This overlay will guide you through the buttons:

| |
|
युध्यमानौ ततो दृष्ट्वा प्रसक्तौ नरराक्षसौ। प्रभिन्नाविव मातङ्गौ परस्परजयैषिणौ॥ १॥
युध्यमानौ ततस् दृष्ट्वा प्रसक्तौ नर-राक्षसौ। प्रभिन्नौ इव मातङ्गौ परस्पर-जय-एषिणौ॥ १॥
yudhyamānau tatas dṛṣṭvā prasaktau nara-rākṣasau. prabhinnau iva mātaṅgau paraspara-jaya-eṣiṇau.. 1..
तयोर्युद्धं द्रष्टुकामो वरचापधरो बली। शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि॥ २॥
तयोः युद्धम् द्रष्टु-कामः वर-चाप-धरः बली। शूरः स रावण-भ्राता तस्थौ संग्राम-मूर्धनि॥ २॥
tayoḥ yuddham draṣṭu-kāmaḥ vara-cāpa-dharaḥ balī. śūraḥ sa rāvaṇa-bhrātā tasthau saṃgrāma-mūrdhani.. 2..
ततो विस्फारयामास महद् धनुरवस्थितः। उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान्॥ ३॥
ततस् विस्फारयामास महत् धनुः अवस्थितः। उत्ससर्ज च तीक्ष्ण-अग्रान् राक्षसेषु महा-शरान्॥ ३॥
tatas visphārayāmāsa mahat dhanuḥ avasthitaḥ. utsasarja ca tīkṣṇa-agrān rākṣaseṣu mahā-śarān.. 3..
ते शराः शिखिसंस्पर्शा निपतन्तः समाहिताः। राक्षसान् द्रावयामासुर्वज्राणीव महागिरीन्॥ ४॥
ते शराः शिखि-संस्पर्शाः निपतन्तः समाहिताः। राक्षसान् द्रावयामासुः वज्राणि इव महा-गिरीन्॥ ४॥
te śarāḥ śikhi-saṃsparśāḥ nipatantaḥ samāhitāḥ. rākṣasān drāvayāmāsuḥ vajrāṇi iva mahā-girīn.. 4..
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः। चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः॥ ५॥
विभीषणस्य अनुचराः ते अपि शूल-असि-पट्टिशैः। चिच्छिदुः समरे वीरान् राक्षसान् राक्षस-उत्तमाः॥ ५॥
vibhīṣaṇasya anucarāḥ te api śūla-asi-paṭṭiśaiḥ. cicchiduḥ samare vīrān rākṣasān rākṣasa-uttamāḥ.. 5..
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः। बभौ मध्ये प्रधृष्टानां कलभानामिव द्विपः॥ ६॥
राक्षसैः तैः परिवृतः स तदा तु विभीषणः। बभौ मध्ये प्रधृष्टानाम् कलभानाम् इव द्विपः॥ ६॥
rākṣasaiḥ taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ. babhau madhye pradhṛṣṭānām kalabhānām iva dvipaḥ.. 6..
ततः संचोदमानो वै हरीन् रक्षोवधप्रियान्। उवाच वचनं काले कालज्ञो रक्षसां वरः॥ ७॥
ततस् संचोदमानः वै हरीन् रक्षः-वध-प्रियान्। उवाच वचनम् काले काल-ज्ञः रक्षसाम् वरः॥ ७॥
tatas saṃcodamānaḥ vai harīn rakṣaḥ-vadha-priyān. uvāca vacanam kāle kāla-jñaḥ rakṣasām varaḥ.. 7..
एकोऽयं राक्षसेन्द्रस्य परायणमवस्थितः। एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः॥ ८॥
एकः अयम् राक्षस-इन्द्रस्य परायणम् अवस्थितः। एतत् शेषम् बलम् तस्य किम् तिष्ठत हरि-ईश्वराः॥ ८॥
ekaḥ ayam rākṣasa-indrasya parāyaṇam avasthitaḥ. etat śeṣam balam tasya kim tiṣṭhata hari-īśvarāḥ.. 8..
अस्मिंश्च निहते पापे राक्षसे रणमूर्धनि। रावणं वर्जयित्वा तु शेषमस्य बलं हतम्॥ ९॥
अस्मिन् च निहते पापे राक्षसे रण-मूर्धनि। रावणम् वर्जयित्वा तु शेषम् अस्य बलम् हतम्॥ ९॥
asmin ca nihate pāpe rākṣase raṇa-mūrdhani. rāvaṇam varjayitvā tu śeṣam asya balam hatam.. 9..
