This overlay will guide you through the buttons:

| |
|
निर्गतं मकराक्षं ते दृष्ट्वा वानरपुङ्गवाः । आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥ १॥
निर्गतम् मकराक्षम् ते दृष्ट्वा वानर-पुङ्गवाः । आप्लुत्य सहसा सर्वे योद्धु-कामाः व्यवस्थिताः ॥ १॥
nirgatam makarākṣam te dṛṣṭvā vānara-puṅgavāḥ . āplutya sahasā sarve yoddhu-kāmāḥ vyavasthitāḥ .. 1..
ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम् । निशाचरैः प्लवङ्गानां देवानां दानवैरिव ॥ २॥
ततस् प्रवृत्तम् सु महत् तत् युद्धम् लोम-हर्षणम् । निशाचरैः प्लवङ्गानाम् देवानाम् दानवैः इव ॥ २॥
tatas pravṛttam su mahat tat yuddham loma-harṣaṇam . niśācaraiḥ plavaṅgānām devānām dānavaiḥ iva .. 2..
वृक्षशूलनिपातैश्च शिलापरिघपातनैः । अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ॥ ३॥
वृक्ष-शूल-निपातैः च शिला-परिघ-पातनैः । अन्योन्यम् मर्दयन्ति स्म तदा कपि-निशाचराः ॥ ३॥
vṛkṣa-śūla-nipātaiḥ ca śilā-parigha-pātanaiḥ . anyonyam mardayanti sma tadā kapi-niśācarāḥ .. 3..
शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराः । पट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः ॥ ४॥
शक्ति-शूल-गदा-खड्गैः तोमरैः च निशाचराः । पट्टसैः भिन्दिपालैः च बाण-पातैः समन्ततः ॥ ४॥
śakti-śūla-gadā-khaḍgaiḥ tomaraiḥ ca niśācarāḥ . paṭṭasaiḥ bhindipālaiḥ ca bāṇa-pātaiḥ samantataḥ .. 4..
पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा । कदनं कपिसिंहानां चक्रुस्ते रजनीचराः ॥ ५॥
पाश-मुद्गर-दण्डैः च निर्घातैः च अपरैः तथा । कदनम् कपि-सिंहानाम् चक्रुः ते रजनीचराः ॥ ५॥
pāśa-mudgara-daṇḍaiḥ ca nirghātaiḥ ca aparaiḥ tathā . kadanam kapi-siṃhānām cakruḥ te rajanīcarāḥ .. 5..
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः । सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥ ६॥
बाण-ओघैः अर्दिताः च अपि खर-पुत्रेण वानराः । सम्भ्रान्त-मनसः सर्वे दुद्रुवुः भय-पीडिताः ॥ ६॥
bāṇa-oghaiḥ arditāḥ ca api khara-putreṇa vānarāḥ . sambhrānta-manasaḥ sarve dudruvuḥ bhaya-pīḍitāḥ .. 6..
तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वनौकसः । नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ॥ ७॥
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः । नेदुः ते सिंह-वत् हृष्टाः राक्षसाः जित-काशिनः ॥ ७॥
tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ . neduḥ te siṃha-vat hṛṣṭāḥ rākṣasāḥ jita-kāśinaḥ .. 7..
विद्रवत्सु तदा तेषु वानरेषु समन्ततः । रामस्तान्वारयामास शरवर्षेण राक्षसान् ॥ ८॥
विद्रवत्सु तदा तेषु वानरेषु समन्ततः । रामः तान् वारयामास शर-वर्षेण राक्षसान् ॥ ८॥
vidravatsu tadā teṣu vānareṣu samantataḥ . rāmaḥ tān vārayāmāsa śara-varṣeṇa rākṣasān .. 8..
वारितान्राक्षसान्दृष्ट्वा मकराक्षो निशाचरः । कोपानलसमाविष्टो वचनं चेदमब्रवीत् ॥ ९॥
वारितान् राक्षसान् दृष्ट्वा मकराक्षः निशाचरः । कोप-अनल-समाविष्टः वचनम् च इदम् अब्रवीत् ॥ ९॥
vāritān rākṣasān dṛṣṭvā makarākṣaḥ niśācaraḥ . kopa-anala-samāviṣṭaḥ vacanam ca idam abravīt .. 9..
