This overlay will guide you through the buttons:

| |
|
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ 1 ॥
अथ तस्याम् अवस्थायाम् लक्ष्मणम् रावण-अनुजः । परेषाम् अहितम् वाक्यम् अर्थ-साधकम् अब्रवीत् ॥ १ ॥
atha tasyām avasthāyām lakṣmaṇam rāvaṇa-anujaḥ . pareṣām ahitam vākyam artha-sādhakam abravīt .. 1 ..
यदेतद् राक्षसानीकं मेघश्यामं विलोक्यते । एतदायोध्यतां शीघ्रं कपिभिश्च शिलायुधौः ॥ 2 ॥
यत् एतत् राक्षस-अनीकम् मेघ-श्यामम् विलोक्यते । एतत् आयोध्यताम् शीघ्रम् कपिभिः च ॥ २ ॥
yat etat rākṣasa-anīkam megha-śyāmam vilokyate . etat āyodhyatām śīghram kapibhiḥ ca .. 2 ..
तस्यानीकस्य महतो भेदने यत् लक्ष्मण । राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ 3 ॥
तस्य अनीकस्य महतः भेदने यत् लक्ष्मण । राक्षस-इन्द्र-सुतः अपि अत्र भिन्ने दृश्यः भविष्यति ॥ ३ ॥
tasya anīkasya mahataḥ bhedane yat lakṣmaṇa . rākṣasa-indra-sutaḥ api atra bhinne dṛśyaḥ bhaviṣyati .. 3 ..
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् । अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ 4 ॥
स त्वम् इन्द्र-अशनि-प्रख्यैः शरैः अवकिरन् परान् । अभिद्रव आशु यावत् वै न एतत् कर्म समाप्यते ॥ ४ ॥
sa tvam indra-aśani-prakhyaiḥ śaraiḥ avakiran parān . abhidrava āśu yāvat vai na etat karma samāpyate .. 4 ..
जहि वीर दुरात्मानं मायापरमधार्मिकम् । रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ 5 ॥
जहि वीर दुरात्मानम् माया-परम-धार्मिकम् । रावणिम् क्रूर-कर्माणम् सर्व-लोक-भय-आवहम् ॥ ५ ॥
jahi vīra durātmānam māyā-parama-dhārmikam . rāvaṇim krūra-karmāṇam sarva-loka-bhaya-āvaham .. 5 ..
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः । ववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति ॥ 6 ॥
विभीषण-वचः श्रुत्वा लक्ष्मणः शुभ-लक्षणः । ववर्ष शर-वर्षेण राक्षस-इन्द्र-सुतम् प्रति ॥ ६ ॥
vibhīṣaṇa-vacaḥ śrutvā lakṣmaṇaḥ śubha-lakṣaṇaḥ . vavarṣa śara-varṣeṇa rākṣasa-indra-sutam prati .. 6 ..
ऋक्षाः शाखामृगाश्चैव द्रुमाप्रवरयोधिनः । अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ 7 ॥
ऋक्षाः शाखामृगाः च एव द्रुमा-प्रवर-योधिनः । अभ्यधावन्त सहिताः तद्-अनीकम् अवस्थितम् ॥ ७ ॥
ṛkṣāḥ śākhāmṛgāḥ ca eva drumā-pravara-yodhinaḥ . abhyadhāvanta sahitāḥ tad-anīkam avasthitam .. 7 ..
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः । अभ्यमवर्तन्त समरे कपिसैन्यजिघांसवः ॥ 8 ॥
राक्षसाः च शितैः बाणैः असिभिः शक्ति-तोमरैः । अभ्यमवर्तन्त समरे कपि-सैन्य-जिघांसवः ॥ ८ ॥
rākṣasāḥ ca śitaiḥ bāṇaiḥ asibhiḥ śakti-tomaraiḥ . abhyamavartanta samare kapi-sainya-jighāṃsavaḥ .. 8 ..
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् । शब्देन महता लङ्कां नादयन् वै समन्ततः ॥ 9 ॥
स सम्प्रहारः तुमुलः सञ्जज्ञे कपि-रक्षसाम् । शब्देन महता लङ्काम् नादयन् वै समन्ततः ॥ ९ ॥
sa samprahāraḥ tumulaḥ sañjajñe kapi-rakṣasām . śabdena mahatā laṅkām nādayan vai samantataḥ .. 9 ..
