This overlay will guide you through the buttons:

| |
|
मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः । रोषेण महताविष्टो दन्तान् कटकटाय्य च ॥ 1 ॥
मकराक्षम् हतम् श्रुत्वा रावणः समितिञ्जयः । रोषेण महता आविष्टः दन्तान् कटकटाय्य च ॥ १ ॥
makarākṣam hatam śrutvā rāvaṇaḥ samitiñjayaḥ . roṣeṇa mahatā āviṣṭaḥ dantān kaṭakaṭāyya ca .. 1 ..
कोपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ॥ 2 ॥
कोपितः च तदा तत्र किम् कार्यम् इति चिन्तयन् । आदिदेश अथ सङ्क्रुद्धः रणाय इन्द्रजितम् सुतम् ॥ २ ॥
kopitaḥ ca tadā tatra kim kāryam iti cintayan . ādideśa atha saṅkruddhaḥ raṇāya indrajitam sutam .. 2 ..
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ । अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ 3 ॥
जहि वीर महा-वीर्यौ भ्रातरौ राम-लक्ष्मणौ । अदृश्यः दृश्यमानः वा सर्वथा त्वम् बल-अधिकः ॥ ३ ॥
jahi vīra mahā-vīryau bhrātarau rāma-lakṣmaṇau . adṛśyaḥ dṛśyamānaḥ vā sarvathā tvam bala-adhikaḥ .. 3 ..
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे । किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ 4 ॥
त्वम् अप्रतिम-कर्माणम् इन्द्रम् जयसि संयुगे । किम् पुनर् मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ ४ ॥
tvam apratima-karmāṇam indram jayasi saṃyuge . kim punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge .. 4 ..
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः । यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित् ॥ 5 ॥
तथा उक्तः राक्षस-इन्द्रेण प्रतिगृह्य पितुः वचः । यज्ञ-भूमौ स विधिवत् पावकम् ॥ ५ ॥
tathā uktaḥ rākṣasa-indreṇa pratigṛhya pituḥ vacaḥ . yajña-bhūmau sa vidhivat pāvakam .. 5 ..
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः । आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥ 6 ॥
जुह्वतः च अपि तत्र अग्निम् रक्त-उष्णीष-धराः स्त्रियः । आजग्मुः तत्र सम्भ्रान्ताः राक्षस्यः यत्र रावणिः ॥ ६ ॥
juhvataḥ ca api tatra agnim rakta-uṣṇīṣa-dharāḥ striyaḥ . ājagmuḥ tatra sambhrāntāḥ rākṣasyaḥ yatra rāvaṇiḥ .. 6 ..
शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः । लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ 7 ॥
शस्त्राणि शर-पत्राणि समिधः अथ विभीतकाः । लोहितानि च वासांसि स्रुवम् कार्ष्णायसम् तथा ॥ ७ ॥
śastrāṇi śara-patrāṇi samidhaḥ atha vibhītakāḥ . lohitāni ca vāsāṃsi sruvam kārṣṇāyasam tathā .. 7 ..
सर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः । छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥ 8 ॥
सर्वतस् अग्निम् समास्तीर्य शर-पत्रैः समन्ततः । छागस्य सर्व-कृष्णस्य गलम् जग्राह जीवतः ॥ ८ ॥
sarvatas agnim samāstīrya śara-patraiḥ samantataḥ . chāgasya sarva-kṛṣṇasya galam jagrāha jīvataḥ .. 8 ..
चरुहोमसमिद्धस्य विधूमस्य महार्चिषः । बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ 9 ॥
चरु-होम-समिद्धस्य विधूमस्य महा-अर्चिषः । बभूवुः तानि लिङ्गानि विजयम् दर्शयन्ति च ॥ ९ ॥
caru-homa-samiddhasya vidhūmasya mahā-arciṣaḥ . babhūvuḥ tāni liṅgāni vijayam darśayanti ca .. 9 ..
