This overlay will guide you through the buttons:

| |
|
राघवश्चापि विपुलं तं राक्षसवनौकसाम् । श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १॥
राघवः च अपि विपुलम् तम् राक्षस-वनौकसाम् । श्रुत्वा सङ्ग्राम-निर्घोषम् जाम्बवन्तम् उवाच ह ॥ १॥
rāghavaḥ ca api vipulam tam rākṣasa-vanaukasām . śrutvā saṅgrāma-nirghoṣam jāmbavantam uvāca ha .. 1..
सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् । श्रूयते च यथा भीमः सुमहानायुधस्वनः ॥ २॥
सौम्य नूनम् हनुमता कृतम् कर्म सु दुष्करम् । श्रूयते च यथा भीमः सु महान् आयुध-स्वनः ॥ २॥
saumya nūnam hanumatā kṛtam karma su duṣkaram . śrūyate ca yathā bhīmaḥ su mahān āyudha-svanaḥ .. 2..
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ ३॥
तत् गच्छ कुरु साहाय्यम् स्व-बलेन अभिसंवृतः । क्षिप्रमृष्क-पते तस्य कपि-श्रेष्ठस्य युध्यतः ॥ ३॥
tat gaccha kuru sāhāyyam sva-balena abhisaṃvṛtaḥ . kṣipramṛṣka-pate tasya kapi-śreṣṭhasya yudhyataḥ .. 3..
ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः । आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः ॥ ४॥
ऋक्ष-राजः तथा इति उक्त्वा स्वेन अनीकेन संवृतः । आगच्छत् पश्चिम-द्वारम् हनूमान् यत्र वानरः ॥ ४॥
ṛkṣa-rājaḥ tathā iti uktvā svena anīkena saṃvṛtaḥ . āgacchat paścima-dvāram hanūmān yatra vānaraḥ .. 4..
अथायान्तं हनूमन्तं ददर्शर्क्षपतिस्तदा । वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ॥ ५॥
अथ आयान्तम् हनूमन्तम् ददर्श ऋक्षपतिः तदा । वानरैः कृत-सङ्ग्रामैः श्वसद्भिः अभिसंवृतम् ॥ ५॥
atha āyāntam hanūmantam dadarśa ṛkṣapatiḥ tadā . vānaraiḥ kṛta-saṅgrāmaiḥ śvasadbhiḥ abhisaṃvṛtam .. 5..
दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् । नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ॥ ६॥
दृष्ट्वा पथि हनूमान् च तत् ऋष्क-बलम् उद्यतम् । नील-मेघ-निभम् भीमम् संनिवार्य न्यवर्तत ॥ ६॥
dṛṣṭvā pathi hanūmān ca tat ṛṣka-balam udyatam . nīla-megha-nibham bhīmam saṃnivārya nyavartata .. 6..
स तेन सह सैन्येन संनिकर्षं महायशाः । शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ ७॥
स तेन सह सैन्येन संनिकर्षम् महा-यशाः । शीघ्रम् आगम्य रामाय दुःखितः वाक्यम् अब्रवीत् ॥ ७॥
sa tena saha sainyena saṃnikarṣam mahā-yaśāḥ . śīghram āgamya rāmāya duḥkhitaḥ vākyam abravīt .. 7..
समरे युध्यमानानामस्माकं प्रेक्षतां च सः । जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥ ८॥
समरे युध्यमानानाम् अस्माकम् प्रेक्षताम् च सः । जघान रुदतीम् सीताम् इन्द्रजित्-रावण-आत्मजः ॥ ८॥
samare yudhyamānānām asmākam prekṣatām ca saḥ . jaghāna rudatīm sītām indrajit-rāvaṇa-ātmajaḥ .. 8..
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम । तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ९॥
उद्भ्रान्त-चित्तः ताम् दृष्ट्वा विषण्णः अहम् अरिन्दम । तत् अहम् भवतः वृत्तम् विज्ञापयितुम् आगतः ॥ ९॥
udbhrānta-cittaḥ tām dṛṣṭvā viṣaṇṇaḥ aham arindama . tat aham bhavataḥ vṛttam vijñāpayitum āgataḥ .. 9..
