This overlay will guide you through the buttons:

| |
|
तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः । नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १॥
तस्य तत् वचनम् श्रुत्वा राघवः शोक-कर्शितः । न उपधारयते व्यक्तम् यत् उक्तम् तेन रक्षसा ॥ १॥
tasya tat vacanam śrutvā rāghavaḥ śoka-karśitaḥ . na upadhārayate vyaktam yat uktam tena rakṣasā .. 1..
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः । विभीषणमुपासीनमुवाच कपिसंनिधौ ॥ २॥
ततस् धैर्यम् अवष्टभ्य रामः परपुरञ्जयः । विभीषणम् उपासीनम् उवाच कपि-संनिधौ ॥ २॥
tatas dhairyam avaṣṭabhya rāmaḥ parapurañjayaḥ . vibhīṣaṇam upāsīnam uvāca kapi-saṃnidhau .. 2..
नैरृताधिपते वाक्यं यदुक्तं ते विभीषण । भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३॥
नैरृत-अधिपते वाक्यम् यत् उक्तम् ते विभीषण । भूयस् तत् श्रोतुम् इच्छामि ब्रूहि यत् ते विवक्षितम् ॥ ३॥
nairṛta-adhipate vākyam yat uktam te vibhīṣaṇa . bhūyas tat śrotum icchāmi brūhi yat te vivakṣitam .. 3..
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । यत्तत्पुनरिदं वाक्यं बभाषेऽथ विभीषणः ॥ ४॥
राघवस्य वचः श्रुत्वा वाक्यम् वाक्य-विशारदः । यत् तत् पुनर् इदम् वाक्यम् बभाषे अथ विभीषणः ॥ ४॥
rāghavasya vacaḥ śrutvā vākyam vākya-viśāradaḥ . yat tat punar idam vākyam babhāṣe atha vibhīṣaṇaḥ .. 4..
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ ५॥
यथा आज्ञप्तम् महा-बाहो त्वया गुल्म-निवेशनम् । तत् तथा अनुष्ठितम् वीर त्वद्-वाक्य-समनन्तरम् ॥ ५॥
yathā ājñaptam mahā-bāho tvayā gulma-niveśanam . tat tathā anuṣṭhitam vīra tvad-vākya-samanantaram .. 5..
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः । विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ ६॥
तानि अनीकानि सर्वाणि विभक्तानि समन्ततः । विन्यस्ताः यूथपाः च एव यथान्यायम् विभागशः ॥ ६॥
tāni anīkāni sarvāṇi vibhaktāni samantataḥ . vinyastāḥ yūthapāḥ ca eva yathānyāyam vibhāgaśaḥ .. 6..
भूयस्तु मम विजाप्यं तच्छृणुष्व महाप्रभो । त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् ॥ ७॥
भूयस् तु मम विजाप्यम् तत् शृणुष्व महा-प्रभो । त्वयि अकारण-सन्तप्ते सन्तप्त-हृदयाः वयम् ॥ ७॥
bhūyas tu mama vijāpyam tat śṛṇuṣva mahā-prabho . tvayi akāraṇa-santapte santapta-hṛdayāḥ vayam .. 7..
त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् । तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ॥ ८॥
त्यज राजन् इमम् शोकम् मिथ्या सन्तापम् आगतम् । तत् इयम् त्यज्यताम् चिन्ता शत्रु-हर्ष-विवर्धनी ॥ ८॥
tyaja rājan imam śokam mithyā santāpam āgatam . tat iyam tyajyatām cintā śatru-harṣa-vivardhanī .. 8..
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् । प्राप्तव्या यदि ते सीता हन्तव्यश्व्च निशाचराः ॥ ९॥
उद्यमः क्रियताम् वीर हर्षः समुपसेव्यताम् । प्राप्तव्या यदि ते सीता निशाचराः ॥ ९॥
udyamaḥ kriyatām vīra harṣaḥ samupasevyatām . prāptavyā yadi te sītā niśācarāḥ .. 9..
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः । साध्वयं यातु सौमित्रिर्बलेन महता वृतः ॥ १०॥
रघुनन्दन वक्ष्यामि श्रूयताम् मे हितम् वचः । साधु अयम् यातु सौमित्रिः बलेन महता वृतः ॥ १०॥
raghunandana vakṣyāmi śrūyatām me hitam vacaḥ . sādhu ayam yātu saumitriḥ balena mahatā vṛtaḥ .. 10..
