This overlay will guide you through the buttons:

| |
|
रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः। बभूव हृष्टस्तं हत्वा शत्रुजेतारमाहवे॥ १॥
रुधिर-क्लिन्न-गात्रः तु लक्ष्मणः शुभ-लक्षणः। बभूव हृष्टः तम् हत्वा शत्रु-जेतारम् आहवे॥ १॥
rudhira-klinna-gātraḥ tu lakṣmaṇaḥ śubha-lakṣaṇaḥ. babhūva hṛṣṭaḥ tam hatvā śatru-jetāram āhave.. 1..
ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्। संनिपत्य महातेजास्तांश्च सर्वान् वनौकसः॥ २॥
ततस् स जाम्बवन्तम् च हनूमन्तम् च वीर्यवान्। संनिपत्य महा-तेजाः तान् च सर्वान् वनौकसः॥ २॥
tatas sa jāmbavantam ca hanūmantam ca vīryavān. saṃnipatya mahā-tejāḥ tān ca sarvān vanaukasaḥ.. 2..
आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ। विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः॥ ३॥
आजगाम ततस् शीघ्रम् यत्र सुग्रीव-राघवौ। विभीषणम् अवष्टभ्य हनूमन्तम् च लक्ष्मणः॥ ३॥
ājagāma tatas śīghram yatra sugrīva-rāghavau. vibhīṣaṇam avaṣṭabhya hanūmantam ca lakṣmaṇaḥ.. 3..
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च। तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा॥ ४॥
ततस् रामम् अभिक्रम्य सौमित्रिः अभिवाद्य च। तस्थौ भ्रातृ-समीप-स्थः शक्रस्य इन्द्रानुजः यथा॥ ४॥
tatas rāmam abhikramya saumitriḥ abhivādya ca. tasthau bhrātṛ-samīpa-sthaḥ śakrasya indrānujaḥ yathā.. 4..
निष्टनन्निव चागत्य राघवाय महात्मने। आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्॥ ५॥
निष्टनन् इव च आगत्य राघवाय महात्मने। आचचक्षे तदा वीरः घोरम् इन्द्रजितः वधम्॥ ५॥
niṣṭanan iva ca āgatya rāghavāya mahātmane. ācacakṣe tadā vīraḥ ghoram indrajitaḥ vadham.. 5..
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना। न्यवेदयत रामाय तदा हृष्टो विभीषणः॥ ६॥
रावणेः तु शिरः छिन्नम् लक्ष्मणेन महात्मना। न्यवेदयत रामाय तदा हृष्टः विभीषणः॥ ६॥
rāvaṇeḥ tu śiraḥ chinnam lakṣmaṇena mahātmanā. nyavedayata rāmāya tadā hṛṣṭaḥ vibhīṣaṇaḥ.. 6..
श्रुत्वैव तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम्। प्रहर्षमतुलं लेभे वाक्यं चेदमुवाच ह॥ ७॥
श्रुत्वा एव तु महा-वीर्यः लक्ष्मणेन इन्द्रजित्-वधम्। प्रहर्षम् अतुलम् लेभे वाक्यम् च इदम् उवाच ह॥ ७॥
śrutvā eva tu mahā-vīryaḥ lakṣmaṇena indrajit-vadham. praharṣam atulam lebhe vākyam ca idam uvāca ha.. 7..
साधु लक्ष्मण तुष्टोऽस्मि कर्म चासुकरं कृतम्। रावणेर्हि विनाशेन जितमित्युपधारय॥ ८॥
साधु लक्ष्मण तुष्टः अस्मि कर्म च असुकरम् कृतम्। रावणेः हि विनाशेन जितम् इति उपधारय॥ ८॥
sādhu lakṣmaṇa tuṣṭaḥ asmi karma ca asukaram kṛtam. rāvaṇeḥ hi vināśena jitam iti upadhāraya.. 8..
स तं शिरस्युपाघ्राय लक्ष्मणं कीर्तिवर्धनम्। लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान्॥ ९॥
स तम् शिरसि उपाघ्राय लक्ष्मणम् कीर्ति-वर्धनम्। लज्जमानम् बलात् स्नेहात् अङ्कम् आरोप्य वीर्यवान्॥ ९॥
sa tam śirasi upāghrāya lakṣmaṇam kīrti-vardhanam. lajjamānam balāt snehāt aṅkam āropya vīryavān.. 9..
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्। भ्रातरं लक्ष्मणं स्निग्धं पुनः पुनरुदैक्षत॥ १०॥
उपवेश्य तम् उत्सङ्गे परिष्वज्य अवपीडितम्। भ्रातरम् लक्ष्मणम् स्निग्धम् पुनर् पुनर् उदैक्षत॥ १०॥
upaveśya tam utsaṅge pariṣvajya avapīḍitam. bhrātaram lakṣmaṇam snigdham punar punar udaikṣata.. 10..
