This overlay will guide you through the buttons:

| |
|
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले। रावणः करुणं शब्दं शुश्राव परिदेवितम्॥ १॥
आर्तानाम् राक्षसीनाम् तु लङ्कायाम् वै कुले कुले। रावणः करुणम् शब्दम् शुश्राव परिदेवितम्॥ १॥
ārtānām rākṣasīnām tu laṅkāyām vai kule kule. rāvaṇaḥ karuṇam śabdam śuśrāva paridevitam.. 1..
स तु दीर्घं विनिःश्वस्य मुहूर्तं ध्यानमास्थितः। बभूव परमक्रुद्धो रावणो भीमदर्शनः॥ २॥
स तु दीर्घम् विनिःश्वस्य मुहूर्तम् ध्यानम् आस्थितः। बभूव परम-क्रुद्धः रावणः भीम-दर्शनः॥ २॥
sa tu dīrgham viniḥśvasya muhūrtam dhyānam āsthitaḥ. babhūva parama-kruddhaḥ rāvaṇaḥ bhīma-darśanaḥ.. 2..
संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः। राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्तिमान्॥ ३॥
संदश्य दशनैः ओष्ठम् क्रोध-संरक्त-लोचनः। राक्षसैः अपि दुर्दर्शः कालाग्निः इव मूर्तिमान्॥ ३॥
saṃdaśya daśanaiḥ oṣṭham krodha-saṃrakta-locanaḥ. rākṣasaiḥ api durdarśaḥ kālāgniḥ iva mūrtimān.. 3..
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः। क्रोधाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा॥ ४॥
उवाच च समीप-स्थान् राक्षसान् राक्षसेश्वरः। क्रोध-अव्यक्त-कथः तत्र निर्दहन् इव चक्षुषा॥ ४॥
uvāca ca samīpa-sthān rākṣasān rākṣaseśvaraḥ. krodha-avyakta-kathaḥ tatra nirdahan iva cakṣuṣā.. 4..
महोदरं महापार्श्वं विरूपाक्षं च राक्षसम्। शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया॥ ५॥
महोदरम् महापार्श्वम् विरूपाक्षम् च राक्षसम्। शीघ्रम् वदत सैन्यानि निर्यात इति मम आज्ञया॥ ५॥
mahodaram mahāpārśvam virūpākṣam ca rākṣasam. śīghram vadata sainyāni niryāta iti mama ājñayā.. 5..
तस्य तद् वचनं श्रुत्वा राक्षसास्ते भयार्दिताः। चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया॥ ६॥
तस्य तत् वचनम् श्रुत्वा राक्षसाः ते भय-अर्दिताः। चोदयामासुः अव्यग्रान् राक्षसान् तान् नृप-आज्ञया॥ ६॥
tasya tat vacanam śrutvā rākṣasāḥ te bhaya-arditāḥ. codayāmāsuḥ avyagrān rākṣasān tān nṛpa-ājñayā.. 6..
ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः। कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः॥ ७॥
ते तु सर्वे तथा इति उक्त्वा राक्षसाः भीम-दर्शनाः। कृत-स्वस्त्ययनाः सर्वे ते रण-अभिमुखाः ययुः॥ ७॥
te tu sarve tathā iti uktvā rākṣasāḥ bhīma-darśanāḥ. kṛta-svastyayanāḥ sarve te raṇa-abhimukhāḥ yayuḥ.. 7..
प्रतिपूज्य यथान्यायं रावणं ते महारथाः। तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः॥ ८॥
प्रतिपूज्य यथान्यायम् रावणम् ते महा-रथाः। तस्थुः प्राञ्जलयः सर्वे भर्तुः विजय-काङ्क्षिणः॥ ८॥
pratipūjya yathānyāyam rāvaṇam te mahā-rathāḥ. tasthuḥ prāñjalayaḥ sarve bhartuḥ vijaya-kāṅkṣiṇaḥ.. 8..
ततोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः। महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम्॥ ९॥
ततस् उवाच प्रहस्य एतान् रावणः क्रोध-मूर्च्छितः। महोदर-महापार्श्वौ विरूपाक्षम् च राक्षसम्॥ ९॥
tatas uvāca prahasya etān rāvaṇaḥ krodha-mūrcchitaḥ. mahodara-mahāpārśvau virūpākṣam ca rākṣasam.. 9..
