This overlay will guide you through the buttons:

| |
|
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितो वधम्। आचचक्षुरभिज्ञाय दशग्रीवाय सत्वराः॥ १॥
ततस् पौलस्त्य-सचिवाः श्रुत्वा च इन्द्रजितः वधम्। आचचक्षुः अभिज्ञाय दशग्रीवाय स त्वराः॥ १॥
tatas paulastya-sacivāḥ śrutvā ca indrajitaḥ vadham. ācacakṣuḥ abhijñāya daśagrīvāya sa tvarāḥ.. 1..
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः। विभीषणसहायेन मिषतां नो महाद्युतिः॥ २॥
युद्धे हतः महा-राज लक्ष्मणेन तव आत्मजः। विभीषण-सहायेन मिषताम् नः महा-द्युतिः॥ २॥
yuddhe hataḥ mahā-rāja lakṣmaṇena tava ātmajaḥ. vibhīṣaṇa-sahāyena miṣatām naḥ mahā-dyutiḥ.. 2..
शूरः शूरेण संगम्य संयुगेष्वपराजितः। लक्ष्मणेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित्॥ ३॥
शूरः शूरेण संगम्य संयुगेषु अपराजितः। लक्ष्मणेन हतः शूरः पुत्रः ते विबुध इन्द्रजित्॥ ३॥
śūraḥ śūreṇa saṃgamya saṃyugeṣu aparājitaḥ. lakṣmaṇena hataḥ śūraḥ putraḥ te vibudha indrajit.. 3..
गतः स परमाँल्लोकान् शरैः संतर्प्य लक्ष्मणम्। स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्॥ ४॥
गतः स परमान् लोकान् शरैः संतर्प्य लक्ष्मणम्। स तम् प्रतिभयम् श्रुत्वा वधम् पुत्रस्य दारुणम्॥ ४॥
gataḥ sa paramān lokān śaraiḥ saṃtarpya lakṣmaṇam. sa tam pratibhayam śrutvā vadham putrasya dāruṇam.. 4..
घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्। उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः॥ ५॥
घोरम् इन्द्रजितः संख्ये कश्मलम् प्राविशत् महत्। उपलभ्य चिरात् संज्ञाम् राजा राक्षस-पुंगवः॥ ५॥
ghoram indrajitaḥ saṃkhye kaśmalam prāviśat mahat. upalabhya cirāt saṃjñām rājā rākṣasa-puṃgavaḥ.. 5..
पुत्रशोकाकुलो दीनो विललापाकुलेन्द्रियः। हा राक्षसचमूमुख्य मम वत्स महाबल॥ ६॥
पुत्र-शोक-आकुलः दीनः विललाप आकुल-इन्द्रियः। हा राक्षस-चमू-मुख्य मम वत्स महा-बल॥ ६॥
putra-śoka-ākulaḥ dīnaḥ vilalāpa ākula-indriyaḥ. hā rākṣasa-camū-mukhya mama vatsa mahā-bala.. 6..
जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः। ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि॥ ७॥
जित्वा इन्द्रम् कथम् अद्य त्वम् लक्ष्मणस्य वशम् गतः। ननु त्वम् इषुभिः क्रुद्धः भिन्द्याः काल-अन्तकौ अपि॥ ७॥
jitvā indram katham adya tvam lakṣmaṇasya vaśam gataḥ. nanu tvam iṣubhiḥ kruddhaḥ bhindyāḥ kāla-antakau api.. 7..
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि। अद्य वैवस्वतो राजा भूयो बहुमतो मम॥ ८॥
मन्दरस्य अपि शृङ्गाणि किम् पुनर् लक्ष्मणम् युधि। अद्य वैवस्वतः राजा भूयस् बहु-मतः मम॥ ८॥
mandarasya api śṛṅgāṇi kim punar lakṣmaṇam yudhi. adya vaivasvataḥ rājā bhūyas bahu-mataḥ mama.. 8..