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं भविष्यति । त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ॥ १०॥
तिष्ठ राम मया सार्धम् द्वन्द्व-युद्धम् भविष्यति । त्याजयिष्यामि ते प्राणान् धनुः-मुक्तैः शितैः शरैः ॥ १०॥
tiṣṭha rāma mayā sārdham dvandva-yuddham bhaviṣyati . tyājayiṣyāmi te prāṇān dhanuḥ-muktaiḥ śitaiḥ śaraiḥ .. 10..
यत्तदा दण्डकारण्ये पितरं हतवान्मम । मदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते ॥ ११॥
यत् तदा दण्डक-अरण्ये पितरम् हतवान् मम । मद्-अग्रतस् स्व-कर्म-स्थम् स्मृत्वा रोषः अभिवर्धते ॥ ११॥
yat tadā daṇḍaka-araṇye pitaram hatavān mama . mad-agratas sva-karma-stham smṛtvā roṣaḥ abhivardhate .. 11..
दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव । यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने ॥ १२॥
दह्यन्ते भृशम् अङ्गानि दुरात्मन् मम राघव । यत् मया असि न दृष्टः त्वम् तस्मिन् काले महा-वने ॥ १२॥
dahyante bhṛśam aṅgāni durātman mama rāghava . yat mayā asi na dṛṣṭaḥ tvam tasmin kāle mahā-vane .. 12..
दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह । काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ॥ १३॥
दिष्ट्या असि दर्शनम् राम मम त्वम् प्राप्तवान् इह । काङ्क्षितः असि क्षुधा आर्तस्य सिंहस्य इव इतरः मृगः ॥ १३॥
diṣṭyā asi darśanam rāma mama tvam prāptavān iha . kāṅkṣitaḥ asi kṣudhā ārtasya siṃhasya iva itaraḥ mṛgaḥ .. 13..
अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः । ये त्वया निहताः शूराः सह तैस्त्वं वसिष्यसि ॥ १४॥
अद्य मद्-बाण-वेगेन प्रेतराज्-विषयम् गतः । ये त्वया निहताः शूराः सह तैः त्वम् वसिष्यसि ॥ १४॥
adya mad-bāṇa-vegena pretarāj-viṣayam gataḥ . ye tvayā nihatāḥ śūrāḥ saha taiḥ tvam vasiṣyasi .. 14..
बहुनात्र किमुक्तेन शृणु राम वचो मम । पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥ १५॥
बहुना अत्र किम् उक्तेन शृणु राम वचः मम । पश्यन्तु सकलाः लोकाः त्वाम् माम् च एव रण-अजिरे ॥ १५॥
bahunā atra kim uktena śṛṇu rāma vacaḥ mama . paśyantu sakalāḥ lokāḥ tvām mām ca eva raṇa-ajire .. 15..
अस्त्रैर्वा गदया वापि बाहुभ्यां वा रणाजिरे । अभ्यस्तं येन वा राम वर्ततां तेन वा मृधम् ॥ १६॥
अस्त्रैः वा गदया वा अपि बाहुभ्याम् वा रण-अजिरे । अभ्यस्तम् येन वा राम वर्तताम् तेन वा मृधम् ॥ १६॥
astraiḥ vā gadayā vā api bāhubhyām vā raṇa-ajire . abhyastam yena vā rāma vartatām tena vā mṛdham .. 16..
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः । अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ॥ १७॥
मकराक्ष-वचः श्रुत्वा रामः दशरथ-आत्मजः । अब्रवीत् प्रहसन् वाक्यम् उत्तर-उत्तर-वादिनम् ॥ १७॥
makarākṣa-vacaḥ śrutvā rāmaḥ daśaratha-ātmajaḥ . abravīt prahasan vākyam uttara-uttara-vādinam .. 17..