प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः । हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥ 10 ॥
प्रदक्षिण-आवर्त-शिखः तप्त-हाटक-संनिभः । हविः तत् प्रतिजग्राह पावकः स्वयम् उत्थितः ॥ १० ॥
pradakṣiṇa-āvarta-śikhaḥ tapta-hāṭaka-saṃnibhaḥ . haviḥ tat pratijagrāha pāvakaḥ svayam utthitaḥ .. 10 ..
हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् । आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ 11 ॥
हुत्वा अग्निम् तर्पयित्वा अथ देव-दानव-राक्षसान् । आरुरोह रथ-श्रेष्ठम् अन्तर्धान-गतम् शुभम् ॥ ११ ॥
hutvā agnim tarpayitvā atha deva-dānava-rākṣasān . āruroha ratha-śreṣṭham antardhāna-gatam śubham .. 11 ..
स वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः । आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे ॥ 12 ॥
स वाजिभिः चतुर्भिः तु बाणैः तु निशितैः युतः । आरोपित-महा-चापः शुशुभे स्यन्दन-उत्तमे ॥ १२ ॥
sa vājibhiḥ caturbhiḥ tu bāṇaiḥ tu niśitaiḥ yutaḥ . āropita-mahā-cāpaḥ śuśubhe syandana-uttame .. 12 ..
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः । मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ॥ 13 ॥
जाज्वल्यमानः वपुषा तपनीय-परिच्छदः । मृगैः चन्द्र-अर्धचन्द्रैः च स रथः समलङ्कृतः ॥ १३ ॥
jājvalyamānaḥ vapuṣā tapanīya-paricchadaḥ . mṛgaiḥ candra-ardhacandraiḥ ca sa rathaḥ samalaṅkṛtaḥ .. 13 ..
जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः । बभूवेन्द्रजितः केतुर्वैदूर्यसमलङ्कृतः ॥ 14 ॥
जाम्बूनद-महा-कम्बुः दीप्त-पावक-संनिभः । बभूव इन्द्रजितः केतुः वैदूर्य-समलङ्कृतः ॥ १४ ॥
jāmbūnada-mahā-kambuḥ dīpta-pāvaka-saṃnibhaḥ . babhūva indrajitaḥ ketuḥ vaidūrya-samalaṅkṛtaḥ .. 14 ..
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः । स बभूव दुराधर्षो रावणिः सुमहाबलः ॥ 15 ॥
तेन च आदित्य-कल्पेन ब्रह्मास्त्रेण च पालितः । स बभूव दुराधर्षः रावणिः सु महा-बलः ॥ १५ ॥
tena ca āditya-kalpena brahmāstreṇa ca pālitaḥ . sa babhūva durādharṣaḥ rāvaṇiḥ su mahā-balaḥ .. 15 ..
सोऽभिनिर्याय नगरादिन्द्रजित्समितिञ्जयः । हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ 16 ॥
सः अभिनिर्याय नगरात् इन्द्रजित् समितिञ्जयः । हुत्वा अग्निम् राक्षसैः मन्त्रैः अन्तर्धान-गतः अब्रवीत् ॥ १६ ॥
saḥ abhiniryāya nagarāt indrajit samitiñjayaḥ . hutvā agnim rākṣasaiḥ mantraiḥ antardhāna-gataḥ abravīt .. 16 ..
अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने । जयं पित्रे प्रदास्यामि रावणाय रणेऽधिकम् ॥ 17 ॥
अद्य हत्वा आहवे यौ तौ मिथ्या प्रव्रजितौ वने । जयम् पित्रे प्रदास्यामि रावणाय रणे अधिकम् ॥ १७ ॥
adya hatvā āhave yau tau mithyā pravrajitau vane . jayam pitre pradāsyāmi rāvaṇāya raṇe adhikam .. 17 ..
अद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् । करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत ॥ 18 ॥
अद्य निर्वानराम् उर्वीम् हत्वा रामम् स लक्ष्मणम् । करिष्ये परमाम् प्रीतिम् इति उक्त्वा अन्तरधीयत ॥ १८ ॥
adya nirvānarām urvīm hatvā rāmam sa lakṣmaṇam . kariṣye paramām prītim iti uktvā antaradhīyata .. 18 ..
आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः । तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ 19 ॥
आपपात अथ सङ्क्रुद्धः दशग्रीवेण चोदितः । तीक्ष्ण-कार्मुक-नाराचैः तीक्ष्णः तु इन्द्र-रिपुः रणे ॥ १९ ॥
āpapāta atha saṅkruddhaḥ daśagrīveṇa coditaḥ . tīkṣṇa-kārmuka-nārācaiḥ tīkṣṇaḥ tu indra-ripuḥ raṇe .. 19 ..
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव । सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ 20 ॥
स ददर्श महा-वीर्यौ नागौ त्रि-शिरसौ इव । सृजन्तौ इषु-जालानि वीरौ वानर-मध्य-गौ ॥ २० ॥
sa dadarśa mahā-vīryau nāgau tri-śirasau iva . sṛjantau iṣu-jālāni vīrau vānara-madhya-gau .. 20 ..
इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम् । सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ 21 ॥
इमौ तौ इति सञ्चिन्त्य सज्यम् कृत्वा च कार्मुकम् । सन्ततान इषु-धाराभिः पर्जन्यः इव वृष्टिमान् ॥ २१ ॥
imau tau iti sañcintya sajyam kṛtvā ca kārmukam . santatāna iṣu-dhārābhiḥ parjanyaḥ iva vṛṣṭimān .. 21 ..
स तु वैहायसरथो युधि तौ रामलक्ष्मणौ । अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥ 22 ॥
स तु वैहायस-रथः युधि तौ राम-लक्ष्मणौ । अचक्षुः-विषये तिष्ठन् विव्याध निशितैः शरैः ॥ २२ ॥
sa tu vaihāyasa-rathaḥ yudhi tau rāma-lakṣmaṇau . acakṣuḥ-viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ .. 22 ..
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ । धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥ 23 ॥
तौ तस्य शर-वेगेन परीतौ राम-लक्ष्मणौ । धनुषी स शरे कृत्वा दिव्यम् अस्त्रम् प्रचक्रतुः ॥ २३ ॥
tau tasya śara-vegena parītau rāma-lakṣmaṇau . dhanuṣī sa śare kṛtvā divyam astram pracakratuḥ .. 23 ..
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ । तमस्त्रैः सुर्यसङ्काशौ र्नैव पस्पर्शतुः शरैः ॥ 24 ॥
प्रच्छादयन्तौ गगनम् शर-जालैः महा-बलौ । तम् अस्त्रैः सुर्य-सङ्काशौ र्न एव पस्पर्शतुः शरैः ॥ २४ ॥
pracchādayantau gaganam śara-jālaiḥ mahā-balau . tam astraiḥ surya-saṅkāśau rna eva pasparśatuḥ śaraiḥ .. 24 ..
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः । दिशश्चान्तर्दधे श्रीमान् नीहारतमसा वृतः ॥ 25 ॥
स हि धूम-अन्धकारम् च चक्रे प्रच्छादयन् नभः । दिशः च अन्तर्दधे श्रीमान् नीहार-तमसा वृतः ॥ २५ ॥
sa hi dhūma-andhakāram ca cakre pracchādayan nabhaḥ . diśaḥ ca antardadhe śrīmān nīhāra-tamasā vṛtaḥ .. 25 ..
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः । शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ 26 ॥
न एव ज्या-तल-निर्घोषः न च नेमि-खुर-स्वनः । शुश्रुवे चरतः तस्य न च रूपम् प्रकाशते ॥ २६ ॥
na eva jyā-tala-nirghoṣaḥ na ca nemi-khura-svanaḥ . śuśruve carataḥ tasya na ca rūpam prakāśate .. 26 ..
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् । स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ 27 ॥
घन-अन्धकारे तिमिरे शर-वर्षम् इव अद्भुतम् । स ववर्ष महा-बाहुः नाराच-शर-वृष्टिभिः ॥ २७ ॥
ghana-andhakāre timire śara-varṣam iva adbhutam . sa vavarṣa mahā-bāhuḥ nārāca-śara-vṛṣṭibhiḥ .. 27 ..