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा। एष पन्थाः सुयोधानां सर्वामरगणेष्वपि। यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति॥ ९॥
येन अद्य त्वम् महा-बाहो संयुक्तः कालधर्मणा। एष पन्थाः सु योधानाम् सर्व-अमर-गणेषु अपि। यः कृते हन्यते भर्तुः स पुमान् स्वर्गम् ऋच्छति॥ ९॥
yena adya tvam mahā-bāho saṃyuktaḥ kāladharmaṇā. eṣa panthāḥ su yodhānām sarva-amara-gaṇeṣu api. yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati.. 9..
अद्य देवगणाः सर्वे लोकपाला महर्षयः। हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः॥ १०॥
अद्य देव-गणाः सर्वे लोकपालाः महा-ऋषयः। हतम् इन्द्रजितम् श्रुत्वा सुखम् स्वप्स्यन्ति निर्भयाः॥ १०॥
adya deva-gaṇāḥ sarve lokapālāḥ mahā-ṛṣayaḥ. hatam indrajitam śrutvā sukham svapsyanti nirbhayāḥ.. 10..
अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना। एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे॥ ११॥
अद्य लोकाः त्रयः कृत्स्ना पृथिवी च स कानना। एकेन इन्द्रजिता हीना शून्या इव प्रतिभाति मे॥ ११॥
adya lokāḥ trayaḥ kṛtsnā pṛthivī ca sa kānanā. ekena indrajitā hīnā śūnyā iva pratibhāti me.. 11..
अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्। करेणुसङ्घस्य यथा निनादं गिरिगह्वरे॥ १२॥
अद्य नैरृत-कन्यानाम् श्रोष्यामि अन्तःपुरे रवम्। करेणु-सङ्घस्य यथा निनादम् गिरि-गह्वरे॥ १२॥
adya nairṛta-kanyānām śroṣyāmi antaḥpure ravam. kareṇu-saṅghasya yathā ninādam giri-gahvare.. 12..
यौवराज्यं च लङ्कां च रक्षांसि च परंतप। मातरं मां च भार्याश्च क्व गतोऽसि विहाय नः॥ १३॥
यौवराज्यम् च लङ्काम् च रक्षांसि च परंतप। मातरम् माम् च भार्याः च क्व गतः असि विहाय नः॥ १३॥
yauvarājyam ca laṅkām ca rakṣāṃsi ca paraṃtapa. mātaram mām ca bhāryāḥ ca kva gataḥ asi vihāya naḥ.. 13..
मम नाम त्वया वीर गतस्य यमसादनम्। प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे॥ १४॥
मम नाम त्वया वीर गतस्य यम-सादनम्। प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे॥ १४॥
mama nāma tvayā vīra gatasya yama-sādanam. pretakāryāṇi kāryāṇi viparīte hi vartase.. 14..
स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे। मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः॥ १५॥
स त्वम् जीवति सुग्रीवे लक्ष्मणे च स राघवे। मम शल्यम् अन् उद्धृत्य क्व गतः असि विहाय नः॥ १५॥
sa tvam jīvati sugrīve lakṣmaṇe ca sa rāghave. mama śalyam an uddhṛtya kva gataḥ asi vihāya naḥ.. 15..
एवमादिविलापार्तं रावणं राक्षसाधिपम्। आविवेश महान् कोपः पुत्रव्यसनसम्भवः॥ १६॥
एवम् आदि-विलाप-आर्तम् रावणम् राक्षस-अधिपम्। आविवेश महान् कोपः पुत्र-व्यसन-सम्भवः॥ १६॥
evam ādi-vilāpa-ārtam rāvaṇam rākṣasa-adhipam. āviveśa mahān kopaḥ putra-vyasana-sambhavaḥ.. 16..
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः। दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः॥ १७॥
प्रकृत्या कोपनम् हि एनम् पुत्रस्य पुनर् आधयः। दीप्तम् संदीपयामासुः घर्मे अर्कम् इव रश्मयः॥ १७॥
prakṛtyā kopanam hi enam putrasya punar ādhayaḥ. dīptam saṃdīpayāmāsuḥ gharme arkam iva raśmayaḥ.. 17..
