This overlay will guide you through the buttons:

| |
|
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् । प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥ 1 ॥
निकुम्भः भ्रातरम् दृष्ट्वा सुग्रीवेण निपातितम् । प्रदहन् इव कोपेन वानर-इन्द्रम् अवैक्षत ॥ १ ॥
nikumbhaḥ bhrātaram dṛṣṭvā sugrīveṇa nipātitam . pradahan iva kopena vānara-indram avaikṣata .. 1 ..
ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् । आददे परिघं धीरो महेन्द्रशिखरोपमम् ॥ 2 ॥
ततस् स्रज्-दाम-संनद्धम् दत्त-पञ्चाङ्गुलम् शुभम् । आददे परिघम् धीरः महा-इन्द्र-शिखर-उपमम् ॥ २ ॥
tatas sraj-dāma-saṃnaddham datta-pañcāṅgulam śubham . ādade parigham dhīraḥ mahā-indra-śikhara-upamam .. 2 ..
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् । यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ 3 ॥
हेम-पट्ट-परिक्षिप्तम् वज्र-विद्रुम-भूषितम् । यम-दण्ड-उपमम् भीमम् रक्षसाम् भय-नाशनम् ॥ ३ ॥
hema-paṭṭa-parikṣiptam vajra-vidruma-bhūṣitam . yama-daṇḍa-upamam bhīmam rakṣasām bhaya-nāśanam .. 3 ..
तमाविध्य महातेजाः शक्रध्वजसमैजसम् । निननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ॥ 4 ॥
तम् आविध्य महा-तेजाः शक्र-ध्वज-समैजसम् । निननाद विवृत्त-आस्यः निकुम्भः भीम-विक्रमः ॥ ४ ॥
tam āvidhya mahā-tejāḥ śakra-dhvaja-samaijasam . ninanāda vivṛtta-āsyaḥ nikumbhaḥ bhīma-vikramaḥ .. 4 ..
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि । कुण्डलाभ्यां च चित्राभ्यां मालया च सिचित्रया ॥ 5 ॥
उरः-गतेन निष्केण भुज-स्थैः अङ्गदैः अपि । कुण्डलाभ्याम् च चित्राभ्याम् मालया च सिचित्रया ॥ ५ ॥
uraḥ-gatena niṣkeṇa bhuja-sthaiḥ aṅgadaiḥ api . kuṇḍalābhyām ca citrābhyām mālayā ca sicitrayā .. 5 ..
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च । यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ॥ 6 ॥
निकुम्भः भूषणैः भाति तेन स्म परिघेण च । यथा इन्द्रधनुषा मेघः स विद्युत्-स्तनयित्नुमान् ॥ ६ ॥
nikumbhaḥ bhūṣaṇaiḥ bhāti tena sma parigheṇa ca . yathā indradhanuṣā meghaḥ sa vidyut-stanayitnumān .. 6 ..
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः । प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ 7 ॥
परिघ-अग्रेण पुस्फोट वात-ग्रन्थिः महात्मनः । प्रजज्वाल स घोषः च विधूमः इव पावकः ॥ ७ ॥
parigha-agreṇa pusphoṭa vāta-granthiḥ mahātmanaḥ . prajajvāla sa ghoṣaḥ ca vidhūmaḥ iva pāvakaḥ .. 7 ..
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः । सतारागणनक्षत्रं सचन्द्रं समहाग्रहम् । निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम् ॥ 8 ॥
नगर्याः विटपावत्याः गन्धर्व-भवन-उत्तमैः । स तारा-गण-नक्षत्रम् स चन्द्रम् स महाग्रहम् । निकुम्भ-परिघ-आघूर्णम् भ्रमति इव नभस्-तलम् ॥ ८ ॥
nagaryāḥ viṭapāvatyāḥ gandharva-bhavana-uttamaiḥ . sa tārā-gaṇa-nakṣatram sa candram sa mahāgraham . nikumbha-parigha-āghūrṇam bhramati iva nabhas-talam .. 8 ..
दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः । क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ॥ 9 ॥
दुरासदः च सञ्जज्ञे परिघ-आभरण-प्रभः । क्रोध-इन्धनः निकुम्भ-अग्निः युगान्त-अग्निः इव उत्थितः ॥ ९ ॥
durāsadaḥ ca sañjajñe parigha-ābharaṇa-prabhaḥ . krodha-indhanaḥ nikumbha-agniḥ yugānta-agniḥ iva utthitaḥ .. 9 ..
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् । हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥ 10 ॥
राक्षसाः वानराः च अपि न शेकुः स्पन्दितुम् भयात् । हनूमन् तु विवृत्य उरः तस्थौ प्रमुखतस् बली ॥ १० ॥
rākṣasāḥ vānarāḥ ca api na śekuḥ spanditum bhayāt . hanūman tu vivṛtya uraḥ tasthau pramukhatas balī .. 10 ..
परिघोपमबाहुस्तु परिघं भास्करप्रभम् । बली बलवतस्तस्य पातयामास वक्षसि ॥ 11 ॥
परिघ-उपम-बाहुः तु परिघम् भास्कर-प्रभम् । बली बलवतः तस्य पातयामास वक्षसि ॥ ११ ॥
parigha-upama-bāhuḥ tu parigham bhāskara-prabham . balī balavataḥ tasya pātayāmāsa vakṣasi .. 11 ..
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः । विकीर्यमाणः सहसा उल्का शतमिवाम्बरे ॥ 12 ॥
स्थिरे तस्य उरसि व्यूढे परिघः शतधा कृतः । विकीर्यमाणः सहसा उल्का शतम् इव अम्बरे ॥ १२ ॥
sthire tasya urasi vyūḍhe parighaḥ śatadhā kṛtaḥ . vikīryamāṇaḥ sahasā ulkā śatam iva ambare .. 12 ..
स तु तेन प्रहारेण चचाल च महाकपिः । परिघेण समाधूतो यथा भूमिचलेऽचलः ॥ 13 ॥
स तु तेन प्रहारेण चचाल च महा-कपिः । परिघेण समाधूतः यथा भूमिचले अचलः ॥ १३ ॥
sa tu tena prahāreṇa cacāla ca mahā-kapiḥ . parigheṇa samādhūtaḥ yathā bhūmicale acalaḥ .. 13 ..
स तथाभिहतस्तेन हनूमान्प्लवगोत्तमः । मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥ 14 ॥
स तथा अभिहतः तेन हनूमान् प्लवग-उत्तमः । मुष्टिम् संवर्तयामास बलेन अति महा-बलः ॥ १४ ॥
sa tathā abhihataḥ tena hanūmān plavaga-uttamaḥ . muṣṭim saṃvartayāmāsa balena ati mahā-balaḥ .. 14 ..
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् । अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः ॥ 15 ॥
तम् उद्यम्य महा-तेजाः निकुम्भ-उरसि वीर्यवान् । अभिचिक्षेप वेगेन वेगवान् वायु-विक्रमः ॥ १५ ॥
tam udyamya mahā-tejāḥ nikumbha-urasi vīryavān . abhicikṣepa vegena vegavān vāyu-vikramaḥ .. 15 ..
ततः पुस्फोट वर्मास्य प्रसुस्राव च शोणितम् । मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युदिवोत्थिता ॥ 16 ॥
ततस् पुस्फोट वर्म अस्य प्रसुस्राव च शोणितम् । मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युत् इव उत्थिता ॥ १६ ॥
tatas pusphoṭa varma asya prasusrāva ca śoṇitam . muṣṭinā tena sañjajñe jvālā vidyut iva utthitā .. 16 ..