कत्थसे किं वृथा रक्षो बहून्यसदृशानि ते । न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ॥ 18 ॥
कत्थसे किम् वृथा रक्षः बहूनि अ सदृशानि ते । न रणे शक्यते जेतुम् विना युद्धेन वाच्-बलात् ॥ १८ ॥
katthase kim vṛthā rakṣaḥ bahūni a sadṛśāni te . na raṇe śakyate jetum vinā yuddhena vāc-balāt .. 18 ..
चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः । त्रिशिरा दूषणश्चापि दण्डके निहतो मया ॥ 19 ॥
चतुर्दश-सहस्राणि रक्षसाम् त्वद्-पिता च यः । त्रिशिराः दूषणः च अपि दण्डके निहतः मया ॥ १९ ॥
caturdaśa-sahasrāṇi rakṣasām tvad-pitā ca yaḥ . triśirāḥ dūṣaṇaḥ ca api daṇḍake nihataḥ mayā .. 19 ..
स्वाशिताश्चापि मांसेन गृध्रगोमायुवायसाः । भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः ॥ 20 ॥
सु आशिताः च अपि मांसेन गृध्र-गोमायु-वायसाः । भविष्यन्ति अद्य वै पाप तीक्ष्ण-तुण्ड-नख-अङ्कुशाः ॥ २० ॥
su āśitāḥ ca api māṃsena gṛdhra-gomāyu-vāyasāḥ . bhaviṣyanti adya vai pāpa tīkṣṇa-tuṇḍa-nakha-aṅkuśāḥ .. 20 ..
एवमुक्तस्तु रामेण खरपुत्रो निशाचरः । बाणौघानसृजत्तस्मै राघवाय रणाजिरे ॥ 21 ॥
एवम् उक्तः तु रामेण खर-पुत्रः निशाचरः । बाण-ओघान् असृजत् तस्मै राघवाय रण-अजिरे ॥ २१ ॥
evam uktaḥ tu rāmeṇa khara-putraḥ niśācaraḥ . bāṇa-oghān asṛjat tasmai rāghavāya raṇa-ajire .. 21 ..
ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा । निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः ॥ 22 ॥
तान् शरान् शर-वर्षेण रामः चिच्छेद न एकधा । निपेतुः भुवि ते छिन्नाः रुक्म-पुङ्खाः सहस्रशस् ॥ २२ ॥
tān śarān śara-varṣeṇa rāmaḥ ciccheda na ekadhā . nipetuḥ bhuvi te chinnāḥ rukma-puṅkhāḥ sahasraśas .. 22 ..
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा । खर राक्षसपुत्रस्य सूनोर्दशरथस्य च ॥ 23 ॥
तत् युद्धम् अभवत् तत्र समेत्य अन्योन्यम् ओजसा । खर राक्षस-पुत्रस्य सूनोः दशरथस्य च ॥ २३ ॥
tat yuddham abhavat tatra sametya anyonyam ojasā . khara rākṣasa-putrasya sūnoḥ daśarathasya ca .. 23 ..
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा । धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ॥ 24 ॥
जीमूतयोः इव आकाशे शब्दः ज्या-तलयोः तदा । धनुः-मुक्तः स्वन-उत्कृष्टः श्रूयते च रण-अजिरे ॥ २४ ॥
jīmūtayoḥ iva ākāśe śabdaḥ jyā-talayoḥ tadā . dhanuḥ-muktaḥ svana-utkṛṣṭaḥ śrūyate ca raṇa-ajire .. 24 ..
देवदानवगन्धर्वाः किंनराश्च महोरगाः । अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥ 25 ॥
देव-दानव-गन्धर्वाः किंनराः च महोरगाः । अन्तरिक्ष-गताः सर्वे द्रष्टु-कामाः तत् अद्भुतम् ॥ २५ ॥
deva-dānava-gandharvāḥ kiṃnarāḥ ca mahoragāḥ . antarikṣa-gatāḥ sarve draṣṭu-kāmāḥ tat adbhutam .. 25 ..
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम् । कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे ॥ 26 ॥
विद्धम् अन्योन्य-गात्रेषु द्विगुणम् वर्धते बलम् । कृत-प्रतिकृत-अन्योन्यम् कुर्वाते तौ रण-अजिरे ॥ २६ ॥
viddham anyonya-gātreṣu dviguṇam vardhate balam . kṛta-pratikṛta-anyonyam kurvāte tau raṇa-ajire .. 26 ..