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः। राघवं लक्ष्मणं चैव नेष्यामि यमसादनम्॥ १०॥
अद्य बाणैः धनुः-मुक्तैः युगान्त-आदित्य-संनिभैः। राघवम् लक्ष्मणम् च एव नेष्यामि यम-सादनम्॥ १०॥
adya bāṇaiḥ dhanuḥ-muktaiḥ yugānta-āditya-saṃnibhaiḥ. rāghavam lakṣmaṇam ca eva neṣyāmi yama-sādanam.. 10..
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा। करिष्यामि प्रतीकारमद्य शत्रुवधादहम्॥ ११॥
खरस्य कुम्भकर्णस्य प्रहस्त-इन्द्रजितोः तथा। करिष्यामि प्रतीकारम् अद्य शत्रु-वधात् अहम्॥ ११॥
kharasya kumbhakarṇasya prahasta-indrajitoḥ tathā. kariṣyāmi pratīkāram adya śatru-vadhāt aham.. 11..
नैवान्तरिक्षं न दिशो न च द्यौर्नापि सागराः। प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः॥ १२॥
न एव अन्तरिक्षम् न दिशः न च द्यौः न अपि सागराः। प्रकाश-त्वम् गमिष्यन्ति मद्-बाण-जलद-आवृताः॥ १२॥
na eva antarikṣam na diśaḥ na ca dyauḥ na api sāgarāḥ. prakāśa-tvam gamiṣyanti mad-bāṇa-jalada-āvṛtāḥ.. 12..
अद्य वानरमुख्यानां तानि यूथानि भागशः। धनुषा शरजालेन वधिष्यामि पतत्त्रिणा॥ १३॥
अद्य वानर-मुख्यानाम् तानि यूथानि भागशस्। धनुषा शर-जालेन वधिष्यामि पतत्त्रिणा॥ १३॥
adya vānara-mukhyānām tāni yūthāni bhāgaśas. dhanuṣā śara-jālena vadhiṣyāmi patattriṇā.. 13..
अद्य वानरसैन्यानि रथेन पवनौजसा। धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः॥ १४॥
अद्य वानर-सैन्यानि रथेन पवन-ओजसा। धनुः-समुद्रात् उद्भूतैः मथिष्यामि शर-ऊर्मिभिः॥ १४॥
adya vānara-sainyāni rathena pavana-ojasā. dhanuḥ-samudrāt udbhūtaiḥ mathiṣyāmi śara-ūrmibhiḥ.. 14..
व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्। अद्य यूथतटाकानि गजवत् प्रमथाम्यहम्॥ १५॥
व्याकोश-पद्म-वक्त्राणि पद्म-केसर-वर्चसाम्। अद्य यूथ-तटाकानि गज-वत् प्रमथामि अहम्॥ १५॥
vyākośa-padma-vaktrāṇi padma-kesara-varcasām. adya yūtha-taṭākāni gaja-vat pramathāmi aham.. 15..
सशरैरद्य वदनैः संख्ये वानरयूथपाः। मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः॥ १६॥
स शरैः अद्य वदनैः संख्ये वानर-यूथपाः। मण्डयिष्यन्ति वसुधाम् स नालैः इव पङ्कजैः॥ १६॥
sa śaraiḥ adya vadanaiḥ saṃkhye vānara-yūthapāḥ. maṇḍayiṣyanti vasudhām sa nālaiḥ iva paṅkajaiḥ.. 16..
अद्य यूथप्रचण्डानां हरीणां द्रुमयोधिनाम्। मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम्॥ १७॥
अद्य यूथ-प्रचण्डानाम् हरीणाम् द्रुम-योधिनाम्। मुक्तेन एक-इषुणा युद्धे भेत्स्यामि च शतम् शतम्॥ १७॥
adya yūtha-pracaṇḍānām harīṇām druma-yodhinām. muktena eka-iṣuṇā yuddhe bhetsyāmi ca śatam śatam.. 17..
हतो भ्राता च येषां वै येषां च तनयो हतः। वधेनाद्य रिपोस्तेषां करोम्यश्रुप्रमार्जनम्॥ १८॥
हतः भ्राता च येषाम् वै येषाम् च तनयः हतः। वधेन अद्य रिपोः तेषाम् करोमि अश्रु-प्रमार्जनम्॥ १८॥
hataḥ bhrātā ca yeṣām vai yeṣām ca tanayaḥ hataḥ. vadhena adya ripoḥ teṣām karomi aśru-pramārjanam.. 18..
