vegena tatra āsīt tejaḥ prajvālitam muhur . vajra-niṣpeṣa-sañjāta-jvālā merau yathā girau .. 88 ..
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ 89 ॥
स तत्र अभिहतः तेन सुग्रीवः वानर-ऋषभः । मुष्टिम् संवर्तयामास वज्र-कल्पम् महा-बलः ॥ ८९ ॥
sa tatra abhihataḥ tena sugrīvaḥ vānara-ṛṣabhaḥ . muṣṭim saṃvartayāmāsa vajra-kalpam mahā-balaḥ .. 89 ..
अर्चिःसहस्रविकचं रविमण्डलवर्चसम् । स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥ 90 ॥
अर्चिः-सहस्र-विकचम् रवि-मण्डल-वर्चसम् । स मुष्टिम् पातयामास कुम्भस्य उरसि वीर्यवान् ॥ ९० ॥
arciḥ-sahasra-vikacam ravi-maṇḍala-varcasam . sa muṣṭim pātayāmāsa kumbhasya urasi vīryavān .. 90 ..
स तु तेन प्रहारेण विह्वलो भृशताडितः । निपपात तदा कुम्भो गतार्चिरिव पावकः ॥ 91 ॥
स तु तेन प्रहारेण विह्वलः भृश-ताडितः । निपपात तदा कुम्भः गत-अर्चिः इव पावकः ॥ ९१ ॥
sa tu tena prahāreṇa vihvalaḥ bhṛśa-tāḍitaḥ . nipapāta tadā kumbhaḥ gata-arciḥ iva pāvakaḥ .. 91 ..
मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः । लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ 92 ॥
मुष्टिना अभिहतः तेन निपपात आशु राक्षसः । लोहिताङ्गः इव आकाशात् दीप्त-रश्मिः यदृच्छया ॥ ९२ ॥
muṣṭinā abhihataḥ tena nipapāta āśu rākṣasaḥ . lohitāṅgaḥ iva ākāśāt dīpta-raśmiḥ yadṛcchayā .. 92 ..
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना । बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः ॥ 93 ॥
कुम्भस्य पततः रूपम् भग्नस्य उरसि मुष्टिना । बभौ रुद्र-अभिपन्नस्य यथारूपम् गवाम् पतेः ॥ ९३ ॥
kumbhasya patataḥ rūpam bhagnasya urasi muṣṭinā . babhau rudra-abhipannasya yathārūpam gavām pateḥ .. 93 ..
तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे । मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ॥ 94 ॥
तस्मिन् हते भीम-पराक्रमेण प्लवङ्गमानाम् ऋषभेण युद्धे । मही स शैला स वना चचाल भयम् च रक्षांसि अधिकम् विवेश ॥ ९४ ॥
tasmin hate bhīma-parākrameṇa plavaṅgamānām ṛṣabheṇa yuddhe . mahī sa śailā sa vanā cacāla bhayam ca rakṣāṃsi adhikam viveśa .. 94 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In