This overlay will guide you through the buttons:

| |
|
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः। अब्रवीत् परुषं वाक्यं क्रोधेनाभ्युत्पपात च॥ १॥
विभीषण-वचः श्रुत्वा रावणिः क्रोध-मूर्च्छितः। अब्रवीत् परुषम् वाक्यम् क्रोधेन अभ्युत्पपात च॥ १॥
vibhīṣaṇa-vacaḥ śrutvā rāvaṇiḥ krodha-mūrcchitaḥ. abravīt paruṣam vākyam krodhena abhyutpapāta ca.. 1..
उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते। कालाश्वयुक्ते महति स्थितः कालान्तकोपमः॥ २॥
उद्यत-आयुध-निस्त्रिंशः रथे सु समलंकृते। काल-अश्व-युक्ते महति स्थितः काल-अन्तक-उपमः॥ २॥
udyata-āyudha-nistriṃśaḥ rathe su samalaṃkṛte. kāla-aśva-yukte mahati sthitaḥ kāla-antaka-upamaḥ.. 2..
महाप्रमाणमुद्यम्य विपुलं वेगवद् दृढम्। धनुर्भीमबलो भीमं शरांश्चामित्रनाशनान्॥ ३॥
महा-प्रमाणम् उद्यम्य विपुलम् वेगवत् दृढम्। धनुः भीम-बलः भीमम् शरान् च अमित्र-नाशनान्॥ ३॥
mahā-pramāṇam udyamya vipulam vegavat dṛḍham. dhanuḥ bhīma-balaḥ bhīmam śarān ca amitra-nāśanān.. 3..
तं ददर्श महेष्वासो रथस्थः समलंकृतः। अलंकृतममित्रघ्नो रावणस्यात्मजो बली॥ ४॥
तम् ददर्श महा-इष्वासः रथ-स्थः समलंकृतः। अलंकृतम् अमित्र-घ्नः रावणस्य आत्मजः बली॥ ४॥
tam dadarśa mahā-iṣvāsaḥ ratha-sthaḥ samalaṃkṛtaḥ. alaṃkṛtam amitra-ghnaḥ rāvaṇasya ātmajaḥ balī.. 4..
हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम्। उवाचैनं सुसंरब्धः सौमित्रिं सविभीषणम्॥ ५॥
हनूमत्-पृष्ठम् आरूढम् उदय-स्थ-रवि-प्रभम्। उवाच एनम् सु संरब्धः सौमित्रिम् स विभीषणम्॥ ५॥
hanūmat-pṛṣṭham ārūḍham udaya-stha-ravi-prabham. uvāca enam su saṃrabdhaḥ saumitrim sa vibhīṣaṇam.. 5..
तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्। अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्॥ ६॥
तान् च वानर-शार्दूलान् पश्यध्वम् मे पराक्रमम्। अद्य मद्-कार्मुक-उत्सृष्टम् शर-वर्षम् दुरासदम्॥ ६॥
tān ca vānara-śārdūlān paśyadhvam me parākramam. adya mad-kārmuka-utsṛṣṭam śara-varṣam durāsadam.. 6..
मुक्तवर्षमिवाकाशे धारयिष्यथ संयुगे। अद्य वो मामका बाणा महाकार्मुकनिःसृताः। विधमिष्यन्ति गात्राणि तूलराशिमिवानलः॥ ७॥
मुक्त-वर्षम् इव आकाशे धारयिष्यथ संयुगे। अद्य वः मामकाः बाणाः महा-कार्मुक-निःसृताः। विधमिष्यन्ति गात्राणि तूल-राशिम् इव अनलः॥ ७॥
mukta-varṣam iva ākāśe dhārayiṣyatha saṃyuge. adya vaḥ māmakāḥ bāṇāḥ mahā-kārmuka-niḥsṛtāḥ. vidhamiṣyanti gātrāṇi tūla-rāśim iva analaḥ.. 7..
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः। अद्य वो गमयिष्यामि सर्वानेव यमक्षयम्॥ ८॥
तीक्ष्ण-सायक-निर्भिन्नान् शूल-शक्ति-ऋष्टि-तोमरैः। अद्य वः गमयिष्यामि सर्वान् एव यम-क्षयम्॥ ८॥
tīkṣṇa-sāyaka-nirbhinnān śūla-śakti-ṛṣṭi-tomaraiḥ. adya vaḥ gamayiṣyāmi sarvān eva yama-kṣayam.. 8..
सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे। जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः॥ ९॥
सृजतः शर-वर्षाणि क्षिप्रहस्तस्य संयुगे। जीमूतस्य इव नदतः कः स्थास्यति मम अग्रतस्॥ ९॥
sṛjataḥ śara-varṣāṇi kṣiprahastasya saṃyuge. jīmūtasya iva nadataḥ kaḥ sthāsyati mama agratas.. 9..