अद्य मद्बाणनिर्भिन्नैः प्रस्तीर्णैर्गतचेतनैः। करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम्॥ १९॥
अद्य मद्-बाण-निर्भिन्नैः प्रस्तीर्णैः गत-चेतनैः। करोमि वानरैः युद्धे यत्न-अवेक्ष्य-तलाम् महीम्॥ १९॥
adya mad-bāṇa-nirbhinnaiḥ prastīrṇaiḥ gata-cetanaiḥ. karomi vānaraiḥ yuddhe yatna-avekṣya-talām mahīm.. 19..
अद्य काकाश्च गृध्राश्च ये च मांसाशिनोऽपरे। सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शराहतैः॥ २०॥
अद्य काकाः च गृध्राः च ये च मांस-आशिनः अपरे। सर्वान् तान् तर्पयिष्यामि शत्रु-मांसैः शर-आहतैः॥ २०॥
adya kākāḥ ca gṛdhrāḥ ca ye ca māṃsa-āśinaḥ apare. sarvān tān tarpayiṣyāmi śatru-māṃsaiḥ śara-āhataiḥ.. 20..
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः। अनुप्रयान्तु मां युद्धे येऽत्र शिष्टा निशाचराः॥ २१॥
कल्प्यताम् मे रथः शीघ्रम् क्षिप्रम् आनीयताम् धनुः। अनुप्रयान्तु माम् युद्धे ये अत्र शिष्टाः निशाचराः॥ २१॥
kalpyatām me rathaḥ śīghram kṣipram ānīyatām dhanuḥ. anuprayāntu mām yuddhe ye atra śiṣṭāḥ niśācarāḥ.. 21..
तस्य तद् वचनं श्रुत्वा महापार्श्वोऽब्रवीद् वचः। बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति॥ २२॥
तस्य तत् वचनम् श्रुत्वा महापार्श्वः अब्रवीत् वचः। बलाध्यक्षान् स्थितान् तत्र बलम् संत्वर्यताम् इति॥ २२॥
tasya tat vacanam śrutvā mahāpārśvaḥ abravīt vacaḥ. balādhyakṣān sthitān tatra balam saṃtvaryatām iti.. 22..
बलाध्यक्षास्तु संयुक्ता राक्षसांस्तान् गृहे गृहे। चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः॥ २३॥
बलाध्यक्षाः तु संयुक्ताः राक्षसान् तान् गृहे गृहे। चोदयन्तः परिययुः लङ्काम् लघु-पराक्रमाः॥ २३॥
balādhyakṣāḥ tu saṃyuktāḥ rākṣasān tān gṛhe gṛhe. codayantaḥ pariyayuḥ laṅkām laghu-parākramāḥ.. 23..
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः। नदन्तो भीमवदना नानाप्रहरणैर्भुजैः॥ २४॥
ततस् मुहूर्तात् निष्पेतुः राक्षसाः भीम-दर्शनाः। नदन्तः भीम-वदनाः नाना प्रहरणैः भुजैः॥ २४॥
tatas muhūrtāt niṣpetuḥ rākṣasāḥ bhīma-darśanāḥ. nadantaḥ bhīma-vadanāḥ nānā praharaṇaiḥ bhujaiḥ.. 24..
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हलैः। शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः॥ २५॥
असिभिः पट्टिशैः शूलैः गदाभिः मुसलैः हलैः। शक्तिभिः तीक्ष्ण-धाराभिः महद्भिः कूटमुद्गरैः॥ २५॥
asibhiḥ paṭṭiśaiḥ śūlaiḥ gadābhiḥ musalaiḥ halaiḥ. śaktibhiḥ tīkṣṇa-dhārābhiḥ mahadbhiḥ kūṭamudgaraiḥ.. 25..
यष्टिभिर्विविधैश्चक्रैर्निशितैश्च परश्वधैः। भिन्दिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः॥ २६॥
यष्टिभिः विविधैः चक्रैः निशितैः च परश्वधैः। भिन्दिपालैः शतघ्नीभिः अन्यैः च अपि वर-आयुधैः॥ २६॥
yaṣṭibhiḥ vividhaiḥ cakraiḥ niśitaiḥ ca paraśvadhaiḥ. bhindipālaiḥ śataghnībhiḥ anyaiḥ ca api vara-āyudhaiḥ.. 26..
अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया। रथानां नियुतं साग्रं नागानां नियुतत्रयम्॥ २७॥
अथ अनयन् बलाध्यक्षाः चत्वारः रावण-आज्ञया। रथानाम् नियुतम् साग्रम् नागानाम् नियुत-त्रयम्॥ २७॥
atha anayan balādhyakṣāḥ catvāraḥ rāvaṇa-ājñayā. rathānām niyutam sāgram nāgānām niyuta-trayam.. 27..
अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च। पदातयस्त्वसंख्याता जग्मुस्ते राजशासनात्॥ २८॥
अश्वानाम् षष्टि-कोट्यः तु खर-उष्ट्राणाम् तथा एव च। पदातयः तु असंख्याताः जग्मुः ते राज-शासनात्॥ २८॥
aśvānām ṣaṣṭi-koṭyaḥ tu khara-uṣṭrāṇām tathā eva ca. padātayaḥ tu asaṃkhyātāḥ jagmuḥ te rāja-śāsanāt.. 28..
बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरःस्थिताम्। एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम्॥ २९॥
बलाध्यक्षाः च संस्थाप्य राज्ञः सेनाम् पुरस् स्थिताम्। एतस्मिन् अन्तरे सूतः स्थापयामास तम् रथम्॥ २९॥
balādhyakṣāḥ ca saṃsthāpya rājñaḥ senām puras sthitām. etasmin antare sūtaḥ sthāpayāmāsa tam ratham.. 29..
दिव्यास्त्रवरसम्पन्नं नानालंकारभूषितम्। नानायुधसमाकीर्णं किङ्किणीजालसंयुतम्॥ ३०॥
दिव्य-अस्त्र-वर-सम्पन्नम् नाना अलंकार-भूषितम्। नाना आयुध-समाकीर्णम् किङ्किणी-जाल-संयुतम्॥ ३०॥
divya-astra-vara-sampannam nānā alaṃkāra-bhūṣitam. nānā āyudha-samākīrṇam kiṅkiṇī-jāla-saṃyutam.. 30..
नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम्। जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम्॥ ३१॥
नाना रत्न-परिक्षिप्तम् रत्न-स्तम्भैः विराजितम्। जाम्बूनद-मयैः च एव सहस्र-कलशैः वृतम्॥ ३१॥
nānā ratna-parikṣiptam ratna-stambhaiḥ virājitam. jāmbūnada-mayaiḥ ca eva sahasra-kalaśaiḥ vṛtam.. 31..
तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं गताः। तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः॥ ३२॥
तम् दृष्ट्वा राक्षसाः सर्वे विस्मयम् परमम् गताः। तम् दृष्ट्वा सहसा उत्थाय रावणः राक्षसेश्वरः॥ ३२॥
tam dṛṣṭvā rākṣasāḥ sarve vismayam paramam gatāḥ. tam dṛṣṭvā sahasā utthāya rāvaṇaḥ rākṣaseśvaraḥ.. 32..
कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम्। द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्। आरुरोह तदा भीमं दीप्यमानं स्वतेजसा॥ ३३॥
कोटि-सूर्य-प्रतीकाशम् ज्वलन्तम् इव पावकम्। द्रुतम् सूत-समायुक्तम् युक्त-अष्ट-तुरगम् रथम्। आरुरोह तदा भीमम् दीप्यमानम् स्व-तेजसा॥ ३३॥
koṭi-sūrya-pratīkāśam jvalantam iva pāvakam. drutam sūta-samāyuktam yukta-aṣṭa-turagam ratham. āruroha tadā bhīmam dīpyamānam sva-tejasā.. 33..
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः। रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम्॥ ३४॥
ततस् प्रयातः सहसा राक्षसैः बहुभिः वृतः। रावणः सत्त्व-गाम्भीर्यात् दारयन् इव मेदिनीम्॥ ३४॥
tatas prayātaḥ sahasā rākṣasaiḥ bahubhiḥ vṛtaḥ. rāvaṇaḥ sattva-gāmbhīryāt dārayan iva medinīm.. 34..
ततश्चासीन्महानादस्तूर्याणां च ततस्ततः। मृदङ्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम्॥ ३५॥
ततस् च आसीत् महा-नादः तूर्याणाम् च ततस् ततस्। मृदङ्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम्॥ ३५॥
tatas ca āsīt mahā-nādaḥ tūryāṇām ca tatas tatas. mṛdaṅgaiḥ paṭahaiḥ śaṅkhaiḥ kalahaiḥ saha rakṣasām.. 35..
सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः। योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः॥ ३६॥
। योद्धुम् रघु-वरेण इति शुश्रुवे कलह-ध्वनिः॥ ३६॥
. yoddhum raghu-vareṇa iti śuśruve kalaha-dhvaniḥ.. 36..
तेन नादेन महता पृथिवी समकम्पत। तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात्॥ ३७॥
तेन नादेन महता पृथिवी समकम्पत। तम् शब्दम् सहसा श्रुत्वा वानराः दुद्रुवुः भयात्॥ ३७॥
tena nādena mahatā pṛthivī samakampata. tam śabdam sahasā śrutvā vānarāḥ dudruvuḥ bhayāt.. 37..
रावणस्तु महाबाहुः सचिवैः परिवारितः। आजगाम महातेजा जयाय विजयं प्रति॥ ३८॥
रावणः तु महा-बाहुः सचिवैः परिवारितः। आजगाम महा-तेजाः जयाय विजयम् प्रति॥ ३८॥
rāvaṇaḥ tu mahā-bāhuḥ sacivaiḥ parivāritaḥ. ājagāma mahā-tejāḥ jayāya vijayam prati.. 38..
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ। विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा॥ ३९॥
रावणेन अभ्यनुज्ञातौ महापार्श्व-महोदरौ। विरूपाक्षः च दुर्धर्षः रथान् आरुरुहुः तदा॥ ३९॥
rāvaṇena abhyanujñātau mahāpārśva-mahodarau. virūpākṣaḥ ca durdharṣaḥ rathān āruruhuḥ tadā.. 39..
ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम्। नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः॥ ४०॥
ते तु हृष्ट-अभिनर्दन्तः भिन्दन्तः इव मेदिनीम्। नादम् घोरम् विमुञ्चन्तः निर्ययुः जय-काङ्क्षिणः॥ ४०॥
te tu hṛṣṭa-abhinardantaḥ bhindantaḥ iva medinīm. nādam ghoram vimuñcantaḥ niryayuḥ jaya-kāṅkṣiṇaḥ.. 40..
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः। निर्ययावुद्यतधनुः कालान्तकयमोपमः॥ ४१॥
ततस् युद्धाय तेजस्वी रक्षः-गण-बलैः वृतः। निर्ययौ उद्यत-धनुः काल-अन्तक-यम-उपमः॥ ४१॥
tatas yuddhāya tejasvī rakṣaḥ-gaṇa-balaiḥ vṛtaḥ. niryayau udyata-dhanuḥ kāla-antaka-yama-upamaḥ.. 41..
ततः प्रजविताश्वेन रथेन स महारथः। द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ॥ ४२॥
ततस् प्रजवित-अश्वेन रथेन स महा-रथः। द्वारेण निर्ययौ तेन यत्र तौ राम-लक्ष्मणौ॥ ४२॥
tatas prajavita-aśvena rathena sa mahā-rathaḥ. dvāreṇa niryayau tena yatra tau rāma-lakṣmaṇau.. 42..
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः। द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी॥ ४३॥
ततस् नष्ट-प्रभः सूर्यः दिशः च तिमिर-आवृताः। द्विजाः च नेदुः घोराः च संचचाल च मेदिनी॥ ४३॥
tatas naṣṭa-prabhaḥ sūryaḥ diśaḥ ca timira-āvṛtāḥ. dvijāḥ ca neduḥ ghorāḥ ca saṃcacāla ca medinī.. 43..
ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः। ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः॥ ४४॥
ववर्ष रुधिरम् देवः चस्खलुः च तुरंगमाः। ध्वज-अग्रे न्यपतत् गृध्रः विनेदुः च अशिवम् शिवाः॥ ४४॥
vavarṣa rudhiram devaḥ caskhaluḥ ca turaṃgamāḥ. dhvaja-agre nyapatat gṛdhraḥ vineduḥ ca aśivam śivāḥ.. 44..
नयनं चास्फुरद् वामं वामो बाहुरकम्पत। विवर्णवदनश्चासीत् किंचिदभ्रश्यत स्वनः॥ ४५॥
नयनम् च अस्फुरत् वामम् वामः बाहुः अकम्पत। विवर्ण-वदनः च आसीत् किंचिद् अभ्रश्यत स्वनः॥ ४५॥
nayanam ca asphurat vāmam vāmaḥ bāhuḥ akampata. vivarṇa-vadanaḥ ca āsīt kiṃcid abhraśyata svanaḥ.. 45..
