This overlay will guide you through the buttons:

| |
|
राममाश्वासमाने तु लक्ष्मणे भ्रातृवत्सले।निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः॥ १॥
रामम् आश्वासमाने तु लक्ष्मणे भ्रातृ-वत्सले।निक्षिप्य गुल्मान् स्व-स्थाने तत्र अगच्छत् विभीषणः॥ १॥
rāmam āśvāsamāne tu lakṣmaṇe bhrātṛ-vatsale.nikṣipya gulmān sva-sthāne tatra agacchat vibhīṣaṇaḥ.. 1..
नानाप्रहरणैर्वीरैश्चतुर्भिरभिसंवृतः।नीलाञ्जनचयाकारैर्मातंगैरिव यूथपैः॥ २॥
नाना प्रहरणैः वीरैः चतुर्भिः अभिसंवृतः।नीलाञ्जन-चय-आकारैः मातंगैः इव यूथपैः॥ २॥
nānā praharaṇaiḥ vīraiḥ caturbhiḥ abhisaṃvṛtaḥ.nīlāñjana-caya-ākāraiḥ mātaṃgaiḥ iva yūthapaiḥ.. 2..
सोऽभिगम्य महात्मानं राघवं शोकलालसम्।वानरांश्चापि ददृशे बाष्पपर्याकुलेक्षणान्॥ ३॥
सः अभिगम्य महात्मानम् राघवम् शोक-लालसम्।वानरान् च अपि ददृशे बाष्प-पर्याकुल-ईक्षणान्॥ ३॥
saḥ abhigamya mahātmānam rāghavam śoka-lālasam.vānarān ca api dadṛśe bāṣpa-paryākula-īkṣaṇān.. 3..
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्।ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्॥ ४॥
राघवम् च महात्मानम् इक्ष्वाकु-कुल-नन्दनम्।ददर्श मोहम् आपन्नम् लक्ष्मणस्य अङ्कम् आश्रितम्॥ ४॥
rāghavam ca mahātmānam ikṣvāku-kula-nandanam.dadarśa moham āpannam lakṣmaṇasya aṅkam āśritam.. 4..
व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः।अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत्॥ ५॥
व्रीडितम् शोक-संतप्तम् दृष्ट्वा रामम् विभीषणः।अन्तर् दुःखेन दीन-आत्मा किम् एतत् इति सः अब्रवीत्॥ ५॥
vrīḍitam śoka-saṃtaptam dṛṣṭvā rāmam vibhīṣaṇaḥ.antar duḥkhena dīna-ātmā kim etat iti saḥ abravīt.. 5..
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्।लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः॥ ६॥
विभीषण-मुखम् दृष्ट्वा सुग्रीवम् तान् च वानरान्।लक्ष्मणा उवाच मन्द-अर्थम् इदम् बाष्प-परिप्लुतः॥ ६॥
vibhīṣaṇa-mukham dṛṣṭvā sugrīvam tān ca vānarān.lakṣmaṇā uvāca manda-artham idam bāṣpa-pariplutaḥ.. 6..
हता इन्द्रजिता सीता इति श्रुत्वैव राघवः।हनूमद्वचनात् सौम्य ततो मोहमुपाश्रितः॥ ७॥
हताः इन्द्रजिता सीता इति श्रुत्वा एव राघवः।हनूमत्-वचनात् सौम्य ततस् मोहम् उपाश्रितः॥ ७॥
hatāḥ indrajitā sītā iti śrutvā eva rāghavaḥ.hanūmat-vacanāt saumya tatas moham upāśritaḥ.. 7..
कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः।पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत्॥ ८॥
कथयन्तम् तु सौमित्रिम् संनिवार्य विभीषणः।पुष्कल-अर्थम् इदम् वाक्यम् विसंज्ञम् रामम् अब्रवीत्॥ ८॥
kathayantam tu saumitrim saṃnivārya vibhīṣaṇaḥ.puṣkala-artham idam vākyam visaṃjñam rāmam abravīt.. 8..
मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता।तदयुक्तमहं मन्ये सागरस्येव शोषणम्॥ ९॥
मनुज-इन्द्र-आर्त-रूपेण यत् उक्तः त्वम् हनूमता।तत् अयुक्तम् अहम् मन्ये सागरस्य इव शोषणम्॥ ९॥
manuja-indra-ārta-rūpeṇa yat uktaḥ tvam hanūmatā.tat ayuktam aham manye sāgarasya iva śoṣaṇam.. 9..
अभिप्रायं तु जानामि रावणस्य दुरात्मनः।सीतां प्रति महाबाहो न च घातं करिष्यति॥ १०॥
अभिप्रायम् तु जानामि रावणस्य दुरात्मनः।सीताम् प्रति महा-बाहो न च घातम् करिष्यति॥ १०॥
abhiprāyam tu jānāmi rāvaṇasya durātmanaḥ.sītām prati mahā-bāho na ca ghātam kariṣyati.. 10..
याच्यमानः सुबहुशो मया हितचिकीर्षुणा।वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः॥ ११॥
याच्यमानः सु बहुशस् मया हित-चिकीर्षुणा।वैदेहीम् उत्सृजस्व इति न च तत् कृतवान् वचः॥ ११॥
yācyamānaḥ su bahuśas mayā hita-cikīrṣuṇā.vaidehīm utsṛjasva iti na ca tat kṛtavān vacaḥ.. 11..