ललाटे भ्रुकुटीभिश्च संगताभिर्व्यरोचत। युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः॥ १८॥
ललाटे भ्रुकुटीभिः च संगताभिः व्यरोचत। युग-अन्ते सह नक्रैः तु महा-ऊर्मिभिः इव उदधिः॥ १८॥
lalāṭe bhrukuṭībhiḥ ca saṃgatābhiḥ vyarocata. yuga-ante saha nakraiḥ tu mahā-ūrmibhiḥ iva udadhiḥ.. 18..
कोपाद् विजृम्भमाणस्य वक्त्राद् व्यक्तमिव ज्वलन्। उत्पपात सधूमाग्निर्वृत्रस्य वदनादिव॥ १९॥
कोपात् विजृम्भमाणस्य वक्त्रात् व्यक्तम् इव ज्वलन्। उत्पपात स धूम-अग्निः वृत्रस्य वदनात् इव॥ १९॥
kopāt vijṛmbhamāṇasya vaktrāt vyaktam iva jvalan. utpapāta sa dhūma-agniḥ vṛtrasya vadanāt iva.. 19..
स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः। समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद् वधम्॥ २०॥
स पुत्र-वध-संतप्तः शूरः क्रोध-वशम् गतः। समीक्ष्य रावणः बुद्ध्या वैदेह्याः रोचयत् वधम्॥ २०॥
sa putra-vadha-saṃtaptaḥ śūraḥ krodha-vaśam gataḥ. samīkṣya rāvaṇaḥ buddhyā vaidehyāḥ rocayat vadham.. 20..
तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च। रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः॥ २१॥
तस्य प्रकृत्या रक्ते च रक्ते क्रोध-अग्निना अपि च। रावणस्य महा-घोरे दीप्ते नेत्रे बभूवतुः॥ २१॥
tasya prakṛtyā rakte ca rakte krodha-agninā api ca. rāvaṇasya mahā-ghore dīpte netre babhūvatuḥ.. 21..
घोरं प्रकृत्या रूपं तत् तस्य क्रोधाग्निमूर्च्छितम्। बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम्॥ २२॥
घोरम् प्रकृत्या रूपम् तत् तस्य क्रोध-अग्नि-मूर्च्छितम्। बभूव रूपम् क्रुद्धस्य रुद्रस्य इव दुरासदम्॥ २२॥
ghoram prakṛtyā rūpam tat tasya krodha-agni-mūrcchitam. babhūva rūpam kruddhasya rudrasya iva durāsadam.. 22..
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः। दीपाभ्यामिव दीप्ताभ्यां सार्चिषः स्नेहबिन्दवः॥ २३॥
तस्य क्रुद्धस्य नेत्राभ्याम् प्रापतन् अश्रु-बिन्दवः। दीपाभ्याम् इव दीप्ताभ्याम् स अर्चिषः स्नेह-बिन्दवः॥ २३॥
tasya kruddhasya netrābhyām prāpatan aśru-bindavaḥ. dīpābhyām iva dīptābhyām sa arciṣaḥ sneha-bindavaḥ.. 23..
दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः। यन्त्रस्याकृष्यमाणस्य मथ्नतो दानवैरिव॥ २४॥
दन्तान् विदशतः तस्य श्रूयते दशन-स्वनः। यन्त्रस्य आकृष्यमाणस्य मथ्नतः दानवैः इव॥ २४॥
dantān vidaśataḥ tasya śrūyate daśana-svanaḥ. yantrasya ākṛṣyamāṇasya mathnataḥ dānavaiḥ iva.. 24..
कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत। तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे॥ २५॥
कालाग्निः इव संक्रुद्धः याम् याम् दिशम् अवैक्षत। तस्याम् तस्याम् भय-त्रस्ताः राक्षसाः संविलिल्यिरे॥ २५॥
kālāgniḥ iva saṃkruddhaḥ yām yām diśam avaikṣata. tasyām tasyām bhaya-trastāḥ rākṣasāḥ saṃvililyire.. 25..
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्। वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः॥ २६॥
तम् अन्तकम् इव क्रुद्धम् चराचर-चिखादिषुम्। वीक्षमाणम् दिशः सर्वाः राक्षसाः न उपचक्रमुः॥ २६॥
tam antakam iva kruddham carācara-cikhādiṣum. vīkṣamāṇam diśaḥ sarvāḥ rākṣasāḥ na upacakramuḥ.. 26..