शल्यसम्पीडितं शस्तं निःश्वसन्तं तु लक्ष्मणम्। रामस्तु दुःखसंतप्तं तं तु निःश्वासपीडितम्॥ ११॥
शल्य-सम्पीडितम् शस्तम् निःश्वसन्तम् तु लक्ष्मणम्। रामः तु दुःख-संतप्तम् तम् तु निःश्वास-पीडितम्॥ ११॥
śalya-sampīḍitam śastam niḥśvasantam tu lakṣmaṇam. rāmaḥ tu duḥkha-saṃtaptam tam tu niḥśvāsa-pīḍitam.. 11..
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्। उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः॥ १२॥
मूर्ध्नि च एनम् उपाघ्राय भूयस् संस्पृश्य च त्वरन्। उवाच लक्ष्मणम् वाक्यम् आश्वास्य पुरुष-ऋषभः॥ १२॥
mūrdhni ca enam upāghrāya bhūyas saṃspṛśya ca tvaran. uvāca lakṣmaṇam vākyam āśvāsya puruṣa-ṛṣabhaḥ.. 12..
कृतं परमकल्याणं कर्म दुष्करकर्मणा। अद्य मन्ये हते पुत्रे रावणं निहतं युधि॥ १३॥
कृतम् परम-कल्याणम् कर्म दुष्कर-कर्मणा। अद्य मन्ये हते पुत्रे रावणम् निहतम् युधि॥ १३॥
kṛtam parama-kalyāṇam karma duṣkara-karmaṇā. adya manye hate putre rāvaṇam nihatam yudhi.. 13..
अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि। रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे॥ १४॥
अद्य अहम् विजयी शत्रौ हते तस्मिन् दुरात्मनि। रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे॥ १४॥
adya aham vijayī śatrau hate tasmin durātmani. rāvaṇasya nṛśaṃsasya diṣṭyā vīra tvayā raṇe.. 14..
छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः। विभीषणहनूमद्भ्यां कृतं कर्म महद् रणे॥ १५॥
छिन्नः हि दक्षिणः बाहुः स हि तस्य व्यपाश्रयः। विभीषण-हनूमद्भ्याम् कृतम् कर्म महत् रणे॥ १५॥
chinnaḥ hi dakṣiṇaḥ bāhuḥ sa hi tasya vyapāśrayaḥ. vibhīṣaṇa-hanūmadbhyām kṛtam karma mahat raṇe.. 15..
अहोरात्रैस्त्रिभिर्वीरः कथंचिद् विनिपातितः। निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः॥ १६॥
अहोरात्रैः त्रिभिः वीरः कथंचिद् विनिपातितः। निरमित्रः कृतः अस्मि अद्य निर्यास्यति हि रावणः॥ १६॥
ahorātraiḥ tribhiḥ vīraḥ kathaṃcid vinipātitaḥ. niramitraḥ kṛtaḥ asmi adya niryāsyati hi rāvaṇaḥ.. 16..
बलव्यूहेन महता निर्यास्यति हि रावणः। बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्॥ १७॥
बल-व्यूहेन महता निर्यास्यति हि रावणः। बल-व्यूहेन महता श्रुत्वा पुत्रम् निपातितम्॥ १७॥
bala-vyūhena mahatā niryāsyati hi rāvaṇaḥ. bala-vyūhena mahatā śrutvā putram nipātitam.. 17..
तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्। बलेनावृत्य महता निहनिष्यामि दुर्जयम्॥ १८॥
तम् पुत्र-वध-संतप्तम् निर्यान्तम् राक्षस-अधिपम्। बलेन आवृत्य महता निहनिष्यामि दुर्जयम्॥ १८॥
tam putra-vadha-saṃtaptam niryāntam rākṣasa-adhipam. balena āvṛtya mahatā nihaniṣyāmi durjayam.. 18..
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे। न दुष्प्रापा हते तस्मिन् शक्रजेतरि चाहवे॥ १९॥
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे। न दुष्प्रापा हते तस्मिन् शक्र-जेतरि च आहवे॥ १९॥
tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me. na duṣprāpā hate tasmin śakra-jetari ca āhave.. 19..
स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः। रामः सुषेणं मुदितः समाभाष्येदमब्रवीत्॥ २०॥
स तम् भ्रातरम् आश्वास्य परिष्वज्य च राघवः। रामः सुषेणम् मुदितः समाभाष्य इदम् अब्रवीत्॥ २०॥
sa tam bhrātaram āśvāsya pariṣvajya ca rāghavaḥ. rāmaḥ suṣeṇam muditaḥ samābhāṣya idam abravīt.. 20..
