This overlay will guide you through the buttons:

| |
|
स प्रविश्य सभां राजा दीनः परमदुःखितः। निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्॥ १॥
स प्रविश्य सभाम् राजा दीनः परम-दुःखितः। निषसाद आसने मुख्ये सिंहः क्रुद्धः इव श्वसन्॥ १॥
sa praviśya sabhām rājā dīnaḥ parama-duḥkhitaḥ. niṣasāda āsane mukhye siṃhaḥ kruddhaḥ iva śvasan.. 1..
अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः। रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः॥ २॥
अब्रवीत् च स तान् सर्वान् बल-मुख्यान् महा-बलः। रावणः प्राञ्जलिः वाक्यम् पुत्र-व्यसन-कर्शितः॥ २॥
abravīt ca sa tān sarvān bala-mukhyān mahā-balaḥ. rāvaṇaḥ prāñjaliḥ vākyam putra-vyasana-karśitaḥ.. 2..
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः। निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः॥ ३॥
सर्वे भवन्तः सर्वेण हस्ति-अश्वेन समावृताः। निर्यान्तु रथ-सङ्घैः च पादातैः च उपशोभिताः॥ ३॥
sarve bhavantaḥ sarveṇa hasti-aśvena samāvṛtāḥ. niryāntu ratha-saṅghaiḥ ca pādātaiḥ ca upaśobhitāḥ.. 3..
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ। वर्षन्तः शरवर्षाणि प्रावृट्काल इवाम्बुदाः॥ ४॥
एकम् रामम् परिक्षिप्य समरे हन्तुम् अर्हथ। वर्षन्तः शर-वर्षाणि प्रावृष्-काले इव अम्बुदाः॥ ४॥
ekam rāmam parikṣipya samare hantum arhatha. varṣantaḥ śara-varṣāṇi prāvṛṣ-kāle iva ambudāḥ.. 4..
अथवाहं शरैस्तीक्ष्णैर्भिन्नगात्रं महाहवे। भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः॥ ५॥
अथवा अहम् शरैः तीक्ष्णैः भिन्न-गात्रम् महा-आहवे। भवद्भिः श्वस् निहन्तास्मि रामम् लोकस्य पश्यतः॥ ५॥
athavā aham śaraiḥ tīkṣṇaiḥ bhinna-gātram mahā-āhave. bhavadbhiḥ śvas nihantāsmi rāmam lokasya paśyataḥ.. 5..
इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः। निर्ययुस्ते रथैः शीघ्रैर्नानानीकैश्च संयुताः॥ ६॥
इति एतत् वाक्यम् आदाय राक्षस-इन्द्रस्य राक्षसाः। निर्ययुः ते रथैः शीघ्रैः नाना अनीकैः च संयुताः॥ ६॥
iti etat vākyam ādāya rākṣasa-indrasya rākṣasāḥ. niryayuḥ te rathaiḥ śīghraiḥ nānā anīkaiḥ ca saṃyutāḥ.. 6..
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्। शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति॥ ७॥
परिघान् पट्टिशान् च एव शर-खड्ग-परश्वधान्। शरीर-अन्त-करान् सर्वे चिक्षिपुः वानरान् प्रति॥ ७॥
parighān paṭṭiśān ca eva śara-khaḍga-paraśvadhān. śarīra-anta-karān sarve cikṣipuḥ vānarān prati.. 7..
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः। स संग्रामो महाभीमः सूर्यस्योदयनं प्रति॥ ८॥
वानराः च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः। स संग्रामः महा-भीमः सूर्यस्य उदयनम् प्रति॥ ८॥
vānarāḥ ca drumān śailān rākṣasān prati cikṣipuḥ. sa saṃgrāmaḥ mahā-bhīmaḥ sūryasya udayanam prati.. 8..
रक्षसां वानराणां च तुमुलः समपद्यत। ते गदाभिश्च चित्राभिः प्रासैः खड्गैः परश्वधैः॥ ९॥
रक्षसाम् वानराणाम् च तुमुलः समपद्यत। ते गदाभिः च चित्राभिः प्रासैः खड्गैः परश्वधैः॥ ९॥
rakṣasām vānarāṇām ca tumulaḥ samapadyata. te gadābhiḥ ca citrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ.. 9..
अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः। एवं प्रवृत्ते संग्रामे ह्यद्भुतं सुमहद्रजः॥ १०॥
अन्योन्यम् समरे जघ्नुः तदा वानर-राक्षसाः। एवम् प्रवृत्ते संग्रामे हि अद्भुतम् सु महत् रजः॥ १०॥
anyonyam samare jaghnuḥ tadā vānara-rākṣasāḥ. evam pravṛtte saṃgrāme hi adbhutam su mahat rajaḥ.. 10..