ततः परमसंक्रुद्धो रावणो राक्षसाधिपः। अब्रवीद् रक्षसां मध्ये संस्तम्भयिषुराहवे॥ २७॥
ततस् परम-संक्रुद्धः रावणः राक्षस-अधिपः। अब्रवीत् रक्षसाम् मध्ये संस्तम्भयिषुः आहवे॥ २७॥
tatas parama-saṃkruddhaḥ rāvaṇaḥ rākṣasa-adhipaḥ. abravīt rakṣasām madhye saṃstambhayiṣuḥ āhave.. 27..
मया वर्षसहस्राणि चरित्वा परमं तपः। तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः॥ २८॥
मया वर्ष-सहस्राणि चरित्वा परमम् तपः। तेषु तेषु अवकाशेषु स्वयंभूः परितोषितः॥ २८॥
mayā varṣa-sahasrāṇi caritvā paramam tapaḥ. teṣu teṣu avakāśeṣu svayaṃbhūḥ paritoṣitaḥ.. 28..
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयंभुवः। नासुरेभ्यो न देवेभ्यो भयं मम कदाचन॥ २९॥
तस्य एव तपसः व्युष्ट्या प्रसादात् च स्वयंभुवः। न असुरेभ्यः न देवेभ्यः भयम् मम कदाचन॥ २९॥
tasya eva tapasaḥ vyuṣṭyā prasādāt ca svayaṃbhuvaḥ. na asurebhyaḥ na devebhyaḥ bhayam mama kadācana.. 29..
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्। देवासुरविमर्देषु न च्छिन्नं वज्रमुष्टिभिः॥ ३०॥
कवचम् ब्रह्मदत्तम् मे यत् आदित्य-सम-प्रभम्। देव-असुर-विमर्देषु न छिन्नम् वज्र-मुष्टिभिः॥ ३०॥
kavacam brahmadattam me yat āditya-sama-prabham. deva-asura-vimardeṣu na chinnam vajra-muṣṭibhiḥ.. 30..
तेन मामद्य संयुक्तं रथस्थमिह संयुगे। प्रतीयात् कोऽद्य मामाजौ साक्षादपि पुरंदरः॥ ३१॥
तेन माम् अद्य संयुक्तम् रथ-स्थम् इह संयुगे। प्रतीयात् कः अद्य माम् आजौ साक्षात् अपि पुरंदरः॥ ३१॥
tena mām adya saṃyuktam ratha-stham iha saṃyuge. pratīyāt kaḥ adya mām ājau sākṣāt api puraṃdaraḥ.. 31..
यत् तदाभिप्रसन्नेन सशरं कार्मुकं महत्। देवासुरविमर्देषु मम दत्तं स्वयंभुवा॥ ३२॥
यत् तदा अभिप्रसन्नेन स शरम् कार्मुकम् महत्। देव-असुर-विमर्देषु मम दत्तम् स्वयंभुवा॥ ३२॥
yat tadā abhiprasannena sa śaram kārmukam mahat. deva-asura-vimardeṣu mama dattam svayaṃbhuvā.. 32..
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम। रामलक्ष्मणयोरेव वधाय परमाहवे॥ ३३॥
अद्य तूर्य-शतैः भीमम् धनुः उत्थाप्यताम् मम। राम-लक्ष्मणयोः एव वधाय परम-आहवे॥ ३३॥
adya tūrya-śataiḥ bhīmam dhanuḥ utthāpyatām mama. rāma-lakṣmaṇayoḥ eva vadhāya parama-āhave.. 33..
स पुत्रवधसंतप्तः क्रूरः क्रोधवशं गतः। समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत॥ ३४॥
स पुत्र-वध-संतप्तः क्रूरः क्रोध-वशम् गतः। समीक्ष्य रावणः बुद्ध्या सीताम् हन्तुम् व्यवस्यत॥ ३४॥
sa putra-vadha-saṃtaptaḥ krūraḥ krodha-vaśam gataḥ. samīkṣya rāvaṇaḥ buddhyā sītām hantum vyavasyata.. 34..
