This overlay will guide you through the buttons:

| |
|
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः । धनुष्पाणिं तमादाय त्वरमाणो जगाम सः ॥ १॥
एवम् उक्त्वा तु सौमित्रिम् जात-हर्षः विभीषणः । धनुष्पाणिम् तम् आदाय त्वरमाणः जगाम सः ॥ १॥
evam uktvā tu saumitrim jāta-harṣaḥ vibhīṣaṇaḥ . dhanuṣpāṇim tam ādāya tvaramāṇaḥ jagāma saḥ .. 1..
अविदूरं ततो गत्वा प्रविश्य च महद्वनम् । अदर्शयत तत्कर्म लक्ष्मणाय विभीषणः ॥ २॥
अविदूरम् ततस् गत्वा प्रविश्य च महत् वनम् । अदर्शयत तत् कर्म लक्ष्मणाय विभीषणः ॥ २॥
avidūram tatas gatvā praviśya ca mahat vanam . adarśayata tat karma lakṣmaṇāya vibhīṣaṇaḥ .. 2..
नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम् । तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥ ३॥
नील-जीमूत-सङ्काशम् न्यग्रोधम् भीम-दर्शनम् । तेजस्वी रावण-भ्राता लक्ष्मणाय न्यवेदयत् ॥ ३॥
nīla-jīmūta-saṅkāśam nyagrodham bhīma-darśanam . tejasvī rāvaṇa-bhrātā lakṣmaṇāya nyavedayat .. 3..
इहोपहारं भूतानां बलवान् रावणातजः । उपहृत्य ततः पश्चात् सङ्ग्राममभिवर्तते ॥ ४॥
इह उपहारम् भूतानाम् बलवान् । उपहृत्य ततस् पश्चात् सङ्ग्रामम् अभिवर्तते ॥ ४॥
iha upahāram bhūtānām balavān . upahṛtya tatas paścāt saṅgrāmam abhivartate .. 4..
अदृश्यः सर्वभूतानां ततो भवति राक्षसः । निहन्ति समरे शत्रून् वध्नाति च शरोत्तमैः ॥ ५॥
अदृश्यः सर्व-भूतानाम् ततस् भवति राक्षसः । निहन्ति समरे शत्रून् वध्नाति च शर-उत्तमैः ॥ ५॥
adṛśyaḥ sarva-bhūtānām tatas bhavati rākṣasaḥ . nihanti samare śatrūn vadhnāti ca śara-uttamaiḥ .. 5..
तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् । विध्वंसय शरैर्दीप्तैः सरथं साश्वसारथिम् ॥ ६॥
तम् अप्रविष्टम् न्यग्रोधम् बलिनम् रावण-आत्मजम् । विध्वंसय शरैः दीप्तैः स रथम् स अश्व-सारथिम् ॥ ६॥
tam apraviṣṭam nyagrodham balinam rāvaṇa-ātmajam . vidhvaṃsaya śaraiḥ dīptaiḥ sa ratham sa aśva-sārathim .. 6..
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः । बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः ॥ ७॥
तथा इति उक्त्वा महा-तेजाः सौमित्रिः मित्र-नन्दनः । बभूव अवस्थितः तत्र चित्रम् विस्फारयन् धनुः ॥ ७॥
tathā iti uktvā mahā-tejāḥ saumitriḥ mitra-nandanaḥ . babhūva avasthitaḥ tatra citram visphārayan dhanuḥ .. 7..
स रथेनाग्निवर्णेन बलवान्रावणात्मजः । इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत ॥ ८॥
स रथेन अग्नि-वर्णेन बलवान् रावण-आत्मजः । इन्द्रजित् कवची खड्गी स ध्वजः प्रत्यदृश्यत ॥ ८॥
sa rathena agni-varṇena balavān rāvaṇa-ātmajaḥ . indrajit kavacī khaḍgī sa dhvajaḥ pratyadṛśyata .. 8..
तमुवाच महातेजाः पौलस्त्यमपराजितम् । समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ ९॥
तम् उवाच महा-तेजाः पौलस्त्यम् अपराजितम् । समाह्वये त्वाम् समरे सम्यक् युद्धम् प्रयच्छ मे ॥ ९॥
tam uvāca mahā-tejāḥ paulastyam aparājitam . samāhvaye tvām samare samyak yuddham prayaccha me .. 9..
एवमुक्तो महातेजा मनस्वी रावणात्मजः । अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ १०॥
एवम् उक्तः महा-तेजाः मनस्वी रावण-आत्मजः । अब्रवीत् परुषम् वाक्यम् तत्र दृष्ट्वा विभीषणम् ॥ १०॥
evam uktaḥ mahā-tejāḥ manasvī rāvaṇa-ātmajaḥ . abravīt paruṣam vākyam tatra dṛṣṭvā vibhīṣaṇam .. 10..
इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम । कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ ११॥
इह त्वम् जात-संवृद्धः साक्षात् भ्राता पितुः मम । कथम् द्रुह्यसि पुत्रस्य पितृव्यः मम राक्षस ॥ ११॥
iha tvam jāta-saṃvṛddhaḥ sākṣāt bhrātā pituḥ mama . katham druhyasi putrasya pitṛvyaḥ mama rākṣasa .. 11..
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते । प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण ॥ १२॥
न ज्ञाति-त्वम् न सौहार्दम् न जातिः तव दुर्मते । प्रमाणम् न च सोदर्यम् न धर्मः धर्म-दूषण ॥ १२॥
na jñāti-tvam na sauhārdam na jātiḥ tava durmate . pramāṇam na ca sodaryam na dharmaḥ dharma-dūṣaṇa .. 12..
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः । यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ १३॥
शोच्यः त्वम् असि दुर्बुद्धे निन्दनीयः च साधुभिः । यः त्वम् स्व-जनम् उत्सृज्य पर-भृत्य-त्वम् आगतः ॥ १३॥
śocyaḥ tvam asi durbuddhe nindanīyaḥ ca sādhubhiḥ . yaḥ tvam sva-janam utsṛjya para-bhṛtya-tvam āgataḥ .. 13..
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् । क्व च स्वजनसंवासः क्व च नीच पराश्रयः ॥ १४॥
न एतत् शिथिलया बुद्ध्या त्वम् वेत्सि महत् अन्तरम् । क्व च स्व-जन-संवासः क्व च नीच पर-आश्रयः ॥ १४॥
na etat śithilayā buddhyā tvam vetsi mahat antaram . kva ca sva-jana-saṃvāsaḥ kva ca nīca para-āśrayaḥ .. 14..
गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा । निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः ॥ १५॥
गुणवान् वा पर-जनः स्व-जनः निर्गुणः अपि वा । निर्गुणः स्व-जनः श्रेयान् यः परः परः एव सः ॥ १५॥
guṇavān vā para-janaḥ sva-janaḥ nirguṇaḥ api vā . nirguṇaḥ sva-janaḥ śreyān yaḥ paraḥ paraḥ eva saḥ .. 15..
यः स्वपक्षं परित्यज्य परपक्षं निषेवते । स स्वपक्षे क्षयं याते पश्चात्तैरेव हन्यते ॥ 16
यः स्व-पक्षम् परित्यज्य पर-पक्षम् निषेवते । स स्व-पक्षे क्षयम् याते पश्चात् तैः एव हन्यते ॥ १६
yaḥ sva-pakṣam parityajya para-pakṣam niṣevate . sa sva-pakṣe kṣayam yāte paścāt taiḥ eva hanyate .. 16
निरनुक्रोशता चेयं यादृशी ते निशाचर । स्वजनेन त्वया शक्यं परुषं रावणानुज ॥ 17
निरनुक्रोश-ता च इयम् यादृशी ते निशाचर । स्व-जनेन त्वया शक्यम् परुषम् रावण-अनुज ॥ १७
niranukrośa-tā ca iyam yādṛśī te niśācara . sva-janena tvayā śakyam paruṣam rāvaṇa-anuja .. 17
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः । अजानन्निव मच्छीलं किं राक्षस विकत्थसे ॥ 18
इति उक्तः भ्रातृ-पुत्रेण प्रत्युवाच विभीषणः । अ जानन् इव मद्-शीलम् किम् राक्षस विकत्थसे ॥ १८
iti uktaḥ bhrātṛ-putreṇa pratyuvāca vibhīṣaṇaḥ . a jānan iva mad-śīlam kim rākṣasa vikatthase .. 18
राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् । गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं । कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ॥ 19
राक्षस-इन्द्र-सुत असाधो पारुष्यम् त्यज गौरवात् । गुणः अयम् प्रथमः नॄणाम् तत् मे शीलम् अराक्षसम् । कुले यदि अपि अहम् जातः रक्षसाम् क्रूर-कर्मणाम् ॥ १९
rākṣasa-indra-suta asādho pāruṣyam tyaja gauravāt . guṇaḥ ayam prathamaḥ nṝṇām tat me śīlam arākṣasam . kule yadi api aham jātaḥ rakṣasām krūra-karmaṇām .. 19
न रमे दारुणेनाहं न चाधर्मेण वै रमे । भ्रात्रा विषमशीलेऽपि कथं भ्राता निरस्यते ॥ 20
न रमे दारुणेन अहम् न च अधर्मेण वै रमे । भ्रात्रा विषम-शीले अपि कथम् भ्राता निरस्यते ॥ २०
na rame dāruṇena aham na ca adharmeṇa vai rame . bhrātrā viṣama-śīle api katham bhrātā nirasyate .. 20
धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम् । त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥ 21
धर्मात् प्रच्युत-शीलम् हि पुरुषम् पाप-निश्चयम् । त्यक्त्वा सुखम् अवाप्नोति हस्तात् आशीविषम् यथा ॥ २१
dharmāt pracyuta-śīlam hi puruṣam pāpa-niścayam . tyaktvā sukham avāpnoti hastāt āśīviṣam yathā .. 21
परस्वहरणे युक्त्तं परदाराभिमर्शकम् । त्याज्यमाहुर्दुरात्मानं वेशम् प्रज्वलितं यथा ॥ 22
पर-स्व-हरणे पर-दार-अभिमर्शकम् । त्याज्यम् आहुः दुरात्मानम् वेशम् प्रज्वलितम् यथा ॥ २२
para-sva-haraṇe para-dāra-abhimarśakam . tyājyam āhuḥ durātmānam veśam prajvalitam yathā .. 22
परस्वानां च हरणं परदाराभिमर्शनम् । सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः ॥ 23
पर-स्वानाम् च हरणम् पर-दार-अभिमर्शनम् । सुहृदाम् अतिशङ्काम् च त्रयः दोषाः क्षय-आवहाः ॥ २३
para-svānām ca haraṇam para-dāra-abhimarśanam . suhṛdām atiśaṅkām ca trayaḥ doṣāḥ kṣaya-āvahāḥ .. 23
महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः । अभिमानश्च कोपश्च वैरत्वं प्रतिकूलता ॥ 24
महा-ऋषीणाम् वधः घोरः सर्व-देवैः च विग्रहः । अभिमानः च कोपः च वैर-त्वम् प्रतिकूल-ता ॥ २४
mahā-ṛṣīṇām vadhaḥ ghoraḥ sarva-devaiḥ ca vigrahaḥ . abhimānaḥ ca kopaḥ ca vaira-tvam pratikūla-tā .. 24
एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः । गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः ॥ 25
एते दोषाः मम भ्रातुः जीवित-ऐश्वर्य-नाशनाः । गुणान् प्रच्छादयामासुः पर्वतान् इव तोयदाः ॥ २५
ete doṣāḥ mama bhrātuḥ jīvita-aiśvarya-nāśanāḥ . guṇān pracchādayāmāsuḥ parvatān iva toyadāḥ .. 25
दोषैरेतैः परित्यक्तो मया भ्राता पिता तव । नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥ 26
दोषैः एतैः परित्यक्तः मया भ्राता पिता तव । न इयम् अस्ति पुरी लङ्का न च त्वम् न च ते पिता ॥ २६
doṣaiḥ etaiḥ parityaktaḥ mayā bhrātā pitā tava . na iyam asti purī laṅkā na ca tvam na ca te pitā .. 26
अतिमानाश्च बालश्च दुर्विनीतश्च राक्षस । बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥ 27
अतिमानाः च बालः च दुर्विनीतः च राक्षस । बद्धः त्वम् काल-पाशेन ब्रूहि माम् यत् यत् इच्छसि ॥ २७
atimānāḥ ca bālaḥ ca durvinītaḥ ca rākṣasa . baddhaḥ tvam kāla-pāśena brūhi mām yat yat icchasi .. 27
अद्येह व्यसनं प्राप्तं यन्मां परुषमुक्त्तवान् । प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ॥ 28
अद्या इह व्यसनम् प्राप्तम् यत् माम् परुषम् उक्त्तवान् । प्रवेष्टुम् न त्वया शक्यः न्यग्रोधः राक्षस-अधम ॥ २८
adyā iha vyasanam prāptam yat mām paruṣam ukttavān . praveṣṭum na tvayā śakyaḥ nyagrodhaḥ rākṣasa-adhama .. 28
धर्षयित्वा तु काकुत्स्थं न शक्यं जीवितुं त्वया । युध्यस्व नरदेवेन लक्ष्मणेन रणे सह । हतस्त्वं देवताकार्यं करिष्यसि यमक्षयम् ॥ 29
धर्षयित्वा तु काकुत्स्थम् न शक्यम् जीवितुम् त्वया । युध्यस्व नरदेवेन लक्ष्मणेन रणे सह । हतः त्वम् देवता-कार्यम् करिष्यसि यम-क्षयम् ॥ २९
dharṣayitvā tu kākutstham na śakyam jīvitum tvayā . yudhyasva naradevena lakṣmaṇena raṇe saha . hataḥ tvam devatā-kāryam kariṣyasi yama-kṣayam .. 29
निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् । न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन्सबलो गमिष्यसि ॥ 30
निदर्शयस्व आत्म-बलम् समुद्यतम् कुरुष्व सर्व-आयुध-सायक-व्ययम् । न लक्ष्मणस्य एत्य हि बाण-गोचरम् त्वम् अद्य जीवन् स बलः गमिष्यसि ॥ ३०
nidarśayasva ātma-balam samudyatam kuruṣva sarva-āyudha-sāyaka-vyayam . na lakṣmaṇasya etya hi bāṇa-gocaram tvam adya jīvan sa balaḥ gamiṣyasi .. 30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In