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः। रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे॥ ४६॥
ततस् निष्पततः युद्धे दशग्रीवस्य रक्षसः। रणे निधन-शंसीनि रूपाणि एतानि जज्ञिरे॥ ४६॥
tatas niṣpatataḥ yuddhe daśagrīvasya rakṣasaḥ. raṇe nidhana-śaṃsīni rūpāṇi etāni jajñire.. 46..
अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना। विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः॥ ४७॥
अन्तरिक्षात् पपात उल्का निर्घात-सम-निःस्वना। विनेदुः अशिवाः गृध्राः वायसैः अभिमिश्रिताः॥ ४७॥
antarikṣāt papāta ulkā nirghāta-sama-niḥsvanā. vineduḥ aśivāḥ gṛdhrāḥ vāyasaiḥ abhimiśritāḥ.. 47..
एतानचिन्तयन् घोरानुत्पातान् समवस्थितान्। निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः॥ ४८॥
एतान् अचिन्तयान् घोरान् उत्पातान् समवस्थितान्। निर्ययौ रावणः मोहात् वध-अर्थम् काल-चोदितः॥ ४८॥
etān acintayān ghorān utpātān samavasthitān. niryayau rāvaṇaḥ mohāt vadha-artham kāla-coditaḥ.. 48..
तेषां तु रथघोषेण राक्षसानां महात्मनाम्। वानराणामपि चमूर्युद्धायैवाभ्यवर्तत॥ ४९॥
तेषाम् तु रथ-घोषेण राक्षसानाम् महात्मनाम्। वानराणाम् अपि चमूः युद्धाय एव अभ्यवर्तत॥ ४९॥
teṣām tu ratha-ghoṣeṇa rākṣasānām mahātmanām. vānarāṇām api camūḥ yuddhāya eva abhyavartata.. 49..
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्। अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम्॥ ५०॥
तेषाम् तु तुमुलम् युद्धम् बभूव कपि-रक्षसाम्। अन्योन्यम् आह्वयानानाम् क्रुद्धानाम् जयम् इच्छताम्॥ ५०॥
teṣām tu tumulam yuddham babhūva kapi-rakṣasām. anyonyam āhvayānānām kruddhānām jayam icchatām.. 50..
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः। वानराणामनीकेषु चकार कदनं महत्॥ ५१॥
ततस् क्रुद्धः दशग्रीवः शरैः काञ्चन-भूषणैः। वानराणाम् अनीकेषु चकार कदनम् महत्॥ ५१॥
tatas kruddhaḥ daśagrīvaḥ śaraiḥ kāñcana-bhūṣaṇaiḥ. vānarāṇām anīkeṣu cakāra kadanam mahat.. 51..
निकृत्तशिरसः केचिद् रावणेन वलीमुखाः। केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः॥ ५२॥
निकृत्त-शिरसः केचिद् रावणेन वलीमुखाः। केचिद् विच्छिन्न-हृदयाः केचिद् श्रोत्र-विवर्जिताः॥ ५२॥
nikṛtta-śirasaḥ kecid rāvaṇena valīmukhāḥ. kecid vicchinna-hṛdayāḥ kecid śrotra-vivarjitāḥ.. 52..
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः। केचिद् विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः॥ ५३॥
निरुच्छ्वासाः हताः केचिद् केचिद् पार्श्वेषु दारिताः। केचिद् विभिन्न-शिरसः केचिद् चक्षुः-विनाकृताः॥ ५३॥
nirucchvāsāḥ hatāḥ kecid kecid pārśveṣu dāritāḥ. kecid vibhinna-śirasaḥ kecid cakṣuḥ-vinākṛtāḥ.. 53..
दशाननः क्रोधविवृत्तनेत्रोयतो यतोऽभ्येति रथेन संख्ये। ततस्ततस्तस्य शरप्रवेगंसोढुं न शेकुर्हरियूथपास्ते॥ ५४॥
दशाननः क्रोध-विवृत्त-नेत्रः यतस् यतस् अभ्येति रथेन संख्ये। ततस् ततस् तस्य शर-प्रवेगम् सोढुम् न शेकुः हरि-यूथपाः ते॥ ५४॥
daśānanaḥ krodha-vivṛtta-netraḥ yatas yatas abhyeti rathena saṃkhye. tatas tatas tasya śara-pravegam soḍhum na śekuḥ hari-yūthapāḥ te.. 54..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In