This overlay will guide you through the buttons:

| |
|
तानि नागसहस्राणि सारोहाणि च वाजिनाम्। रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः॥ १॥
तानि नाग-सहस्राणि स आरोहाणि च वाजिनाम्। रथानाम् तु अग्नि-वर्णानाम् स ध्वजानाम् सहस्रशस्॥ १॥
tāni nāga-sahasrāṇi sa ārohāṇi ca vājinām. rathānām tu agni-varṇānām sa dhvajānām sahasraśas.. 1..
राक्षसानां सहस्राणि गदापरिघयोधिनाम्। काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्॥ २॥
राक्षसानाम् सहस्राणि गदा-परिघ-योधिनाम्। काञ्चन-ध्वज-चित्राणाम् शूराणाम् कामरूपिणाम्॥ २॥
rākṣasānām sahasrāṇi gadā-parigha-yodhinām. kāñcana-dhvaja-citrāṇām śūrāṇām kāmarūpiṇām.. 2..
निहतानि शरैर्दीप्तैस्तप्तकाञ्चनभूषणैः। रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा॥ ३॥
निहतानि शरैः दीप्तैः तप्त-काञ्चन-भूषणैः। रावणेन प्रयुक्तानि रामेण अक्लिष्ट-कर्मणा॥ ३॥
nihatāni śaraiḥ dīptaiḥ tapta-kāñcana-bhūṣaṇaiḥ. rāvaṇena prayuktāni rāmeṇa akliṣṭa-karmaṇā.. 3..
दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः। राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः॥ ४॥
दृष्ट्वा श्रुत्वा च सम्भ्रान्ताः हत-शेषाः निशाचराः। राक्षस्यः च समागम्य दीनाः चिन्ता-परिप्लुताः॥ ४॥
dṛṣṭvā śrutvā ca sambhrāntāḥ hata-śeṣāḥ niśācarāḥ. rākṣasyaḥ ca samāgamya dīnāḥ cintā-pariplutāḥ.. 4..
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः। राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन्॥ ५॥
विधवाः हत-पुत्राः च क्रोशन्त्यः हत-बान्धवाः। राक्षस्यः सह संगम्य दुःख-आर्ताः पर्यदेवयन्॥ ५॥
vidhavāḥ hata-putrāḥ ca krośantyaḥ hata-bāndhavāḥ. rākṣasyaḥ saha saṃgamya duḥkha-ārtāḥ paryadevayan.. 5..
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी। आससाद वने रामं कंदर्पसमरूपिणम्॥ ६॥
कथम् शूर्पणखा वृद्धा कराला निर्णत-उदरी। आससाद वने रामम् कंदर्प-सम-रूपिणम्॥ ६॥
katham śūrpaṇakhā vṛddhā karālā nirṇata-udarī. āsasāda vane rāmam kaṃdarpa-sama-rūpiṇam.. 6..
सुकुमारं महासत्त्वं सर्वभूतहिते रतम्। तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता॥ ७॥
सुकुमारम् महा-सत्त्वम् सर्व-भूत-हिते रतम्। तम् दृष्ट्वा लोक-वध्या सा हीन-रूपा प्रकामिता॥ ७॥
sukumāram mahā-sattvam sarva-bhūta-hite ratam. tam dṛṣṭvā loka-vadhyā sā hīna-rūpā prakāmitā.. 7..
कथं सर्वगुणैर्हीना गुणवन्तं महौजसम्। सुमुखं दुर्मुखी रामं कामयामास राक्षसी॥ ८॥
कथम् सर्व-गुणैः हीना गुणवन्तम् महा-ओजसम्। सुमुखम् दुर्मुखी रामम् कामयामास राक्षसी॥ ८॥
katham sarva-guṇaiḥ hīnā guṇavantam mahā-ojasam. sumukham durmukhī rāmam kāmayāmāsa rākṣasī.. 8..