राममुक्तास्तु बाणौघान्राक्षसस्त्वच्छिनद्रणे । रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ॥ 27 ॥
राम-मुक्ताः तु बाण-ओघान् राक्षसः तु अच्छिनत् रणे । रक्षः-मुक्तान् तु रामः वै ना एकधा प्राच्छिनत् शरैः ॥ २७ ॥
rāma-muktāḥ tu bāṇa-oghān rākṣasaḥ tu acchinat raṇe . rakṣaḥ-muktān tu rāmaḥ vai nā ekadhā prācchinat śaraiḥ .. 27 ..
बाणौघवितताः सर्वा दिशश्च विदिशस्तथा । सञ्चन्ना वसुधा चैव समन्तान्न प्रकाशते ॥ 28 ॥
बाण-ओघ-वितताः सर्वाः दिशः च विदिशः तथा । सञ्चन्ना वसुधा च एव समन्तात् न प्रकाशते ॥ २८ ॥
bāṇa-ogha-vitatāḥ sarvāḥ diśaḥ ca vidiśaḥ tathā . sañcannā vasudhā ca eva samantāt na prakāśate .. 28 ..
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः । अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ॥ 29 ॥
ततस् क्रुद्धः महा-बाहुः धनुः चिच्छेद रक्षसः । अष्टाभिः अथ नाराचैः सूतम् विव्याध राघवः ॥ २९ ॥
tatas kruddhaḥ mahā-bāhuḥ dhanuḥ ciccheda rakṣasaḥ . aṣṭābhiḥ atha nārācaiḥ sūtam vivyādha rāghavaḥ .. 29 ..
भित्त्वा रथं शरै रामो रथाश्वान्समपातयत् । विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः ॥ 30 ॥
भित्त्वा रथम् शरैः रामः रथ-अश्वान् समपातयत् । विरथः वसुधाम् तिष्ठत् मकराक्षः निशाचरः ॥ ३० ॥
bhittvā ratham śaraiḥ rāmaḥ ratha-aśvān samapātayat . virathaḥ vasudhām tiṣṭhat makarākṣaḥ niśācaraḥ .. 30 ..
तत्तिष्ठद् वसुधां रक्षः शूलं जग्राह पाणिना । त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ॥ 31 ॥
तत् तिष्ठत् वसुधाम् रक्षः शूलम् जग्राह पाणिना । त्रासनम् सर्व-भूतानाम् युग-अन्त-अग्नि-सम-प्रभम् ॥ ३१ ॥
tat tiṣṭhat vasudhām rakṣaḥ śūlam jagrāha pāṇinā . trāsanam sarva-bhūtānām yuga-anta-agni-sama-prabham .. 31 ..
दुरवापम् महच्छूलं रुद्रदत्तं भयङ्करम् । जाज्वल्यमानमाकाशे संहारास्त्रमिवापरम् ॥ 32 ॥
दुरवापम् महत् शूलम् रुद्र-दत्तम् भयङ्करम् । जाज्वल्यमानम् आकाशे संहार-अस्त्रम् इव अपरम् ॥ ३२ ॥
duravāpam mahat śūlam rudra-dattam bhayaṅkaram . jājvalyamānam ākāśe saṃhāra-astram iva aparam .. 32 ..
यं दृष्टवा देवताः सर्वा भयार्ता विद्रुता दिशः । विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः ॥ 33 ॥
यम् दृष्टवा देवताः सर्वाः भय-आर्ताः विद्रुताः दिशः । विभ्राम्य च महत् शूलम् प्रज्वलन्तम् निशाचरः ॥ ३३ ॥
yam dṛṣṭavā devatāḥ sarvāḥ bhaya-ārtāḥ vidrutāḥ diśaḥ . vibhrāmya ca mahat śūlam prajvalantam niśācaraḥ .. 33 ..