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ १०॥
तस्य तत् वचनम् श्रुत्वा राघवः शोक-मूर्छितः । निपपात तदा भूमौ छिन्न-मूलः इव द्रुमः ॥ १०॥
tasya tat vacanam śrutvā rāghavaḥ śoka-mūrchitaḥ . nipapāta tadā bhūmau chinna-mūlaḥ iva drumaḥ .. 10..
तं भूमौ देवसङ्काशं पतितं दृश्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ ११॥
तम् भूमौ देव-सङ्काशम् पतितम् दृश्य राघवम् । अभिपेतुः समुत्पत्य सर्वतस् कपि-सत्तमाः ॥ ११॥
tam bhūmau deva-saṅkāśam patitam dṛśya rāghavam . abhipetuḥ samutpatya sarvatas kapi-sattamāḥ .. 11..
असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । प्रदहन्तमसंहार्य च सहसाग्निमिवोत्थितम् ॥ १२॥
असिञ्चन् सलिलैः च एनम् पद्म-उत्पल-सुगन्धिभिः । प्रदहन्तम् अ संहार्य च सहसा अग्निम् इव उत्थितम् ॥ १२॥
asiñcan salilaiḥ ca enam padma-utpala-sugandhibhiḥ . pradahantam a saṃhārya ca sahasā agnim iva utthitam .. 12..
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ १३॥
तम् लक्ष्मणः अथ बाहुभ्याम् परिष्वज्य सु दुःखितः । उवाच रामम् अस्वस्थम् वाक्यम् हेतु-अर्थ-संयुतम् ॥ १३॥
tam lakṣmaṇaḥ atha bāhubhyām pariṣvajya su duḥkhitaḥ . uvāca rāmam asvastham vākyam hetu-artha-saṃyutam .. 13..
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ १४॥
शुभे वर्त्मनि तिष्ठन्तम् त्वाम् आर्य विजित-इन्द्रियम् । अनर्थेभ्यः न शक्नोति त्रातुम् धर्मः निरर्थकः ॥ १४॥
śubhe vartmani tiṣṭhantam tvām ārya vijita-indriyam . anarthebhyaḥ na śaknoti trātum dharmaḥ nirarthakaḥ .. 14..
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् । यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ १५॥
भूतानाम् स्थावराणाम् च जङ्गमानाम् च दर्शनम् । यथा अस्ति न तथा धर्मः तेन न अस्ति इति मे मतिः ॥ १५॥
bhūtānām sthāvarāṇām ca jaṅgamānām ca darśanam . yathā asti na tathā dharmaḥ tena na asti iti me matiḥ .. 15..
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ १६॥
यथा एव स्थावरम् व्यक्तम् जङ्गमम् च तथाविधम् । न अयम् अर्थः तथा युक्तः त्वद्विधः न विपद्यते ॥ १६॥
yathā eva sthāvaram vyaktam jaṅgamam ca tathāvidham . na ayam arthaḥ tathā yuktaḥ tvadvidhaḥ na vipadyate .. 16..
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् ॥ १७॥
यदि अधर्मः भवेत् भूतः रावणः नरकम् व्रजेत् । भवान् च धर्म-संयुक्तः न एवम् व्यसनम् आप्नुयात् ॥ १७॥
yadi adharmaḥ bhavet bhūtaḥ rāvaṇaḥ narakam vrajet . bhavān ca dharma-saṃyuktaḥ na evam vyasanam āpnuyāt .. 17..
तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि । धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ 18 ॥
तस्य च व्यसन-अभावात् व्यसनम् च गते त्वयि । धर्मः भवति अधर्मः च परस्पर-विरोधिनौ ॥ १८ ॥
tasya ca vyasana-abhāvāt vyasanam ca gate tvayi . dharmaḥ bhavati adharmaḥ ca paraspara-virodhinau .. 18 ..