शस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः । उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ 10 ॥
शस्त्रैः च विविध-आकारैः शितैः बाणैः च पादपैः । उद्यतैः गिरि-शृङ्गैः च घोरैः आकाशम् आवृतम् ॥ १० ॥
śastraiḥ ca vividha-ākāraiḥ śitaiḥ bāṇaiḥ ca pādapaiḥ . udyataiḥ giri-śṛṅgaiḥ ca ghoraiḥ ākāśam āvṛtam .. 10 ..
राक्षसा वानरेन्द्रेषु विकृताननबाहवः । निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ 11 ॥
राक्षसाः वानर-इन्द्रेषु विकृत-आनन-बाहवः । निवेशयन्तः शस्त्राणि चक्रुः ते सु महत् भयम् ॥ ११ ॥
rākṣasāḥ vānara-indreṣu vikṛta-ānana-bāhavaḥ . niveśayantaḥ śastrāṇi cakruḥ te su mahat bhayam .. 11 ..
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः । अभिजघ्नुर्निजघ्नुश्च समरे सर्वराक्षसान् ॥ 12 ॥
तथा एव सकलैः वृक्षैः गिरि-शृङ्गैः च वानराः । अभिजघ्नुः निजघ्नुः च समरे सर्व-राक्षसान् ॥ १२ ॥
tathā eva sakalaiḥ vṛkṣaiḥ giri-śṛṅgaiḥ ca vānarāḥ . abhijaghnuḥ nijaghnuḥ ca samare sarva-rākṣasān .. 12 ..
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः । रक्षसां वध्यमानानां महद्भयमजायत ॥ 13 ॥
ऋक्ष-वानर-मुख्यैः च महा-कायैः महा-बलैः । रक्षसाम् वध्यमानानाम् महत् भयम् अजायत ॥ १३ ॥
ṛkṣa-vānara-mukhyaiḥ ca mahā-kāyaiḥ mahā-balaiḥ . rakṣasām vadhyamānānām mahat bhayam ajāyata .. 13 ..
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । उदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते ॥ 14 ॥
स्वम् अनीकम् विषण्णम् तु श्रुत्वा शत्रुभिः अर्दितम् । उदतिष्ठत दुर्धर्षः स कर्मणि अननुष्ठिते ॥ १४ ॥
svam anīkam viṣaṇṇam tu śrutvā śatrubhiḥ arditam . udatiṣṭhata durdharṣaḥ sa karmaṇi ananuṣṭhite .. 14 ..
वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः । आरुरोह रथं सज्जं पूर्वयुक्तं सुसंयतम् ॥ 15 ॥
वृक्ष-अन्धकारात् निष्क्रम्य जात-क्रोधः स रावणिः । आरुरोह रथम् सज्जम् पूर्व-युक्तम् सु संयतम् ॥ १५ ॥
vṛkṣa-andhakārāt niṣkramya jāta-krodhaḥ sa rāvaṇiḥ . āruroha ratham sajjam pūrva-yuktam su saṃyatam .. 15 ..
स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः । रक्तास्यनयनो भीमो बभौ मृत्युरिवान्तकः ॥ 16 ॥
स भीम-कार्मुक-शरः कृष्णाञ्जन-चय-उपमः । रक्त-आस्य-नयनः भीमः बभौ मृत्युः इव अन्तकः ॥ १६ ॥
sa bhīma-kārmuka-śaraḥ kṛṣṇāñjana-caya-upamaḥ . rakta-āsya-nayanaḥ bhīmaḥ babhau mṛtyuḥ iva antakaḥ .. 16 ..
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् । रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ 17 ॥
दृष्ट्वा एव तु रथ-स्थम् तम् पर्यवर्तत तत् बलम् । रक्षसाम् भीम-वेगानाम् लक्ष्मणेन युयुत्सताम् ॥ १७ ॥
dṛṣṭvā eva tu ratha-stham tam paryavartata tat balam . rakṣasām bhīma-vegānām lakṣmaṇena yuyutsatām .. 17 ..