रक्षसां वानराणां च शान्तं शोणितविस्रवैः। मातंगरथकूलाश्च शरमत्स्या ध्वजद्रुमाः॥ ११॥
रक्षसाम् वानराणाम् च शान्तम् शोणित-विस्रवैः। मातंग-रथ-कूलाः च शर-मत्स्याः ध्वज-द्रुमाः॥ ११॥
rakṣasām vānarāṇām ca śāntam śoṇita-visravaiḥ. mātaṃga-ratha-kūlāḥ ca śara-matsyāḥ dhvaja-drumāḥ.. 11..
शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः। ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः॥ १२॥
शरीर-संघाट-वहाः प्रसस्रुः शोणित-आपगाः। ततस् ते वानराः सर्वे शोणित-ओघ-परिप्लुताः॥ १२॥
śarīra-saṃghāṭa-vahāḥ prasasruḥ śoṇita-āpagāḥ. tatas te vānarāḥ sarve śoṇita-ogha-pariplutāḥ.. 12..
ध्वजवर्मरथानश्वान् नानाप्रहरणानि च। आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे॥ १३॥
ध्वज-वर्म-रथान् अश्वान् नाना प्रहरणानि च। आप्लुत्य आप्लुत्य समरे वानर-इन्द्राः बभञ्जिरे॥ १३॥
dhvaja-varma-rathān aśvān nānā praharaṇāni ca. āplutya āplutya samare vānara-indrāḥ babhañjire.. 13..
केशान् कर्णललाटं च नासिकाश्च प्लवंगमाः। रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन्॥ १४॥
केशान् कर्ण-ललाटम् च नासिकाः च प्लवंगमाः। रक्षसाम् दशनैः तीक्ष्णैः नखैः च अपि व्यकर्तयन्॥ १४॥
keśān karṇa-lalāṭam ca nāsikāḥ ca plavaṃgamāḥ. rakṣasām daśanaiḥ tīkṣṇaiḥ nakhaiḥ ca api vyakartayan.. 14..
एकैकं राक्षसं संख्ये शतं वानरपुंगवाः। अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा॥ १५॥
एकैकम् राक्षसम् संख्ये शतम् वानर-पुंगवाः। अभ्यधावन्त फलिनम् वृक्षम् शकुनयः यथा॥ १५॥
ekaikam rākṣasam saṃkhye śatam vānara-puṃgavāḥ. abhyadhāvanta phalinam vṛkṣam śakunayaḥ yathā.. 15..
तदा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः। निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः॥ १६॥
तदा गदाभिः गुर्वीभिः प्रासैः खड्गैः परश्वधैः। निर्जघ्नुः वानरान् घोरान् राक्षसाः पर्वत-उपमाः॥ १६॥
tadā gadābhiḥ gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ. nirjaghnuḥ vānarān ghorān rākṣasāḥ parvata-upamāḥ.. 16..
राक्षसैर्वध्यमानानां वानराणां महाचमूः। शरण्यं शरणं याता रामं दशरथात्मजम्॥ १७॥
राक्षसैः वध्यमानानाम् वानराणाम् महा-चमूः। शरण्यम् शरणम् याताः रामम् दशरथ-आत्मजम्॥ १७॥
rākṣasaiḥ vadhyamānānām vānarāṇām mahā-camūḥ. śaraṇyam śaraṇam yātāḥ rāmam daśaratha-ātmajam.. 17..
ततो रामो महातेजा धनुरादाय वीर्यवान्। प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष च॥ १८॥
ततस् रामः महा-तेजाः धनुः आदाय वीर्यवान्। प्रविश्य राक्षसम् सैन्यम् शर-वर्षम् ववर्ष च॥ १८॥
tatas rāmaḥ mahā-tejāḥ dhanuḥ ādāya vīryavān. praviśya rākṣasam sainyam śara-varṣam vavarṣa ca.. 18..
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे। नाधिजग्मुर्महाघोरा निर्दहन्तं शराग्निना॥ १९॥
प्रविष्टम् तु तदा रामम् मेघाः सूर्यम् इव अम्बरे। न अधिजग्मुः महा-घोराः निर्दहन्तम् शर-अग्निना॥ १९॥
praviṣṭam tu tadā rāmam meghāḥ sūryam iva ambare. na adhijagmuḥ mahā-ghorāḥ nirdahantam śara-agninā.. 19..