रात्रियुद्धे तदा पूर्वं वज्राशनिसमैः शरैः। शायितौ तौ मया भूयो विसंज्ञौ सपुरःसरौ॥ १०॥
रात्रि-युद्धे तदा पूर्वम् वज्र-अशनि-समैः शरैः। शायितौ तौ मया भूयस् विसंज्ञौ स पुरःसरौ॥ १०॥
rātri-yuddhe tadā pūrvam vajra-aśani-samaiḥ śaraiḥ. śāyitau tau mayā bhūyas visaṃjñau sa puraḥsarau.. 10..
स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं यातो यमक्षयम्। आशीविषसमं क्रुद्धं यन्मां योद्धुमुपस्थितः॥ ११॥
स्मृतिः न ते अस्ति वा मन्ये व्यक्तम् यातः यम-क्षयम्। आशीविष-समम् क्रुद्धम् यत् माम् योद्धुम् उपस्थितः॥ ११॥
smṛtiḥ na te asti vā manye vyaktam yātaḥ yama-kṣayam. āśīviṣa-samam kruddham yat mām yoddhum upasthitaḥ.. 11..
तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा। अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत्॥ १२॥
तत् श्रुत्वा राक्षस-इन्द्रस्य गर्जितम् राघवः तदा। अभीत-वदनः क्रुद्धः रावणिम् वाक्यम् अब्रवीत्॥ १२॥
tat śrutvā rākṣasa-indrasya garjitam rāghavaḥ tadā. abhīta-vadanaḥ kruddhaḥ rāvaṇim vākyam abravīt.. 12..
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया। कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्॥ १३॥
उक्तः च दुर्गमः पारः कार्याणाम् राक्षस त्वया। कार्याणाम् कर्मणा पारम् यः गच्छति स बुद्धिमान्॥ १३॥
uktaḥ ca durgamaḥ pāraḥ kāryāṇām rākṣasa tvayā. kāryāṇām karmaṇā pāram yaḥ gacchati sa buddhimān.. 13..
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्। वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते॥ १४॥
स त्वम् अर्थस्य हीन-अर्थः दुरवापस्य केनचिद्। वाचा व्याहृत्य जानीषे कृतार्थः अस्मि इति दुर्मते॥ १४॥
sa tvam arthasya hīna-arthaḥ duravāpasya kenacid. vācā vyāhṛtya jānīṣe kṛtārthaḥ asmi iti durmate.. 14..
अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा। तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ १५॥
अन्तर्धान-गतेन आजौ यत् त्वया चरितः तदा। तस्कर-आचरितः मार्गः न एष वीर-निषेवितः॥ १५॥
antardhāna-gatena ājau yat tvayā caritaḥ tadā. taskara-ācaritaḥ mārgaḥ na eṣa vīra-niṣevitaḥ.. 15..
यथा बाणपथं प्राप्य स्थितोऽस्मि तव राक्षस। दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे॥ १६॥
यथा बाण-पथम् प्राप्य स्थितः अस्मि तव राक्षस। दर्शयस्व अद्य तत् तेजः वाचा त्वम् किम् विकत्थसे॥ १६॥
yathā bāṇa-patham prāpya sthitaḥ asmi tava rākṣasa. darśayasva adya tat tejaḥ vācā tvam kim vikatthase.. 16..
एवमुक्तो धनुर्भीमं परामृश्य महाबलः। ससर्ज निशितान् बाणानिन्द्रजित् समितिंजयः॥ १७॥
एवम् उक्तः धनुः भीमम् परामृश्य महा-बलः। ससर्ज निशितान् बाणान् इन्द्रजित् समितिंजयः॥ १७॥
evam uktaḥ dhanuḥ bhīmam parāmṛśya mahā-balaḥ. sasarja niśitān bāṇān indrajit samitiṃjayaḥ.. 17..
तेन सृष्टा महावेगाः शराः सर्पविषोपमाः। सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः॥ १८॥
तेन सृष्टाः महा-वेगाः शराः सर्प-विष-उपमाः। सम्प्राप्य लक्ष्मणम् पेतुः श्वसन्तः इव पन्नगाः॥ १८॥
tena sṛṣṭāḥ mahā-vegāḥ śarāḥ sarpa-viṣa-upamāḥ. samprāpya lakṣmaṇam petuḥ śvasantaḥ iva pannagāḥ.. 18..
शरैरतिमहावेगैर्वेगवान् रावणात्मजः। सौमित्रिमिन्द्रजिद् युद्धे विव्याध शुभलक्षणम्॥ १९॥
शरैः अति महा-वेगैः वेगवान् रावण-आत्मजः। सौमित्रिम् इन्द्रजित् युद्धे विव्याध शुभ-लक्षणम्॥ १९॥
śaraiḥ ati mahā-vegaiḥ vegavān rāvaṇa-ātmajaḥ. saumitrim indrajit yuddhe vivyādha śubha-lakṣaṇam.. 19..