विशल्योऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः। यथा भवति सुस्वस्थस्तथा त्वं समुपाचर॥ २१॥
विशल्यः अयम् महा-प्राज्ञ सौमित्रिः मित्र-वत्सलः। यथा भवति सु स्वस्थः तथा त्वम् समुपाचर॥ २१॥
viśalyaḥ ayam mahā-prājña saumitriḥ mitra-vatsalaḥ. yathā bhavati su svasthaḥ tathā tvam samupācara.. 21..
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः। ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम्॥ २२॥
विशल्यः क्रियताम् क्षिप्रम् सौमित्रिः स विभीषणः। ऋक्ष-वानर-सैन्यानाम् शूराणाम् द्रुम-योधिनाम्॥ २२॥
viśalyaḥ kriyatām kṣipram saumitriḥ sa vibhīṣaṇaḥ. ṛkṣa-vānara-sainyānām śūrāṇām druma-yodhinām.. 22..
ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा। तेऽपि सर्वे प्रयत्नेन क्रियन्ते सुखिनस्त्वया॥ २३॥
ये च अपि अन्ये अत्र युध्यन्ति स शल्याः व्रणिनः तथा। ते अपि सर्वे प्रयत्नेन क्रियन्ते सुखिनः त्वया॥ २३॥
ye ca api anye atra yudhyanti sa śalyāḥ vraṇinaḥ tathā. te api sarve prayatnena kriyante sukhinaḥ tvayā.. 23..
एवमुक्तः स रामेण महात्मा हरियूथपः। लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्॥ २४॥
एवम् उक्तः स रामेण महात्मा हरि-यूथपः। लक्ष्मणाय ददौ नस्तस् सुषेणः परम-औषधम्॥ २४॥
evam uktaḥ sa rāmeṇa mahātmā hari-yūthapaḥ. lakṣmaṇāya dadau nastas suṣeṇaḥ parama-auṣadham.. 24..
स तस्य गन्धमाघ्राय विशल्यः समपद्यत। तदा निर्वेदनश्चैव संरूढव्रण एव च॥ २५॥
स तस्य गन्धम् आघ्राय विशल्यः समपद्यत। तदा निर्वेदनः च एव संरूढ-व्रणः एव च॥ २५॥
sa tasya gandham āghrāya viśalyaḥ samapadyata. tadā nirvedanaḥ ca eva saṃrūḍha-vraṇaḥ eva ca.. 25..
विभीषणमुखानां च सुहृदां राघवाज्ञया। सर्ववानरमुख्यानां चिकित्सामकरोत् तदा॥ २६॥
विभीषण-मुखानाम् च सुहृदाम् राघव-आज्ञया। सर्व-वानर-मुख्यानाम् चिकित्साम् अकरोत् तदा॥ २६॥
vibhīṣaṇa-mukhānām ca suhṛdām rāghava-ājñayā. sarva-vānara-mukhyānām cikitsām akarot tadā.. 26..
ततः प्रकृतिमापन्नो हृतशल्यो गतक्लमः। सौमित्रिर्मुमुदे तत्र क्षणेन विगतज्वरः॥ २७॥
ततस् प्रकृतिम् आपन्नः हृत-शल्यः गत-क्लमः। सौमित्रिः मुमुदे तत्र क्षणेन विगत-ज्वरः॥ २७॥
tatas prakṛtim āpannaḥ hṛta-śalyaḥ gata-klamaḥ. saumitriḥ mumude tatra kṣaṇena vigata-jvaraḥ.. 27..
तदैव रामः प्लवगाधिपस्तथाविभीषणश्चर्क्षपतिश्च वीर्यवान्। अवेक्ष्य सौमित्रिमरोगमुत्थितंमुदा ससैन्याः सुचिरं जहर्षिरे॥ २८॥
तदा एव रामः प्लवग-अधिपः तथा विभीषणः च ऋक्ष-पतिः च वीर्यवान्। अवेक्ष्य सौमित्रिम् अरोगम् उत्थितम् मुदा स सैन्याः सु चिरम् जहर्षिरे॥ २८॥
tadā eva rāmaḥ plavaga-adhipaḥ tathā vibhīṣaṇaḥ ca ṛkṣa-patiḥ ca vīryavān. avekṣya saumitrim arogam utthitam mudā sa sainyāḥ su ciram jaharṣire.. 28..
अपूजयत् कर्म स लक्ष्मणस्यसुदुष्करं दाशरथिर्महात्मा। बभूव हृष्टो युधि वानरेन्द्रोनिशम्य तं शक्रजितं निपातितम्॥ २९॥
अपूजयत् कर्म स लक्ष्मणस्य सु दुष्करम् दाशरथिः महात्मा। बभूव हृष्टः युधि वानर-इन्द्रः निशम्य तम् शक्रजितम् निपातितम्॥ २९॥
apūjayat karma sa lakṣmaṇasya su duṣkaram dāśarathiḥ mahātmā. babhūva hṛṣṭaḥ yudhi vānara-indraḥ niśamya tam śakrajitam nipātitam.. 29..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In