जनस्यास्याल्पभाग्यत्वाद् वलिनी श्वेतमूर्धजा। अकार्यमपहास्यं च सर्वलोकविगर्हितम्॥ ९॥
जनस्य अस्य अल्पभाग्य-त्वात् वलिनी श्वेत-मूर्धजा। अकार्यम् अपहास्यम् च सर्व-लोक-विगर्हितम्॥ ९॥
janasya asya alpabhāgya-tvāt valinī śveta-mūrdhajā. akāryam apahāsyam ca sarva-loka-vigarhitam.. 9..
राक्षसानां विनाशाय दूषणस्य खरस्य च। चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्॥ १०॥
राक्षसानाम् विनाशाय दूषणस्य खरस्य च। चकार अप्रतिरूपा सा राघवस्य प्रधर्षणम्॥ १०॥
rākṣasānām vināśāya dūṣaṇasya kharasya ca. cakāra apratirūpā sā rāghavasya pradharṣaṇam.. 10..
तन्निमित्तमिदं वैरं रावणेन कृतं महत्। वधाय सीता साऽऽनीता दशग्रीवेण रक्षसा॥ ११॥
तद्-निमित्तम् इदम् वैरम् रावणेन कृतम् महत्। वधाय सीता सा आनीता दशग्रीवेण रक्षसा॥ ११॥
tad-nimittam idam vairam rāvaṇena kṛtam mahat. vadhāya sītā sā ānītā daśagrīveṇa rakṣasā.. 11..
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्। बद्धं बलवता वैरमक्षयं राघवेण च॥ १२॥
न च सीताम् दशग्रीवः प्राप्नोति जनकात्मजाम्। बद्धम् बलवता वैरम् अक्षयम् राघवेण च॥ १२॥
na ca sītām daśagrīvaḥ prāpnoti janakātmajām. baddham balavatā vairam akṣayam rāghaveṇa ca.. 12..
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्। हतमेकेन रामेण पर्याप्तं तन्निदर्शनम्॥ १३॥
वैदेहीम् प्रार्थयानम् तम् विराधम् प्रेक्ष्य राक्षसम्। हतम् एकेन रामेण पर्याप्तम् तत् निदर्शनम्॥ १३॥
vaidehīm prārthayānam tam virādham prekṣya rākṣasam. hatam ekena rāmeṇa paryāptam tat nidarśanam.. 13..
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ १४॥
चतुर्दश सहस्राणि रक्षसाम् भीम-कर्मणाम्। निहतानि जनस्थाने शरैः अग्नि-शिखा-उपमैः॥ १४॥
caturdaśa sahasrāṇi rakṣasām bhīma-karmaṇām. nihatāni janasthāne śaraiḥ agni-śikhā-upamaiḥ.. 14..
खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा। शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम्॥ १५॥
खरः च निहतः संख्ये दूषणः त्रिशिराः तथा। शरैः आदित्य-संकाशैः पर्याप्तम् तत् निदर्शनम्॥ १५॥
kharaḥ ca nihataḥ saṃkhye dūṣaṇaḥ triśirāḥ tathā. śaraiḥ āditya-saṃkāśaiḥ paryāptam tat nidarśanam.. 15..
हतो योजनबाहुश्च कबन्धो रुधिराशनः। क्रोधान्नादं नदन् सोऽथ पर्याप्तं तन्निदर्शनम्॥ १६॥
हतः योजन-बाहुः च कबन्धः रुधिर-अशनः। क्रोधात् नादम् नदन् सः अथ पर्याप्तम् तत् निदर्शनम्॥ १६॥
hataḥ yojana-bāhuḥ ca kabandhaḥ rudhira-aśanaḥ. krodhāt nādam nadan saḥ atha paryāptam tat nidarśanam.. 16..
जघान बलिनं रामः सहस्रनयनात्मजम्। वालिनं मेरुसंकाशं पर्याप्तं तन्निदर्शनम्॥ १७॥
जघान बलिनम् रामः सहस्रनयन-आत्मजम्। वालिनम् मेरु-संकाशम् पर्याप्तम् तत् निदर्शनम्॥ १७॥
jaghāna balinam rāmaḥ sahasranayana-ātmajam. vālinam meru-saṃkāśam paryāptam tat nidarśanam.. 17..
