This overlay will guide you through the buttons:

| |
|
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः। बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा॥ १॥
तथा तैः कृत्त-गात्रैः तु दशग्रीवेण मार्गणैः। बभूव वसुधा तत्र प्रकीर्णा हरिभिः तदा॥ १॥
tathā taiḥ kṛtta-gātraiḥ tu daśagrīveṇa mārgaṇaiḥ. babhūva vasudhā tatra prakīrṇā haribhiḥ tadā.. 1..
रावणस्याप्रसह्यं तं शरसम्पातमेकतः। न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा॥ २॥
रावणस्य अप्रसह्यम् तम् शर-सम्पातम् एकतस्। न शेकुः सहितुम् दीप्तम् पतङ्गाः ज्वलनम् यथा॥ २॥
rāvaṇasya aprasahyam tam śara-sampātam ekatas. na śekuḥ sahitum dīptam pataṅgāḥ jvalanam yathā.. 2..
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः। पावकार्चिः समाविष्टा दह्यमाना यथा गजाः॥ ३॥
ते अर्दिताः निशितैः बाणैः क्रोशन्तः विप्रदुद्रुवुः। पावक-अर्चिः समाविष्टाः दह्यमानाः यथा गजाः॥ ३॥
te arditāḥ niśitaiḥ bāṇaiḥ krośantaḥ vipradudruvuḥ. pāvaka-arciḥ samāviṣṭāḥ dahyamānāḥ yathā gajāḥ.. 3..
प्लवंगानामनीकानि महाभ्राणीव मारुतः। संययौ समरे तस्मिन् विधमन् रावणः शरैः॥ ४॥
प्लवंगानाम् अनीकानि महा-अभ्राणि इव मारुतः। संययौ समरे तस्मिन् विधमन् रावणः शरैः॥ ४॥
plavaṃgānām anīkāni mahā-abhrāṇi iva mārutaḥ. saṃyayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ.. 4..
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्। आससाद ततो युद्धे त्वरितं राघवं रणे॥ ५॥
कदनम् तरसा कृत्वा राक्षस-इन्द्रः वनौकसाम्। आससाद ततस् युद्धे त्वरितम् राघवम् रणे॥ ५॥
kadanam tarasā kṛtvā rākṣasa-indraḥ vanaukasām. āsasāda tatas yuddhe tvaritam rāghavam raṇe.. 5..
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रावितान् रणे। गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः॥ ६॥
सुग्रीवः तान् कपीन् दृष्ट्वा भग्नान् विद्रावितान् रणे। गुल्मे सुषेणम् निक्षिप्य चक्रे युद्धे द्रुतम् मनः॥ ६॥
sugrīvaḥ tān kapīn dṛṣṭvā bhagnān vidrāvitān raṇe. gulme suṣeṇam nikṣipya cakre yuddhe drutam manaḥ.. 6..
आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्। सुग्रीवोऽभिमुखं शत्रुं प्रतस्थे पादपायुधः॥ ७॥
आत्मनः सदृशम् वीरम् स तम् निक्षिप्य वानरम्। सुग्रीवः अभिमुखम् शत्रुम् प्रतस्थे पादप-आयुधः॥ ७॥
ātmanaḥ sadṛśam vīram sa tam nikṣipya vānaram. sugrīvaḥ abhimukham śatrum pratasthe pādapa-āyudhaḥ.. 7..
पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः। अनुजग्मुर्महाशैलान् विविधांश्च वनस्पतीन्॥ ८॥
पार्श्वतस् पृष्ठतस् च अस्य सर्वे वानर-यूथपाः। अनुजग्मुः महा-शैलान् विविधान् च वनस्पतीन्॥ ८॥
pārśvatas pṛṣṭhatas ca asya sarve vānara-yūthapāḥ. anujagmuḥ mahā-śailān vividhān ca vanaspatīn.. 8..
ननर्द युधि सुग्रीवः स्वरेण महता महान्। पोथयन् विविधांश्चान्यान् ममन्थोत्तमराक्षसान्॥ ९॥
ननर्द युधि सुग्रीवः स्वरेण महता महान्। पोथयन् विविधान् च अन्यान् ममन्थ उत्तम-राक्षसान्॥ ९॥
nanarda yudhi sugrīvaḥ svareṇa mahatā mahān. pothayan vividhān ca anyān mamantha uttama-rākṣasān.. 9..
