This overlay will guide you through the buttons:

| |
|
ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः । अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥ १॥
ततस् नील-अम्बुद-निभः प्रहस्तः नाम राक्षसः । अब्रवीत् प्राञ्जलिः वाक्यम् शूरः सेनापतिः तदा ॥ १॥
tatas nīla-ambuda-nibhaḥ prahastaḥ nāma rākṣasaḥ . abravīt prāñjaliḥ vākyam śūraḥ senāpatiḥ tadā .. 1..
देवदानवगन्धर्वाः पिशाचपतगोरगाः । न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ॥ २॥
देव-दानव-गन्धर्वाः पिशाच-पतग-उरगाः । न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानराः रणे ॥ २॥
deva-dānava-gandharvāḥ piśāca-pataga-uragāḥ . na tvām dharṣayitum śaktāḥ kim punar vānarāḥ raṇe .. 2..
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता । न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः ॥ ३॥
सर्वे प्रमत्ताः विश्वस्ताः वञ्चिताः स्म हनूमता । न हि मे जीवतः गच्छेत् जीवन् स वन-गोचरः ॥ ३॥
sarve pramattāḥ viśvastāḥ vañcitāḥ sma hanūmatā . na hi me jīvataḥ gacchet jīvan sa vana-gocaraḥ .. 3..
सर्वां सागरपर्यन्तां सशैलवनकाननाम् । करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ॥ ४॥
सर्वाम् सागर-पर्यन्ताम् स शैल-वन-काननाम् । करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥ ४॥
sarvām sāgara-paryantām sa śaila-vana-kānanām . karomi avānarām bhūmim ājñāpayatu mām bhavān .. 4..
रक्षां चैव विधास्यामि वानराद्रजनीचर । नागमिष्यति ते दुःखं किं चिदात्मापराधजम् ॥ ५॥
रक्षाम् च एव विधास्यामि वानरात् रजनीचर । ना आगमिष्यति ते दुःखम् किम् चित्-आत्म-अपराध-जम् ॥ ५॥
rakṣām ca eva vidhāsyāmi vānarāt rajanīcara . nā āgamiṣyati te duḥkham kim cit-ātma-aparādha-jam .. 5..
अब्रवीच्च सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः । इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥ ६॥
अब्रवीत् च सु सङ्क्रुद्धः दुर्मुखः नाम राक्षसः । इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥ ६॥
abravīt ca su saṅkruddhaḥ durmukhaḥ nāma rākṣasaḥ . idam na kṣamaṇīyam hi sarveṣām naḥ pradharṣaṇam .. 6..
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च । श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम् ॥ ७॥
अयम् परिभवः भूयस् पुरस्य अन्तःपुरस्य च । श्रीमतः राक्षस-इन्द्रस्य वानर-इन्द्र-प्रधर्षणम् ॥ ७॥
ayam paribhavaḥ bhūyas purasya antaḥpurasya ca . śrīmataḥ rākṣasa-indrasya vānara-indra-pradharṣaṇam .. 7..
अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् । प्रविष्टान्सागरं भीममम्बरं वा रसातलम् ॥ ८॥
अस्मिन् मुहूर्ते हत्वा एकः निवर्तिष्यामि वानरान् । प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसातलम् ॥ ८॥
asmin muhūrte hatvā ekaḥ nivartiṣyāmi vānarān . praviṣṭān sāgaram bhīmam ambaram vā rasātalam .. 8..
ततोऽब्रवीत्सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः । प्रगृह्य परिघं घोरं मांसशोणितरूपितम् ॥ ९॥
ततस् अब्रवीत् सु सङ्क्रुद्धः वज्रदंष्ट्रः महा-बलः । प्रगृह्य परिघम् घोरम् मांस-शोणित-रूपितम् ॥ ९॥
tatas abravīt su saṅkruddhaḥ vajradaṃṣṭraḥ mahā-balaḥ . pragṛhya parigham ghoram māṃsa-śoṇita-rūpitam .. 9..
किं वो हनुमता कार्यं कृपणेन तपस्विना । रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे ॥ १०॥
किम् वः हनुमता कार्यम् कृपणेन तपस्विना । रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे ॥ १०॥
kim vaḥ hanumatā kāryam kṛpaṇena tapasvinā . rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe .. 10..
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥ ११॥
अद्य रामम् स सुग्रीवम् परिघेण स लक्ष्मणम् । आगमिष्यामि हत्वा एकः विक्षोभ्य हरि-वाहिनीम् ॥ ११॥
adya rāmam sa sugrīvam parigheṇa sa lakṣmaṇam . āgamiṣyāmi hatvā ekaḥ vikṣobhya hari-vāhinīm .. 11..
इदंममापरंवाक्यंशृणुराजन् यदीच्छसि । उपायकुशलोह्येवजयेच्छत्रूनतन्द्रितः ॥ 12 ॥
इदम् मम अपरम् वाक्यम् शृणु राजन् यदि इच्छसि । उपाय-कुशलः हि एव जयेत् शत्रून् अतन्द्रितः ॥ १२ ॥
idam mama aparam vākyam śṛṇu rājan yadi icchasi . upāya-kuśalaḥ hi eva jayet śatrūn atandritaḥ .. 12 ..
कामरूपधराश्शूरास्सुभीमाभीमदर्शनाः । राक्षसावैसहस्राणिराक्षसाधिपनिश्चिताः ॥ 13 ॥
काम-रूप-धराः शूराः सु भीम-अभीम-दर्शनाः । राक्षसाः अवैसहस्राणि-राक्षस-अधिप-निश्चिताः ॥ १३ ॥
kāma-rūpa-dharāḥ śūrāḥ su bhīma-abhīma-darśanāḥ . rākṣasāḥ avaisahasrāṇi-rākṣasa-adhipa-niścitāḥ .. 13 ..