स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम् । विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ 28 ॥
स रामम् सूर्य-सङ्काशैः शरैः दत्त-वरः भृशम् । विव्याध समरे क्रुद्धः सर्व-गात्रेषु रावणिः ॥ २८ ॥
sa rāmam sūrya-saṅkāśaiḥ śaraiḥ datta-varaḥ bhṛśam . vivyādha samare kruddhaḥ sarva-gātreṣu rāvaṇiḥ .. 28 ..
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ । हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥ 29 ॥
तौ हन्यमानौ नाराचैः धाराभिः इव पर्वतौ । हेम-पुङ्खान् नर-व्याघ्रौ तिग्मान् मुमुचतुः शरान् ॥ २९ ॥
tau hanyamānau nārācaiḥ dhārābhiḥ iva parvatau . hema-puṅkhān nara-vyāghrau tigmān mumucatuḥ śarān .. 29 ..
अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः । निकृत्य पतगा भूमौ पेतुस्ते शोणिताप्लुताः ॥ 30 ॥
अन्तरिक्षम् समासाद्य रावणिम् कङ्क-पत्रिणः । निकृत्य पतगाः भूमौ पेतुः ते शोणित-आप्लुताः ॥ ३० ॥
antarikṣam samāsādya rāvaṇim kaṅka-patriṇaḥ . nikṛtya patagāḥ bhūmau petuḥ te śoṇita-āplutāḥ .. 30 ..
अतिमात्रं शरौघेण दिप्यमानौ नरोत्तमौ । तानिषून् पततो भल्लैरनेकैर्निचकर्ततुः ॥ 31 ॥
अतिमात्रम् शर-ओघेण दिप्यमानौ नर-उत्तमौ । तान् इषून् पततः भल्लैः अनेकैः निचकर्ततुः ॥ ३१ ॥
atimātram śara-ogheṇa dipyamānau nara-uttamau . tān iṣūn patataḥ bhallaiḥ anekaiḥ nicakartatuḥ .. 31 ..
यतो हि ददृशाते तौ शरान् निपतिताञ्छितान् । ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ 32 ॥
यतस् हि ददृशाते तौ शरान् निपतितान् शितान् । ततस् तु तौ दाशरथी ससृजाते अस्त्रम् उत्तमम् ॥ ३२ ॥
yatas hi dadṛśāte tau śarān nipatitān śitān . tatas tu tau dāśarathī sasṛjāte astram uttamam .. 32 ..
रावणिस्तु दिशः सर्वा रथेनातिरथोऽपतत् । विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥ 33 ॥
रावणिः तु दिशः सर्वाः रथेन अतिरथः अपतत् । विव्याध तौ दाशरथी लघु-अस्त्रः निशितैः शरैः ॥ ३३ ॥
rāvaṇiḥ tu diśaḥ sarvāḥ rathena atirathaḥ apatat . vivyādha tau dāśarathī laghu-astraḥ niśitaiḥ śaraiḥ .. 33 ..
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः । बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ 34 ॥
तेन अतिविद्धौ तौ वीरौ रुक्म-पुङ्खैः सु संहतैः । बभूवतुः दाशरथी पुष्पितौ इव किंशुकौ ॥ ३४ ॥
tena atividdhau tau vīrau rukma-puṅkhaiḥ su saṃhataiḥ . babhūvatuḥ dāśarathī puṣpitau iva kiṃśukau .. 34 ..
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् । न चान्यद्विदितं किं चित्सूर्यस्येवाभ्रसम्प्लवे ॥ 35 ॥
न अस्य वेद गतिम् कश्चिद् न च रूपम् धनुः शरान् । न च अन्यत् विदितम् किम् चित् सूर्यस्य इव अभ्र-सम्प्लवे ॥ ३५ ॥
na asya veda gatim kaścid na ca rūpam dhanuḥ śarān . na ca anyat viditam kim cit sūryasya iva abhra-samplave .. 35 ..