ममर्द च महाकायो राक्षसान् वानरेश्वरः। युगान्तसमये वायुः प्रवृद्धानगमानिव॥ १०॥
ममर्द च महा-कायः राक्षसान् वानर-ईश्वरः। युगान्त-समये वायुः प्रवृद्धान् अगमान् इव॥ १०॥
mamarda ca mahā-kāyaḥ rākṣasān vānara-īśvaraḥ. yugānta-samaye vāyuḥ pravṛddhān agamān iva.. 10..
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह। अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने॥ ११॥
राक्षसानाम् अनीकेषु शैल-वर्षम् ववर्ष ह। अश्म-वर्षम् यथा मेघः पक्षि-सङ्घेषु कानने॥ ११॥
rākṣasānām anīkeṣu śaila-varṣam vavarṣa ha. aśma-varṣam yathā meghaḥ pakṣi-saṅgheṣu kānane.. 11..
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः। विकीर्णशिरसः पेतुर्विकीर्णा इव पर्वताः॥ १२॥
कपि-राज-विमुक्तैः तैः शैल-वर्षैः तु राक्षसाः। विकीर्ण-शिरसः पेतुः विकीर्णाः इव पर्वताः॥ १२॥
kapi-rāja-vimuktaiḥ taiḥ śaila-varṣaiḥ tu rākṣasāḥ. vikīrṇa-śirasaḥ petuḥ vikīrṇāḥ iva parvatāḥ.. 12..
अथ संक्षीयमाणेषु राक्षसेषु समन्ततः। सुग्रीवेण प्रभग्नेषु नदत्सु च पतत्सु च॥ १३॥
अथ संक्षीयमाणेषु राक्षसेषु समन्ततः। सुग्रीवेण प्रभग्नेषु नदत्सु च पतत्सु च॥ १३॥
atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ. sugrīveṇa prabhagneṣu nadatsu ca patatsu ca.. 13..
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः। रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत्॥ १४॥
विरूपाक्षः स्वकम् नाम धन्वी विश्राव्य राक्षसः। रथात् आप्लुत्य दुर्धर्षः गज-स्कन्धम् उपारुहत्॥ १४॥
virūpākṣaḥ svakam nāma dhanvī viśrāvya rākṣasaḥ. rathāt āplutya durdharṣaḥ gaja-skandham upāruhat.. 14..
स तं द्विपमथारुह्य विरूपाक्षो महाबलः। ननर्द भीमनिर्ह्रादं वानरानभ्यधावत॥ १५॥
स तम् द्विपम् अथ आरुह्य विरूपाक्षः महा-बलः। ननर्द भीम-निर्ह्रादम् वानरान् अभ्यधावत॥ १५॥
sa tam dvipam atha āruhya virūpākṣaḥ mahā-balaḥ. nanarda bhīma-nirhrādam vānarān abhyadhāvata.. 15..
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे। स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन्॥ १६॥
सुग्रीवे स शरान् घोरान् विससर्ज चमू-मुखे। स्थापयामास च उद्विग्नान् राक्षसान् सम्प्रहर्षयन्॥ १६॥
sugrīve sa śarān ghorān visasarja camū-mukhe. sthāpayāmāsa ca udvignān rākṣasān sampraharṣayan.. 16..
सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा। चुक्रोश च महाक्रोधो वधे चास्य मनो दधे॥ १७॥
सः अतिविद्धः शितैः बाणैः कपीन्द्रः तेन रक्षसा। चुक्रोश च महा-क्रोधः वधे च अस्य मनः दधे॥ १७॥
saḥ atividdhaḥ śitaiḥ bāṇaiḥ kapīndraḥ tena rakṣasā. cukrośa ca mahā-krodhaḥ vadhe ca asya manaḥ dadhe.. 17..
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः। अभिपत्य जघानास्य प्रमुखे तं महागजम्॥ १८॥
ततस् पादपम् उद्धृत्य शूरः सम्प्रधनः हरिः। अभिपत्य जघान अस्य प्रमुखे तम् महा-गजम्॥ १८॥
tatas pādapam uddhṛtya śūraḥ sampradhanaḥ hariḥ. abhipatya jaghāna asya pramukhe tam mahā-gajam.. 18..