निकुम्भिलायां सम्प्राप्तं हन्तुं रावणिमाहवे । धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ॥ ११॥
निकुम्भिलायाम् सम्प्राप्तम् हन्तुम् रावणिम् आहवे । धनुः-मण्डल-निर्मुक्तैः आशीविष-विष-उपमैः ॥ ११॥
nikumbhilāyām samprāptam hantum rāvaṇim āhave . dhanuḥ-maṇḍala-nirmuktaiḥ āśīviṣa-viṣa-upamaiḥ .. 11..
शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः । तेन वीरेण तपसा वरदानात्स्वयम्भुतः । अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥ १२॥
शरैः हन्तुम् महा-इष्वासः रावणिम् समितिञ्जयः । तेन वीरेण तपसा वर-दानात् स्वयम्भुतः । अस्त्रम् ब्रह्मशिरः प्राप्तम् कामगाः च तुरङ्गमाः ॥ १२॥
śaraiḥ hantum mahā-iṣvāsaḥ rāvaṇim samitiñjayaḥ . tena vīreṇa tapasā vara-dānāt svayambhutaḥ . astram brahmaśiraḥ prāptam kāmagāḥ ca turaṅgamāḥ .. 12..
स एष किल सैन्येन प्राप्तः किल निकुम्भिलाम् । यद्युत्तिष्ठेत्कृतं कर्म हतान् सर्वाश्च विद्धि नः ॥ 13 ॥
सः एष किल सैन्येन प्राप्तः किल निकुम्भिलाम् । यदि उत्तिष्ठेत् कृतम् कर्म हतान् सर्वाः च विद्धि नः ॥ १३ ॥
saḥ eṣa kila sainyena prāptaḥ kila nikumbhilām . yadi uttiṣṭhet kṛtam karma hatān sarvāḥ ca viddhi naḥ .. 13 ..
निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः । त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः ॥ 14 ॥
निकुम्भि-लाम-सम्प्राप्तम् अहुत-अग्निम् च यः रिपुः । त्वाम् आततायिनम् हन्यात् इन्द्र-शत्रो स ते वधः ॥ १४ ॥
nikumbhi-lāma-samprāptam ahuta-agnim ca yaḥ ripuḥ . tvām ātatāyinam hanyāt indra-śatro sa te vadhaḥ .. 14 ..
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै । इत्येवं विहितो राजन्वधस्तस्यैव धीमतः ॥ 15 ॥
वरः दत्तः महा-बाहो सर्व-लोक-ईश्वरेण वै । इति एवम् विहितः राजन् वधः तस्य एव धीमतः ॥ १५ ॥
varaḥ dattaḥ mahā-bāho sarva-loka-īśvareṇa vai . iti evam vihitaḥ rājan vadhaḥ tasya eva dhīmataḥ .. 15 ..
वधायेन्द्रजितो राम तं दिशस्व महाबलम् । हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् ॥ 16 ॥
वधाय इन्द्रजितः राम तम् दिशस्व महा-बलम् । हते तस्मिन् हतम् विद्धि रावणम् स सुहृद्-जनम् ॥ १६ ॥
vadhāya indrajitaḥ rāma tam diśasva mahā-balam . hate tasmin hatam viddhi rāvaṇam sa suhṛd-janam .. 16 ..
विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् । जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ॥ 17 ॥
विभीषण-वचः श्रुत्व रामः वाक्यम् अथ अब्रवीत् । जानामि तस्य रौद्रस्य मायाम् सत्य-पराक्रम ॥ १७ ॥
vibhīṣaṇa-vacaḥ śrutva rāmaḥ vākyam atha abravīt . jānāmi tasya raudrasya māyām satya-parākrama .. 17 ..
स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः । करोत्यसंज्ञान् सङ्ग्रामे देवान्सवरुणानपि ॥ 18 ॥
स हि ब्रह्मास्त्र-विद् प्राज्ञः महा-मायः महा-बलः । करोति असंज्ञान् सङ्ग्रामे देवान् स वरुणान् अपि ॥ १८ ॥
sa hi brahmāstra-vid prājñaḥ mahā-māyaḥ mahā-balaḥ . karoti asaṃjñān saṅgrāme devān sa varuṇān api .. 18 ..