नैव साम्ना न दानेन न भेदेन कुतो युधा।सा द्रष्टुमपि शक्येत नैव चान्येन केनचित्॥ १२॥
न एव साम्ना न दानेन न भेदेन कुतस् युधा।सा द्रष्टुम् अपि शक्येत ना एव च अन्येन केनचिद्॥ १२॥
na eva sāmnā na dānena na bhedena kutas yudhā.sā draṣṭum api śakyeta nā eva ca anyena kenacid.. 12..
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः।मायामयीं महाबाहो तां विद्धि जनकात्मजाम्॥ १३॥
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः।माया-मयीम् महा-बाहो ताम् विद्धि जनकात्मजाम्॥ १३॥
vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ.māyā-mayīm mahā-bāho tām viddhi janakātmajām.. 13..
चैत्यं निकुम्भिलामद्य प्राप्य होमं करिष्यति।हुतवानुपयातो हि देवैरपि सवासवैः॥ १४॥
चैत्यम् निकुम्भिलाम् अद्य प्राप्य होमम् करिष्यति।हुतवान् उपयातः हि देवैः अपि स वासवैः॥ १४॥
caityam nikumbhilām adya prāpya homam kariṣyati.hutavān upayātaḥ hi devaiḥ api sa vāsavaiḥ.. 14..
दुराधर्षो भवत्येष संग्रामे रावणात्मजः।तेन मोहयता नूनमेषा माया प्रयोजिता॥ १५॥
दुराधर्षः भवति एष संग्रामे रावण-आत्मजः।तेन मोहयता नूनम् एषा माया प्रयोजिता॥ १५॥
durādharṣaḥ bhavati eṣa saṃgrāme rāvaṇa-ātmajaḥ.tena mohayatā nūnam eṣā māyā prayojitā.. 15..
विघ्नमन्विच्छता तत्र वानराणां पराक्रमे।ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते॥ १६॥
विघ्नम् अन्विच्छता तत्र वानराणाम् पराक्रमे।स सैन्याः तत्र गच्छामः यावत् तत् न समाप्यते॥ १६॥
vighnam anvicchatā tatra vānarāṇām parākrame.sa sainyāḥ tatra gacchāmaḥ yāvat tat na samāpyate.. 16..
त्यजैनं नरशार्दूल मिथ्या संतापमागतम्।सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्॥ १७॥
त्यज एनम् नर-शार्दूल मिथ्या संतापम् आगतम्।सीदते हि बलम् सर्वम् दृष्ट्वा त्वाम् शोक-कर्शितम्॥ १७॥
tyaja enam nara-śārdūla mithyā saṃtāpam āgatam.sīdate hi balam sarvam dṛṣṭvā tvām śoka-karśitam.. 17..
इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः।लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः॥ १८॥
इह त्वम् स्वस्थ-हृदयः तिष्ठ सत्त्व-समुच्छ्रितः।लक्ष्मणम् प्रेषय अस्माभिः सह सैन्य-अनुकर्षिभिः॥ १८॥
iha tvam svastha-hṛdayaḥ tiṣṭha sattva-samucchritaḥ.lakṣmaṇam preṣaya asmābhiḥ saha sainya-anukarṣibhiḥ.. 18..
एष तं नरशार्दूलो रावणिं निशितैः शरैः।त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति॥ १९॥
एष तम् नर-शार्दूलः रावणिम् निशितैः शरैः।त्याजयिष्यति तत् कर्म ततस् वध्यः भविष्यति॥ १९॥
eṣa tam nara-śārdūlaḥ rāvaṇim niśitaiḥ śaraiḥ.tyājayiṣyati tat karma tatas vadhyaḥ bhaviṣyati.. 19..
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः।पतत्त्रिण इवासौम्याः शराः पास्यन्ति शोणितम्॥ २०॥
तस्य एते निशिताः तीक्ष्णाः पत्रि-पत्र-अङ्ग-वाजिनः।पतत्त्रिणः इव असौम्याः शराः पास्यन्ति शोणितम्॥ २०॥
tasya ete niśitāḥ tīkṣṇāḥ patri-patra-aṅga-vājinaḥ.patattriṇaḥ iva asaumyāḥ śarāḥ pāsyanti śoṇitam.. 20..
तत् संदिश महाबाहो लक्ष्मणं शुभलक्षणम्।राक्षसस्य विनाशाय वज्रं वज्रधरो यथा॥ २१॥
तत् संदिश महा-बाहो लक्ष्मणम् शुभ-लक्षणम्।राक्षसस्य विनाशाय वज्रम् वज्रधरः यथा॥ २१॥
tat saṃdiśa mahā-bāho lakṣmaṇam śubha-lakṣaṇam.rākṣasasya vināśāya vajram vajradharaḥ yathā.. 21..
मनुजवर न कालविप्रकर्षो दिविजरिपोर्मथने यथा महेन्द्रः॥ २२॥
मनुज-वर न काल-विप्रकर्षः दिविज-रिपोः मथने यथा महा-इन्द्रः॥ २२॥
manuja-vara na kāla-viprakarṣaḥ divija-ripoḥ mathane yathā mahā-indraḥ.. 22..
समाप्तकर्मा हि स राक्षसर्षभो भवेत् सुराणामपि संशयो महान्॥ २३॥
समाप्त-कर्मा हि स राक्षस-ऋषभः भवेत् सुराणाम् अपि संशयः महान्॥ २३॥
samāpta-karmā hi sa rākṣasa-ṛṣabhaḥ bhavet surāṇām api saṃśayaḥ mahān.. 23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In