स तु प्रहाराभिहतः सुग्रीवेण महागजः। अपासर्पद् धनुर्मात्रं निषसाद ननाद च॥ १९॥
स तु प्रहार-अभिहतः सुग्रीवेण महा-गजः। अपासर्पत् धनुः-मात्रम् निषसाद ननाद च॥ १९॥
sa tu prahāra-abhihataḥ sugrīveṇa mahā-gajaḥ. apāsarpat dhanuḥ-mātram niṣasāda nanāda ca.. 19..
गजात् तु मथितात् तूर्णमपक्रम्य स वीर्यवान्। राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम्॥ २०॥
गजात् तु मथितात् तूर्णम् अपक्रम्य स वीर्यवान्। राक्षसः अभिमुखः शत्रुम् प्रत्युद्गम्य ततस् कपिम्॥ २०॥
gajāt tu mathitāt tūrṇam apakramya sa vīryavān. rākṣasaḥ abhimukhaḥ śatrum pratyudgamya tatas kapim.. 20..
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः। भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम्॥ २१॥
आर्षभम् चर्म खड्गम् च प्रगृह्य लघु-विक्रमः। भर्त्सयन् इव सुग्रीवम् आससाद व्यवस्थितम्॥ २१॥
ārṣabham carma khaḍgam ca pragṛhya laghu-vikramaḥ. bhartsayan iva sugrīvam āsasāda vyavasthitam.. 21..
स हि तस्याभिसंक्रुद्धः प्रगृह्य विपुलां शिलाम्। विरूपाक्षस्य चिक्षेप सुग्रीवो जलदोपमाम्॥ २२॥
स हि तस्य अभिसंक्रुद्धः प्रगृह्य विपुलाम् शिलाम्। विरूपाक्षस्य चिक्षेप सुग्रीवः जलद-उपमाम्॥ २२॥
sa hi tasya abhisaṃkruddhaḥ pragṛhya vipulām śilām. virūpākṣasya cikṣepa sugrīvaḥ jalada-upamām.. 22..
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः। अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा॥ २३॥
स ताम् शिलाम् आपतन्तीम् दृष्ट्वा राक्षस-पुंगवः। अपक्रम्य सु विक्रान्तः खड्गेन प्राहरत् तदा॥ २३॥
sa tām śilām āpatantīm dṛṣṭvā rākṣasa-puṃgavaḥ. apakramya su vikrāntaḥ khaḍgena prāharat tadā.. 23..
तेन खड्गप्रहारेण रक्षसा बलिना हतः। मुहूर्तमभवद् भूमौ विसंज्ञ इव वानरः॥ २४॥
तेन खड्ग-प्रहारेण रक्षसा बलिना हतः। मुहूर्तम् अभवत् भूमौ विसंज्ञः इव वानरः॥ २४॥
tena khaḍga-prahāreṇa rakṣasā balinā hataḥ. muhūrtam abhavat bhūmau visaṃjñaḥ iva vānaraḥ.. 24..
सहसा स तदोत्पत्य राक्षसस्य महाहवे। मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि॥ २५॥
सहसा स तदा उत्पत्य राक्षसस्य महा-आहवे। मुष्टिम् संवर्त्य वेगेन पातयामास वक्षसि॥ २५॥
sahasā sa tadā utpatya rākṣasasya mahā-āhave. muṣṭim saṃvartya vegena pātayāmāsa vakṣasi.. 25..
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः। तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे॥ २६॥
मुष्टि-प्रहार-अभिहतः विरूपाक्षः निशाचरः। तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमू-मुखे॥ २६॥
muṣṭi-prahāra-abhihataḥ virūpākṣaḥ niśācaraḥ. tena khaḍgena saṃkruddhaḥ sugrīvasya camū-mukhe.. 26..
कवचं पातयामास पद्भ्यामभिहतोऽपतत्। स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्॥ २७॥
कवचम् पातयामास पद्भ्याम् अभिहतः अपतत्। स समुत्थाय पतितः कपिः तस्य व्यसर्जयत्॥ २७॥
kavacam pātayāmāsa padbhyām abhihataḥ apatat. sa samutthāya patitaḥ kapiḥ tasya vyasarjayat.. 27..
तलप्रहारमशनेः समानं भीमनिःस्वनम्। तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम्॥ २८॥
तल-प्रहारम् अशनेः समानम् भीम-निःस्वनम्। तल-प्रहारम् तत् रक्षः सुग्रीवेण समुद्यतम्॥ २८॥
tala-prahāram aśaneḥ samānam bhīma-niḥsvanam. tala-prahāram tat rakṣaḥ sugrīveṇa samudyatam.. 28..
