This overlay will guide you through the buttons:

| |
|
निकुम्भं निहतं श्रुत्वा कुम्भं च विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा ॥ १॥
निकुम्भम् निहतम् श्रुत्वा कुम्भम् च विनिपातितम् । रावणः परम-अमर्षी प्रजज्वाल अनलः यथा ॥ १॥
nikumbham nihatam śrutvā kumbham ca vinipātitam . rāvaṇaḥ parama-amarṣī prajajvāla analaḥ yathā .. 1..
नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः । खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥ २॥
नैरृतः क्रोध-शोकाभ्याम् द्वाभ्याम् तु परिमूर्छितः । खर-पुत्रम् विशाल-अक्षम् मकराक्षम् अचोदयत् ॥ २॥
nairṛtaḥ krodha-śokābhyām dvābhyām tu parimūrchitaḥ . khara-putram viśāla-akṣam makarākṣam acodayat .. 2..
गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः । राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ ॥ ३॥
गच्छ पुत्र मया आज्ञप्तः बलेन अभिसमन्वितः । राघवम् लक्ष्मणम् च एव जहि तौ स वनौकसौ ॥ ३॥
gaccha putra mayā ājñaptaḥ balena abhisamanvitaḥ . rāghavam lakṣmaṇam ca eva jahi tau sa vanaukasau .. 3..
रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः । बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरम् ॥ ४॥
रावणस्य वचः श्रुत्वा शूरः मानी खर-आत्मजः । बाढम् इति अब्रवीत् हृष्टः मकराक्षः निशाचरम् ॥ ४॥
rāvaṇasya vacaḥ śrutvā śūraḥ mānī khara-ātmajaḥ . bāḍham iti abravīt hṛṣṭaḥ makarākṣaḥ niśācaram .. 4..
सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्राद् रावणस्याज्ञया बली ॥ ५॥
सः अभिवाद्य दशग्रीवम् कृत्वा च अपि प्रदक्षिणम् । निर्जगाम गृहात् शुभ्रात् रावणस्य आज्ञया बली ॥ ५॥
saḥ abhivādya daśagrīvam kṛtvā ca api pradakṣiṇam . nirjagāma gṛhāt śubhrāt rāvaṇasya ājñayā balī .. 5..
समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् । रथमानीयतां शीघ्रं सैन्यं चानीयतां त्वरात् ॥ ६॥
समीप-स्थम् बलाध्यक्षम् खर-पुत्रः अब्रवीत् इदम् । रथम् आनीयताम् शीघ्रम् सैन्यम् च आनीयताम् त्वरात् ॥ ६॥
samīpa-stham balādhyakṣam khara-putraḥ abravīt idam . ratham ānīyatām śīghram sainyam ca ānīyatām tvarāt .. 6..
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः । स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ ७॥
तस्य तत् वचनम् श्रुत्वा बलाध्यक्षः निशाचरः । स्यन्दनम् च बलम् च एव समीपम् प्रत्यपादयत् ॥ ७॥
tasya tat vacanam śrutvā balādhyakṣaḥ niśācaraḥ . syandanam ca balam ca eva samīpam pratyapādayat .. 7..
प्रदक्षिणं रथं कृत्वा समारुह्य निशाचरः । सूतं सञ्चोदयामास शीघ्रं वै रथमावह ॥ ८॥
प्रदक्षिणम् रथम् कृत्वा समारुह्य निशाचरः । सूतम् सञ्चोदयामास शीघ्रम् वै रथम् आवह ॥ ८॥
pradakṣiṇam ratham kṛtvā samāruhya niśācaraḥ . sūtam sañcodayāmāsa śīghram vai ratham āvaha .. 8..
अथ तान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् । यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ॥ ९॥
अथ तान् राक्षसान् सर्वान् मकराक्षः अब्रवीत् इदम् । यूयम् सर्वे प्रयुध्यध्वम् पुरस्तात् मम राक्षसाः ॥ ९॥
atha tān rākṣasān sarvān makarākṣaḥ abravīt idam . yūyam sarve prayudhyadhvam purastāt mama rākṣasāḥ .. 9..
अहं राक्षसराजेन रावणेन महात्मना । आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ १०॥
अहम् राक्षस-राजेन रावणेन महात्मना । आज्ञप्तः समरे हन्तुम् तौ उभौ राम-लक्ष्मणौ ॥ १०॥
aham rākṣasa-rājena rāvaṇena mahātmanā . ājñaptaḥ samare hantum tau ubhau rāma-lakṣmaṇau .. 10..
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः । शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥ ११॥
अद्य रामम् वधिष्यामि लक्ष्मणम् च निशाचराः । शाखामृगम् च सुग्रीवम् वानरान् च शर-उत्तमैः ॥ ११॥
adya rāmam vadhiṣyāmi lakṣmaṇam ca niśācarāḥ . śākhāmṛgam ca sugrīvam vānarān ca śara-uttamaiḥ .. 11..