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः । यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ॥ 19 ॥
धर्मेण उपलभेत् धर्मम् अधर्मम् च अपि अधर्मतः । यदि अधर्मेण युज्येयुः येषु अधर्मः प्रतिष्ठितः ॥ १९ ॥
dharmeṇa upalabhet dharmam adharmam ca api adharmataḥ . yadi adharmeṇa yujyeyuḥ yeṣu adharmaḥ pratiṣṭhitaḥ .. 19 ..
न धर्मेण वियुज्येरन्नाधर्मरुचयो जनाः । धर्मेणाचरतां तेषां तथा धर्मफलं भवेत् ॥ 20 ॥
न धर्मेण वियुज्येरन् न अधर्म-रुचयः जनाः । धर्मेण आचरताम् तेषाम् तथा धर्म-फलम् भवेत् ॥ २० ॥
na dharmeṇa viyujyeran na adharma-rucayaḥ janāḥ . dharmeṇa ācaratām teṣām tathā dharma-phalam bhavet .. 20 ..
यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥ 21 ॥
यस्मात् अर्थाः विवर्धन्ते येषु अधर्मः प्रतिष्ठितः । क्लिश्यन्ते धर्म-शीलाः च तस्मात् एतौ निरर्थकौ ॥ २१ ॥
yasmāt arthāḥ vivardhante yeṣu adharmaḥ pratiṣṭhitaḥ . kliśyante dharma-śīlāḥ ca tasmāt etau nirarthakau .. 21 ..
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव । वधकर्महतो धर्मः स हतः कं वधिष्यति ॥ 22 ॥
वध्यन्ते पाप-कर्माणः यदि अधर्मेण राघव । वध-कर्म-हतः धर्मः स हतः कम् वधिष्यति ॥ २२ ॥
vadhyante pāpa-karmāṇaḥ yadi adharmeṇa rāghava . vadha-karma-hataḥ dharmaḥ sa hataḥ kam vadhiṣyati .. 22 ..
अथवा विहितेनायं हन्यते हन्ति वा परम् । विधिः स लिप्यते तेन न स पापेन कर्मणा ॥ 23 ॥
अथवा विहितेन अयम् हन्यते हन्ति वा परम् । विधिः स लिप्यते तेन न स पापेन कर्मणा ॥ २३ ॥
athavā vihitena ayam hanyate hanti vā param . vidhiḥ sa lipyate tena na sa pāpena karmaṇā .. 23 ..
अदृष्टप्रतिकारेण अव्यक्तेनासता सता । कथं शक्यं परं प्राप्तुं धर्मेणारिविर्षण ॥ 24 ॥
अ दृष्ट-प्रतिकारेण अव्यक्तेन असता सता । कथम् शक्यम् परम् प्राप्तुम् धर्मेण अरि-विर्षण ॥ २४ ॥
a dṛṣṭa-pratikāreṇa avyaktena asatā satā . katham śakyam param prāptum dharmeṇa ari-virṣaṇa .. 24 ..
यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किं चन । त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ॥ 25 ॥
यदि सत् स्यात् सताम् मुख्य न असत् स्यात् तव किम् चन । त्वया यत् ईदृशम् प्राप्तम् तस्मात् सत् ना उपपद्यते ॥ २५ ॥
yadi sat syāt satām mukhya na asat syāt tava kim cana . tvayā yat īdṛśam prāptam tasmāt sat nā upapadyate .. 25 ..
अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ 26 ॥
अथवा दुर्बलः क्लीबः बलम् धर्मः अनुवर्तते । दुर्बलः हृत-मर्यादः न सेव्यः इति मे मतिः ॥ २६ ॥
athavā durbalaḥ klībaḥ balam dharmaḥ anuvartate . durbalaḥ hṛta-maryādaḥ na sevyaḥ iti me matiḥ .. 26 ..
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे । धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ 27 ॥
बलस्य यदि चेद् धर्मः गुण-भूतः पराक्रमे । धर्मम् उत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ २७ ॥
balasya yadi ced dharmaḥ guṇa-bhūtaḥ parākrame . dharmam utsṛjya vartasva yathā dharme tathā bale .. 27 ..