नैपुण्यान्मोचयित्वैनं मुष्टिनोरसि ताडयत्। ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः॥ २९॥
नैपुण्यात् मोचयित्वा एनम् मुष्टिना उरसि ताडयत्। ततस् तु संक्रुद्धतरः सुग्रीवः वानर-ईश्वरः॥ २९॥
naipuṇyāt mocayitvā enam muṣṭinā urasi tāḍayat. tatas tu saṃkruddhataraḥ sugrīvaḥ vānara-īśvaraḥ.. 29..
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा। स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः॥ ३०॥
मोक्षितम् च आत्मनः दृष्ट्वा प्रहारम् तेन रक्षसा। स ददर्श अन्तरम् तस्य विरूपाक्षस्य वानरः॥ ३०॥
mokṣitam ca ātmanaḥ dṛṣṭvā prahāram tena rakṣasā. sa dadarśa antaram tasya virūpākṣasya vānaraḥ.. 30..
ततोऽन्यं पातयत् क्रोधाच्छङ्खदेशे महातलम्। महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ॥ ३१॥
ततस् अन्यम् पातयत् क्रोधात् शङ्ख-देशे महा-तलम्। महा-इन्द्र-अशनि-कल्पेन तलेन अभिहतः क्षितौ॥ ३१॥
tatas anyam pātayat krodhāt śaṅkha-deśe mahā-talam. mahā-indra-aśani-kalpena talena abhihataḥ kṣitau.. 31..
पपात रुधिरक्लिन्नः शोणितं हि समुद्गिरन्। स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव॥ ३२॥
पपात रुधिर-क्लिन्नः शोणितम् हि समुद्गिरन्। स्रोतोभ्यः तु विरूपाक्षः जलम् प्रस्रवणात् इव॥ ३२॥
papāta rudhira-klinnaḥ śoṇitam hi samudgiran. srotobhyaḥ tu virūpākṣaḥ jalam prasravaṇāt iva.. 32..
विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्। ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्॥ ३३॥
विवृत्त-नयनम् क्रोधात् स फेनम् रुधिर-आप्लुतम्। ददृशुः ते विरूपाक्षम् विरूपाक्षतरम् कृतम्॥ ३३॥
vivṛtta-nayanam krodhāt sa phenam rudhira-āplutam. dadṛśuḥ te virūpākṣam virūpākṣataram kṛtam.. 33..
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्। करुणं च विनर्दन्तं ददृशुः कपयो रिपुम्॥ ३४॥
स्फुरन्तम् परिवर्तन्तम् पार्श्वेन रुधिर-उक्षितम्। करुणम् च विनर्दन्तम् ददृशुः कपयः रिपुम्॥ ३४॥
sphurantam parivartantam pārśvena rudhira-ukṣitam. karuṇam ca vinardantam dadṛśuḥ kapayaḥ ripum.. 34..
तथा तु तौ संयति सम्प्रयुक्तौतरस्विनौ वानरराक्षसानाम्। बलार्णवौ सस्वनतुश्च भीमौमहार्णवौ द्वाविव भिन्नसेतू॥ ३५॥
तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानर-राक्षसानाम्। बल-अर्णवौ सस्वनतुः च भीमौ महा-अर्णवौ द्वौ इव भिन्न-सेतू॥ ३५॥
tathā tu tau saṃyati samprayuktau tarasvinau vānara-rākṣasānām. bala-arṇavau sasvanatuḥ ca bhīmau mahā-arṇavau dvau iva bhinna-setū.. 35..
विनाशितं प्रेक्ष्य विरूपनेत्रंमहाबलं तं हरिपार्थिवेन। बलं समेतं कपिराक्षसाना-मुद्वृत्तगङ्गाप्रतिमं बभूव॥ ३६॥
विनाशितम् प्रेक्ष्य विरूप-नेत्रम् महा-बलम् तम् हरि-पार्थिवेन। बलम् समेतम् कपि-राक्षसानाम् उद्वृत्त-गङ्गा-प्रतिमम् बभूव॥ ३६॥
vināśitam prekṣya virūpa-netram mahā-balam tam hari-pārthivena. balam sametam kapi-rākṣasānām udvṛtta-gaṅgā-pratimam babhūva.. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In