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः। दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान्॥ ३५॥
प्रत्यवेक्ष्य तु ताम्र-अक्षः सु घोरः घोर-दर्शनः। दीनः दीन-स्वरान् सर्वान् तान् उवाच निशाचरान्॥ ३५॥
pratyavekṣya tu tāmra-akṣaḥ su ghoraḥ ghora-darśanaḥ. dīnaḥ dīna-svarān sarvān tān uvāca niśācarān.. 35..
मायया मम वत्सेन वञ्चनार्थं वनौकसाम्। किंचिदेव हतं तत्र सीतेयमिति दर्शितम्॥ ३६॥
मायया मम वत्सेन वञ्चन-अर्थम् वनौकसाम्। किंचिद् एव हतम् तत्र सीता इयम् इति दर्शितम्॥ ३६॥
māyayā mama vatsena vañcana-artham vanaukasām. kiṃcid eva hatam tatra sītā iyam iti darśitam.. 36..
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः। वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम्॥ ३७॥
तत् इदम् तथ्यम् एव अहम् करिष्ये प्रियम् आत्मनः। वैदेहीम् नाशयिष्यामि क्षत्रबन्धुम् अनुव्रताम्॥ ३७॥
tat idam tathyam eva aham kariṣye priyam ātmanaḥ. vaidehīm nāśayiṣyāmi kṣatrabandhum anuvratām.. 37..
इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत्। उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम्॥ ३८॥
इति एवम् उक्त्वा सचिवान् खड्गम् आशु परामृशत्। उद्धृत्य गुण-सम्पन्नम् विमल-अम्बर-वर्चसम्॥ ३८॥
iti evam uktvā sacivān khaḍgam āśu parāmṛśat. uddhṛtya guṇa-sampannam vimala-ambara-varcasam.. 38..
निष्पपात स वेगेन सभार्यः सचिवैर्वृतः। रावणः पुत्रशोकेन भृशमाकुलचेतनः॥ ३९॥
निष्पपात स वेगेन स भार्यः सचिवैः वृतः। रावणः पुत्र-शोकेन भृशम् आकुल-चेतनः॥ ३९॥
niṣpapāta sa vegena sa bhāryaḥ sacivaiḥ vṛtaḥ. rāvaṇaḥ putra-śokena bhṛśam ākula-cetanaḥ.. 39..
संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली। व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं विचुक्रुशुः॥ ४०॥
संक्रुद्धः खड्गम् आदाय सहसा यत्र मैथिली। व्रजन्तम् राक्षसम् प्रेक्ष्य सिंहनादम् विचुक्रुशुः॥ ४०॥
saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī. vrajantam rākṣasam prekṣya siṃhanādam vicukruśuḥ.. 40..
ऊचुश्चान्योन्यमालिङ्ग्य संक्रुद्धं प्रेक्ष्य राक्षसम्। अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः॥ ४१॥
ऊचुः च अन्योन्यम् आलिङ्ग्य संक्रुद्धम् प्रेक्ष्य राक्षसम्। अद्या एनम् तौ उभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः॥ ४१॥
ūcuḥ ca anyonyam āliṅgya saṃkruddham prekṣya rākṣasam. adyā enam tau ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ.. 41..
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः। बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः॥ ४२॥
लोकपालाः हि चत्वारः क्रुद्धेन अनेन निर्जिताः। बहवः शत्रवः च अन्ये संयुगेषु अभिपातिताः॥ ४२॥
lokapālāḥ hi catvāraḥ kruddhena anena nirjitāḥ. bahavaḥ śatravaḥ ca anye saṃyugeṣu abhipātitāḥ.. 42..
त्रिषु लोकेषु रत्नानि भुङ्क्ते आहृत्य रावणः। विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि॥ ४३॥
त्रिषु लोकेषु रत्नानि भुङ्क्ते आहृत्य रावणः। विक्रमे च बले च एव ना अस्ति अस्य सदृशः भुवि॥ ४३॥
triṣu lokeṣu ratnāni bhuṅkte āhṛtya rāvaṇaḥ. vikrame ca bale ca eva nā asti asya sadṛśaḥ bhuvi.. 43..