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः। कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः॥ १०॥
प्रहस्तः निहतः वीरः निकुम्भः च महा-बलः। कुम्भकर्णः च कुम्भः च धूम्राक्षः च निशाचरः॥ १०॥
prahastaḥ nihataḥ vīraḥ nikumbhaḥ ca mahā-balaḥ. kumbhakarṇaḥ ca kumbhaḥ ca dhūmrākṣaḥ ca niśācaraḥ.. 10..
जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः। सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः॥ ११॥
जम्बुमाली महामाली तीक्ष्णवेगः अशनिप्रभः। सुप्तघ्नः यज्ञकोपः च वज्रदंष्ट्रः च राक्षसः॥ ११॥
jambumālī mahāmālī tīkṣṇavegaḥ aśaniprabhaḥ. suptaghnaḥ yajñakopaḥ ca vajradaṃṣṭraḥ ca rākṣasaḥ.. 11..
संह्रादी विकटोऽरिघ्नस्तपनो मन्द एव च। प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च॥ १२॥
संह्रादी विकटः अरिघ्नः तपनः मन्दः एव च। प्रघासः प्रघसः च एव प्रजङ्घः जङ्घः एव च॥ १२॥
saṃhrādī vikaṭaḥ arighnaḥ tapanaḥ mandaḥ eva ca. praghāsaḥ praghasaḥ ca eva prajaṅghaḥ jaṅghaḥ eva ca.. 12..
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्। विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः॥ १३॥
अग्निकेतुः च दुर्धर्षः रश्मिकेतुः च वीर्यवान्। विद्युज्जिह्वः द्विजिह्वः च सूर्यशत्रुः च राक्षसः॥ १३॥
agniketuḥ ca durdharṣaḥ raśmiketuḥ ca vīryavān. vidyujjihvaḥ dvijihvaḥ ca sūryaśatruḥ ca rākṣasaḥ.. 13..
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः। कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ॥ १४॥
अकम्पनः सुपार्श्वः च चक्रमाली च राक्षसः। कम्पनः सत्त्ववन्तौ तौ देवान्तक-नरान्तकौ॥ १४॥
akampanaḥ supārśvaḥ ca cakramālī ca rākṣasaḥ. kampanaḥ sattvavantau tau devāntaka-narāntakau.. 14..
एतान् निहत्यातिबलान् बहून् राक्षससत्तमान्। बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु॥ १५॥
एतान् निहत्य अतिबलान् बहून् राक्षस-सत्तमान्। बाहुभ्याम् सागरम् तीर्त्वा लङ्घ्यताम् गोष्पदम् लघु॥ १५॥
etān nihatya atibalān bahūn rākṣasa-sattamān. bāhubhyām sāgaram tīrtvā laṅghyatām goṣpadam laghu.. 15..
एतावदेव शेषं वो जेतव्यमिति वानराः। हताः सर्वे समागम्य राक्षसा बलदर्पिताः॥ १६॥
एतावत् एव शेषम् वः जेतव्यम् इति वानराः। हताः सर्वे समागम्य राक्षसाः बल-दर्पिताः॥ १६॥
etāvat eva śeṣam vaḥ jetavyam iti vānarāḥ. hatāḥ sarve samāgamya rākṣasāḥ bala-darpitāḥ.. 16..
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम। घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम्॥ १७॥
अयुक्तम् निधनम् कर्तुम् पुत्रस्य जनितुः मम। घृणाम् अपास्य राम-अर्थे निहन्याम् भ्रातुः आत्मजम्॥ १७॥
ayuktam nidhanam kartum putrasya janituḥ mama. ghṛṇām apāsya rāma-arthe nihanyām bhrātuḥ ātmajam.. 17..
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुध्यति। तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति॥ १८॥
हन्तु-कामस्य मे बाष्पम् चक्षुः च एव निरुध्यति। तम् एव एष महा-बाहुः लक्ष्मणः शमयिष्यति॥ १८॥
hantu-kāmasya me bāṣpam cakṣuḥ ca eva nirudhyati. tam eva eṣa mahā-bāhuḥ lakṣmaṇaḥ śamayiṣyati.. 18..
वानरा घ्नत सम्भूय भृत्यानस्य समीपगान्। इति तेनातियशसा राक्षसेनाभिचोदिताः॥ १९॥
वानराः घ्नत सम्भूय भृत्यान् अस्य समीप-गान्। इति तेन अति यशसा राक्षसेन अभिचोदिताः॥ १९॥
vānarāḥ ghnata sambhūya bhṛtyān asya samīpa-gān. iti tena ati yaśasā rākṣasena abhicoditāḥ.. 19..
वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः। ततस्तु कपिशार्दूलाः क्ष्वेडन्तश्च पुनः पुनः। मुमुचुर्विविधान् नादान् मेघान् दृष्ट्वेव बर्हिणः॥ २०॥
वानर-इन्द्राः जहृषिरे लाङ्गूलानि च विव्यधुः। ततस् तु कपि-शार्दूलाः क्ष्वेडन्तः च पुनर् पुनर्। मुमुचुः विविधान् नादान् मेघान् दृष्ट्वा इव बर्हिणः॥ २०॥
vānara-indrāḥ jahṛṣire lāṅgūlāni ca vivyadhuḥ. tatas tu kapi-śārdūlāḥ kṣveḍantaḥ ca punar punar. mumucuḥ vividhān nādān meghān dṛṣṭvā iva barhiṇaḥ.. 20..
जाम्बवानपि तैः सर्वैः स्वयूथ्यैरभिसंवृतः। तेऽश्मभिस्ताडयामासुर्नखैर्दन्तैश्च राक्षसान्॥ २१॥
जाम्बवान् अपि तैः सर्वैः स्व-यूथ्यैः अभिसंवृतः। ते अश्मभिः ताडयामासुः नखैः दन्तैः च राक्षसान्॥ २१॥
jāmbavān api taiḥ sarvaiḥ sva-yūthyaiḥ abhisaṃvṛtaḥ. te aśmabhiḥ tāḍayāmāsuḥ nakhaiḥ dantaiḥ ca rākṣasān.. 21..
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः। परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः॥ २२॥
निघ्नन्तम् ऋक्ष-अधिपतिम् राक्षसाः ते महा-बलाः। परिवव्रुः भयम् त्यक्त्वा तम् अनेकविध-आयुधाः॥ २२॥
nighnantam ṛkṣa-adhipatim rākṣasāḥ te mahā-balāḥ. parivavruḥ bhayam tyaktvā tam anekavidha-āyudhāḥ.. 22..
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः। जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम्॥ २३॥
शरैः परशुभिः तीक्ष्णैः पट्टिशैः यष्टि-तोमरैः। जाम्बवन्तम् मृधे जघ्नुः निघ्नन्तम् राक्षसीम् चमूम्॥ २३॥
śaraiḥ paraśubhiḥ tīkṣṇaiḥ paṭṭiśaiḥ yaṣṭi-tomaraiḥ. jāmbavantam mṛdhe jaghnuḥ nighnantam rākṣasīm camūm.. 23..
स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्। देवासुराणां क्रुद्धानां यथा भीमो महास्वनः॥ २४॥
स सम्प्रहारः तुमुलः संजज्ञे कपि-रक्षसाम्। देव-असुराणाम् क्रुद्धानाम् यथा भीमः महा-स्वनः॥ २४॥
sa samprahāraḥ tumulaḥ saṃjajñe kapi-rakṣasām. deva-asurāṇām kruddhānām yathā bhīmaḥ mahā-svanaḥ.. 24..
हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात्। स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः॥ २५॥
हनूमान् अपि संक्रुद्धः सालम् उत्पाट्य पर्वतात्। स लक्ष्मणम् स्वयम् पृष्ठात् अवरोप्य महा-मनाः॥ २५॥
hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt. sa lakṣmaṇam svayam pṛṣṭhāt avaropya mahā-manāḥ.. 25..
रक्षसां कदनं चक्रे दुरासादः सहस्रशः। स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद् बली॥ २६॥
रक्षसाम् कदनम् चक्रे दुरासादः सहस्रशस्। स दत्त्वा तुमुलम् युद्धम् पितृव्यस्य इन्द्रजित् बली॥ २६॥
rakṣasām kadanam cakre durāsādaḥ sahasraśas. sa dattvā tumulam yuddham pitṛvyasya indrajit balī.. 26..
लक्ष्मणं परवीरघ्नः पुनरेवाभ्यधावत। तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ॥ २७॥
लक्ष्मणम् पर-वीर-घ्नः पुनर् एव अभ्यधावत। तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मण-राक्षसौ॥ २७॥
lakṣmaṇam para-vīra-ghnaḥ punar eva abhyadhāvata. tau prayuddhau tadā vīrau mṛdhe lakṣmaṇa-rākṣasau.. 27..