अद्य शूलनिपातैश्च वानराणां महाचमूम् । प्रदहिष्यामि सम्प्राप्तां शुष्केन्धनमिवानलः ॥ १२॥
अद्य शूल-निपातैः च वानराणाम् महा-चमूम् । प्रदहिष्यामि सम्प्राप्ताम् शुष्क-इन्धनम् इव अनलः ॥ १२॥
adya śūla-nipātaiḥ ca vānarāṇām mahā-camūm . pradahiṣyāmi samprāptām śuṣka-indhanam iva analaḥ .. 12..
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः । सर्वे नानायुधोपेता बलवन्तः समाहिताः ॥ १३॥
मकराक्षस्य तत् श्रुत्वा वचनम् ते निशाचराः । सर्वे नाना आयुध-उपेताः बलवन्तः समाहिताः ॥ १३॥
makarākṣasya tat śrutvā vacanam te niśācarāḥ . sarve nānā āyudha-upetāḥ balavantaḥ samāhitāḥ .. 13..
ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः । मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयावहाः ॥ १४॥
ते कामरूपिणः शूराः दंष्ट्रिणः पिङ्गल-ईक्षणाः । मातङ्गाः इव नर्दन्तः ध्वस्त-केशाः भय-आवहाः ॥ १४॥
te kāmarūpiṇaḥ śūrāḥ daṃṣṭriṇaḥ piṅgala-īkṣaṇāḥ . mātaṅgāḥ iva nardantaḥ dhvasta-keśāḥ bhaya-āvahāḥ .. 14..
परिवार्य महाकाया महाकायं खरात्मजम् । अभिजग्मुस्तदा हृष्टाश्चालयन्तो वसुन्धराम् ॥ १५॥
परिवार्य महा-कायाः महा-कायम् खर-आत्मजम् । अभिजग्मुः तदा हृष्टाः चालयन्तः वसुन्धराम् ॥ १५॥
parivārya mahā-kāyāḥ mahā-kāyam khara-ātmajam . abhijagmuḥ tadā hṛṣṭāḥ cālayantaḥ vasundharām .. 15..
शङ्खभेरीसहस्राणामाहतानां समन्ततः । क्ष्वेडितास्फोटितानां च ततः शब्दो महानभूत् ॥ १६॥
शङ्ख-भेरी-सहस्राणाम् आहतानाम् समन्ततः । क्ष्वेडित-आस्फोटितानाम् च ततस् शब्दः महान् अभूत् ॥ १६॥
śaṅkha-bherī-sahasrāṇām āhatānām samantataḥ . kṣveḍita-āsphoṭitānām ca tatas śabdaḥ mahān abhūt .. 16..
प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा । पपात सहसा दैवाद् ध्वजस्तस्य च रक्षसः ॥ १७॥
प्रभ्रष्टः अथ करात् तस्य प्रतोदः सारथेः तदा । पपात सहसा दैवात् ध्वजः तस्य च रक्षसः ॥ १७॥
prabhraṣṭaḥ atha karāt tasya pratodaḥ sāratheḥ tadā . papāta sahasā daivāt dhvajaḥ tasya ca rakṣasaḥ .. 17..
तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः । चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ १८॥
तस्य ते रथ-संयुक्ताः हयाः विक्रम-वर्जिताः । चरणैः आकुलैः गत्वा दीनाः स अस्र-मुखाः ययुः ॥ १८॥
tasya te ratha-saṃyuktāḥ hayāḥ vikrama-varjitāḥ . caraṇaiḥ ākulaiḥ gatvā dīnāḥ sa asra-mukhāḥ yayuḥ .. 18..
प्रवाति पवनस्तस्य सपांसुः खरदारुणः । निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ १९॥
प्रवाति पवनः तस्य स पांसुः खर-दारुणः । निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ १९॥
pravāti pavanaḥ tasya sa pāṃsuḥ khara-dāruṇaḥ . niryāṇe tasya raudrasya makarākṣasya durmateḥ .. 19..
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः । अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥ २०॥
तानि दृष्ट्वा निमित्तानि राक्षसाः वीर्यवत्तमाः । अचिन्त्य-निर्गताः सर्वे यत्र तौ राम-लक्ष्मणौ ॥ २०॥
tāni dṛṣṭvā nimittāni rākṣasāḥ vīryavattamāḥ . acintya-nirgatāḥ sarve yatra tau rāma-lakṣmaṇau .. 20..
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः । अहमहमिति युद्धकौशलास्ते रजनिचराः परिबभ्रमुर्मुहस्ते ॥ २१॥
घन-गज-महिष-अङ्ग-तुल्य-वर्णाः समर-मुखेषु असकृत् गदा-असि-भिन्नाः । अहम् अहम् इति युद्ध-कौशलाः ते रजनिचराः परिबभ्रमुः मुहः ते ॥ २१॥
ghana-gaja-mahiṣa-aṅga-tulya-varṇāḥ samara-mukheṣu asakṛt gadā-asi-bhinnāḥ . aham aham iti yuddha-kauśalāḥ te rajanicarāḥ paribabhramuḥ muhaḥ te .. 21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In