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः। शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः॥ २०॥
स शरैः अतिविद्ध-अङ्गः रुधिरेण समुक्षितः। शुशुभे लक्ष्मणः श्रीमान् विधूमः इव पावकः॥ २०॥
sa śaraiḥ atividdha-aṅgaḥ rudhireṇa samukṣitaḥ. śuśubhe lakṣmaṇaḥ śrīmān vidhūmaḥ iva pāvakaḥ.. 20..
इन्द्रजित् त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च। विनद्य सुमहानादमिदं वचनमब्रवीत्॥ २१॥
इन्द्रजित् तु आत्मनः कर्म प्रसमीक्ष्य अभिगम्य च। विनद्य सु महा-नादम् इदम् वचनम् अब्रवीत्॥ २१॥
indrajit tu ātmanaḥ karma prasamīkṣya abhigamya ca. vinadya su mahā-nādam idam vacanam abravīt.. 21..
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः। आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तकाः॥ २२॥
पत्रिणः शित-धाराः ते शराः मद्-कार्मुक-च्युताः। आदास्यन्ते अद्य सौमित्रे जीवितम् जीवितान्तकाः॥ २२॥
patriṇaḥ śita-dhārāḥ te śarāḥ mad-kārmuka-cyutāḥ. ādāsyante adya saumitre jīvitam jīvitāntakāḥ.. 22..
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण। गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया॥ २३॥
अद्य गोमायु-सङ्घाः च श्येन-सङ्घाः च लक्ष्मण। गृध्राः च निपतन्तु त्वाम् गतासुम् निहतम् मया॥ २३॥
adya gomāyu-saṅghāḥ ca śyena-saṅghāḥ ca lakṣmaṇa. gṛdhrāḥ ca nipatantu tvām gatāsum nihatam mayā.. 23..
क्षत्रबन्धुं सदानार्यं रामः परमदुर्मतिः। भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति हतं मया॥ २४॥
क्षत्रबन्धुम् सदा अनार्यम् रामः परम-दुर्मतिः। भक्तम् भ्रातरम् अद्य एव त्वाम् द्रक्ष्यति हतम् मया॥ २४॥
kṣatrabandhum sadā anāryam rāmaḥ parama-durmatiḥ. bhaktam bhrātaram adya eva tvām drakṣyati hatam mayā.. 24..
विस्रस्तकवचं भूमौ व्यपविद्धशरासनम्। हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया॥ २५॥
विस्रस्त-कवचम् भूमौ व्यपविद्ध-शरासनम्। हृत-उत्तमाङ्गम् सौमित्रे त्वाम् अद्य निहतम् मया॥ २५॥
visrasta-kavacam bhūmau vyapaviddha-śarāsanam. hṛta-uttamāṅgam saumitre tvām adya nihatam mayā.. 25..
इति ब्रुवाणं संक्रुद्धः परुषं रावणात्मजम्। हेतुमद् वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाच ह॥ २६॥
इति ब्रुवाणम् संक्रुद्धः परुषम् रावण-आत्मजम्। हेतुमत् वाक्यम् अर्थ-ज्ञः लक्ष्मणः प्रत्युवाच ह॥ २६॥
iti bruvāṇam saṃkruddhaḥ paruṣam rāvaṇa-ātmajam. hetumat vākyam artha-jñaḥ lakṣmaṇaḥ pratyuvāca ha.. 26..
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मन् हि राक्षस। अथ कस्माद् वदस्येतत् सम्पादय सुकर्मणा॥ २७॥
वाच्-बलम् त्यज दुर्बुद्धे क्रूर-कर्मन् हि राक्षस। अथ कस्मात् वदसि एतत् सम्पादय सु कर्मणा॥ २७॥
vāc-balam tyaja durbuddhe krūra-karman hi rākṣasa. atha kasmāt vadasi etat sampādaya su karmaṇā.. 27..
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस। कुरु तत् कर्म येनाहं श्रद्धेयं तव कत्थनम्॥ २८॥
अ कृत्वा कत्थसे कर्म किमर्थम् इह राक्षस। कुरु तत् कर्म येन अहम् श्रद्धेयम् तव कत्थनम्॥ २८॥
a kṛtvā katthase karma kimartham iha rākṣasa. kuru tat karma yena aham śraddheyam tava katthanam.. 28..
अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन्। अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन॥ २९॥
अन् उक्त्वा परुषम् वाक्यम् किंचिद् अपि अनवक्षिपन्। अ विकत्थन् वधिष्यामि त्वाम् पश्य पुरुषादन॥ २९॥
an uktvā paruṣam vākyam kiṃcid api anavakṣipan. a vikatthan vadhiṣyāmi tvām paśya puruṣādana.. 29..
