This overlay will guide you through the buttons:

| |
|
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः । सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोअर् ॥ १॥
ततस् निकुम्भः रभसः सूर्यशत्रुः महा-बलः । सुप्तघ्नः यज्ञकोपः च महापार्श्वः ॥ १॥
tatas nikumbhaḥ rabhasaḥ sūryaśatruḥ mahā-balaḥ . suptaghnaḥ yajñakopaḥ ca mahāpārśvaḥ .. 1..
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । इन्द्रजिच्च महातेजा बलवान्रावणात्मजः ॥ २॥
अग्निकेतुः च दुर्धर्षः रश्मिकेतुः च राक्षसः । इन्द्रजित् च महा-तेजाः बलवान् रावण-आत्मजः ॥ २॥
agniketuḥ ca durdharṣaḥ raśmiketuḥ ca rākṣasaḥ . indrajit ca mahā-tejāḥ balavān rāvaṇa-ātmajaḥ .. 2..
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः । धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ३॥
प्रहस्तः अथ विरूप-अक्षः वज्र-दंष्ट्रः महा-बलः । धूम्राक्षः च अतिकायः च दुर्मुखः च एव राक्षसः ॥ ३॥
prahastaḥ atha virūpa-akṣaḥ vajra-daṃṣṭraḥ mahā-balaḥ . dhūmrākṣaḥ ca atikāyaḥ ca durmukhaḥ ca eva rākṣasaḥ .. 3..
परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान् । चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् ॥ ४॥
परिघान् पट्टसान् प्रासान् शक्ति-शूल-परश्वधान् । चापानि च स बाणानि खड्गान् च विपुलान् शितान् ॥ ४॥
parighān paṭṭasān prāsān śakti-śūla-paraśvadhān . cāpāni ca sa bāṇāni khaḍgān ca vipulān śitān .. 4..
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः । अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा ॥ ५॥
प्रगृह्य परम-क्रुद्धाः समुत्पत्य च राक्षसाः । अब्रुवन् रावणम् सर्वे प्रदीप्ताः इव तेजसा ॥ ५॥
pragṛhya parama-kruddhāḥ samutpatya ca rākṣasāḥ . abruvan rāvaṇam sarve pradīptāḥ iva tejasā .. 5..
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् । कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६॥
अद्य रामम् वधिष्यामः सुग्रीवम् च स लक्ष्मणम् । कृपणम् च हनूमन्तम् लङ्का येन प्रधर्षिता ॥ ६॥
adya rāmam vadhiṣyāmaḥ sugrīvam ca sa lakṣmaṇam . kṛpaṇam ca hanūmantam laṅkā yena pradharṣitā .. 6..
तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः । अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ७॥
तान् गृहीत-आयुधान् सर्वान् वारयित्वा विभीषणः । अब्रवीत् प्राञ्जलिः वाक्यम् पुनर् प्रत्युपवेश्य तान् ॥ ७॥
tān gṛhīta-āyudhān sarvān vārayitvā vibhīṣaṇaḥ . abravīt prāñjaliḥ vākyam punar pratyupaveśya tān .. 7..
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते । तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥ ८॥
अपि उपायैः त्रिभिः तात यः अर्थः प्राप्तुम् न शक्यते । तस्य विक्रम-कालान् तानि उक्तान् आहुः मनीषिणः ॥ ८॥
api upāyaiḥ tribhiḥ tāta yaḥ arthaḥ prāptum na śakyate . tasya vikrama-kālān tāni uktān āhuḥ manīṣiṇaḥ .. 8..
प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च । विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥ ९॥
प्रमत्तेषु अभियुक्तेषु दैवेन प्रहतेषु च । विक्रमाः तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥ ९॥
pramatteṣu abhiyukteṣu daivena prahateṣu ca . vikramāḥ tāta sidhyanti parīkṣya vidhinā kṛtāḥ .. 9..
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् । जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ॥ १०॥
अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् । जित-रोषम् दुराधर्षम् प्रधर्षयितुम् इच्छथ ॥ १०॥
apramattam katham tam tu vijigīṣum bale sthitam . jita-roṣam durādharṣam pradharṣayitum icchatha .. 10..
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् । कृतं हनुमता कर्म दुष्करं तर्कयेत कः ॥ ११॥
समुद्रम् लङ्घयित्वा तु घोरम् नदनदीपतिम् । कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥ ११॥
samudram laṅghayitvā tu ghoram nadanadīpatim . kṛtam hanumatā karma duṣkaram tarkayeta kaḥ .. 11..