स क्रोधात् प्राहिणोत् तस्मै राघवाय महाहवे । तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् ॥ 34 ॥
स क्रोधात् प्राहिणोत् तस्मै राघवाय महा-आहवे । तम् आपतन्तम् ज्वलितम् खर-पुत्र-करात् च्युतम् ॥ ३४ ॥
sa krodhāt prāhiṇot tasmai rāghavāya mahā-āhave . tam āpatantam jvalitam khara-putra-karāt cyutam .. 34 ..
बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः । स भिन्नो नैकधा शूलो दिव्यहाटकमण्डितः । व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि ॥ 35 ॥
बाणैः तु त्रिभिः आकाशे शूलम् चिच्छेद राघवः । स भिन्नः ना एकधा शूलः दिव्य-हाटक-मण्डितः । व्यशीर्यत महा-उक्ला इव राम-बाण-अर्दितः भुवि ॥ ३५ ॥
bāṇaiḥ tu tribhiḥ ākāśe śūlam ciccheda rāghavaḥ . sa bhinnaḥ nā ekadhā śūlaḥ divya-hāṭaka-maṇḍitaḥ . vyaśīryata mahā-uklā iva rāma-bāṇa-arditaḥ bhuvi .. 35 ..
तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा । साधु साध्विति भूतानि व्याहरन्ति नभोगताः ॥ 36 ॥
तत् शूलम् निहतम् दृष्ट्वा रामेण अद्भुत-कर्मणा । साधु साधु इति भूतानि व्याहरन्ति नभः-गताः ॥ ३६ ॥
tat śūlam nihatam dṛṣṭvā rāmeṇa adbhuta-karmaṇā . sādhu sādhu iti bhūtāni vyāharanti nabhaḥ-gatāḥ .. 36 ..
तं द्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः । मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 37 ॥
तम् द्दृष्ट्वा निहतम् शूलम् मकराक्षः निशाचरः । मुष्टिम् उद्यम्य काकुत्स्थम् तिष्ठ तिष्ठ इति च अब्रवीत् ॥ ३७ ॥
tam ddṛṣṭvā nihatam śūlam makarākṣaḥ niśācaraḥ . muṣṭim udyamya kākutstham tiṣṭha tiṣṭha iti ca abravīt .. 37 ..
स तं दृष्ट्वाऽऽन्तं तु प्रहस्य रघुनन्दनः । पावकास्त्रं ततो रामः सन्दधे तु शरासने ॥ 38 ॥
स तम् दृष्ट्वा आन्तम् तु प्रहस्य रघुनन्दनः । पावक-अस्त्रम् ततस् रामः सन्दधे तु शरासने ॥ ३८ ॥
sa tam dṛṣṭvā āntam tu prahasya raghunandanaḥ . pāvaka-astram tatas rāmaḥ sandadhe tu śarāsane .. 38 ..
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे । संछिन्नहृदयं तत्र पपात च ममार च ॥ 39 ॥
तेन अस्त्रेण हतम् रक्षः काकुत्स्थेन तदा रणे । संछिन्न-हृदयम् तत्र पपात च ममार च ॥ ३९ ॥
tena astreṇa hatam rakṣaḥ kākutsthena tadā raṇe . saṃchinna-hṛdayam tatra papāta ca mamāra ca .. 39 ..
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् । लङ्कामेव प्रधावन्त रामबाणभयार्दिताः ॥ 40 ॥
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् । लङ्काम् एव प्रधावन्त राम-बाण-भय-अर्दिताः ॥ ४० ॥
dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam . laṅkām eva pradhāvanta rāma-bāṇa-bhaya-arditāḥ .. 40 ..
दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम् । प्रददृशुरथ च देवताः प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ॥ 41 ॥
दशरथ-नृप-पुत्र-बाण-वेगैः रजनिचरम् निहतम् खर-आत्मजम् तम् । प्रददृशुः अथ च देवताः प्रहृष्टाः गिरिम् इव वज्र-हतम् यथा विकीर्णम् ॥ ४१ ॥
daśaratha-nṛpa-putra-bāṇa-vegaiḥ rajanicaram nihatam khara-ātmajam tam . pradadṛśuḥ atha ca devatāḥ prahṛṣṭāḥ girim iva vajra-hatam yathā vikīrṇam .. 41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In