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शरान्। विजघान महावेगाल्लक्ष्मणो राक्षसोरसि॥ ३०॥
इति उक्त्वा पञ्च नाराचान् आकर्ण-आपूरितान् शरान्। विजघान महा-वेगात् लक्ष्मणः राक्षस-उरसि॥ ३०॥
iti uktvā pañca nārācān ākarṇa-āpūritān śarān. vijaghāna mahā-vegāt lakṣmaṇaḥ rākṣasa-urasi.. 30..
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः। नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा॥ ३१॥
सु पत्र-वाजिताः बाणाः ज्वलिताः इव पन्नगाः। नैरृत-उरसि अभासन्त सवितुः रश्मयः यथा॥ ३१॥
su patra-vājitāḥ bāṇāḥ jvalitāḥ iva pannagāḥ. nairṛta-urasi abhāsanta savituḥ raśmayaḥ yathā.. 31..
स शरैराहतस्तेन सरोषो रावणात्मजः। सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्॥ ३२॥
स शरैः आहतः तेन स रोषः रावण-आत्मजः। सु प्रयुक्तैः त्रिभिः बाणैः प्रतिविव्याध लक्ष्मणम्॥ ३२॥
sa śaraiḥ āhataḥ tena sa roṣaḥ rāvaṇa-ātmajaḥ. su prayuktaiḥ tribhiḥ bāṇaiḥ prativivyādha lakṣmaṇam.. 32..
स बभूव महाभीमो नरराक्षससिंहयोः। विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः॥ ३३॥
स बभूव महा-भीमः नर-राक्षस-सिंहयोः। विमर्दः तुमुलः युद्धे परस्पर-जय-एषिणोः॥ ३३॥
sa babhūva mahā-bhīmaḥ nara-rākṣasa-siṃhayoḥ. vimardaḥ tumulaḥ yuddhe paraspara-jaya-eṣiṇoḥ.. 33..
विक्रान्तौ बलसम्पन्नावुभौ विक्रमशालिनौ। उभौ परमदुर्जेयावतुल्यबलतेजसौ॥ ३४॥
विक्रान्तौ बल-सम्पन्नौ उभौ विक्रम-शालिनौ। उभौ परम-दुर्जेयौ अतुल्य-बल-तेजसौ॥ ३४॥
vikrāntau bala-sampannau ubhau vikrama-śālinau. ubhau parama-durjeyau atulya-bala-tejasau.. 34..
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ। बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ॥ ३५॥
युयुधाते तदा वीरौ ग्रहौ इव नभः-गतौ। बल-वृत्रौ इव हि तौ युधि वै दुष्प्रधर्षणौ॥ ३५॥
yuyudhāte tadā vīrau grahau iva nabhaḥ-gatau. bala-vṛtrau iva hi tau yudhi vai duṣpradharṣaṇau.. 35..
युयुधाते महात्मानौ तदा केसरिणाविव। बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ। नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम्॥ ३६॥
युयुधाते महात्मानौ तदा केसरिणौ इव। बहून् अवसृजन्तौ हि मार्गण-ओघान् अवस्थितौ। नर-राक्षस-मुख्यौ तौ प्रहृष्टौ अभ्ययुध्यताम्॥ ३६॥
yuyudhāte mahātmānau tadā kesariṇau iva. bahūn avasṛjantau hi mārgaṇa-oghān avasthitau. nara-rākṣasa-mukhyau tau prahṛṣṭau abhyayudhyatām.. 36..
ततः शरान् दाशरथिः संधायामित्रकर्षणः। ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्॥ ३७॥
ततस् शरान् दाशरथिः संधाय अमित्र-कर्षणः। ससर्ज राक्षस-इन्द्राय क्रुद्धः सर्पः इव श्वसन्॥ ३७॥
tatas śarān dāśarathiḥ saṃdhāya amitra-karṣaṇaḥ. sasarja rākṣasa-indrāya kruddhaḥ sarpaḥ iva śvasan.. 37..
तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः। विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत॥ ३८॥
तस्य ज्या-तल-निर्घोषम् स श्रुत्वा राक्षस-अधिपः। विवर्ण-वदनः भूत्वा लक्ष्मणम् समुदैक्षत॥ ३८॥
tasya jyā-tala-nirghoṣam sa śrutvā rākṣasa-adhipaḥ. vivarṇa-vadanaḥ bhūtvā lakṣmaṇam samudaikṣata.. 38..
विवर्णवदनं दृष्ट्वा राक्षसं रावणात्मजम्। सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः॥ ३९॥
विवर्ण-वदनम् दृष्ट्वा राक्षसम् रावण-आत्मजम्। सौमित्रिम् युद्ध-संयुक्तम् प्रत्युवाच विभीषणः॥ ३९॥
vivarṇa-vadanam dṛṣṭvā rākṣasam rāvaṇa-ātmajam. saumitrim yuddha-saṃyuktam pratyuvāca vibhīṣaṇaḥ.. 39..