अथ चेत्सत्यवचनं धर्मः किल परन्तप । अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया विना ॥ 28 ॥
अथ चेद् सत्य-वचनम् धर्मः किल परन्तप । अनृतः त्वयि अकरुणः किम् न बद्धः त्वया विना ॥ २८ ॥
atha ced satya-vacanam dharmaḥ kila parantapa . anṛtaḥ tvayi akaruṇaḥ kim na baddhaḥ tvayā vinā .. 28 ..
यदि धर्मो भवेद्भूत अधर्मो वा परन्तप । न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ 29 ॥
यदि धर्मः भवेत् भूत अधर्मः वा परन्तप । न स्म हत्वा मुनिम् वज्री कुर्यात् इज्याम् शतक्रतुः ॥ २९ ॥
yadi dharmaḥ bhavet bhūta adharmaḥ vā parantapa . na sma hatvā munim vajrī kuryāt ijyām śatakratuḥ .. 29 ..
अधर्मसंश्रितो धर्मो विनाशयति राघव । सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ 30 ॥
अधर्म-संश्रितः धर्मः विनाशयति राघव । सर्वम् एतत् यथाकामम् काकुत्स्थ कुरुते नरः ॥ ३० ॥
adharma-saṃśritaḥ dharmaḥ vināśayati rāghava . sarvam etat yathākāmam kākutstha kurute naraḥ .. 30 ..
मम चेदं मतं तात धर्मोऽयमिति राघव । धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ 31 ॥
मम च इदम् मतम् तात धर्मः अयम् इति राघव । धर्म-मूलम् त्वया छिन्नम् राज्यम् उत्सृजता तदा ॥ ३१ ॥
mama ca idam matam tāta dharmaḥ ayam iti rāghava . dharma-mūlam tvayā chinnam rājyam utsṛjatā tadā .. 31 ..
अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ 32 ॥
अर्थेभ्यः अथ प्रवृद्धेभ्यः संवृत्तेभ्यः ततस् ततस् । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्यः इव आपगाः ॥ ३२ ॥
arthebhyaḥ atha pravṛddhebhyaḥ saṃvṛttebhyaḥ tatas tatas . kriyāḥ sarvāḥ pravartante parvatebhyaḥ iva āpagāḥ .. 32 ..
अर्थेन हि वियुक्तस्य पुरुषस्याल्पचेतसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ 33 ॥
अर्थेन हि वियुक्तस्य पुरुषस्य अल्प-चेतसः । व्युच्छिद्यन्ते क्रियाः सर्वाः ग्रीष्मे कुसरितः यथा ॥ ३३ ॥
arthena hi viyuktasya puruṣasya alpa-cetasaḥ . vyucchidyante kriyāḥ sarvāḥ grīṣme kusaritaḥ yathā .. 33 ..
सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः । पापमाचरते कर्तुं तथा दोषः प्रवर्तते ॥ 34 ॥
सः अयम् अर्थम् परित्यज्य सुख-कामः सुख-एधितः । पापम् आचरते कर्तुम् तथा दोषः प्रवर्तते ॥ ३४ ॥
saḥ ayam artham parityajya sukha-kāmaḥ sukha-edhitaḥ . pāpam ācarate kartum tathā doṣaḥ pravartate .. 34 ..
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ 35 ॥
यस्य अर्थाः तस्य मित्राणि यस्य अर्थाः तस्य बान्धवः । यस्य अर्थाः स पुमान् लोके यस्य अर्थाः स च पण्डितः ॥ ३५ ॥
yasya arthāḥ tasya mitrāṇi yasya arthāḥ tasya bāndhavaḥ . yasya arthāḥ sa pumān loke yasya arthāḥ sa ca paṇḍitaḥ .. 35 ..
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् । यस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः ॥ 36 ॥
यस्य अर्थाः स च विक्रान्तः यस्य अर्थाः स च बुद्धिमान् । यस्य अर्थाः स महाभागः यस्य अर्थाः स गुण-अधिकः ॥ ३६ ॥
yasya arthāḥ sa ca vikrāntaḥ yasya arthāḥ sa ca buddhimān . yasya arthāḥ sa mahābhāgaḥ yasya arthāḥ sa guṇa-adhikaḥ .. 36 ..