तेषां संजल्पमानानामशोकवनिकां गताम्। अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः॥ ४४॥
तेषाम् संजल्पमानानाम् अशोक-वनिकाम् गताम्। अभिदुद्राव वैदेहीम् रावणः क्रोध-मूर्च्छितः॥ ४४॥
teṣām saṃjalpamānānām aśoka-vanikām gatām. abhidudrāva vaidehīm rāvaṇaḥ krodha-mūrcchitaḥ.. 44..
वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः। अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव॥ ४५॥
वार्यमाणः सु संक्रुद्धः सुहृद्भिः हित-बुद्धिभिः। अभ्यधावत संक्रुद्धः खे ग्रहः रोहिणीम् इव॥ ४५॥
vāryamāṇaḥ su saṃkruddhaḥ suhṛdbhiḥ hita-buddhibhiḥ. abhyadhāvata saṃkruddhaḥ khe grahaḥ rohiṇīm iva.. 45..
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता। ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्॥ ४६॥
मैथिली रक्ष्यमाणा तु राक्षसीभिः अनिन्दिता। ददर्श राक्षसम् क्रुद्धम् निस्त्रिंश-वर-धारिणम्॥ ४६॥
maithilī rakṣyamāṇā tu rākṣasībhiḥ aninditā. dadarśa rākṣasam kruddham nistriṃśa-vara-dhāriṇam.. 46..
तं निशम्य सनिस्त्रिंशं व्यथिता जनकात्मजा। निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम्॥ ४७॥
तम् निशम्य स निस्त्रिंशम् व्यथिता जनकात्मजा। निवार्यमाणम् बहुशस् सुहृद्भिः अनिवर्तिनम्॥ ४७॥
tam niśamya sa nistriṃśam vyathitā janakātmajā. nivāryamāṇam bahuśas suhṛdbhiḥ anivartinam.. 47..
सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत्। यथायं मामभिक्रुद्धः समभिद्रवति स्वयम्॥ ४८॥
सीता दुःख-समाविष्टा विलपन्ती इदम् अब्रवीत्। यथा अयम् माम् अभिक्रुद्धः समभिद्रवति स्वयम्॥ ४८॥
sītā duḥkha-samāviṣṭā vilapantī idam abravīt. yathā ayam mām abhikruddhaḥ samabhidravati svayam.. 48..
वधिष्यति सनाथां मामनाथामिव दुर्मतिः। बहुशश्चोदयामास भर्तारं मामनुव्रताम्॥ ४९॥
वधिष्यति स नाथाम् माम् अनाथाम् इव दुर्मतिः। बहुशस् चोदयामास भर्तारम् माम् अनुव्रताम्॥ ४९॥
vadhiṣyati sa nāthām mām anāthām iva durmatiḥ. bahuśas codayāmāsa bhartāram mām anuvratām.. 49..
भार्या मम भवस्वेति प्रत्याख्यातो ध्रुवं मया। सोऽयं मामनुपस्थाने व्यक्तं नैराश्यमागतः॥ ५०॥
भार्या मम भवस्व इति प्रत्याख्यातः ध्रुवम् मया। सः अयम् माम् अनुपस्थाने व्यक्तम् नैराश्यम् आगतः॥ ५०॥
bhāryā mama bhavasva iti pratyākhyātaḥ dhruvam mayā. saḥ ayam mām anupasthāne vyaktam nairāśyam āgataḥ.. 50..
क्रोधमोहसमाविष्टो व्यक्तं मां हन्तुमुद्यतः। अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ॥ ५१॥
क्रोध-मोह-समाविष्टः व्यक्तम् माम् हन्तुम् उद्यतः। अथवा तौ नर-व्याघ्रौ भ्रातरौ राम-लक्ष्मणौ॥ ५१॥
krodha-moha-samāviṣṭaḥ vyaktam mām hantum udyataḥ. athavā tau nara-vyāghrau bhrātarau rāma-lakṣmaṇau.. 51..