निमित्तान्युपपश्यामि यान्यस्मिन् रावणात्मजे। त्वर तेन महाबाहो भग्न एष न संशयः॥ ४०॥
निमित्तानि उपपश्यामि यानि अस्मिन् रावण-आत्मजे। त्वर तेन महा-बाहो भग्नः एष न संशयः॥ ४०॥
nimittāni upapaśyāmi yāni asmin rāvaṇa-ātmaje. tvara tena mahā-bāho bhagnaḥ eṣa na saṃśayaḥ.. 40..
ततः संधाय सौमित्रिः शरानाशीविषोपमान्। मुमोच विशिखांस्तस्मिन् सर्पानिव विषोल्बणान्॥ ४१॥
ततस् संधाय सौमित्रिः शरान् आशीविष-उपमान्। मुमोच विशिखान् तस्मिन् सर्पान् इव विष-उल्बणान्॥ ४१॥
tatas saṃdhāya saumitriḥ śarān āśīviṣa-upamān. mumoca viśikhān tasmin sarpān iva viṣa-ulbaṇān.. 41..
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः। मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः॥ ४२॥
शक्र-अशनि-सम-स्पर्शैः लक्ष्मणेन आहतः शरैः। मुहूर्तम् अभवत् मूढः सर्व-संक्षुभित-इन्द्रियः॥ ४२॥
śakra-aśani-sama-sparśaiḥ lakṣmaṇena āhataḥ śaraiḥ. muhūrtam abhavat mūḍhaḥ sarva-saṃkṣubhita-indriyaḥ.. 42..
उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः। ददर्शावस्थितं वीरमाजौ दशरथात्मजम्। सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः॥ ४३॥
उपलभ्य मुहूर्तेन संज्ञाम् प्रत्यागत-इन्द्रियः। ददर्श अवस्थितम् वीरम् आजौ दशरथ-आत्मजम्। सः अभिचक्राम सौमित्रिम् रोषात् संरक्त-लोचनः॥ ४३॥
upalabhya muhūrtena saṃjñām pratyāgata-indriyaḥ. dadarśa avasthitam vīram ājau daśaratha-ātmajam. saḥ abhicakrāma saumitrim roṣāt saṃrakta-locanaḥ.. 43..
अब्रवीच्चैनमासाद्य पुनः स परुषं वचः। किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम्। निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे॥ ४४॥
अब्रवीत् च एनम् आसाद्य पुनर् स परुषम् वचः। किम् न स्मरसि तत् युद्धे प्रथमे मद्-पराक्रमम्। निबद्धः त्वम् सह भ्रात्रा यदा युधि विचेष्टसे॥ ४४॥
abravīt ca enam āsādya punar sa paruṣam vacaḥ. kim na smarasi tat yuddhe prathame mad-parākramam. nibaddhaḥ tvam saha bhrātrā yadā yudhi viceṣṭase.. 44..
युवां खलु महायुद्धे वज्राशनिसमैः शरैः। शायितौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ॥ ४५॥
युवाम् खलु महा-युद्धे वज्र-अशनि-समैः शरैः। शायितौ प्रथमम् भूमौ विसंज्ञौ स पुरःसरौ॥ ४५॥
yuvām khalu mahā-yuddhe vajra-aśani-samaiḥ śaraiḥ. śāyitau prathamam bhūmau visaṃjñau sa puraḥsarau.. 45..
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्। गन्तुमिच्छसि यन्मां त्वमाधर्षयितुमिच्छसि॥ ४६॥
स्मृतिः वा ना अस्ति ते मन्ये व्यक्तम् वा यम-सादनम्। गन्तुम् इच्छसि यत् माम् त्वम् आधर्षयितुम् इच्छसि॥ ४६॥
smṛtiḥ vā nā asti te manye vyaktam vā yama-sādanam. gantum icchasi yat mām tvam ādharṣayitum icchasi.. 46..
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः। अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः॥ ४७॥
यदि ते प्रथमे युद्धे न दृष्टः मद्-पराक्रमः। अद्य त्वाम् दर्शयिष्यामि तिष्ठ इदानीम् व्यवस्थितः॥ ४७॥
yadi te prathame yuddhe na dṛṣṭaḥ mad-parākramaḥ. adya tvām darśayiṣyāmi tiṣṭha idānīm vyavasthitaḥ.. 47..
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्। दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः॥ ४८॥
इति उक्त्वा सप्तभिः बाणैः अभिविव्याध लक्ष्मणम्। दशभिः तु हनूमन्तम् तीक्ष्ण-धारैः शर-उत्तमैः॥ ४८॥
iti uktvā saptabhiḥ bāṇaiḥ abhivivyādha lakṣmaṇam. daśabhiḥ tu hanūmantam tīkṣṇa-dhāraiḥ śara-uttamaiḥ.. 48..