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्। अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ॥ २८॥
शर-ओघान् अभिवर्षन्तौ जघ्नतुः तौ परस्परम्। अभीक्ष्णम् अन्तर्दधतुः शर-जालैः महा-बलौ॥ २८॥
śara-oghān abhivarṣantau jaghnatuḥ tau parasparam. abhīkṣṇam antardadhatuḥ śara-jālaiḥ mahā-balau.. 28..
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ। नह्यादानं न संधानं धनुषो वा परिग्रहः॥ २९॥
चन्द्र-आदित्यौ इव उष्ण-अन्ते यथा मेघैः तरस्विनौ। न हि आदानम् न संधानम् धनुषः वा परिग्रहः॥ २९॥
candra-ādityau iva uṣṇa-ante yathā meghaiḥ tarasvinau. na hi ādānam na saṃdhānam dhanuṣaḥ vā parigrahaḥ.. 29..
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः। न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम्॥ ३०॥
न विप्रमोक्षः बाणानाम् न विकर्षः न विग्रहः। न मुष्टि-प्रतिसंधानम् न लक्ष्य-प्रतिपादनम्॥ ३०॥
na vipramokṣaḥ bāṇānām na vikarṣaḥ na vigrahaḥ. na muṣṭi-pratisaṃdhānam na lakṣya-pratipādanam.. 30..
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात्। चापवेगप्रयुक्तैश्च बाणजालैः समन्ततः॥ ३१॥
अदृश्यत तयोः तत्र युध्यतोः पाणि-लाघवात्। चाप-वेग-प्रयुक्तैः च बाण-जालैः समन्ततः॥ ३१॥
adṛśyata tayoḥ tatra yudhyatoḥ pāṇi-lāghavāt. cāpa-vega-prayuktaiḥ ca bāṇa-jālaiḥ samantataḥ.. 31..
अन्तरिक्षेऽभिसम्पन्ने न रूपाणि चकाशिरे। लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम्॥ ३२॥
अन्तरिक्षे अभिसम्पन्ने न रूपाणि चकाशिरे। लक्ष्मणः रावणिम् प्राप्य रावणिः च अपि लक्ष्मणम्॥ ३२॥
antarikṣe abhisampanne na rūpāṇi cakāśire. lakṣmaṇaḥ rāvaṇim prāpya rāvaṇiḥ ca api lakṣmaṇam.. 32..
अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे। ताभ्यामुभाभ्यां तरसा प्रसृष्टैर्विशिखैः शितैः॥ ३३॥
अव्यवस्था भवति उग्रा ताभ्याम् अन्योन्य-विग्रहे। ताभ्याम् उभाभ्याम् तरसा प्रसृष्टैः विशिखैः शितैः॥ ३३॥
avyavasthā bhavati ugrā tābhyām anyonya-vigrahe. tābhyām ubhābhyām tarasā prasṛṣṭaiḥ viśikhaiḥ śitaiḥ.. 33..
निरन्तरमिवाकाशं बभूव तमसा वृतम्। तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः॥ ३४॥
निरन्तरम् इव आकाशम् बभूव तमसा वृतम्। तैः पतद्भिः च बहुभिः तयोः शर-शतैः शितैः॥ ३४॥
nirantaram iva ākāśam babhūva tamasā vṛtam. taiḥ patadbhiḥ ca bahubhiḥ tayoḥ śara-śataiḥ śitaiḥ.. 34..
दिशश्च प्रदिशश्चैव बभूवुः शरसंकुलाः। तमसा पिहितं सर्वमासीत् प्रतिभयं महत्॥ ३५॥
दिशः च प्रदिशः च एव बभूवुः शर-संकुलाः। तमसा पिहितम् सर्वम् आसीत् प्रतिभयम् महत्॥ ३५॥
diśaḥ ca pradiśaḥ ca eva babhūvuḥ śara-saṃkulāḥ. tamasā pihitam sarvam āsīt pratibhayam mahat.. 35..
अस्तं गते सहस्रांशौ संवृते तमसा च वै। रुधिरौघा महानद्यः प्रावर्तन्त सहस्रशः॥ ३६॥
अस्तम् गते सहस्रांशौ संवृते तमसा च वै। रुधिर-ओघाः महा-नद्यः प्रावर्तन्त सहस्रशस्॥ ३६॥
astam gate sahasrāṃśau saṃvṛte tamasā ca vai. rudhira-oghāḥ mahā-nadyaḥ prāvartanta sahasraśas.. 36..