ऋष्यमूके वसंश्चैव दीनो भग्नमनोरथः। सुग्रीवः प्रापितो राज्यं पर्याप्तं तन्निदर्शनम्॥ १८॥
ऋष्यमूके वसन् च एव दीनः भग्न-मनोरथः। सुग्रीवः प्रापितः राज्यम् पर्याप्तम् तत् निदर्शनम्॥ १८॥
ṛṣyamūke vasan ca eva dīnaḥ bhagna-manorathaḥ. sugrīvaḥ prāpitaḥ rājyam paryāptam tat nidarśanam.. 18..
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्। युक्तं विभीषणेनोक्तं मोहात् तस्य न रोचते॥ १९॥
धर्म-अर्थ-सहितम् वाक्यम् सर्वेषाम् रक्षसाम् हितम्। युक्तम् विभीषणेन उक्तम् मोहात् तस्य न रोचते॥ १९॥
dharma-artha-sahitam vākyam sarveṣām rakṣasām hitam. yuktam vibhīṣaṇena uktam mohāt tasya na rocate.. 19..
विभीषणवचः कुर्याद् यदि स्म धनदानुजः। श्मशानभूता दुःखार्ता नेयं लङ्का भविष्यति॥ २०॥
विभीषण-वचः कुर्यात् यदि स्म धनद-अनुजः। श्मशान-भूता दुःख-आर्ता न इयम् लङ्का भविष्यति॥ २०॥
vibhīṣaṇa-vacaḥ kuryāt yadi sma dhanada-anujaḥ. śmaśāna-bhūtā duḥkha-ārtā na iyam laṅkā bhaviṣyati.. 20..
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्। अतिकायं च दुर्मर्षं लक्ष्मणेन हतं तदा। प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते॥ २१॥
कुम्भकर्णम् हतम् श्रुत्वा राघवेण महा-बलम्। अतिकायम् च दुर्मर्षम् लक्ष्मणेन हतम् तदा। प्रियम् च इन्द्रजितम् पुत्रम् रावणः न अवबुध्यते॥ २१॥
kumbhakarṇam hatam śrutvā rāghaveṇa mahā-balam. atikāyam ca durmarṣam lakṣmaṇena hatam tadā. priyam ca indrajitam putram rāvaṇaḥ na avabudhyate.. 21..
मम पुत्रो मम भ्राता मम भर्ता रणे हतः। इत्येष श्रूयते शब्दो राक्षसीनां कुले कुले॥ २२॥
मम पुत्रः मम भ्राता मम भर्ता रणे हतः। इति एष श्रूयते शब्दः राक्षसीनाम् कुले कुले॥ २२॥
mama putraḥ mama bhrātā mama bhartā raṇe hataḥ. iti eṣa śrūyate śabdaḥ rākṣasīnām kule kule.. 22..
रथाश्वनागाश्च हतास्तत्र तत्र सहस्रशः। रणे रामेण शूरेण हताश्चापि पदातयः॥ २३॥
रथ-अश्व-नागाः च हताः तत्र तत्र सहस्रशस्। रणे रामेण शूरेण हताः च अपि पदातयः॥ २३॥
ratha-aśva-nāgāḥ ca hatāḥ tatra tatra sahasraśas. raṇe rāmeṇa śūreṇa hatāḥ ca api padātayaḥ.. 23..
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः। हन्ति नो रामरूपेण यदि वा स्वयमन्तकः॥ २४॥
रुद्रः वा यदि वा विष्णुः महा-इन्द्रः वा शतक्रतुः। हन्ति नः राम-रूपेण यदि वा स्वयम् अन्तकः॥ २४॥
rudraḥ vā yadi vā viṣṇuḥ mahā-indraḥ vā śatakratuḥ. hanti naḥ rāma-rūpeṇa yadi vā svayam antakaḥ.. 24..
हतप्रवीरा रामेण निराशा जीविते वयम्। अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे॥ २५॥
हत-प्रवीराः रामेण निराशाः जीविते वयम्। अ पश्यन्त्यः भयस्य अन्तम् अनाथाः विलपामहे॥ २५॥
hata-pravīrāḥ rāmeṇa nirāśāḥ jīvite vayam. a paśyantyaḥ bhayasya antam anāthāḥ vilapāmahe.. 25..