मन्निमित्तमनार्येण समरेऽद्य निपातितौ। भैरवो हि महान् नादो राक्षसानां श्रुतो मया॥ ५२॥
मद्-निमित्तम् अनार्येण समरे अद्य निपातितौ। भैरवः हि महान् नादः राक्षसानाम् श्रुतः मया॥ ५२॥
mad-nimittam anāryeṇa samare adya nipātitau. bhairavaḥ hi mahān nādaḥ rākṣasānām śrutaḥ mayā.. 52..
बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम्। अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः॥ ५३॥
बहूनाम् इह हृष्टानाम् तथा विक्रोशताम् प्रियम्। अहो धिक् मद्-निमित्तः अयम् विनाशः राज-पुत्रयोः॥ ५३॥
bahūnām iha hṛṣṭānām tathā vikrośatām priyam. aho dhik mad-nimittaḥ ayam vināśaḥ rāja-putrayoḥ.. 53..
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ। विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः॥ ५४॥
अथवा पुत्र-शोकेन अ हत्वा राम-लक्ष्मणौ। विधमिष्यति माम् रौद्रः राक्षसः पाप-निश्चयः॥ ५४॥
athavā putra-śokena a hatvā rāma-lakṣmaṇau. vidhamiṣyati mām raudraḥ rākṣasaḥ pāpa-niścayaḥ.. 54..
हनूमतस्तु तद् वाक्यं न कृतं क्षुद्रया मया। यद्यहं तस्य पृष्ठेन तदायासमनिर्जिता॥ ५५॥
हनूमतः तु तत् वाक्यम् न कृतम् क्षुद्रया मया। यदि अहम् तस्य पृष्ठेन तदा अयासम् अनिर्जिता॥ ५५॥
hanūmataḥ tu tat vākyam na kṛtam kṣudrayā mayā. yadi aham tasya pṛṣṭhena tadā ayāsam anirjitā.. 55..
नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती। मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति॥ ५६॥
न अद्य एवम् अनुशोचेयम् भर्तुः अङ्क-गता सती। मन्ये तु हृदयम् तस्याः कौसल्यायाः फलिष्यति॥ ५६॥
na adya evam anuśoceyam bhartuḥ aṅka-gatā satī. manye tu hṛdayam tasyāḥ kausalyāyāḥ phaliṣyati.. 56..
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि। सा हि जन्म च बाल्यं च यौवनं च महात्मनः॥ ५७॥
एक-पुत्रा यदा पुत्रम् विनष्टम् श्रोष्यते युधि। सा हि जन्म च बाल्यम् च यौवनम् च महात्मनः॥ ५७॥
eka-putrā yadā putram vinaṣṭam śroṣyate yudhi. sā hi janma ca bālyam ca yauvanam ca mahātmanaḥ.. 57..
धर्मकार्याणि रूपं च रुदती संस्मरिष्यति। निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना॥ ५८॥
धर्म-कार्याणि रूपम् च रुदती संस्मरिष्यति। निराशा निहते पुत्रे दत्त्वा श्राद्धम् अचेतना॥ ५८॥
dharma-kāryāṇi rūpam ca rudatī saṃsmariṣyati. nirāśā nihate putre dattvā śrāddham acetanā.. 58..
अग्निमावेक्ष्यते नूनमपो वापि प्रवेक्ष्यति। धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्॥ ५९॥
अग्निम् आवेक्ष्यते नूनम् अपः वा अपि प्रवेक्ष्यति। धिक् अस्तु कुब्जाम् असतीम् मन्थराम् पाप-निश्चयाम्॥ ५९॥
agnim āvekṣyate nūnam apaḥ vā api pravekṣyati. dhik astu kubjām asatīm mantharām pāpa-niścayām.. 59..
यन्निमित्तमिमं शोकं कौसल्या प्रतिपत्स्यते। इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्॥ ६०॥
यद्-निमित्तम् इमम् शोकम् कौसल्या प्रतिपत्स्यते। इति एवम् मैथिलीम् दृष्ट्वा विलपन्तीम् तपस्विनीम्॥ ६०॥
yad-nimittam imam śokam kausalyā pratipatsyate. iti evam maithilīm dṛṣṭvā vilapantīm tapasvinīm.. 60..