बलान्यपरिमेयानि वीर्याणि च निशाचराः । परेषां सहसावज्ञा न कर्तव्या कथं चन ॥ १२॥
बलानि अपरिमेयानि वीर्याणि च निशाचराः । परेषाम् सहसा अवज्ञा न कर्तव्या कथम् चन ॥ १२॥
balāni aparimeyāni vīryāṇi ca niśācarāḥ . pareṣām sahasā avajñā na kartavyā katham cana .. 12..
किं च राक्षसराजस्य रामेणापकृतं पुरा । आजहार जनस्थानाद्यस्य भार्यां यशस्विनः ॥ १३॥
किम् च राक्षस-राजस्य रामेण अपकृतम् पुरा । आजहार जनस्थानात् यस्य भार्याम् यशस्विनः ॥ १३॥
kim ca rākṣasa-rājasya rāmeṇa apakṛtam purā . ājahāra janasthānāt yasya bhāryām yaśasvinaḥ .. 13..
खरो यद्यतिवृत्तस्तु रामेण निहतो रणे । अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् ॥ १४॥
खरः यदि अतिवृत्तः तु रामेण निहतः रणे । अवश्यम् प्राणिनाम् प्राणाः रक्षितव्याः यथा बलम् ॥ १४॥
kharaḥ yadi ativṛttaḥ tu rāmeṇa nihataḥ raṇe . avaśyam prāṇinām prāṇāḥ rakṣitavyāḥ yathā balam .. 14..
एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् । आहृता सा परित्याज्या कलहार्थे कृते न किम् ॥ १५॥
एतद्-निमित्तम् वैदेही भयम् नः सु महत् भवेत् । आहृता सा परित्याज्या कलह-अर्थे कृते न किम् ॥ १५॥
etad-nimittam vaidehī bhayam naḥ su mahat bhavet . āhṛtā sā parityājyā kalaha-arthe kṛte na kim .. 15..
न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना । वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १६॥
न तु क्षमम् वीर्यवता तेन धर्म-अनुवर्तिना । वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥ १६॥
na tu kṣamam vīryavatā tena dharma-anuvartinā . vairam nirarthakam kartum dīyatām asya maithilī .. 16..
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् । पुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ १७॥
यावत् न स गजाम् स अश्वाम् बहु-रत्न-समाकुलाम् । पुरीम् दारयते बाणैः दीयताम् अस्य मैथिली ॥ १७॥
yāvat na sa gajām sa aśvām bahu-ratna-samākulām . purīm dārayate bāṇaiḥ dīyatām asya maithilī .. 17..
यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी । नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ॥ १८॥
यावत् सु घोरा महती दुर्धर्षा हरि-वाहिनी । न अवस्कन्दति नः लङ्काम् तावत् सीता प्रदीयताम् ॥ १८॥
yāvat su ghorā mahatī durdharṣā hari-vāhinī . na avaskandati naḥ laṅkām tāvat sītā pradīyatām .. 18..
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः । रामस्य दयिता पत्नी न स्वयं यदि दीयते ॥ १९॥
विनश्येत् हि पुरी लङ्का शूराः सर्वे च राक्षसाः । रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥ १९॥
vinaśyet hi purī laṅkā śūrāḥ sarve ca rākṣasāḥ . rāmasya dayitā patnī na svayam yadi dīyate .. 19..
प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम । हितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥ २०॥
प्रसादये त्वाम् बन्धु-त्वात् कुरुष्व वचनम् मम । हितम् पथ्यम् तु अहम् ब्रूमि दीयताम् अस्य मैथिली ॥ २०॥
prasādaye tvām bandhu-tvāt kuruṣva vacanam mama . hitam pathyam tu aham brūmi dīyatām asya maithilī .. 20..
पुरा शरत्सूर्यमरीचिसंनिभान् नवाग्रपुङ्खान्सुदृढान्नृपात्मजः । सृजत्यमोघान्विशिखान्वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ २१॥
पुरा शरद्-सूर्य-मरीचि-संनिभान् नव-अग्र-पुङ्खान् सु दृढान् नृप-आत्मजः । सृजति अमोघान् विशिखान् वधाय ते प्रदीयताम् दाशरथाय मैथिली ॥ २१॥
purā śarad-sūrya-marīci-saṃnibhān nava-agra-puṅkhān su dṛḍhān nṛpa-ātmajaḥ . sṛjati amoghān viśikhān vadhāya te pradīyatām dāśarathāya maithilī .. 21..
त्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम् । प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ २२॥
त्यजस्व कोपम् सुख-धर्म-नाशनम् भजस्व धर्मम् रति-कीर्ति-वर्धनम् । प्रसीद जीवेम स पुत्र-बान्धवाः प्रदीयताम् दाशरथाय मैथिली ॥ २२॥
tyajasva kopam sukha-dharma-nāśanam bhajasva dharmam rati-kīrti-vardhanam . prasīda jīvema sa putra-bāndhavāḥ pradīyatām dāśarathāya maithilī .. 22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In