रामहस्ताद् दशग्रीवः शूरो दत्तमहावरः। इदं भयं महाघोरं समुत्पन्नं न बुद्ध्यते॥ २६॥
राम-हस्तात् दशग्रीवः शूरः दत्त-महा-वरः। इदम् भयम् महा-घोरम् समुत्पन्नम् न बुद्ध्यते॥ २६॥
rāma-hastāt daśagrīvaḥ śūraḥ datta-mahā-varaḥ. idam bhayam mahā-ghoram samutpannam na buddhyate.. 26..
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः। उपसृष्टं परित्रातुं शक्ता रामेण संयुगे॥ २७॥
तम् न देवाः न गन्धर्वाः न पिशाचाः न राक्षसाः। उपसृष्टम् परित्रातुम् शक्ताः रामेण संयुगे॥ २७॥
tam na devāḥ na gandharvāḥ na piśācāḥ na rākṣasāḥ. upasṛṣṭam paritrātum śaktāḥ rāmeṇa saṃyuge.. 27..
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे। कथयन्ति हि रामेण रावणस्य निबर्हणम्॥ २८॥
उत्पाताः च अपि दृश्यन्ते रावणस्य रणे रणे। कथयन्ति हि रामेण रावणस्य निबर्हणम्॥ २८॥
utpātāḥ ca api dṛśyante rāvaṇasya raṇe raṇe. kathayanti hi rāmeṇa rāvaṇasya nibarhaṇam.. 28..
पितामहेन प्रीतेन देवदानवराक्षसैः। रावणस्याभयं दत्तं मनुष्येभ्यो न याचितम्॥ २९॥
पितामहेन प्रीतेन देव-दानव-राक्षसैः। रावणस्य अभयम् दत्तम् मनुष्येभ्यः न याचितम्॥ २९॥
pitāmahena prītena deva-dānava-rākṣasaiḥ. rāvaṇasya abhayam dattam manuṣyebhyaḥ na yācitam.. 29..
तदिदं मानुषं मन्ये प्राप्तं निःसंशयं भयम्। जीवितान्तकरं घोरं रक्षसां रावणस्य च॥ ३०॥
तत् इदम् मानुषम् मन्ये प्राप्तम् निःसंशयम् भयम्। जीवितान्त-करम् घोरम् रक्षसाम् रावणस्य च॥ ३०॥
tat idam mānuṣam manye prāptam niḥsaṃśayam bhayam. jīvitānta-karam ghoram rakṣasām rāvaṇasya ca.. 30..
पीड्यमानास्तु बलिना वरदानेन रक्षसा। दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन्॥ ३१॥
पीड्यमानाः तु बलिना वर-दानेन रक्षसा। दीप्तैः तपोभिः विबुधाः पितामहम् अपूजयन्॥ ३१॥
pīḍyamānāḥ tu balinā vara-dānena rakṣasā. dīptaiḥ tapobhiḥ vibudhāḥ pitāmaham apūjayan.. 31..
देवतानां हितार्थाय महात्मा वै पितामहः। उवाच देवतास्तुष्ट इदं सर्वा महद्वचः॥ ३२॥
देवतानाम् हित-अर्थाय महात्मा वै पितामहः। उवाच देवताः तुष्टः इदम् सर्वाः महत् वचः॥ ३२॥
devatānām hita-arthāya mahātmā vai pitāmahaḥ. uvāca devatāḥ tuṣṭaḥ idam sarvāḥ mahat vacaḥ.. 32..
अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः। भयेन प्रभृता नित्यं विचरिष्यन्ति शाश्वतम्॥ ३३॥
अद्य प्रभृति लोकान् त्रीन् सर्वे दानव-राक्षसाः। भयेन प्रभृताः नित्यम् विचरिष्यन्ति शाश्वतम्॥ ३३॥
adya prabhṛti lokān trīn sarve dānava-rākṣasāḥ. bhayena prabhṛtāḥ nityam vicariṣyanti śāśvatam.. 33..