तस्मिंस्तु काले तु हनुमानुद्यम्य स दुरासदम् । धरणीधरसंकाशो महावृक्षमरिन्दमः ॥ 18 ॥
तस्मिन् तु काले तु हनुमान् उद्यम्य स दुरासदम् । धरणीधर-संकाशः महा-वृक्षम् अरिन्दमः ॥ १८ ॥
tasmin tu kāle tu hanumān udyamya sa durāsadam . dharaṇīdhara-saṃkāśaḥ mahā-vṛkṣam arindamaḥ .. 18 ..
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् । चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥ 19 ॥
स राक्षसानाम् तत् सैन्यम् कालाग्निः इव निर्दहन् । चकार बहुभिः वृक्षैः निःसंज्ञम् युधि वानरः ॥ १९ ॥
sa rākṣasānām tat sainyam kālāgniḥ iva nirdahan . cakāra bahubhiḥ vṛkṣaiḥ niḥsaṃjñam yudhi vānaraḥ .. 19 ..
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् । राक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥ 20 ॥
विध्वंसयन्तम् तरसा दृष्ट्वा एव पवनात्मजम् । राक्षसानाम् सहस्राणि हनूमन्तम् अवाकिरन् ॥ २० ॥
vidhvaṃsayantam tarasā dṛṣṭvā eva pavanātmajam . rākṣasānām sahasrāṇi hanūmantam avākiran .. 20 ..
शितशूलधराः शूलैरसिभिश्चासिपाणयः । शक्तिहस्ताश्च शक्तिभिः पट्टशैः पट्टिशायुधाः ॥ 21 ॥
शित-शूल-धराः शूलैः असिभिः च असि-पाणयः । शक्ति-हस्ताः च शक्तिभिः पट्टशैः पट्टिश-आयुधाः ॥ २१ ॥
śita-śūla-dharāḥ śūlaiḥ asibhiḥ ca asi-pāṇayaḥ . śakti-hastāḥ ca śaktibhiḥ paṭṭaśaiḥ paṭṭiśa-āyudhāḥ .. 21 ..
परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः । शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ 22 ॥
परिघैः च गदाभिः च कुन्तैः च शुभ-दर्शनैः । शतशस् च शतघ्नीभिः आयसैः अपि मुद्गरैः ॥ २२ ॥
parighaiḥ ca gadābhiḥ ca kuntaiḥ ca śubha-darśanaiḥ . śataśas ca śataghnībhiḥ āyasaiḥ api mudgaraiḥ .. 22 ..
घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः । मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसंनिभैः ॥ 23 ॥
घोरैः परशुभिः च एव भिन्दिपालैः च राक्षसाः । मुष्टिभिः वज्र-कल्पैः च तलैः अशनि-संनिभैः ॥ २३ ॥
ghoraiḥ paraśubhiḥ ca eva bhindipālaiḥ ca rākṣasāḥ . muṣṭibhiḥ vajra-kalpaiḥ ca talaiḥ aśani-saṃnibhaiḥ .. 23 ..
अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् । तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ॥ 24 ॥
अभिजघ्नुः समासाद्य समन्तात् पर्वत-उपमम् । तेषाम् अपि च सङ्क्रुद्धः चकार कदनम् महत् ॥ २४ ॥
abhijaghnuḥ samāsādya samantāt parvata-upamam . teṣām api ca saṅkruddhaḥ cakāra kadanam mahat .. 24 ..
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् । सूदयानममित्रघ्नममित्रान्पवनात्मजम् ॥ 25 ॥
स ददर्श कपि-श्रेष्ठम् अचल-उपमम् इन्द्रजित् । सूदयानम् अमित्र-घ्नम् अमित्रान् पवनात्मजम् ॥ २५ ॥
sa dadarśa kapi-śreṣṭham acala-upamam indrajit . sūdayānam amitra-ghnam amitrān pavanātmajam .. 25 ..
स सारथिमुवाचेदं याहि यत्रैष वानरः । क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ 26 ॥
स सारथिम् उवाच इदम् याहि यत्र एष वानरः । क्षयम् एव हि नः कुर्यात् राक्षसानाम् उपेक्षितः ॥ २६ ॥
sa sārathim uvāca idam yāhi yatra eṣa vānaraḥ . kṣayam eva hi naḥ kuryāt rākṣasānām upekṣitaḥ .. 26 ..