कृतान्येव सुघोराणि रामेण रजनीचराः। रणे रामस्य ददृशुः कर्माण्यसुकराणि ते॥ २०॥
कृतानि एव सु घोराणि रामेण रजनीचराः। रणे रामस्य ददृशुः कर्माणि असुकराणि ते॥ २०॥
kṛtāni eva su ghorāṇi rāmeṇa rajanīcarāḥ. raṇe rāmasya dadṛśuḥ karmāṇi asukarāṇi te.. 20..
चालयन्तं महासैन्यं विधमन्तं महारथान्। ददृशुस्ते न वै रामं वातं वनगतं यथा॥ २१॥
चालयन्तम् महा-सैन्यम् विधमन्तम् महा-रथान्। ददृशुः ते न वै रामम् वातम् वन-गतम् यथा॥ २१॥
cālayantam mahā-sainyam vidhamantam mahā-rathān. dadṛśuḥ te na vai rāmam vātam vana-gatam yathā.. 21..
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्। बलं रामेण ददृशुर्न रामं शीघ्रकारिणम्॥ २२॥
छिन्नम् भिन्नम् शरैः दग्धम् प्रभग्नम् शस्त्र-पीडितम्। बलम् रामेण ददृशुः न रामम् शीघ्रकारिणम्॥ २२॥
chinnam bhinnam śaraiḥ dagdham prabhagnam śastra-pīḍitam. balam rāmeṇa dadṛśuḥ na rāmam śīghrakāriṇam.. 22..
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्। इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः॥ २३॥
प्रहरन्तम् शरीरेषु न ते पश्यन्ति राघवम्। इन्द्रियार्थेषु तिष्ठन्तम् भूतात्मानम् इव प्रजाः॥ २३॥
praharantam śarīreṣu na te paśyanti rāghavam. indriyārtheṣu tiṣṭhantam bhūtātmānam iva prajāḥ.. 23..
एष हन्ति गजानीकमेष हन्ति महारथान्। एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह॥ २४॥
एष हन्ति गज-अनीकम् एष हन्ति महा-रथान्। एष हन्ति शरैः तीक्ष्णैः पदातीन् वाजिभिः सह॥ २४॥
eṣa hanti gaja-anīkam eṣa hanti mahā-rathān. eṣa hanti śaraiḥ tīkṣṇaiḥ padātīn vājibhiḥ saha.. 24..
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे। अन्योन्यं कुपिता जघ्नुः सादृश्याद् राघवस्य तु॥ २५॥
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे। अन्योन्यम् कुपिताः जघ्नुः सादृश्यात् राघवस्य तु॥ २५॥
iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe. anyonyam kupitāḥ jaghnuḥ sādṛśyāt rāghavasya tu.. 25..
न ते ददृशिरे रामं दहन्तमपि वाहिनीम्। मोहिताः परमास्त्रेण गान्धर्वेण महात्मना॥ २६॥
न ते ददृशिरे रामम् दहन्तम् अपि वाहिनीम्। मोहिताः परम-अस्त्रेण गान्धर्वेण महात्मना॥ २६॥
na te dadṛśire rāmam dahantam api vāhinīm. mohitāḥ parama-astreṇa gāndharveṇa mahātmanā.. 26..
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः। पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे॥ २७॥
ते तु राम-सहस्राणि रणे पश्यन्ति राक्षसाः। पुनर् पश्यन्ति काकुत्स्थम् एकम् एव महा-आहवे॥ २७॥
te tu rāma-sahasrāṇi raṇe paśyanti rākṣasāḥ. punar paśyanti kākutstham ekam eva mahā-āhave.. 27..
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः। अलातचक्रप्रतिमां ददृशुस्ते न राघवम्॥ २८॥
भ्रमन्तीम् काञ्चनीम् कोटिम् कार्मुकस्य महात्मनः। अलात-चक्र-प्रतिमाम् ददृशुः ते न राघवम्॥ २८॥
bhramantīm kāñcanīm koṭim kārmukasya mahātmanaḥ. alāta-cakra-pratimām dadṛśuḥ te na rāghavam.. 28..
शरीरनाभि सत्त्वार्चिः शरारं नेमिकार्मुकम्। ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्॥ २९॥
शरीर-नाभि सत्त्व-अर्चिः शर-आरम् नेमि-कार्मुकम्। ज्या-घोष-तल-निर्घोषम् तेजः-बुद्धि-गुण-प्रभम्॥ २९॥
śarīra-nābhi sattva-arciḥ śara-āram nemi-kārmukam. jyā-ghoṣa-tala-nirghoṣam tejaḥ-buddhi-guṇa-prabham.. 29..
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्। ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः॥ ३०॥
दिव्य-अस्त्र-गुण-पर्यन्तम् निघ्नन्तम् युधि राक्षसान्। ददृशुः राम-चक्रम् तत् कालचक्रम् इव प्रजाः॥ ३०॥
divya-astra-guṇa-paryantam nighnantam yudhi rākṣasān. dadṛśuḥ rāma-cakram tat kālacakram iva prajāḥ.. 30..