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः। वृषध्वजस्त्रिपुरहा महादेवः प्रतोषितः॥ ३४॥
दैवतैः तु समागम्य सर्वैः च इन्द्र-पुरोगमैः। वृषध्वजः त्रिपुर-हा महादेवः प्रतोषितः॥ ३४॥
daivataiḥ tu samāgamya sarvaiḥ ca indra-purogamaiḥ. vṛṣadhvajaḥ tripura-hā mahādevaḥ pratoṣitaḥ.. 34..
प्रसन्नस्तु महादेवो देवानेतद् वचोऽब्रवीत्। उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा॥ ३५॥
प्रसन्नः तु महादेवः देवान् एतत् वचः अब्रवीत्। उत्पत्स्यति हित-अर्थम् वः नारी रक्षः-क्षय-आवहा॥ ३५॥
prasannaḥ tu mahādevaḥ devān etat vacaḥ abravīt. utpatsyati hita-artham vaḥ nārī rakṣaḥ-kṣaya-āvahā.. 35..
एषा देवैः प्रयुक्ता तु क्षुद् यथा दानवान् पुरा। भक्षयिष्यति नः सर्वान् राक्षसघ्नी सरावणान्॥ ३६॥
एषा देवैः प्रयुक्ता तु क्षुध् यथा दानवान् पुरा। भक्षयिष्यति नः सर्वान् राक्षसघ्नी स रावणान्॥ ३६॥
eṣā devaiḥ prayuktā tu kṣudh yathā dānavān purā. bhakṣayiṣyati naḥ sarvān rākṣasaghnī sa rāvaṇān.. 36..
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः। अयं निष्टानको घोरः शोकेन समभिप्लुतः॥ ३७॥
रावणस्य अपनीतेन दुर्विनीतस्य दुर्मतेः। अयम् निष्टानकः घोरः शोकेन समभिप्लुतः॥ ३७॥
rāvaṇasya apanītena durvinītasya durmateḥ. ayam niṣṭānakaḥ ghoraḥ śokena samabhiplutaḥ.. 37..
तं न पश्यामहे लोके यो नः शरणदो भवेत्। राघवेणोपसृष्टानां कालेनेव युगक्षये॥ ३८॥
तम् न पश्यामहे लोके यः नः शरण-दः भवेत्। राघवेण उपसृष्टानाम् कालेन इव युग-क्षये॥ ३८॥
tam na paśyāmahe loke yaḥ naḥ śaraṇa-daḥ bhavet. rāghaveṇa upasṛṣṭānām kālena iva yuga-kṣaye.. 38..
नास्ति नः शरणं किंचिद् भये महति तिष्ठताम्। दावाग्निवेष्टितानां हि करेणूनां यथा वने॥ ३९॥
न अस्ति नः शरणम् किंचिद् भये महति तिष्ठताम्। दाव-अग्नि-वेष्टितानाम् हि करेणूनाम् यथा वने॥ ३९॥
na asti naḥ śaraṇam kiṃcid bhaye mahati tiṣṭhatām. dāva-agni-veṣṭitānām hi kareṇūnām yathā vane.. 39..
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना। यत एव भयं दृष्टं तमेव शरणं गतः॥ ४०॥
प्राप्त-कालम् कृतम् तेन पौलस्त्येन महात्मना। यतस् एव भयम् दृष्टम् तम् एव शरणम् गतः॥ ४०॥
prāpta-kālam kṛtam tena paulastyena mahātmanā. yatas eva bhayam dṛṣṭam tam eva śaraṇam gataḥ.. 40..
इतीव सर्वा रजनीचरस्त्रियःपरस्परं सम्परिरभ्य बाहुभिः। विषेदुरार्तातिभयाभिपीडिताविनेदुरुच्चैश्च तदा सुदारुणम्॥ ४१॥
इति इव सर्वाः रजनीचर-स्त्रियः परस्परम् सम्परिरभ्य बाहुभिः। विषेदुः आर्त-अति भय-अभिपीडिताः विनेदुः उच्चैस् च तदा सु दारुणम्॥ ४१॥
iti iva sarvāḥ rajanīcara-striyaḥ parasparam samparirabhya bāhubhiḥ. viṣeduḥ ārta-ati bhaya-abhipīḍitāḥ vineduḥ uccais ca tadā su dāruṇam.. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In