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्। क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम्॥ ४९॥
ततस् शर-शतेन एव सु प्रयुक्तेन वीर्यवान्। क्रोधात् द्विगुण-संरब्धः निर्बिभेद विभीषणम्॥ ४९॥
tatas śara-śatena eva su prayuktena vīryavān. krodhāt dviguṇa-saṃrabdhaḥ nirbibheda vibhīṣaṇam.. 49..
तद् दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा। अचिन्तयित्वा प्रहसन्नैतत् किंचिदिति ब्रुवन्॥ ५०॥
तत् दृष्ट्वा इन्द्रजिता कर्म कृतम् रामानुजः तदा। अ चिन्तयित्वा प्रहसन् न एतत् किंचिद् इति ब्रुवन्॥ ५०॥
tat dṛṣṭvā indrajitā karma kṛtam rāmānujaḥ tadā. a cintayitvā prahasan na etat kiṃcid iti bruvan.. 50..
मुमोच च शरान् घोरान् संगृह्य नरपुंगवः। अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि॥ ५१॥
मुमोच च शरान् घोरान् संगृह्य नर-पुंगवः। अभीत-वदनः क्रुद्धः रावणिम् लक्ष्मणः युधि॥ ५१॥
mumoca ca śarān ghorān saṃgṛhya nara-puṃgavaḥ. abhīta-vadanaḥ kruddhaḥ rāvaṇim lakṣmaṇaḥ yudhi.. 51..
नैवं रणगताः शूराः प्रहरन्ति निशाचर। लघवश्चाल्पवीर्याश्च शरा हीमे सुखास्तव॥ ५२॥
न एवम् रण-गताः शूराः प्रहरन्ति निशाचर। लघवः च अल्प-वीर्याः च शराः हि इमे सुखाः तव॥ ५२॥
na evam raṇa-gatāḥ śūrāḥ praharanti niśācara. laghavaḥ ca alpa-vīryāḥ ca śarāḥ hi ime sukhāḥ tava.. 52..
नैवं शूरास्तु युध्यन्ते समरे युद्धकाङ्क्षिणः। इत्येवं तं ब्रुवन् धन्वी शरैरभिववर्ष ह॥ ५३॥
न एवम् शूराः तु युध्यन्ते समरे युद्ध-काङ्क्षिणः। इति एवम् तम् ब्रुवन् धन्वी शरैः अभिववर्ष ह॥ ५३॥
na evam śūrāḥ tu yudhyante samare yuddha-kāṅkṣiṇaḥ. iti evam tam bruvan dhanvī śaraiḥ abhivavarṣa ha.. 53..
तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत्। व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात्॥ ५४॥
तस्य बाणैः सु विध्वस्तम् कवचम् काञ्चनम् महत्। व्यशीर्यत रथोपस्थे तारा-जालम् इव अम्बरात्॥ ५४॥
tasya bāṇaiḥ su vidhvastam kavacam kāñcanam mahat. vyaśīryata rathopasthe tārā-jālam iva ambarāt.. 54..
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः। इन्द्रजित् समरे वीरः प्रत्यूषे भानुमानिव॥ ५५॥
विधूत-वर्मा नाराचैः बभूव स कृत-व्रणः। इन्द्रजित् समरे वीरः प्रत्यूषे भानुमान् इव॥ ५५॥
vidhūta-varmā nārācaiḥ babhūva sa kṛta-vraṇaḥ. indrajit samare vīraḥ pratyūṣe bhānumān iva.. 55..
ततः शरसहस्रेण संक्रुद्धो रावणात्मजः। बिभेद समरे वीरो लक्ष्मणं भीमविक्रमः॥ ५६॥
ततस् शर-सहस्रेण संक्रुद्धः रावण-आत्मजः। बिभेद समरे वीरः लक्ष्मणम् भीम-विक्रमः॥ ५६॥
tatas śara-sahasreṇa saṃkruddhaḥ rāvaṇa-ātmajaḥ. bibheda samare vīraḥ lakṣmaṇam bhīma-vikramaḥ.. 56..
व्यशीर्यत महद्दिव्यं कवचं लक्ष्मणस्य तु। कृतप्रतिकृतान्योन्यं बभूवतुररिंदमौ॥ ५७॥
व्यशीर्यत महत् दिव्यम् कवचम् लक्ष्मणस्य तु। कृत-प्रतिकृत-अन्योन्यम् बभूवतुः अरिंदमौ॥ ५७॥
vyaśīryata mahat divyam kavacam lakṣmaṇasya tu. kṛta-pratikṛta-anyonyam babhūvatuḥ ariṃdamau.. 57..
अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि। शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ॥ ५८॥
अभीक्ष्णम् निःश्वसन्तौ तौ युध्येताम् तुमुलम् युधि। शर-संकृत्त-सर्व-अङ्गौ सर्वतस् रुधिर-उक्षितौ॥ ५८॥
abhīkṣṇam niḥśvasantau tau yudhyetām tumulam yudhi. śara-saṃkṛtta-sarva-aṅgau sarvatas rudhira-ukṣitau.. 58..