क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिःस्वनान्। न तदानीं ववौ वायुर्न च जज्वाल पावकः॥ ३७॥
क्रव्यादाः दारुणाः वाग्भिः चिक्षिपुः भीम-निःस्वनान्। न तदानीम् ववौ वायुः न च जज्वाल पावकः॥ ३७॥
kravyādāḥ dāruṇāḥ vāgbhiḥ cikṣipuḥ bhīma-niḥsvanān. na tadānīm vavau vāyuḥ na ca jajvāla pāvakaḥ.. 37..
स्वस्त्यस्तु लोकेभ्य इति जजल्पुस्ते महर्षयः। सम्पेतुश्चात्र संतप्ता गन्धर्वाः सह चारणैः॥ ३८॥
स्वस्ति अस्तु लोकेभ्यः इति जजल्पुः ते महा-ऋषयः। सम्पेतुः च अत्र संतप्ताः गन्धर्वाः सह चारणैः॥ ३८॥
svasti astu lokebhyaḥ iti jajalpuḥ te mahā-ṛṣayaḥ. sampetuḥ ca atra saṃtaptāḥ gandharvāḥ saha cāraṇaiḥ.. 38..
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्। शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान्॥ ३९॥
अथ राक्षस-सिंहस्य कृष्णान् कनक-भूषणान्। शरैः चतुर्भिः सौमित्रिः विव्याध चतुरः हयान्॥ ३९॥
atha rākṣasa-siṃhasya kṛṣṇān kanaka-bhūṣaṇān. śaraiḥ caturbhiḥ saumitriḥ vivyādha caturaḥ hayān.. 39..
ततोऽपरेण भल्लेन पीतेन निशितेन च। सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा॥ ४०॥
ततस् अपरेण भल्लेन पीतेन निशितेन च। सम्पूर्ण-आयत-मुक्तेन सु पत्रेण सु वर्चसा॥ ४०॥
tatas apareṇa bhallena pītena niśitena ca. sampūrṇa-āyata-muktena su patreṇa su varcasā.. 40..
महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः। स तेन बाणाशनिना तलशब्दानुनादिना॥ ४१॥
महा-इन्द्र-अशनि-कल्पेन सूतस्य विचरिष्यतः। स तेन बाण-अशनिना तल-शब्द-अनुनादिना॥ ४१॥
mahā-indra-aśani-kalpena sūtasya vicariṣyataḥ. sa tena bāṇa-aśaninā tala-śabda-anunādinā.. 41..
लाघवाद् राघवः श्रीमान् शिरः कायादपाहरत्। स यन्तरि महातेजा हते मन्दोदरीसुतः॥ ४२॥
लाघवात् राघवः श्रीमान् शिरः कायात् अपाहरत्। स यन्तरि महा-तेजाः हते मन्दोदरी-सुतः॥ ४२॥
lāghavāt rāghavaḥ śrīmān śiraḥ kāyāt apāharat. sa yantari mahā-tejāḥ hate mandodarī-sutaḥ.. 42..
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत्। तदद्भुतमभूत् तत्र सारथ्यं पश्यतां युधि॥ ४३॥
स्वयम् सारथ्यम् अकरोत् पुनर् च धनुः अस्पृशत्। तत् अद्भुतम् अभूत् तत्र सारथ्यम् पश्यताम् युधि॥ ४३॥
svayam sārathyam akarot punar ca dhanuḥ aspṛśat. tat adbhutam abhūt tatra sārathyam paśyatām yudhi.. 43..
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः। धनुष्यथ पुनर्व्यग्रं हयेषु मुमुचे शरान्॥ ४४॥
हयेषु व्यग्र-हस्तम् तम् विव्याध निशितैः शरैः। धनुषि अथ पुनर् व्यग्रम् हयेषु मुमुचे शरान्॥ ४४॥
hayeṣu vyagra-hastam tam vivyādha niśitaiḥ śaraiḥ. dhanuṣi atha punar vyagram hayeṣu mumuce śarān.. 44..
छिद्रेषु तेषु बाणौघैर्विचरन्तमभीतवत्। अर्दयामास समरे सौमित्रिः शीघ्रकृत्तमः॥ ४५॥
छिद्रेषु तेषु बाण-ओघैः विचरन्तम् अभीत-वत्। अर्दयामास समरे सौमित्रिः शीघ्र-कृत्तमः॥ ४५॥
chidreṣu teṣu bāṇa-oghaiḥ vicarantam abhīta-vat. ardayāmāsa samare saumitriḥ śīghra-kṛttamaḥ.. 45..