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । राज्यमुत्सृजता धीर येन बुद्धिस्त्वया कृता ॥ 37 ॥
अर्थस्य एते परित्यागे दोषाः प्रव्याहृताः मया । राज्यम् उत्सृजता धीर येन बुद्धिः त्वया कृता ॥ ३७ ॥
arthasya ete parityāge doṣāḥ pravyāhṛtāḥ mayā . rājyam utsṛjatā dhīra yena buddhiḥ tvayā kṛtā .. 37 ..
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् । अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ 38 ॥
यस्य अर्थाः धर्म-काम-अर्थाः तस्य सर्वम् प्रदक्षिणम् । अ धनेन अर्थ-कामेन न अर्थः शक्यः विचिन्वता ॥ ३८ ॥
yasya arthāḥ dharma-kāma-arthāḥ tasya sarvam pradakṣiṇam . a dhanena artha-kāmena na arthaḥ śakyaḥ vicinvatā .. 38 ..
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ 39 ॥
हर्षः कामः च दर्पः च धर्मः क्रोधः शमः दमः । अर्थात् एतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ३९ ॥
harṣaḥ kāmaḥ ca darpaḥ ca dharmaḥ krodhaḥ śamaḥ damaḥ . arthāt etāni sarvāṇi pravartante narādhipa .. 39 ..
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ 40 ॥
येषाम् नश्यति अयम् लोकः चरताम् धर्म-चारिणाम् । ते अर्थाः त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ ४० ॥
yeṣām naśyati ayam lokaḥ caratām dharma-cāriṇām . te arthāḥ tvayi na dṛśyante durdineṣu yathā grahāḥ .. 40 ..
त्वयि प्रव्रजिते वीर गुरोश् च वचने स्थिते । रक्षसापहृता भार्या प्राणैः प्रियतरा तव ॥ 41 ॥
त्वयि प्रव्रजिते वीर गुरोः च वचने स्थिते । रक्षसा अपहृता भार्या प्राणैः प्रियतरा तव ॥ ४१ ॥
tvayi pravrajite vīra guroḥ ca vacane sthite . rakṣasā apahṛtā bhāryā prāṇaiḥ priyatarā tava .. 41 ..
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ 42 ॥
तत् अद्य विपुलम् वीर दुःखम् इन्द्रजिता कृतम् । कर्मणा व्यपनेष्यामि तस्मात् उत्तिष्ठ राघव ॥ ४२ ॥
tat adya vipulam vīra duḥkham indrajitā kṛtam . karmaṇā vyapaneṣyāmi tasmāt uttiṣṭha rāghava .. 42 ..
उत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत । किमात्मानं महात्मानंमात्मानं नावबुध्यसे ॥ 43 ॥
उत्तिष्ठ नर-शार्दूल दीर्घ-बाहो धृत-व्रत । किम् आत्मानम् महात्मानम् आत्मानम् न अवबुध्यसे ॥ ४३ ॥
uttiṣṭha nara-śārdūla dīrgha-bāho dhṛta-vrata . kim ātmānam mahātmānam ātmānam na avabudhyase .. 43 ..
अयमनघ तवोदितः प्रियार्थं जनकसुता निधनं निरीक्ष्य रुष्टः । सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ 44 ॥
अयम् अनघ तव उदितः प्रिय-अर्थम् जनकसुताः निधनम् निरीक्ष्य रुष्टः । स हय-गज-रथाम् स राक्षस-इन्द्राम् भृशम् इषुभिः विनिपातयामि लङ्काम् ॥ ४४ ॥
ayam anagha tava uditaḥ priya-artham janakasutāḥ nidhanam nirīkṣya ruṣṭaḥ . sa haya-gaja-rathām sa rākṣasa-indrām bhṛśam iṣubhiḥ vinipātayāmi laṅkām .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In