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः । न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसम्प्लवे ॥ 19 ॥
तस्य अन्तरिक्षे चरतः रथ-स्थस्य महा-यशः । न गतिः ज्ञायते वीरसूर्यस्य इव अभ्र-सम्प्लवे ॥ १९ ॥
tasya antarikṣe carataḥ ratha-sthasya mahā-yaśaḥ . na gatiḥ jñāyate vīrasūryasya iva abhra-samplave .. 19 ..
राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः । लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥ 20 ॥
राघवः तु रिपोः ज्ञात्वा माया-वीर्यम् दुरात्मनः । लक्ष्मणम् कीर्ति-सम्पन्नम् इदम् वचनम् अब्रवीत् ॥ २० ॥
rāghavaḥ tu ripoḥ jñātvā māyā-vīryam durātmanaḥ . lakṣmaṇam kīrti-sampannam idam vacanam abravīt .. 20 ..
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः । हनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण ॥ 21 ॥
यत् वानर-इन्द्रस्य बलम् तेन सर्वेण संवृतः । हनूमत् प्रमुखैः च एव यूथपैः सह लक्ष्मण ॥ २१ ॥
yat vānara-indrasya balam tena sarveṇa saṃvṛtaḥ . hanūmat pramukhaiḥ ca eva yūthapaiḥ saha lakṣmaṇa .. 21 ..
जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः । जहि तं राक्षससुतं मायाबलविशारदम् ॥ 22 ॥
जाम्बवेन ऋक्ष-पतिना सह सैन्येन संवृतः । जहि तम् राक्षस-सुतम् माया-बल-विशारदम् ॥ २२ ॥
jāmbavena ṛkṣa-patinā saha sainyena saṃvṛtaḥ . jahi tam rākṣasa-sutam māyā-bala-viśāradam .. 22 ..
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः । अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥ 23 ॥
अयम् त्वाम् सचिवैः सार्धम् महात्मा रजनीचरः । अभिज्ञः तस्य देशस्य पृष्ठतस् अनुगमिष्यति ॥ २३ ॥
ayam tvām sacivaiḥ sārdham mahātmā rajanīcaraḥ . abhijñaḥ tasya deśasya pṛṣṭhatas anugamiṣyati .. 23 ..
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः । जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः ॥ 24 ॥
राघवस्य वचः श्रुत्वा लक्ष्मणः स विभीषणः । जग्राह कार्मुकम् श्रेष्ठम् अन्यत् भीम-पराक्रमः ॥ २४ ॥
rāghavasya vacaḥ śrutvā lakṣmaṇaḥ sa vibhīṣaṇaḥ . jagrāha kārmukam śreṣṭham anyat bhīma-parākramaḥ .. 24 ..
संनद्धः कवची खड्गी सशरी वामचापभृत् । रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ 25 ॥
संनद्धः कवची खड्गी स शरी वाम-चाप-भृत् । राम-पादौ उपस्पृश्य हृष्टः सौमित्रिः अब्रवीत् ॥ २५ ॥
saṃnaddhaḥ kavacī khaḍgī sa śarī vāma-cāpa-bhṛt . rāma-pādau upaspṛśya hṛṣṭaḥ saumitriḥ abravīt .. 25 ..
अद्य मत्कार्मुकोन्मुक्त्ताः शरा निर्भिद्य रावणिम् । लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ 26 ॥
अद्य मद्-कार्मुक-उन्मुक्त्ताः शराः निर्भिद्य रावणिम् । लङ्काम् अभिपतिष्यन्ति हंसाः पुष्करिणीम् इव ॥ २६ ॥
adya mad-kārmuka-unmukttāḥ śarāḥ nirbhidya rāvaṇim . laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva .. 26 ..
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः । विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥ 27 ॥
अद्य एव तस्य रौद्रस्य शरीरम् मामकाः शराः । विधमिष्यन्ति भित्त्वा तम् महा-चाप-गुण-च्युताः ॥ २७ ॥
adya eva tasya raudrasya śarīram māmakāḥ śarāḥ . vidhamiṣyanti bhittvā tam mahā-cāpa-guṇa-cyutāḥ .. 27 ..