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः। प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह॥ ४६॥
निहतम् सारथिम् दृष्ट्वा समरे रावण-आत्मजः। प्रजहौ समर-उद्धर्षम् विषण्णः स बभूव ह॥ ४६॥
nihatam sārathim dṛṣṭvā samare rāvaṇa-ātmajaḥ. prajahau samara-uddharṣam viṣaṇṇaḥ sa babhūva ha.. 46..
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः। ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन्॥ ४७॥
विषण्ण-वदनम् दृष्ट्वा राक्षसम् हरि-यूथपाः। ततस् परम-संहृष्टाः लक्ष्मणम् च अभ्यपूजयन्॥ ४७॥
viṣaṇṇa-vadanam dṛṣṭvā rākṣasam hari-yūthapāḥ. tatas parama-saṃhṛṣṭāḥ lakṣmaṇam ca abhyapūjayan.. 47..
ततः प्रमाथी रभसः शरभो गन्धमादनः। अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः॥ ४८॥
ततस् प्रमाथी रभसः शरभः गन्धमादनः। अमृष्यमाणाः चत्वारः चक्रुः वेगम् हरि-ईश्वराः॥ ४८॥
tatas pramāthī rabhasaḥ śarabhaḥ gandhamādanaḥ. amṛṣyamāṇāḥ catvāraḥ cakruḥ vegam hari-īśvarāḥ.. 48..
ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः। चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः॥ ४९॥
ते च अस्य हय-मुख्येषु तूर्णम् उत्पत्य वानराः। चतुर्षु सु महा-वीर्याः निपेतुः भीम-विक्रमाः॥ ४९॥
te ca asya haya-mukhyeṣu tūrṇam utpatya vānarāḥ. caturṣu su mahā-vīryāḥ nipetuḥ bhīma-vikramāḥ.. 49..
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः। मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत॥ ५०॥
तेषाम् अधिष्ठितानाम् तैः वानरैः पर्वत-उपमैः। मुखेभ्यः रुधिरम् व्यक्तम् हयानाम् समवर्तत॥ ५०॥
teṣām adhiṣṭhitānām taiḥ vānaraiḥ parvata-upamaiḥ. mukhebhyaḥ rudhiram vyaktam hayānām samavartata.. 50..
ते हया मथिता भग्ना व्यसवो धरणीं गताः। ते निहत्य हयांस्तस्य प्रमथ्य च महारथम्। पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः॥ ५१॥
ते हयाः मथिताः भग्नाः व्यसवः धरणीम् गताः। ते निहत्य हयान् तस्य प्रमथ्य च महा-रथम्। पुनर् उत्पत्य वेगेन तस्थुः लक्ष्मण-पार्श्वतः॥ ५१॥
te hayāḥ mathitāḥ bhagnāḥ vyasavaḥ dharaṇīm gatāḥ. te nihatya hayān tasya pramathya ca mahā-ratham. punar utpatya vegena tasthuḥ lakṣmaṇa-pārśvataḥ.. 51..
स हताश्वादवप्लुत्य रथान्मथितसारथिः। शरवर्षेण सौमित्रिमभ्यधावत रावणिः॥ ५२॥
स हत-अश्वात् अवप्लुत्य रथात् मथित-सारथिः। शर-वर्षेण सौमित्रिम् अभ्यधावत रावणिः॥ ५२॥
sa hata-aśvāt avaplutya rathāt mathita-sārathiḥ. śara-varṣeṇa saumitrim abhyadhāvata rāvaṇiḥ.. 52..
ततो महेन्द्रप्रतिमः स लक्ष्मणःपदातिनं तं निहतैर्हयोत्तमैः। सृजन्तमाजौ निशितान् शरोत्तमान्भृशं तदा बाणगणैर्व्यदारयत्॥ ५३॥
ततस् महा-इन्द्र-प्रतिमः स लक्ष्मणः पदातिनम् तम् निहतैः हय-उत्तमैः। सृजन्तम् आजौ निशितान् शर-उत्तमान् भृशम् तदा बाण-गणैः व्यदारयत्॥ ५३॥
tatas mahā-indra-pratimaḥ sa lakṣmaṇaḥ padātinam tam nihataiḥ haya-uttamaiḥ. sṛjantam ājau niśitān śara-uttamān bhṛśam tadā bāṇa-gaṇaiḥ vyadārayat.. 53..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In