अनीकं दशसाहस्रं रथानां वातरंहसाम्। अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम्॥ ३१॥
अनीकम् दश-साहस्रम् रथानाम् वात-रंहसाम्। अष्टादश सहस्राणि कुञ्जराणाम् तरस्विनाम्॥ ३१॥
anīkam daśa-sāhasram rathānām vāta-raṃhasām. aṣṭādaśa sahasrāṇi kuñjarāṇām tarasvinām.. 31..
चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्। पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्॥ ३२॥
चतुर्दश सहस्राणि स आरोहाणाम् च वाजिनाम्। पूर्णे शत-सहस्रे द्वे राक्षसानाम् पदातिनाम्॥ ३२॥
caturdaśa sahasrāṇi sa ārohāṇām ca vājinām. pūrṇe śata-sahasre dve rākṣasānām padātinām.. 32..
दिवसस्याष्टभागेन शरैरग्निशिखोपमैः। हतान्येकेन रामेण रक्षसां कामरूपिणाम्॥ ३३॥
दिवसस्य अष्ट-भागेन शरैः अग्नि-शिखा-उपमैः। हतानि एकेन रामेण रक्षसाम् कामरूपिणाम्॥ ३३॥
divasasya aṣṭa-bhāgena śaraiḥ agni-śikhā-upamaiḥ. hatāni ekena rāmeṇa rakṣasām kāmarūpiṇām.. 33..
ते हताश्वा हतरथाः शान्ता विमथितध्वजाः। अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः॥ ३४॥
ते हत-अश्वाः हत-रथाः शान्ताः विमथित-ध्वजाः। अभिपेतुः पुरीम् लङ्काम् हत-शेषाः निशाचराः॥ ३४॥
te hata-aśvāḥ hata-rathāḥ śāntāḥ vimathita-dhvajāḥ. abhipetuḥ purīm laṅkām hata-śeṣāḥ niśācarāḥ.. 34..
हतैर्गजपदात्यश्वैस्तद् बभूव रणाजिरम्। आक्रीडभूमिः क्रुद्धस्य रुद्रस्येव महात्मनः॥ ३५॥
हतैः गज-पदाति-अश्वैः तत् बभूव रण-अजिरम्। आक्रीड-भूमिः क्रुद्धस्य रुद्रस्य इव महात्मनः॥ ३५॥
hataiḥ gaja-padāti-aśvaiḥ tat babhūva raṇa-ajiram. ākrīḍa-bhūmiḥ kruddhasya rudrasya iva mahātmanaḥ.. 35..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। साधु साध्विति रामस्य तत् कर्म समपूजयन्॥ ३६॥
ततस् देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः। साधु साधु इति रामस्य तत् कर्म समपूजयन्॥ ३६॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ. sādhu sādhu iti rāmasya tat karma samapūjayan.. 36..
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्। विभीषणं च धर्मात्मा हनूमन्तं च वानरम्॥ ३७॥
अब्रवीत् च तदा रामः सुग्रीवम् प्रत्यनन्तरम्। विभीषणम् च धर्म-आत्मा हनूमन्तम् च वानरम्॥ ३७॥
abravīt ca tadā rāmaḥ sugrīvam pratyanantaram. vibhīṣaṇam ca dharma-ātmā hanūmantam ca vānaram.. 37..
जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च। एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा॥ ३८॥
जाम्बवन्तम् हरि-श्रेष्ठम् मैन्दम् द्विविदम् एव च। एतत् अस्त्र-बलम् दिव्यम् मम वा त्र्यम्बकस्य वा॥ ३८॥
jāmbavantam hari-śreṣṭham maindam dvividam eva ca. etat astra-balam divyam mama vā tryambakasya vā.. 38..
निहत्य तां राक्षसराजवाहिनींरामस्तदा शक्रसमो महात्मा। अस्त्रेषु शस्त्रेषु जितक्लमश्चसंस्तूयते देवगणैः प्रहृष्टैः॥ ३९॥
निहत्य ताम् राक्षस-राज-वाहिनीम् रामः तदा शक्र-समः महात्मा। अस्त्रेषु शस्त्रेषु जित-क्लमः च संस्तूयते देव-गणैः प्रहृष्टैः॥ ३९॥
nihatya tām rākṣasa-rāja-vāhinīm rāmaḥ tadā śakra-samaḥ mahātmā. astreṣu śastreṣu jita-klamaḥ ca saṃstūyate deva-gaṇaiḥ prahṛṣṭaiḥ.. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In