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः। ततक्षतुर्महात्मानौ रणकर्मविशारदौ। बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ॥ ५९॥
सु दीर्घ-कालम् तौ वीरौ अन्योन्यम् निशितैः शरैः। ततक्षतुः महात्मानौ रण-कर्म-विशारदौ। बभूवतुः च आत्म-जये यत्तौ भीम-पराक्रमौ॥ ५९॥
su dīrgha-kālam tau vīrau anyonyam niśitaiḥ śaraiḥ. tatakṣatuḥ mahātmānau raṇa-karma-viśāradau. babhūvatuḥ ca ātma-jaye yattau bhīma-parākramau.. 59..
तौ शरौघैस्तथाकीर्णौ निकृत्तकवचध्वजौ। सृजन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव॥ ६०॥
तौ शर-ओघैः तथा आकीर्णौ निकृत्त-कवच-ध्वजौ। सृजन्तौ रुधिरम् च उष्णम् जलम् प्रस्रवणौ इव॥ ६०॥
tau śara-oghaiḥ tathā ākīrṇau nikṛtta-kavaca-dhvajau. sṛjantau rudhiram ca uṣṇam jalam prasravaṇau iva.. 60..
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम्। सासारयोरिवाकाशे नीलयोः कालमेघयोः॥ ६१॥
शर-वर्षम् ततस् घोरम् मुञ्चतोः भीम-निःस्वनम्। स आसारयोः इव आकाशे नीलयोः काल-मेघयोः॥ ६१॥
śara-varṣam tatas ghoram muñcatoḥ bhīma-niḥsvanam. sa āsārayoḥ iva ākāśe nīlayoḥ kāla-meghayoḥ.. 61..
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः। न च तौ युद्धवैमुख्यं क्लमं चाप्युपजग्मतुः॥ ६२॥
तयोः अथ महान् कालः व्यतीयात् युध्यमानयोः। न च तौ युद्ध-वैमुख्यम् क्लमम् च अपि उपजग्मतुः॥ ६२॥
tayoḥ atha mahān kālaḥ vyatīyāt yudhyamānayoḥ. na ca tau yuddha-vaimukhyam klamam ca api upajagmatuḥ.. 62..
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः। शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः॥ ६३॥
अस्त्राणि अस्त्र-विदाम् श्रेष्ठौ दर्शयन्तौ पुनर् पुनर्। शरान् उच्चावच-आकारान् अन्तरिक्षे बबन्धतुः॥ ६३॥
astrāṇi astra-vidām śreṣṭhau darśayantau punar punar. śarān uccāvaca-ākārān antarikṣe babandhatuḥ.. 63..
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च। उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ॥ ६४॥
व्यपेत-दोषम् अस्यन्तौ लघु चित्रम् च सुष्ठु च। उभौ तु तुमुलम् घोरम् चक्रतुः नर-राक्षसौ॥ ६४॥
vyapeta-doṣam asyantau laghu citram ca suṣṭhu ca. ubhau tu tumulam ghoram cakratuḥ nara-rākṣasau.. 64..
तयोः पृथक् पृथग् भीमः शुश्रुवे तलनिस्वनः। स कम्पं जनयामास निर्घात इव दारुणः॥ ६५॥
तयोः पृथक् पृथक् भीमः शुश्रुवे तल-निस्वनः। स कम्पम् जनयामास निर्घातः इव दारुणः॥ ६५॥
tayoḥ pṛthak pṛthak bhīmaḥ śuśruve tala-nisvanaḥ. sa kampam janayāmāsa nirghātaḥ iva dāruṇaḥ.. 65..
तयोः स भ्राजते शब्दस्तथा समरमत्तयोः। सुघोरयोर्निष्टनतोर्गगने मेघयोरिव॥ ६६॥
तयोः स भ्राजते शब्दः तथा समर-मत्तयोः। सु घोरयोः निष्टनतोः गगने मेघयोः इव॥ ६६॥
tayoḥ sa bhrājate śabdaḥ tathā samara-mattayoḥ. su ghorayoḥ niṣṭanatoḥ gagane meghayoḥ iva.. 66..
सुवर्णपुंखैर्नाराचैर्बलवन्तौ कृतव्रणौ। प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ॥ ६७॥
सुवर्ण-पुंखैः नाराचैः बलवन्तौ कृत-व्रणौ। प्रसुस्रुवाते रुधिरम् कीर्तिमन्तौ जये धृतौ॥ ६७॥
suvarṇa-puṃkhaiḥ nārācaiḥ balavantau kṛta-vraṇau. prasusruvāte rudhiram kīrtimantau jaye dhṛtau.. 67..