तेन विद्धाश्च हरयो निहताश्च गतासवः । बभूवुः शतशस्तत्र पतिता धरणीतले ॥ 36 ॥
तेन विद्धाः च हरयः निहताः च गतासवः । बभूवुः शतशस् तत्र पतिताः धरणी-तले ॥ ३६ ॥
tena viddhāḥ ca harayaḥ nihatāḥ ca gatāsavaḥ . babhūvuḥ śataśas tatra patitāḥ dharaṇī-tale .. 36 ..
लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ 37 ॥
लक्ष्मणः तु सु सङ्क्रुद्धः भ्रातरम् वाक्यम् अब्रवीत् । ब्राह्मम् अस्त्रम् प्रयोक्ष्यामि वध-अर्थम् सर्व-रक्षसाम् ॥ ३७ ॥
lakṣmaṇaḥ tu su saṅkruddhaḥ bhrātaram vākyam abravīt . brāhmam astram prayokṣyāmi vadha-artham sarva-rakṣasām .. 37 ..
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् । नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥ 38 ॥
तम् उवाच ततस् रामः लक्ष्मणम् शुभ-लक्षणम् । न एकस्य हेतोः रक्षांसि पृथिव्याम् हन्तुम् अर्हसि ॥ ३८ ॥
tam uvāca tatas rāmaḥ lakṣmaṇam śubha-lakṣaṇam . na ekasya hetoḥ rakṣāṃsi pṛthivyām hantum arhasi .. 38 ..
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ 39 ॥
अ युध्यमानम् प्रच्छन्नम् प्राञ्जलिम् शरण-आगतम् । पलायन्तम् प्रमत्तम् वा न त्वम् हन्तुम् इह अर्हसि ॥ ३९ ॥
a yudhyamānam pracchannam prāñjalim śaraṇa-āgatam . palāyantam pramattam vā na tvam hantum iha arhasi .. 39 ..
तस्यैव तु वधे यत्नं करिष्यामि महाभुज । आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ 40 ॥
तस्य एव तु वधे यत्नम् करिष्यामि महा-भुज । आदेक्ष्यावः महा-वेगान् अस्त्रान् आशीविष-उपमान् ॥ ४० ॥
tasya eva tu vadhe yatnam kariṣyāmi mahā-bhuja . ādekṣyāvaḥ mahā-vegān astrān āśīviṣa-upamān .. 40 ..
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् । राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ 41 ॥
तम् एनम् मायिनम् क्षुद्रम् अन्तर्हित-रथम् बलात् । राक्षसम् निहनिष्यन्ति दृष्ट्वा वानर-यूथपाः ॥ ४१ ॥
tam enam māyinam kṣudram antarhita-ratham balāt . rākṣasam nihaniṣyanti dṛṣṭvā vānara-yūthapāḥ .. 41 ..
यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा । एवं निगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ॥ 42 ॥
यदि एष भूमिम् विशते दिवम् वा रसातलम् वा अपि नभस्तलम् वा । एवम् निगूढः अपि मम अस्त्र-दग्धः पतिष्यते भूमि-तले गतासुः ॥ ४२ ॥
yadi eṣa bhūmim viśate divam vā rasātalam vā api nabhastalam vā . evam nigūḍhaḥ api mama astra-dagdhaḥ patiṣyate bhūmi-tale gatāsuḥ .. 42 ..
इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः । वधाय रौद्रस्य नृशंसकर्मणस् तदा महात्मा त्वरितं निरीक्षते ॥ 43 ॥
इति एवम् उक्त्वा वचनम् महात्मा रघु-प्रवीरः प्लवग-ऋषभैः वृतः । वधाय रौद्रस्य नृशंस-कर्मणः तदा महात्मा त्वरितम् निरीक्षते ॥ ४३ ॥
iti evam uktvā vacanam mahātmā raghu-pravīraḥ plavaga-ṛṣabhaiḥ vṛtaḥ . vadhāya raudrasya nṛśaṃsa-karmaṇaḥ tadā mahātmā tvaritam nirīkṣate .. 43 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In