रोहिणीमिव चन्द्रेण बिना ग्रहवशं गताम्। एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः॥ ६१॥
रोहिणीम् इव चन्द्रेण बिना ग्रह-वशम् गताम्। एतस्मिन् अन्तरे तस्य अमात्यः शीलवान् शुचिः॥ ६१॥
rohiṇīm iva candreṇa binā graha-vaśam gatām. etasmin antare tasya amātyaḥ śīlavān śuciḥ.. 61..
सुपार्श्वो नाम मेधावी रावणं रक्षसां वरम्। निवार्यमाणः सचिवैरिदं वचनमब्रवीत्॥ ६२॥
सुपार्श्वः नाम मेधावी रावणम् रक्षसाम् वरम्। निवार्यमाणः सचिवैः इदम् वचनम् अब्रवीत्॥ ६२॥
supārśvaḥ nāma medhāvī rāvaṇam rakṣasām varam. nivāryamāṇaḥ sacivaiḥ idam vacanam abravīt.. 62..
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज। हन्तुमिच्छसि वैदेहीं क्रोधाद् धर्ममपास्य च॥ ६३॥
कथम् नाम दशग्रीव साक्षात् वैश्रवणानुज। हन्तुम् इच्छसि वैदेहीम् क्रोधात् धर्मम् अपास्य च॥ ६३॥
katham nāma daśagrīva sākṣāt vaiśravaṇānuja. hantum icchasi vaidehīm krodhāt dharmam apāsya ca.. 63..
वेदविद्याव्रतस्नातः स्वकर्मनिरतस्तथा। स्त्रियः कस्माद् वधं वीर मन्यसे राक्षसेश्वर॥ ६४॥
वेद-विद्या-व्रत-स्नातः स्व-कर्म-निरतः तथा। स्त्रियः कस्मात् वधम् वीर मन्यसे राक्षसेश्वर॥ ६४॥
veda-vidyā-vrata-snātaḥ sva-karma-nirataḥ tathā. striyaḥ kasmāt vadham vīra manyase rākṣaseśvara.. 64..
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव। तस्मिन्नेव सहास्माभिराहवे क्रोधमुत्सृज॥ ६५॥
मैथिलीम् रूप-सम्पन्नाम् प्रत्यवेक्षस्व पार्थिव। तस्मिन् एव सह अस्माभिः आहवे क्रोधम् उत्सृज॥ ६५॥
maithilīm rūpa-sampannām pratyavekṣasva pārthiva. tasmin eva saha asmābhiḥ āhave krodham utsṛja.. 65..
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी। कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः॥ ६६॥
अभ्युत्थानम् त्वम् अद्य एव कृष्ण-पक्ष-चतुर्दशी। कृत्वा निर्याहि अमावास्याम् विजयाय बलैः वृतः॥ ६६॥
abhyutthānam tvam adya eva kṛṣṇa-pakṣa-caturdaśī. kṛtvā niryāhi amāvāsyām vijayāya balaiḥ vṛtaḥ.. 66..
शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः। हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम्॥ ६७॥
शूरः धीमान् रथी खड्गी रथ-प्रवरम् आस्थितः। हत्वा दाशरथिम् रामम् भवान् प्राप्स्यति मैथिलीम्॥ ६७॥
śūraḥ dhīmān rathī khaḍgī ratha-pravaram āsthitaḥ. hatvā dāśarathim rāmam bhavān prāpsyati maithilīm.. 67..
स तद् दुरात्मा सुहृदा निवेदितंवचः सुधर्म्यं प्रतिगृह्य रावणः। गृहं जगामाथ ततश्च वीर्यवान्पुनः सभां च प्रययौ सुहृद्वृतः॥ ६८॥
स तत् दुरात्मा सुहृदा निवेदित-वचः सु धर्म्यम् प्रतिगृह्य रावणः। गृहम् जगाम अथ ततस् च वीर्यवान् पुनर् सभाम् च प्रययौ सुहृद्-वृतः॥ ६८॥
sa tat durātmā suhṛdā nivedita-vacaḥ su dharmyam pratigṛhya rāvaṇaḥ. gṛham jagāma atha tatas ca vīryavān punar sabhām ca prayayau suhṛd-vṛtaḥ.. 68..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In