ते गात्रयोर्निपतिता रुक्मपुंखाः शरा युधि। असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम्॥ ६८॥
ते गात्रयोः निपतिताः रुक्म-पुंखाः शराः युधि। असृज्-दिग्धाः विनिष्पेतुः विविशुः धरणी-तलम्॥ ६८॥
te gātrayoḥ nipatitāḥ rukma-puṃkhāḥ śarāḥ yudhi. asṛj-digdhāḥ viniṣpetuḥ viviśuḥ dharaṇī-talam.. 68..
अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे। बभञ्जुश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः॥ ६९॥
अन्ये सु निशितैः शस्त्रैः आकाशे संजघट्टिरे। बभञ्जुः चिच्छिदुः च एव तयोः बाणाः सहस्रशस्॥ ६९॥
anye su niśitaiḥ śastraiḥ ākāśe saṃjaghaṭṭire. babhañjuḥ cicchiduḥ ca eva tayoḥ bāṇāḥ sahasraśas.. 69..
स बभूव रणो घोरस्तयोर्बाणमयश्चयः। अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः॥ ७०॥
स बभूव रणः घोरः तयोः बाण-मयः चयः। अग्निभ्याम् इव दीप्ताभ्याम् सत्रे कुश-मयः चयः॥ ७०॥
sa babhūva raṇaḥ ghoraḥ tayoḥ bāṇa-mayaḥ cayaḥ. agnibhyām iva dīptābhyām satre kuśa-mayaḥ cayaḥ.. 70..
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः। सुपुष्पाविव निष्पत्रौ वने किंशुकशाल्मली॥ ७१॥
तयोः कृत-व्रणौ देहौ शुशुभाते महात्मनोः। सु पुष्पौ इव निष्पत्रौ वने किंशुक-शाल्मली॥ ७१॥
tayoḥ kṛta-vraṇau dehau śuśubhāte mahātmanoḥ. su puṣpau iva niṣpatrau vane kiṃśuka-śālmalī.. 71..
चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः। इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ॥ ७२॥
चक्रतुः तुमुलम् घोरम् संनिपातम् मुहुर् मुहुर्। इन्द्रजित् लक्ष्मणः च एव परस्पर-जय-एषिणौ॥ ७२॥
cakratuḥ tumulam ghoram saṃnipātam muhur muhur. indrajit lakṣmaṇaḥ ca eva paraspara-jaya-eṣiṇau.. 72..
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्। अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रतिपद्यताम्॥ ७३॥
लक्ष्मणः रावणिम् युद्धे रावणिः च अपि लक्ष्मणम्। अन्योन्यम् तौ अभिघ्नन्तौ न श्रमम् प्रतिपद्यताम्॥ ७३॥
lakṣmaṇaḥ rāvaṇim yuddhe rāvaṇiḥ ca api lakṣmaṇam. anyonyam tau abhighnantau na śramam pratipadyatām.. 73..
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ। शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ॥ ७४॥
बाण-जालैः शरीर-स्थैः अवगाढैः तरस्विनौ। शुशुभाते महा-वीर्यौ प्ररूढौ इव पर्वतौ॥ ७४॥
bāṇa-jālaiḥ śarīra-sthaiḥ avagāḍhaiḥ tarasvinau. śuśubhāte mahā-vīryau prarūḍhau iva parvatau.. 74..
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्। बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः॥ ७५॥
तयोः रुधिर-सिक्तानि संवृतानि शरैः भृशम्। बभ्राजुः सर्व-गात्राणि ज्वलन्तः इव पावकाः॥ ७५॥
tayoḥ rudhira-siktāni saṃvṛtāni śaraiḥ bhṛśam. babhrājuḥ sarva-gātrāṇi jvalantaḥ iva pāvakāḥ.. 75..
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः। न च तौ युद्धवैमुख्यं श्रमं चाप्यभिजग्मतुः॥ ७६॥
तयोः अथ महान् कालः व्यतीयात् युध्यमानयोः। न च तौ युद्ध-वैमुख्यम् श्रमम् च अपि अभिजग्मतुः॥ ७६॥
tayoḥ atha mahān kālaḥ vyatīyāt yudhyamānayoḥ. na ca tau yuddha-vaimukhyam śramam ca api abhijagmatuḥ.. 76..
अथ समरपरिश्रमं निहन्तुंसमरमुखेष्वजितस्य लक्ष्मणस्य। प्रियहितमुपपादयन् महात्मासमरमुपेत्य विभीषणोऽवतस्थे॥ ७७॥
अथ समर-परिश्रमम् निहन्तुम् समर-मुखेषु अजितस्य लक्ष्मणस्य। प्रिय-हितम् उपपादयन् महात्मा समरम् उपेत्य विभीषणः अवतस्थे॥ ७७॥
atha samara-pariśramam nihantum samara-mukheṣu ajitasya lakṣmaṇasya. priya-hitam upapādayan mahātmā samaram upetya vibhīṣaṇaḥ avatasthe.. 77..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In