एवमुक्त्वा तु वचनं द्युतिमान् भ्रातुरग्रतः । स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितं ययौ ॥ 28 ॥
एवम् उक्त्वा तु वचनम् द्युतिमान् भ्रातुः अग्रतस् । स रावणि-वध-आकाङ्क्षी लक्ष्मणः त्वरितम् ययौ ॥ २८ ॥
evam uktvā tu vacanam dyutimān bhrātuḥ agratas . sa rāvaṇi-vadha-ākāṅkṣī lakṣmaṇaḥ tvaritam yayau .. 28 ..
सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् । निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ 29 ॥
सः अभिवाद्य गुरोः पादौ कृत्वा च अपि प्रदक्षिणम् । निकुम्भिलाम् अभिययौ चैत्यम् रावणि-पालितम् ॥ २९ ॥
saḥ abhivādya guroḥ pādau kṛtvā ca api pradakṣiṇam . nikumbhilām abhiyayau caityam rāvaṇi-pālitam .. 29 ..
विभीषणेन सहितो राजपुत्रः प्रतापवान् । कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ 30 ॥
विभीषणेन सहितः राज-पुत्रः प्रतापवान् । कृत-स्वस्त्ययनः भ्रात्रा लक्ष्मणः त्वरितः ययौ ॥ ३० ॥
vibhīṣaṇena sahitaḥ rāja-putraḥ pratāpavān . kṛta-svastyayanaḥ bhrātrā lakṣmaṇaḥ tvaritaḥ yayau .. 30 ..
वानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतः । विभीषणश्च सहामात्यो लक्ष्मणं त्वरितं ययौ ॥ 31 ॥
वानराणाम् सहस्रैः तु हनूमान् बहुभिः वृतः । विभीषणः च सह अमात्यः लक्ष्मणम् त्वरितम् ययौ ॥ ३१ ॥
vānarāṇām sahasraiḥ tu hanūmān bahubhiḥ vṛtaḥ . vibhīṣaṇaḥ ca saha amātyaḥ lakṣmaṇam tvaritam yayau .. 31 ..
महता हरिसैन्येन सवेगमभिसंवृतः । ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ 32 ॥
महता हरि-सैन्येन स वेगम् अभिसंवृतः । ऋक्ष-राज-बलम् च एव ददर्श पथि विष्ठितम् ॥ ३२ ॥
mahatā hari-sainyena sa vegam abhisaṃvṛtaḥ . ṛkṣa-rāja-balam ca eva dadarśa pathi viṣṭhitam .. 32 ..
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः । राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमाश्रितम् ॥ 33 ॥
स गत्वा दूरम् अध्वानम् सौमित्रिः मित्र-नन्दनः । राक्षस-इन्द्र-बलम् दूरात् अपश्यत् व्यूहम् आश्रितम् ॥ ३३ ॥
sa gatvā dūram adhvānam saumitriḥ mitra-nandanaḥ . rākṣasa-indra-balam dūrāt apaśyat vyūham āśritam .. 33 ..
स सम्प्राप्य धनुष्पाणिर्मायायोगमरिन्दम । तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ 34 ॥
स सम्प्राप्य धनुष्पाणिः माया-योगम् अरिन्दम । तस्थौ ब्रह्म-विधानेन विजेतुम् रघुनन्दनः ॥ ३४ ॥
sa samprāpya dhanuṣpāṇiḥ māyā-yogam arindama . tasthau brahma-vidhānena vijetum raghunandanaḥ .. 34 ..
विभीषणेन सहितो राजपुत्रः प्रतापवान् । अङ्गदेन च वीरेण तथानिलसुतेन च ॥ 35 ॥
विभीषणेन सहितः राज-पुत्रः प्रतापवान् । अङ्गदेन च वीरेण तथा अनिलसुतेन च ॥ ३५ ॥
vibhīṣaṇena sahitaḥ rāja-putraḥ pratāpavān . aṅgadena ca vīreṇa tathā anilasutena ca .. 35 ..
विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश् च । प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ 36 ॥
विविधम् अमल-शस्त्र-भास्वरम् तत् ध्वज-गहनम् विपुलम् महा-रथैः च । प्रतिभयतमम् अप्रमेय-वेगम् तिमिरम् इव द्विषताम् बलम् विवेश ॥ ३६ ॥
vividham amala-śastra-bhāsvaram tat dhvaja-gahanam vipulam mahā-rathaiḥ ca . pratibhayatamam aprameya-vegam timiram iva dviṣatām balam viveśa .. 36 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In