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः । वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ 27 ॥
इति उक्तः सारथिः तेन ययौ यत्र स मारुतिः । वहन् परम-दुर्धर्षम् स्थितम् इन्द्रजितम् रथे ॥ २७ ॥
iti uktaḥ sārathiḥ tena yayau yatra sa mārutiḥ . vahan parama-durdharṣam sthitam indrajitam rathe .. 27 ..
सोऽभ्युपेत्य शरान्खड्गान् पट्टशांश्च परश्वधान् । अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि राक्षसः ॥ 28 ॥
सः अभ्युपेत्य शरान् खड्गान् पट्टशान् च परश्वधान् । अभ्यवर्षत दुर्धर्षः कपि-मूर्ध्नि राक्षसः ॥ २८ ॥
saḥ abhyupetya śarān khaḍgān paṭṭaśān ca paraśvadhān . abhyavarṣata durdharṣaḥ kapi-mūrdhni rākṣasaḥ .. 28 ..
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः । रोषेण महताविषो वाक्यं चेदमुवाच ह ॥ 29 ॥
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः । रोषेण महता आविषः वाक्यम् च इदम् उवाच ह ॥ २९ ॥
tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ . roṣeṇa mahatā āviṣaḥ vākyam ca idam uvāca ha .. 29 ..
युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते । वायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि ॥ 30 ॥
युध्यस्व यदि शूरः असि रावण-आत्मज दुर्मते । वायुपुत्रम् समासाद्य न जीवन् प्रतियास्यसि ॥ ३० ॥
yudhyasva yadi śūraḥ asi rāvaṇa-ātmaja durmate . vāyuputram samāsādya na jīvan pratiyāsyasi .. 30 ..
बाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे । वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ 31 ॥
बाहुभ्याम् सम्प्रयुध्यस्व यदि मे द्वन्द्वम् आहवे । वेगम् सहस्व दुर्बुद्धे ततस् त्वम् रक्षसाम् वरः ॥ ३१ ॥
bāhubhyām samprayudhyasva yadi me dvandvam āhave . vegam sahasva durbuddhe tatas tvam rakṣasām varaḥ .. 31 ..
हनूमन्तं जिघांसन्तं समुद्यतशरासनम् । रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ 32 ॥
हनूमन्तम् जिघांसन्तम् समुद्यत-शरासनम् । रावण-आत्मजम् आचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥
hanūmantam jighāṃsantam samudyata-śarāsanam . rāvaṇa-ātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ .. 32 ..
यः स वासवनिर्जेता रावणस्यात्मसम्भवः । सं एष रथमास्थाय हनूमन्तं जिघांसति ॥ 33 ॥
यः स वासव-निर्जेता रावणस्य आत्मसम्भवः । सं एष रथम् आस्थाय हनूमन्तम् जिघांसति ॥ ३३ ॥
yaḥ sa vāsava-nirjetā rāvaṇasya ātmasambhavaḥ . saṃ eṣa ratham āsthāya hanūmantam jighāṃsati .. 33 ..
तमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः । जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ 34 ॥
तम् अप्रतिम-संस्थानैः शरैः शत्रु-निवारणैः । जीवितान्त-करैः घोरैः सौमित्रे रावणिम् जहि ॥ ३४ ॥
tam apratima-saṃsthānaiḥ śaraiḥ śatru-nivāraṇaiḥ . jīvitānta-karaiḥ ghoraiḥ saumitre rāvaṇim jahi .. 34 ..
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन । ददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम् ॥ 35 ॥
इति एवम् उक्तः तु तदा महात्मा विभीषणेन अरि-विभीषणेन । ददर्श तम् पर्वत-संनिकाशम् रथ-स्थितम् भीम-बलम् दुरासदम् ॥ ३५ ॥
iti evam uktaḥ tu tadā mahātmā vibhīṣaṇena ari-vibhīṣaṇena . dadarśa tam parvata-saṃnikāśam ratha-sthitam bhīma-balam durāsadam .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In