स तु तेन प्रहारेण निकुम्भो विचचाल ह । स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम् ॥ 17 ॥
स तु तेन प्रहारेण निकुम्भः विचचाल ह । स्वस्थः च अपि निजग्राह हनूमन्तम् महा-बलम् ॥ १७ ॥
sa tu tena prahāreṇa nikumbhaḥ vicacāla ha . svasthaḥ ca api nijagrāha hanūmantam mahā-balam .. 17 ..
चुक्रुशुश्च तदा सङ्ख्ये भीमं लङ्कानिवासिनः । निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम् ॥ 18 ॥
चुक्रुशुः च तदा सङ्ख्ये भीमम् लङ्का-निवासिनः । निकुम्भेन उद्धृतम् दृष्ट्वा हनूमन्तम् महा-बलम् ॥ १८ ॥
cukruśuḥ ca tadā saṅkhye bhīmam laṅkā-nivāsinaḥ . nikumbhena uddhṛtam dṛṣṭvā hanūmantam mahā-balam .. 18 ..
स तथा ह्रियमाणोऽपि हनुमांस्तेन रक्षसा । आजघानानिलसुतो वज्रकल्पेन मुष्टिना ॥ 19 ॥
स तथा ह्रियमाणः अपि हनुमान् तेन रक्षसा । आजघान अनिलसुतः वज्र-कल्पेन मुष्टिना ॥ १९ ॥
sa tathā hriyamāṇaḥ api hanumān tena rakṣasā . ājaghāna anilasutaḥ vajra-kalpena muṣṭinā .. 19 ..
आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत । हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः ॥ 20 ॥
आत्मानम् मोचयित्वा अथ क्षितौ अभ्यवपद्यत । हनूमान् उन्ममथ आशु निकुम्भम् मारुतात्मजः ॥ २० ॥
ātmānam mocayitvā atha kṣitau abhyavapadyata . hanūmān unmamatha āśu nikumbham mārutātmajaḥ .. 20 ..
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च । उत्पत्य चास्य वेगेन पपातोरसि वेगवान् ॥ 21 ॥
निक्षिप्य परम-आयत्तः निकुम्भम् निष्पिपेष च । उत्पत्य च अस्य वेगेन पपात उरसि वेगवान् ॥ २१ ॥
nikṣipya parama-āyattaḥ nikumbham niṣpipeṣa ca . utpatya ca asya vegena papāta urasi vegavān .. 21 ..
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् । उत्पाटयामास शिरो भैरवं नदतो महत् ॥ 22 ॥
परिगृह्य च बाहुभ्याम् परिवृत्य शिरोधराम् । उत्पाटयामास शिरः भैरवम् नदतः महत् ॥ २२ ॥
parigṛhya ca bāhubhyām parivṛtya śirodharām . utpāṭayāmāsa śiraḥ bhairavam nadataḥ mahat .. 22 ..
अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् । दशरथसुतराक्षसेन्द्रसून्वोर् भृशतरमागतरोषयोः सुभीमम् ॥ 23 ॥
अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् । दशरथ-सुत-राक्षस-इन्द्र-सून्वोः भृशतरम् आगत-रोषयोः सु भीमम् ॥ २३ ॥
atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham . daśaratha-suta-rākṣasa-indra-sūnvoḥ bhṛśataram āgata-roṣayoḥ su bhīmam .. 23 ..
व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिश सस्वनुश्च । चचालेव चोर्वी पपालेव सा द्यौर्बलं राक्षसानां भयं चाविवेश ॥ 24 ॥
व्यपेते तु जीवे निकुम्भस्य हृष्टाः विनेदुः प्लवङ्गाः दिशः सस्वनुः च । चचाल इव च उर्वी पपाल इव सा द्यौः बलम् राक्षसानाम् भयम् च आविवेश ॥ २४ ॥
vyapete tu jīve nikumbhasya hṛṣṭāḥ vineduḥ plavaṅgāḥ diśaḥ sasvanuḥ ca . cacāla iva ca urvī papāla iva sā dyauḥ balam rākṣasānām bhayam ca āviveśa .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In