काकुत्स्थमुपसङ्गम्यबिभ्रतोमानुषंवपुः । सर्वेह्यसम्भ्रमाभूत्वाब्रुवन्तुरघुसत्तमम् ॥ 14 ॥
काकुत्स्थम् उपसङ्गम्य अ बिभ्रतः मानुषम् वपुः । सर्वे इहि असम्भ्रमाः भूत्वा ब्रुवन्तु रघु-सत्तमम् ॥ १४ ॥
kākutstham upasaṅgamya a bibhrataḥ mānuṣam vapuḥ . sarve ihi asambhramāḥ bhūtvā bruvantu raghu-sattamam .. 14 ..
प्रेषिताभरतेनैवभ्रात्रातवयवीयसा । सहिसेनांसमुत्थाप्यक्षिप्रमेवोपयास्यति ॥ 15 ॥
प्रेषिता आभरतेन एव भ्रात्रा अत वयवीयसा । सहि-सेना-अंसम् उत्थाप्य अक्षिप्रम् एव उपयास्यति ॥ १५ ॥
preṣitā ābharatena eva bhrātrā ata vayavīyasā . sahi-senā-aṃsam utthāpya akṣipram eva upayāsyati .. 15 ..
ततोवयमितस्तूर्णंशूलशक्तिगदाधराः । चापबाणासिहस्ताश्चत्वरितास्तत्रयामहे ॥ 16 ॥
ततस् वयम् इतस् तूर्णम् शूल-शक्ति-गदा-धराः । चाप-बाण-असि-हस्ताः चत्वरिताः तत्रयामहे ॥ १६ ॥
tatas vayam itas tūrṇam śūla-śakti-gadā-dharāḥ . cāpa-bāṇa-asi-hastāḥ catvaritāḥ tatrayāmahe .. 16 ..
आकाशेगणशस्थ्सित्वाहत्वातांहरिवाहिनीम् । अश्मशस्त्रमहावृष्ट्याप्रापयामयमक्षयम् ॥ 17 ॥
आकाशे गणशस् स्थ्सित्वा अ हत्वा ताम् हरि-वाहिनीम् । अश्म-शस्त्र-महा-वृष्ट्या अप्रापयाम् अयम् अक्षयम् ॥ १७ ॥
ākāśe gaṇaśas sthsitvā a hatvā tām hari-vāhinīm . aśma-śastra-mahā-vṛṣṭyā aprāpayām ayam akṣayam .. 17 ..
एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ । अवश्यमपनीतेन जहतामेव जीवितम् ॥ 18 ॥
एवम् चेद् उपसर्पेताम् अनयम् राम-लक्ष्मणौ । अवश्यम् अपनीतेन जहताम् एव जीवितम् ॥ १८ ॥
evam ced upasarpetām anayam rāma-lakṣmaṇau . avaśyam apanītena jahatām eva jīvitam .. 18 ..
कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् । अब्रवीत्परमकुर्द्धो रावणं लोकरावणम् ॥ 19 ॥
कौम्भकर्णिः ततस् वीरः निकुम्भः नाम वीर्यवान् । अब्रवीत् परम् अकुर्द्धः रावणम् लोक-रावणम् ॥ १९ ॥
kaumbhakarṇiḥ tatas vīraḥ nikumbhaḥ nāma vīryavān . abravīt param akurddhaḥ rāvaṇam loka-rāvaṇam .. 19 ..
सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः । अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ॥ 20 ॥
सर्वे भवन्तः तिष्ठन्तु महा-राजेन सङ्गताः । अहम् एकः हनिष्यामि राघवम् सहलक्ष्मणम् ॥ २० ॥
sarve bhavantaḥ tiṣṭhantu mahā-rājena saṅgatāḥ . aham ekaḥ haniṣyāmi rāghavam sahalakṣmaṇam .. 20 ..
सुग्रीव सहनूमन्तं सर्वांश्चैवात्र वानरान् । ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥ 21 ॥
सुग्रीव स हनूमन्तम् सर्वान् च एव अत्र वानरान् । ततस् वज्रहनुः नाम राक्षसः पर्वत-उपमः ॥ २१ ॥
sugrīva sa hanūmantam sarvān ca eva atra vānarān . tatas vajrahanuḥ nāma rākṣasaḥ parvata-upamaḥ .. 21 ..
क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत् । स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ॥ 22 ॥
क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् । स्वैरम् कुर्वन्तु कार्याणि भवन्तः विगत-ज्वराः ॥ २२ ॥
kruddhaḥ parilihan vaktram jihvayā vākyam abravīt . svairam kurvantu kāryāṇi bhavantaḥ vigata-jvarāḥ .. 22 ..
एकोऽहं भक्षयिष्यामि तान्सर्वान्हरियूथपान् । स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् ॥ 23 ॥
एकः अहम् भक्षयिष्यामि तान् सर्वान् हरि-यूथपान् । स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु-वारुणीम् ॥ २३ ॥
ekaḥ aham bhakṣayiṣyāmi tān sarvān hari-yūthapān . svasthāḥ krīḍantu niścintāḥ pibantu madhu-vāruṇīm .. 23 ..
अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम् । साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ॥ 24 ॥
अहम् एकः हनिष्यामि सुग्रीवम् सहलक्ष्मणम् । स अङ्गदम् च हनूमन्तम् रामम् च रण-कुञ्जरम् ॥ २४ ॥
aham ekaḥ haniṣyāmi sugrīvam sahalakṣmaṇam . sa aṅgadam ca hanūmantam rāmam ca raṇa-kuñjaram .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In